बृहत्कथाश्लोकसंग्रह · अध्याय 5
अथ संप्रेषितास्थानः सचिवान् अब्रवीन् नृपः
यद् ब्रवीमि निबोधन्तु भवन्तस् तत् सचेतसः ॥
ऋणैः किल समाघ्रातः पुरुषो जायते त्रिभिः
ब्रह्मचर्येष्टिसंतानैर् ऋषिदेवस्वधाभुजाम् ॥
तत्राधिगतवेदो ऽहम् इष्टाशेषमहाक्रतुः
अपुत्रत्वात् तु पितृभिर् गृहीतः पिण्डभोजिभिः ॥
न च पुत्राङ्गसंस्पर्शात् सुखहेतुर् अनुत्तरः
सुखिभिः स हि निर्दिष्टश् चन्दनाद् अपि शीतलः ॥
अलं चातिप्रसङ्गेन सर्वथा गृहमेधिनाम्
दृष्टादृष्टसुखप्राप्तेः पुत्राद् अन्यन् न कारणम् ॥
तद् अस्ति यदि वः काङ्क्षा निष्प्रजानां प्रजां प्रति
आरभध्वं मया सार्धं देवताराधनं ततः ॥
ते तु सप्रमदाः श्रुत्वा राज्ञः पुत्रार्थिनः कथाम्
सिद्धकल्पात्मसंकल्पाः प्रत्यूचुर् दर्शितस्मिताः ॥
पुत्रजन्म वणिग्वध्वा यात्रायां चित्रदर्शनम्
पिङ्गलीदर्शनं चेति प्रयोगो ऽयम् अनुष्ठितः ॥
अस्माभिः स च देवेन तथैव सफलीकृतः
कृतः काले प्रयोगो हि नाफलो जातु जायते ॥
तेन संकल्पसदृशीम् आरभध्वं क्रियाम् इति
सचिवैर् अभ्यनुज्ञातस् तथेति प्रतिपन्नवान् ॥
स पुण्ये ऽहनि संपूज्य देवताग्निद्विजन्मनः
ययौ नागवनोद्यानं सदारः सह मन्त्रिभिः ॥
मागधी तु कृतोत्साहा देव्या वासवदत्तया
अलम् आलि तवानेन खेदेनेति निवारिता ॥
उक्ता च ननु बालासि मृणालीतन्तुकोमला
अनुभूतसुखा चासि भ्रातुर् भर्तुश् च वेश्मनि ॥
दुःसहानि तु दुःखानि मया निन्दितभाग्यया
अनुभूतानि तेनाहं शक्ता दुःखम् उपासितुम् ॥
यश् च मे भविता पुत्रः स भवत्या भविष्यति
कृत्तिकागर्भसंभूतो भवान्या इव षण्मुखः ॥
इति तस्यां निवृत्तायां सह वासवदत्तया
तपोभिर् अचिराद् राजा राजराजम् अतोषयत् ॥
एकदा प्रतिभुद्धौ तु दंपती जातसंभ्रमौ
हा देवि हार्यपुत्रेति व्याहरन्तौ परस्परम् ॥
अथोपस्पृश्य नृपतिर् नमस्कृत्वा धनाधिपम्
पुरः पुरोहितादीनाम् आचख्यौ स्वप्नम् आदृतः ॥
अद्य पश्याम्य् अहं स्वप्ने व्योम्नि कामपि देवताम्
प्रभाम्भःसंततिव्यस्त नभोमण्डलनीलताम् ॥
सा माम् उक्तवती वाचा घम्भीरसुकुमारया
त्वाम् आह्वयति वित्तेशस् तदाशां गम्यताम् अतः ॥
मयौम् इति प्रतिज्ञाते संध्यारक्ततरं करम्
आरोप्य प्रस्थिता व्योम्नि दिशं वित्तेशपालिताम् ॥
शर्वेणेह धृता गङ्गा परिणीतात्र पार्वती
इत्यादीन् दर्शयन्ती नौ प्रदेशं पार्वतीपितुः ॥
नीयमानः क्रमेणेत्थम् अथाहं दृष्टवान् पुरः
चन्द्रपाषाणनिर्माण प्राकाराम् अलकापुरीम् ॥
गणानां पार्वतीभर्तुर् गणैर् अगणितैर् युतम्
यस्या बाह्यम् अदृष्टान्तं कल्पपादपकाननम् ॥
नानामणिप्रभाजाल कल्माषशिखराण्य् अपि
शुभ्रयत्य् एव हर्म्याणि यस्यां रुद्रेन्दुचन्द्रिका ॥
अवतार्य तु मां द्वारे गुह्यकेश्वरवेश्मनः
वदति क्षणम् अत्रैव स्थीयताम् इति देवता ॥
सा प्रविश्य प्रतीहार्या सह निर्गम्य भाषते
अनुज्ञातप्रवेशो ऽसि देवेनागम्यताम् इति ॥
भवनानीव देवानां षड् अतिक्रम्य सप्तमे
कक्षान्तरे प्रकृष्टर्द्धौ पश्यामि द्रविणेश्वरम् ॥
अथ तत्राप्सराः काचित् कांचिद् आह निरीक्ष्य माम्
सखि नूनम् असाव् एष यस्यासौ भविता सुतः ॥
मया मन्त्रयमाणानाम् ऋषीणाम् अग्रतः श्रुतम्
भरतानाम् अयं वंशे विशुद्धे जायताम् इति ॥
न चैष केवलं धन्यस् तेन पुत्रेण पार्थिवः
सो ऽपि साधूपमानस्य पुत्रः पात्रं भविष्यति ॥
तेन तत् तादृशं पुत्रं लभताम् एष भूपतिः
असाव् अपि शचीशक्र चरितौ पितराव् अपि ॥
कार्ये गुरुणि सक्तत्वात् तृणीकृतसुराङ्गनः
सकिंकरगणं प्रह्वः प्रणमामि धनाधिपम् ॥
मनुष्यधर्मा तु भुजं भुजगेश्वरपीवरम्
उद्यम्याह मनुष्येन्द्र स्वागतं स्थीयताम् इति ॥
आसन्ने रत्नचरणे दापिते कनकासने
व्यवधाय तु माम् आस्ते देवी नीचैस्तरासना ॥
स्वनन्ति परिवादिन्यस् ताडिता नारदादिभिः
अनेकाकारकरणः श्रूयते पुष्करध्वनिः ॥
उर्वशीमेनकारम्भा चित्रलेखाक्रतुस्थलाः
गायन्त्यः कुट्टिततला नर्तयन्ते तिलोत्तमाम् ॥
एवंप्राये च वृत्तान्ते कुमारो नलकूबरः
राजराजसुतः क्रीडन्न् आयातः सह बालकैः ॥
मेरुसारमहारत्न संघातकृतसंहतिम्
क्रीडाशकटिकां कर्षन्न् इतश् चेतश् च गच्छति ॥
अथ स्खलितचक्रायास् तस्याः कुसुमसंचये
उत्प्लुत्य पतितं रत्नं वैडूर्यक्षोदकुट्टिमे ॥
अथ प्रसारितकरः कुवेरो नलकूबरम्
मह्यम् एतद् ददस्वेति तद् रत्नम् उदयाचत ॥
न्यस्तं च राजपुत्रेण राजराजकरोदरे
रत्नं पङ्कजगर्भस्थ बन्धूकम् इव राजते ॥
दुष्टलक्षणमुक्तानां मुक्तानां परिवारितम्
षड्विंशत्या पद्मरागम् अष्टाश्रि बहलप्रभम् ॥
वित्ताधिपतिना मह्यं दत्तं देव्यै च तन् मया
स्तनयोर् अन्तरे न्यस्तम् अनयापि स्फुरन्मुदा ॥
सिंहशावस् ततो भूत्वा चञ्चद्वालधिकेशरः
विदार्य दक्षिणं कुक्षिम् एतस्याः प्रविशत्य् असौ ॥
तदवस्थाम् इमां दृष्ट्वा हा देवीति वदन्न् अहम्
प्रतिबुद्ध इति स्वप्नम् आचष्टे स्म नराधिपः ॥
अथ नक्षत्रशास्त्रज्ञः सिद्धादेशः ससंमदः
आदित्यशर्मा स्वप्नस्य द्विजः फलम् अवर्णयत् ॥
विजयस्व महाराज पुत्रेण द्विषतां गणम्
समाधिनेव बलिना रागादीनां बलीयसाम् ॥
विमानघनसंघात स्थगितेन्दुदिवाकरः
विद्याधरसमूहेन्द्रः पुत्रस् तव भविष्यति ॥
यास् ता मुक्तापरीवारास् तस्य षड्विंशति मणेः
महाकुला भविष्यन्ति भार्यास् तव सुतस्य ताः ॥
ये चाष्टाव् अश्रयो रत्नं परितो लक्षितास् त्वया
विद्यास् ता विद्धि पुत्रस्य भविष्यन्ती भविष्यतः ॥
एवं च स्थापिते स्वप्ने राजकीये द्विजन्मना
स्वस्वप्नः कथितस् तत्र देव्या वासवदत्तया ॥
आर्यपुत्रेण यो दृष्टः स एव सकलो मया
कुक्षौ विदार्यमाणे च हार्यपुत्रेति भाषितम् ॥
इति श्रुतवतः स्वप्नौ तुल्याव् आदित्यशर्मणः
भविष्यद्विषये ज्ञाने दृढतां निश्चयो गतः ॥
अथ विज्ञापयाम् आस रुमण्वान् मेदिनीपतिम्
दृष्टः स्वप्नो मया यः स श्रवणेनानुगृह्यताम् ॥
देवे सनियमे जाते चेदिवत्सनिवेशिनः
देवस्यापत्यलाभाय सर्वे सनियमाः स्थिताः ॥
तत्राहम् अद्य पश्यामि स्वप्ने गरुडवाहनम्
मार्गितश् च मया देहि स्वामिने नः प्रजा इति ॥
स विहस्योक्तवान् पूर्णः स्वामिनस् ते मनोरथः
तवापि पूरयामीति मह्यं बाणं वितीर्णवान् ॥
सप्रणामं तम् आदाय हृदये निदधामि च
अकालकौमुदीं चेमां पश्यामि प्रतिबोधितः ॥
एषो ऽपि स्थापितः स्वप्नः प्रीतेनादित्यशर्मणा
यादृशो ऽस्य सुतो भवी तादृशः श्रूयताम् इति ॥
सायको हि गुणेनार्थी तस्माद् अस्य भविष्यति
पुत्रः षाड्गुण्यतत्त्वज्ञो युक्तश् चायं गुणैर् गुणैः ॥
परतन्त्रगतिस्थानः खगामी च यतः शरः
तेन राजसुतप्रैष्यः खेचरश् च भविष्यति ॥
अथाकथयद् आत्मीयं स्वप्नं यौगन्धरायणः
ममाद्यैकोनपञ्चाशन् मरुतो दर्शनं गताः ॥
तेषाम् एकः स्फुरद्द्योतः खद्योतनिकरद्युतिम्
स्वं विमुच्य मुदा मह्यं संनाहं दत्तवान् इति ॥
भर्तुः संनाहसदृशः शूरो ऽध्यवसितः सुतः
भवतो भवितेत्य् एवं स्वप्नम् आस्थापयद् द्विजः ॥
ऋषभेणेति कथितं दृष्टवान् अस्मि गोगणम्
ब्रवीति तत्र माम् एका प्रविशेमां गुहाम् इति ॥
तत्र प्रविशता दृष्टाश् चतुःषष्टिर् मया कलाः
चतस्रश् च महाविद्या विन्यस्ताश् चित्रकर्मणि ॥
तत्र चित्रीयमाणो ऽहं चित्रं चित्रं विलोकयन्
बोधितो जृम्भणैर् मन्द्रैर् भेरीणां गर्जितैर् इति ॥
स्थपितो ऽयम् इति स्वप्नः पुत्रस् तव भविष्यति
अशेषचित्रविन्यस्त कलाकुशलधीर् इति ॥
दृष्टं वसन्तकेनापि स्वप्नं कथितम् इत्य् अथ
दत्तवान् पावको मह्यं कुण्डलं रुचिरोज्ज्वलम् ॥
॥
इति व्याक्रियमाणेषु स्वप्नेषु रविसारथेः
भिन्नं भाभिस् तमो जातं चकोरनयनारुणम् ॥
कोमलानिलविक्षिप्त नलिनस्पर्शबोधताः
रेसुर् विवादरसिताः सरसीषु शकुन्तयः ॥
गम्भीरप्रतिनिर्घोष भीषितेन्द्रावरोधनः
देवतागारभेरीणाम् उच्चैर् ध्वनिर् अजृम्भत ॥
अवदन्त च वृन्दानि बन्दिनां मेदिनीपतिम्
पूरितार्थिसमूहाश तवाशा पूर्यताम् इति ॥
युवा धीरः सभे योग्यो यजमानस्य जायताम्
इत्यादिभिर् द्विजाश् चैनं मन्त्रवाद्यैर् अवर्धयन् ॥
निमित्तैर् एवमाकारैः कार्यसंसिद्धिशंसिभिः
आदित्यशर्मणो जातम् अङ्गं रोमाञ्चकर्कशम् ॥
पद्मावत्या ततो हर्षाद् विवाहए इव नृत्यति
वसन्तके ध्वनत्ताले ननर्त गणिकागणः ॥
अलं चातिप्रसङ्गेन संक्षेपाद् अवधार्यताम्
वधूवृन्दपरीवाराः प्रनृत्ताः श्वशुरा अपि ॥
अतिहर्षपरीतत्वाद् वितन्त्रीपरिवादिनीः
ताडयन्ति स्म गन्धर्वाः स्वराविस्मृतसारणाः ॥
एवमादौ तु वृत्तान्ते वर्तमाने महीपतिः
कृताभिषेकादिविधिः सुरविप्रान् अपूजयत् ॥
प्रविश्य स्तूयमानश् च वृन्दैर् ब्राह्मणबन्दिनाम्
पौरम् अन्तःपुरं चैव दानादिभिर् अमानयत् ॥
मासद्वयपरीमाणे ततः काले ऽतिगच्छति
देव्यां सत्त्वसमावेश वार्त्तां प्रावर्तयत् क्षितौ ॥
येन येन श्रुता वार्त्ता शबरेण शुकेन वा
गिरिष्ठः पञ्जरस्थो वा मुग्धस् तत्रैव तत्र सः ॥
स्त्रियः प्रसूतिकुशलाः कुमारादिचिकित्सकाः
गर्भकर्मविदश् चान्ये नित्यं तां पर्यचारयन् ॥
म्लायन्मधूकविच्छाय कपोलं जिह्मलोचनम्
श्वश्रूस् तस्या मुखं दृष्ट्वा बुबुधे दोहदव्यथाम् ॥
पृच्छति स्म च तां पुत्रि शीघ्रम् आचक्ष्व दोहदम्
अनाख्याते हि गर्भस्य वैफल्यम् अपि दृश्यते ॥
लज्जमाना यदा नासौ कथयाम् आस दोहदम्
तदा स्ववृत्तं सा वध्वै व्याहर्तुम् उपचक्रमे ॥
अन्तर्वत्नीम् अपृच्छन् माम् एकदा श्वशुरस् तव
बाधते दोहदो यस् त्वां स क्षिप्रं कथ्यताम् इति ॥
मया तु प्रणयिन्यापि प्रकृष्टतरलज्जया
सखीमुखेन कथितं बहुकृत्वो ऽनुयुक्तया ॥
इयं मां बाधते श्रद्धा साशु संपाद्यताम् इति
सा च संपादितामात्यैः शतानीकस्य शासनात् ॥
बालभास्करबिम्बाभा दधानाः सानुलेपनाः
व्यचरन्त पुरीं रक्ताम् अम्बराभरणस्रजः ॥
रक्तातपत्रव्यजना रक्तकम्बलवाह्यकाः
रक्ताशोकवनाकार परिवारकदम्बकाः ॥
सुयमुनम् अथारुह्य पद्मरागनगारुणम्
दिग्दाहाद् इव रक्तानाम् अपश्यं मण्डलं दिशाम् ॥
अथ पक्षानिलभ्रान्त संभान्तजनवीक्षितः
ज्येष्ठपुत्र इवागच्छद् गरुडस्य विहंगमः ॥
सरसामिषगृद्धश् च मुग्धाम् आदाय माम् असौ
अगमद् गगनं वेगाच् छतानीकस्य पश्यतः ॥
ततः प्रदेशे कस्मिंस्चिद् अवतारितवान् स माम्
भक्षयिष्यन् निषिद्धश् च केनाप्य् आकाशम् आश्रयत् ॥
पश्यामि स्म च तत्र द्वौ कृशाव् ऋस्.इकुमारकौ
प्रभामण्डलसंसर्ग पिङ्गलाङ्गौ ज्वलज्जटौ ॥
तौ माम् अवोचतां देवि मा भैषीर् अयम् आश्रमः
वसिष्ठस्याश्रितः पुण्याम् उदयाद्रेर् उपत्यकाम् ॥
आगच्छ ननु पावस् त्वां तत्रेत्य् उक्ते गता सती
पश्यामि स्म जगज्ज्येष्ठं श्रेष्ठतापसवेष्टितम् ॥
वन्दितश् च मया दूराद् आशिषा माम् अवर्धयत्
पुत्रि पुत्रं विजायस्व यशःपात्रम् अजर्जरम् ॥
न चोत्कण्ठा त्वया कार्या स्वजने मत्सनाथया
आदित्यवंशजानां हि संनिवेशः परायणः ॥
इति विश्वास्य मां वाक्यैर् मधुरैर् एवमादिभिः
आवासः क्रियतां वध्वा इति शिष्यान् समादिशत् ॥
क्षिप्रम् आवसथं कृत्वा ते शिलादारुवेणुभिः
खातशालपरिक्षिप्तं वसिष्ठाय न्यवेदयन् ॥
तापसी कृतसानाथ्या तत्राहम् अवसं सुखम्
ऋषिभिः क्रियमाणेषु गर्भसंस्कारकर्मसु ॥
प्रसूता चास्मि दशमे मासे पुत्रं पतिं तव
अनुकूलसवितृआदि ग्रहसूचितसंपदम् ॥
जातकर्म ततः कृत्वा सूर्यवंशगुरुः स्वयम्
दिवसे द्वादशे नाम पुत्रस्य कृतवान् मम ॥
बालो जातः सुजातो ऽयं यस्माद् उदयपर्वते
तस्माद् उदयनो नाम प्रसिद्धिम् उपयात्व् इति ॥
वेदे गन्धर्ववेदे च सकलासु कलासु च
सास्त्रेषु चास्त्रशस्त्रेषु बुद्धिर् अस्य विनीयत ॥
गच्छत्सु दिवसेष्व् एवं वसिष्ठेनैष वारितः
मा कदाचिद् भवान् अस्माद् दूरं गा आश्रमाद् इति ॥
निसर्गकर्कशत्वात् तु क्षत्रजातेस् तपोवनात्
निर्याय मृगयाम् एष समक्रीडत कानने ॥
एकदा भ्राजमानो ऽयं दिव्यैः स्रक्चन्दनादिभिः
अभिवादितवान् भीतो वसिष्ठं दर्शितस्मितम् ॥
वसिष्ठः पृष्टवान् एनम् अपि दृष्टाः कुमारकाः
नलिन्यां प्रस्तुतक्रीडा भवता भोगिनाम् इति ॥
आम दृष्टा इति प्रोक्ते सुतेन मम नीचकैः
आचक्ष्व विस्तरेणेति वसिष्ठस् तम् अभाषत ॥
पृष्टेनोदयेनोक्तम् अहम् आज्ञापितस् त्वया
न गन्तव्यं त्वया दूरम् एतस्माद् आश्रमाद् इति ॥
आरभ्य च ततः कालात् किं पुनः कारणं गुरुः
मां निवारयतीत्य् आसम् अहं कौतूहलाकुलः ॥
सो ऽहं दोषम् असंचिन्त्य गुर्वाज्ञाभङ्गसंभवम्
दूरम् अद्याश्रमाद् अस्माद् गच्छामि दिशम् उत्तराम् ॥
तत्र पश्यामि नलिनीं नानासरसिजाण्डजाम्
वनवारणसंक्षोभ संघट्टितनदाम्भसम् ॥
तस्याम् अमानुषाकारा मया दृष्टाः कुमारकाः
उन्मज्जन्तो निमज्जन्तस् तरन्तश् चारुणेक्षणाः ॥
ते मां तटस्थम् आलोक्य पुञ्जीभूय ससंभ्रमाः
दीर्घदीर्घभुजाक्षेपैर् अगाधं जलम् आश्रिताः ॥
अहं तान् उक्तवान् अस्मि मा पलायध्वम् आस्यताम्
नन्व् अहं भवतो द्रष्टुम् आश्रमाद् ऋषिर् आगतः ॥
इति मद्वचनं श्रुत्वा तेषाम् एकेन भाषितम्
किं ते ऽस्माभिर् महासत्त्व भाषितैर् गम्यताम् इति ॥
सत्यसत्यं न यक्षो ऽस्मि न पिशाचो न राक्षसः
तेन मा भैष्ट ढौकध्वम् इति तान् अहम् उक्तवान् ॥
तैस् तु संजातविश्रम्भैः संहरन् वा मुहूर्तकम्
आगच्छ प्रार्थितो मित्र गृहं नो गम्यताम् इति ॥
मया तदनुरोधेन गच्छामीति प्रतिश्रुते
माम् आदाय निमग्नास् ते तस्यैव सरसो ऽम्भसि ॥
अथानुदितचन्द्रार्क ग्रहनक्षत्रतारकम्
चन्द्रसूर्यमणिद्योत प्रध्वस्तध्वान्तसंचयम् ॥
स्थविरातुरनिर्वृत्त विरूपजनवर्जितम्
रम्यहर्म्यावलीगर्भ जृम्भितातोद्यनिस्वनम् ॥
अशेषैर् वियुतं दोषैर् अशेषैः संयुतं गुणैः
प्रवेशितो ऽस्मि मुदितैर् अधिष्ठानं कुमारकैः ॥
तेषाम् एकस् तु माम् आह भोगिनां भोगिनाम् इयम्
पुरी भोगवती नाम वसतिः कल्पजीविनाम् ॥
तनयः कम्बलस्याहम् अयम् अश्वतरस्य तु
अन्ये च सूनवो ऽन्येषां नागसेनाभृताम् इति ॥
ततः कम्बलपुत्रेण नीत्वाहं स्वं गृहं महत्
ग्राहितार्घादिसत्कारः कारितो वेषम् ईदृशम् ॥
इतरे नेतुम् ऐच्छन्त स्वगृहान् मां मयोदिताः
अनुजानीत माम् अद्य सुहृदो मा स्म कुप्यत ॥
गुरुणा प्रतिषिद्धो ऽहम् एतां भूमिम् उपागतः
भीतश् च कुपितात् तस्मात् तस्मान् नयत माम् इति ॥
ते तु माम् आहुर् उत्तिष्ठ गम्यतां स्वम् इदं पुरम्
पुनर् आगच्छता कार्यम् अनुत्कण्ठभुजंगमम् ॥
तस्याम् एव च रम्यत्वात् क्रीडामः संततं वयम्
सुहृदो ऽपि यदीच्छा स्याद् गच्छेत् तां नलिनीम् इति ॥
इत्य् उक्त्वा मम तैर् वक्त्रे पटान्तेनावगुण्ठिते
उत्तीर्णम् अहम् आत्मानं पश्यामि सरसस् ततः ॥
इति भोगवतीं दृष्ट्वा सो ऽहम् आयामि संप्रति
ममास्मिन्न् अपराधे च प्रमाणं भगवान् इति ॥
वसिष्ठस् तम् अथावोचद् उपायो ऽयं मया कृतः
येन नागकुमारास् ते दृष्टिगोचरतां गताः ॥
इदानीम् अपि तैः सार्धं गत्वा भोगवतीं त्वया
गान्धर्वं हस्तिविद्या च शिक्षितव्याः सविस्तराः ॥
यदि च ग्राहयेत् किंचित् त्वां नागाधिपतिस् ततः
सनागमूर्छना ग्राह्या वीणा घोषवती त्वया ॥
अङ्कम् आरोपितायां च तन्त्र्यो यस्याम् अनाहताः
मधुरं निस्वनेयुस् तां विद्यां घोषवतीम् इति ॥
गुरोर् उदयनः श्रुत्वा नागलोकं गतस् ततः
गते बहुतिथे काले वीणापाणिर् उपागतः ॥
कृताभिवादो गुरुणा परिष्वक्तश् च साश्रुणा
तद्वियोगाग्नितप्ताङ्गीम् अम्बाम् अङ्गैर् अशीतयत् ॥
एकदा तु सुखासीनो वसिष्ठस् तम् अभाषत
तात घोषवतीघोष संगीतं श्राव्यताम् इति ॥
तन्निदेशाच् च पत्यौ ते प्रगीते सह वीणया
जगत्प्रचलनाचार्यो नभस्वान् अपि नाचलत् ॥
निश्चेष्टम् आश्रमं दृष्ट्वा मूककेशरिवारणम्
रक्तां घोषवतीं मुक्त्वा तुष्णीम् आसीत् पतिस् तव ॥
उक्तश् चैष वसिष्ठेन न त्वयास्मिंस् तपोवने
वादनीया पुनर् वीणा गेयं वा शनकैर् अपि ॥
अन्ये ऽपि ध्वनयः प्रायश् चलयन्ति समाहितान्
समाधेः किं पुनर् येन साक्षिणो ऽपि विमोहिताः ॥
तस्माद् अवीतरागाणां समाधिम् अविहिंसता
दूरे तपोवनाद् अस्माद् वीणेयं वाद्यताम् इति ॥
ततश् चारभ्य दिवसाद् उदयाचलचारिणः
नागान् उदयनो ऽगृह्णाद् रम्यैर् घोषवतीरुतैः ॥
दान्तव्यालगजारूढः सिंहादिव्यालवेल्लितः
क्वणद्घोषवतीपाणिर् आयाति स्म तपोवनम् ॥
एवं याति क्वचित् काले भगवान् माम् अभाषत
दारकस् तरुणो जातः कौशाम्बीं गम्यताम् इति ॥
मया तु निर्वचनया कथिते ऽस्मिन् मनोरथे
गुरुणा तीर्थसलिलैर् अभिषिक्तः सुतो मम ॥
तच् छिष्यास् तु तदादिष्टा माम् आदाय सपुत्रकाम्
आकाशेन नयन्ति स्म क्षणेन नगरीम् इमाम् ॥
अथाहं नगरोद्याने रम्ये तैर् अवतारिता
मुहूर्तं प्रेरितवती गगनागमनश्रमम् ॥
अवतीर्य तु ते भर्ता क्रीडापुष्करिणीं पितुः
पद्मभञ्जिकया क्रीडन् दृष्ट उद्यानपालकैः ॥
तैर् गत्वा कथितं राज्ञे देव देवकुमारकः
अधुनैवागतः स्वर्गाद् गाहते नलिनीम् इति ॥
राजा तु द्रुतम् आगत्य दृष्ट्वा देवसमं सुतम्
देव एवायम् इत्य् उक्त्वा प्रणामं कर्तुम् उद्यतः ॥
ततस् तपस्विभिः खस्थैः संभ्रान्तैः स निवारितः
राजन्न् उदयनपुत्रं न नमस्कर्तुम् अर्हसि ॥
संदेहश् चेद् इमां पृच्छ महिषी मृगयावतीम्
प्रेमसंभ्रमसंत्रास लज्जाभिः खेदिताम् इति ॥
राजा तु तान् अथो दृष्ट्वा माम् अपश्यत् सुतं ततः
मुहूर्तं चिन्तयित्वा तु विहसन् प्रस्थितो गृहान् ॥
अथायम् ऋषिभिः प्रोक्तः पुरःस्थित्वा ससंभ्रमैः
न गन्तव्यं न गन्तव्यं नैष स्वप्नो निवर्त्यताम् ॥
अथ वा भवतु स्वप्नः स्वप्ने ऽपि न विरुध्यते
दुर्लभेनापि हि स्वप्ने वल्लभेन समागमः ॥
यच् च ब्रूमस् तद् आकर्ण्य चेतःकर्णसुखावहम्
ततो यस्यासि सापत्याम् आदाय दयिताम् इति ॥
निवृत्ताय च ते तस्मै भारुण्डहरणादिकम्
आचक्षते स्म वृत्तान्तम् आश्रमानयनाद् इति ॥
राजा तु पुत्रम् आलिङ्ग्य हर्षमूर्छाविचेतनः
निपतन् धरणीपृष्टे पुत्रेण लम्भितः क्षणम् ॥
मां च दृष्ट्वा चिरं दृष्ट्वा देवदृष्टिविचेष्टया
निश्वासैर् अक्षिपद् दीर्घैर् नेत्राम्बुकणिकागणम् ॥
बद्धाञ्जलिर् नरपतिर् ब्रवीति स्म च तान् ऋषीन्
अवतारेण गुरुभिः प्रसादः क्रियताम् इति ॥
तैर् उक्तं न समादिष्टा वसिष्ठेन वयं ततः
गच्छामो नावतीर्यैव स्वस्ति तुभ्यं भवत्व् इति ॥
तान् अयाचत भूपालो यत् किंचित् स्वाङ्गधारितम्
अस्मत्पावनम् उज्झित्वा यथेष्टं गम्यताम् इति ॥
मृगाजिनानि ते क्षिप्त्वा तडित्कान्तिजटागुणाः
तत्रैवान्तर्दधुश् चण्ड मरुद्व्यस्ता इवाम्बुदाः ॥
मृगाजिनानि तु नृपो दैवतानीव भक्तिमान्
पूजयित्वा तद् उद्यानं नम्नावोचन् मृगाजिनम् ॥
सा मृगाजिनयात्रेयं ततः प्रभृति वासरात्
प्रवर्तिता नृपतिना प्रसिद्धिम् अगमद् भुवि ॥
ततः कृत्वा सुतं राजा युवराजं मृगाजिने
प्रविष्टो हृष्टहृदयः प्रहृष्टां नगरीम् इति ॥
सो ऽयं मयेदृशो लब्धः पुत्रः संपाद्य दोहदम्
तवापि दोहदो यः स पुत्रि संपाद्यताम् इति ॥
यदा तु नैवाकथयल् लज्जया नृपतिस् तदा
मागधीम् उक्तवान् पृच्छ दोहदं भगिनीम् इति ॥
पद्मावती तु तां पृष्ट्वा तदाख्यातम् अवर्णयत्
दुःसंपादा किल श्रद्धा ममेत्य् आह शनैर् इयम् ॥
अथ ताम् अब्रवीद् उच्चैर् हसित्वा मृगयावती
मुग्धे किं नाम दुःसाध्यम् उपायचतुरैर् नृभिः ॥
श्रूयतां वा पुरावृत्तं मथुरायाम् अभून् नृपः
उग्रसेनो महासेनः शत्रुसेनाम्बुदानिलः ॥
तस्य स्त्री गुणसंपन्ना शुच्याचारकुलोद्भवा
आसीन् मनोरमाचारा या नाम्नापि मनोरमा ॥
कदाचिद् आगते काले समृद्धकुटजार्जुने
रसन्मयूरसारङ्ग मेघमण्डूकमण्डले ॥
मनोरमं गृहोद्यानं प्रविवेश मनोरमा
कदम्बानिलम् आघ्रातुम् उद्भूतप्रथमार्तवा ॥
तदा च द्रुमिलो नाम दानवो नभसा व्रजन्
उद्यानशोभयाकृष्ट दृष्टिस् तां तत्र दृष्टवान् ॥
कृतोग्रसेनरूपेण तेन सापायचेतसा
समगच्छत सद्यश् च ससत्त्वा समपद्यत ॥
स्त्रीभिश् च दोहदं पृष्टा कृच्छ्राद् उक्तवती ह्रिया
विष्णोः शोणितमांसान्त्रैर् गमयामि तृषाम् इति ॥
श्रुत्वेदम् उग्रसेनेन चिरं संमन्त्र्य मन्त्रिभिः
सृष्टः पिष्टमयो विष्णुर् मेषामिषभृतोदरः ॥
मन्दप्रदीपकिरणे तस्या वसतिमन्दिरे
न्यस्तः पिष्टमयो विष्णुः क्षपायां क्षपितस् तया ॥
दुःसंपादे ऽपि संपन्ने दोहदे ऽस्मिन्न् उपायतः
वध्यं यादवसिंहस्य कंसं सुतम् असुत सा ॥
तेन ब्रवीमि नास्त्य् एव दुःसंपादा क्रिया नृभिः
तस्मात् तवापि या श्रद्धा सापि संपाद्यताम् इति ॥
कथितं च ततः श्रुत्वा पद्मावत्येयम् इच्छति
अम्बरस्थविमानस्था कृत्स्नां द्रष्टुं महीम् इति ॥
अथोवाच हसन्न् उच्चैः क्रीडाशीलो वसन्तकः
देवस्य दासभार्याणाम् अयम् एव मनोरथः ॥
मया तु भणिताः सर्वा दीर्घस्थम्भावलम्बिनीम्
दोलाम् आरुह्य नभसा मुहुर् आयात यात च ॥
उपायम् अन्यं पतयो भवतीनां न जानते
तेनाकाशगतिश्रद्धा तथा च पूर्यताम् इति ॥
ततः प्रहसिता सर्वे रुमण्वान् इदम् अब्रवीत्
निवर्त्यतां परीहासः प्रस्तुतं वर्त्यताम् इति ॥
यौगन्धरायणेनोक्तं किम् अत्र परिचिन्त्यते
असाधारण एवायं विषयः शिल्पिनाम् इति ॥
रुमण्वता तु तक्षाणः संनिपात्य प्रचोदिताः
यन्त्रम् आकाशसंचारि त्वरितैः क्रियताम् इति ॥
अथोत्क्रम्य चिरं सर्वे मन्त्रयित्वा च शिल्पिनः
रुमण्वन्तम् अभाषन्त संत्रासप्रस्खलद्गिरः ॥
चतुर्विधानि जानीमो वयं यन्त्राणि तद् यथा
जलाश्मपांशुयन्त्राणि काण्डराशिकृतानि च ॥
आकाशयन्त्राणि पुनर् यवनाः किल जानते
अस्माकं तु न यातानि गोचरं चक्षुषाम् इति ॥
तत्र च ब्राह्मणः कश्चिद् अब्रवीद् आग्रहारिकः
भोः सभे श्रूयतां तावद् यन् मयाख्यानकं श्रुतम् ॥
अस्ति पुक्वसको नाम महासेनस्य वर्धकी
स्कन्धावारेण सार्धं स सुराष्ट्रविषयं गतः ॥
तेन तत्रापरो दृष्टः सुरूपः शिल्पिदारकः
विश्विलो नाम यः शिल्पी सदृशो विश्वकर्मणा ॥
अथ पुक्वसकस् तस्य पितरं मयम् अब्रवीत्
तव पुत्राय दुहिता दत्ता रत्नावली मया ॥
प्रष्टव्यश् च त्वया नाहं कीदृशी सा गुणैर् इति
कुलरूपाभिजात्यादि गुणरत्नावली हि सा ॥
संपद्यते च नः किंचिन् महासेनपरिग्रहात्
तस्मात् संवर्धसिद्ध्यर्थं पुत्रं प्रस्थापयेर् इति ॥
मयेन च प्रतिज्ञातो गत्वा पुक्वसको गृहान्
जामात्रागमनाकाङ्क्षी महान्तं कालम् अक्षिपत् ॥
कृत्वा राजकुले कर्म कदाचिद् गृहम् आगतम्
भणति स्म न तं कश्चित् स्नाहि भुङ्क्ष्वेति चाकुलः ॥
भार्यया कथितं तस्मै किम् एतद् इति पृष्टया
आगन्तुकेन केनापि सर्वम् आकुलितं गृहम् ॥
आत्मीयास् तण्डुलास् तेन रन्धनाय समर्पिताः
मन्दको ऽहम् अमीभिर् मे मण्डः संपाद्यताम् इति ॥
काष्ठभारशतं दग्धं न च स्विद्यन्ति तण्डुलाः
तेनायम् आकुलो लोकस् तत् किम् एतद् भवेद् इति ॥
अथ पुक्वसकेनोक्तं परिष्वज्य कुटुम्बिनीम्
गृहस्थे वर्धसे दिष्ट्या प्राप्तस् ते दुहितुर् वरः ॥
क्वासौ क्वासौ विश्वभद्र इति पृच्छति भर्तरि
शिरः प्रावृत्य भार्यास्मै कर्मशालाम् अदर्शयत् ॥
निष्क्रम्य कर्मशालातः सत्वरं विश्विलस् ततः
अभिवादितवान् प्रह्वः प्रसारितभुजं गुरुम् ॥
उत्क्षिप्य श्वशुरेणापि हर्षनेत्राम्बुवर्षिणा
निरन्तरं परिष्वक्तश् चिरादृष्टः सुहृद् यथा ॥
कृतार्घादिसपर्यश् च पृष्टः पुक्वसकेन सः
किंमयास् तण्डुलास् तात कथ्यताम् इति सो ऽब्रवीत् ॥
एते पाण्डरकाष्ठस्य काष्ठेन तण्डुला मया
घटिता घटिकामात्रात् करघाटतरोर् इति ॥
अथ पुक्वसकेनोक्तं कर्मेदं विश्वकर्मणः
तवापि शिल्पिसिंहस्य तृतीयस्य न विद्यते ॥
अद्यैव च दिनं भद्रम् अतो रत्नाव्लईकरः
गृह्यताम् इति तेनोक्ते विश्विलेनोक्तम् ओम् इति ॥
रत्नावल्या स संगम्य स्फुरदुज्ज्वलशोभया
संमीयते स्म नाङ्गेषु दरिद्र इव कामुकः ॥
आलेख्यविद्याधरयोर् यथा संमुखयोस् तयोः
महान् कालो ऽतियाति स्म निमेषोज्झितचक्षुषोः ॥
अथ रत्नावलीं दृष्ट्वा विचिन्ताम् इव विश्विलः
किम् एतद् इति संदिह्य किम् एतद् इति पृष्टवान् ॥
तस्याम् अभाषमाणायाम् एकाभाषत दारिका
भर्तृदारक यद्य् अस्ति श्रोतुम् इच्छा ततः शृणु ॥
स्यालकास् तव जल्पन्ति पूर्वम् एकाकिनीं वयम्
अधुना सह जामात्रा पुष्णीमो भगिनीम् इति ॥
इति श्रुत्वा वनं गत्वा चित्त्वा दारूणि कान्य् अपि
यन्त्राणि घटयाम् आस यावनान्य् अथ विश्विलः ॥
वृक्षायुर्वेदनिर्दिष्टैः पादपाङ्गैश् चकार सः
आयुरारोग्यकारीणि पाकोपकरणानि च ॥
सहस्रगुणमूल्यानि तानि विक्रीय तद् धनम्
श्वशुराय ददाति स्म स च प्रीतस् तद् आददे ॥
एवं दिनेषु गच्छत्सु विद्राण इव पुक्वसः
विश्विलादीन् समाहूय सविषादम् अभाषत ॥
अहम् आज्ञापितो राज्ञा ब्रह्मदत्तः सुहृद् मम
काशिदेशपतिस् तेन प्रणयाद् अहम् अर्थितः ॥
तव पुक्वसको नाम तक्षास्ति कुशलः किल
धर्माधिकारकाराय स मे प्रस्थाप्यताम् इति ॥
तच् च देवकुलं कृत्वा स्वबुद्धिसमकर्मकम्
वाराणस्याम् अविघ्नेन भवान् आवर्तताम् इति ॥
अवश्यं च मया तत्र गन्तव्यम् अनुजीविना
मर्तव्यं चास्य चण्डस्य राज्ञो वाक्यम् अकुर्वता ॥
दीर्घकालं च तत् कर्म दशा चेयम् अनुत्तरा
तस्मात् पुक्वसकः सर्वैः सुदृष्टः क्रियताम् इति ॥
विश्विलेन ततः प्रोक्तम् अलं त्रासम् उपास्य वः
भृत्यं वाराणसीं यान्तम् अनुजानीत माम् इति ॥
श्वशुरेणाभ्यनुज्ञातः प्रीतेन च महीभुजा
दूतैः स प्रतिदूतैश् च सह वाराणसीं गतः ॥
बहुकालप्रयाते ऽपि पत्यौ रत्नावली मुखम्
संतताश्रुजलासार धौतं म्लानकपोलकम् ॥
आयताशीतनिश्वासं नासाग्राहितलोचनम्
दन्तावरणसंस्कार शून्यम् अगलितालकम् ॥
विस्रंसमानरशनं जघनं मलिनांशुकम्
न दधाति स्म शोकान्धा बाहू च स्खलदङ्गदौ ॥
तस्याम् इत्थम् अवस्थायाम् अमन्त्रयत पुक्वसः
गृहिणीं चकितः पश्य निश्चिन्तां तनयाम् इति ॥
साब्रवित् सुष्ठु पश्यामि लज्जमाना च ते मुखम्
न दर्शयामि नन्व् एवं स्त्रैणं किम् अपि चापलम् ॥
यस्यासमेन रूपेण गुणैश् चागणितैः पुरी
वृता न लभते शान्तिम् अपश्यन्ती तम् उत्सुका ॥
दर्शनस्पर्शनालापैश् चिरं या तेन लालिता
सेयम् एवम् अशोकेति मन्दभाग्या भणामि किम् ॥
जायापत्योस् तयोर् इत्थं मिथो मन्त्रयमाणयोः
दिनस्तोकेषु यातेषु गर्भं रत्नावली दधौ ॥
कृतक्रोधस्मितो भार्याम् अथ पुक्वसको ऽब्रवीत्
भो पश्य दयितापत्ये दुहितुः प्रक्रियाम् इति ॥
भर्तृकोपनिमित्तेन तनयादोषजन्मना
जातेन च नृपाच् चण्डात् प्राकम्पत भयेन सा ॥
आसीद् अयं च वृत्तान्तो राज्ञाहृतश् च पुक्वसः
सुतादोषविपाकं च पश्यन् राजकुलं गतः ॥
स विहस्य नृपेणोक्तो मा भैषिर् दुहितुस् तव
जामात्रैवाहितो गर्भस् तच् चेदम् अवधीयताम् ॥
ये मया प्रेषिता दूता जामात्रा भवतः सह
निवृत्तमत्रैस् तैर् एव मह्यम् आवेदितं यथा ॥
आरभ्य प्रथमाद् एव प्रयाणाद् एष विश्विलः
यन्त्रकुक्कुटम् आस्थाय प्रदेशे क्वापि यातवान् ॥
रात्रौ च यामशेषायां प्रावृत्यागत्य मस्तकम्
अविज्ञातः किलास्माभिर् अध्यशेत स्वसंस्तरे ॥
कदाचित् प्रतिबुद्धेषु दूतेषु स परागतः
पादेषु पतितस् तेषाम् अयाचत विषण्णकः ॥
नेदं कस्यचिद् आख्येयं शिल्पिकस्येतरस्य वा
आकाशयन्त्रविज्ञानं सुर्विज्ञानम् अयावनैः ॥
खट्वाघटनविज्ञानम् इवेदं प्रचुरीभवेत्
लोकेन परिभूयेत क्षणरागा हि मानुषाः ॥
निन्दिते वन्दनीये ऽस्मिन्न् आस्तां तावच् च पातकम्
दृष्ट एव महान् दोषो जीवनस्यापहारणम् ॥
अहं हि भार्यया सार्धम् उषित्वा रजनीं दिवा
कुर्वन् नरपतेर् आज्ञां नेष्यामि दिवसान् इति ॥
तच् च देवकुलं तेन घटितं किल तादृशम्
द्रष्टुम् इच्छा समुत्पन्ना येन दुश्चक्षुषाम् अपि ॥
ब्रह्मदत्तेन दत्तं च धनराशिम् अनुत्तमम्
न गृह्णाति स्म वक्ति स्म गुरुर् मे लभताम् इति ॥
एवम् उक्त्वा महासेनो महता धनराशिना
सर्वस्वहरणात् त्रस्तं तोषयाम् आस पुक्वसम् ॥
विश्विलो ऽपि मुहूर्तेन वाराणस्याः परागतः
आकाशयन्त्रम् आस्थाय प्रविष्टश् च गृहान् निशि ॥
अतीते मासमात्रे च विश्विलं पुक्वसो ऽब्रवीत्
अद्य माम् आह नृपतिः शनैर् उत्सार्य सस्मितम् ॥
आकाशयन्त्रविज्ञानं जामात्रे कथितं त्वया
यन् मह्यम् अपि तत् सर्वम् अर्थिने कथ्यताम् इति ॥
मया तु कथितं तस्मै न तस्मै कथितं मया
तस्मै तु कथितं प्रीतैः शिल्पिभिर् यावनैर् इति ॥
राज्ञा तु कुपितेनोक्तं नेदं लोकवचो मृषा
शिल्पिनः सह शाठ्येन जायन्त इति घुष्यते ॥
तम् इदं शाठ्यम् उज्झित्वा मन्निदेशं समाचर
अन्यथा जीवलोको ऽयं सुदृष्टः क्रियताम् इति ॥
तद् रक्षता मम प्राणान् सपुत्रान् अनुजीविनः
राज्ञे तद् यन्त्रविज्ञानम् अर्थिने कथ्यताम् इति ॥
विश्विलस् तु प्रतिज्ञाय श्वशुराय तथास्त्व् इति
रात्रौ रत्नावलीं सुप्तां प्रतिबोध्येदम् अब्रवीत् ॥
आमन्त्रये ऽहं भवतीं गच्छामि स्वगृहान् प्रति
उपायैस् तव पित्राहम् अस्मात् स्थानाद् विवासितः ॥
आकाशयन्त्रविज्ञानं प्राप्तुं मत्तः स वाञ्छति
प्रच्छाद्यं च तद् अस्माभिर् निधानं कृपणैर् इव ॥
तद् आस्तां तावद् आत्मा मे तव वा दयितः पिता
विज्ञानस्यास्य रक्षायै त्यजेयं भवतीं अपि ॥
इति रत्नावली श्रुत्वा भर्तारम् इदम् अब्रवीत्
किं चाहं दुर्भगा येन भक्तां त्यजसि माम् इति ॥
यानं कुक्कुटसंस्थानम् आस्थाय सह भार्यया
रात्राव् आकाशम् उत्पत्य स्वस्थानं विश्विलो ययौ ॥
ते चैवम् औरसान् बन्धूञ् छिल्पगुप्त्यै त्यजन्ति ये
ते शिल्पं दर्शयन्तीति कस्येयम् असती मतिः ॥
तस्माद् अमी शठा बद्धाः पीड्यन्तां ताडनादिभिः
असाध्याः सामदानाभ्यां नीचा हि वधसाधनाः ॥
इति सेनापतिः श्रुत्वा सर्वान् संयम्य शिल्पिनः
अताडयद् अवोचच् च यन्त्रम् आयोज्यताम् इति ॥
एतस्मिन्न् एव वृत्तान्ते कश्चिद् आगन्तुको ऽब्रवीत्
अहं करोमि वो यन्त्रं मा स्म ताड्यन्त शिल्पिनः ॥
यन्त्रोपकरणं चेदम् इदानीं दीयताम् इति
तच् च संपादितं सर्वम् अचिरेण रुमण्वता ॥
तेषु चान्यतमः शिल्पी तम् आगन्तुम् अभाषत
आरोहकपरीमाणं सेनानीर् अनुयुज्यताम् ॥
अज्ञातवाह्यसंख्याभिर् बहवः शिल्पिनो नृपैः
विपन्नयन्त्रैः श्रूयन्ते मथिताः कुपितैर् इति ॥
अथ तेनोक्तं मन्ये ते वराका ग्राम्यशिल्पिकाः
किं वा वचोभिर् बहुभिः क्षणम् आस्थीयताम् इति ॥
इत्य् उक्त्वा गरुडाकारम् अचिरेण चकार सः
विमानम् अम्बरोपेतं मन्दारकुसुमार्चितम् ॥
स चाभाषत राजानं राजन् राजजनार्दनः
आक्रम्य गरुडं क्राम क्रान्तपूर्वां महीम् इमाम् ॥
अथ राजावदद् देवीं देवि किं स्थीयते ऽधुना
विमानम् इदम् आरुह्य यथेष्टं गम्यताम् इति ॥
अवोचत् सा च राजानम् अर्यपुत्र त्वया विना
नोद्यानम् अपि गच्छामि कुतो ऽनालम्बनां दिवम् ॥
एवं देवी ब्रवीतीति राज्ञोक्ते शिल्पिनोदितम्
ननु वोढुम् इदं शक्तं सकलां नगरीम् इति ॥
सान्तःपुरपरीवारः सदारसचिवस् ततः
सपौरश्रेणिवर्गश् च यानम् अध्यास्त भूपतिः ॥
तेन केतुपताकादि छायाविच्छुरिताम्बराम्
पुण्यम् आकाशम् आविश्य प्राक् प्राचीम् अगमद् दिशम् ॥
ददर्श दर्शकस् तत्र यानं यान् नगरोपरि
देवो विद्याधरो वापि भोः को ऽयम् इति चाब्रवीत् ॥
पद्मावतीद्वितीयेन स च राज्ञाभिवादितः
अनुज्ञातश् च संयातो नृपः पवनवर्त्मना ॥
इति प्रदक्षिणीकृत्य स भुवं सागराम्बराम्
अवन्तिनगरीं प्रायात् प्रवृत्तोदकदानकाम् ॥
यात्रानुभवनोत्कण्ठं ज्ञात्वा शिल्पी महीपतिम्
स्तम्भयाम् आस तद् यन्त्रम् अथातुष्यन् नराधिपः ॥
प्रद्योतस्य तद् आलोक्य रत्नप्रद्योतपिञ्जरम्
किम् एतद् इति संदेह दोलादोलम् अभून् मनः ॥
महांश् चेद् अयम् उत्पातो रमणीयम् अतः कथम्
इष्टसंप्राप्तिलम्भश् चेद् नास्माभिः श्रुतम् ईदृशम् ॥
संदिहन्मानसस्येति प्रद्योतस्य पुरः शरम्
पातयाम् आस वत्सेशः शनकैर् लेखिताक्षरम् ॥
महासेनस् तम् आदाय चित्रम् एतद् अवाचयत्
राजन्न् उदयनश् चौरः सदारस् त्वां नमस्यति ॥
इति श्रुत्वा महासेनो जामातरम् अभाषत
चौराय दत्तम् अभयं तस्माद् अवतरत्व् इति ॥
आलोक्यावन्तिकौशाम्ब्यां विमानोदकदानके
द्रष्टव्येषु तनूभूतम् उद्भूतेषु कुतूहलम् ॥
कांचिद् वेलाम् उपास्यैवम् आमन्त्र्य श्वशुरौ ततः
लोकालोकितयानश् च कौशाम्ब्याम् अवरूढवान् ॥
पूजितामरविप्राग्नि गुरुपौरानुजीविना
आज्ञापितं नृपतिना शिल्पी संमान्यताम् इति ॥
अथाभिभूय प्रभया सुप्रभाम् अचिरप्रभाम्
तिष्ठन्तीम् अम्बरे ऽपश्यद् देवताम् अवनीश्वरः ॥
ततश् चित्रीयमाणं सा तम् अभाषत पार्थिवम्
पूजितैव त्वया यत् त्वां पूज्यं पूजितवत्य् अहम् ॥
विज्ञाप्यं श्रूयतां चेदम् अस्त्य् अहं गुह्यकाङ्गना
गुह्यकाधिपतेर् आप्ता भद्रेति परिचारिका ॥
कदाचिन् नभसा यान्ती सती दृष्टवती सरः
कन्दरायां नगेन्द्रस्य महेन्द्रस्य नभःप्रभम् ॥
तत्र संक्रीडमानं च करेणुकरधारितैः
वीज्यमानं सरसिजैः कान्तारकरियूथपम् ॥
आसीच् च मम तं दृष्ट्वा करामृष्टवशामुखम्
कर्तारो हस्तिशिक्षायां सत्यम् आहुर् इदं यथा ॥
देवदानवगन्धर्व पिशचोरगराक्षसाम्
कन्याः सुजाता दिङ्नागैर् नानासत्त्वास् ततो गताः ॥
ततः सपदि निर्माय हस्तिनीरूपम् आत्मना
मदामोदविभिन्नाम्भस् तद् एवावतरं सरः ॥
सामर्षकरिणीयूथ कटाक्षेक्षितरूपया
प्रीतेन यूथपतिना चिरम् आक्रीडितं मया ॥
अथेन्दुकिरणाकार किरणे ऽरुणसारथौ
स गजः क्षालितकटः कटकं प्राविशद् गिरेः ॥
अहं तु व्यसनसेवा फलम् उत्प्रेक्ष्य दारुणम्
सद्यः कृतनिजाकारा राजराजसभाम् अगाम् ॥
धनदस्योरुम् आलम्ब्य तस्य यूथपतेः करम्
स्मरन्ती ताडयामि स्म चामरेण धनाधिपम् ॥
स कटाक्षेण मां दृष्ट्वा क्रोधविस्फुरिताधरः
त्रासोत्कम्पितदिक्चक्रः कृतवाञ् छापभाजनम् ॥
ध्यायन्त्या हस्तिनं यस्माच् चामरेणाहम् आहतः
त्वम् अवन्तिपतेस् तस्माद् अभव्ये हस्तिनी भव ॥
तत्रोक्तं पूर्णभद्रेण यक्षेणागसि तुच्छके
प्रभुना देवदेवेन मुक्तः शापो महान् इति ॥
श्रुत्वेदं पूर्णभद्रो ऽपि शप्तो यस्मात् त्वम् एतया
शप्तया पीडितस् तस्माद् भव हस्ती महान् इति ॥
शोकदीनमुखाव् आवां दृष्ट्वा वित्तपतेर् अभूत्
करणोत्खातकोपस्य नवनीतनिभं मनः ॥
अब्रवीच् च यदाहं वां स्मरिष्यामि क्वचित् तदा
शापाद् अस्माद् विमोक्ष्येथे विभीतं मा स्म पुत्रकौ ॥
साहं भद्रवती जाता महासेनस्य हस्तिनी
पूर्णभद्रो ऽपि तस्यैव नागो व्यालो नलागिरिः ॥
महासेनस्य भवने परतन्त्रस्य तिष्ठतः
आवयोश् चरितं यत् तत् सर्वं प्रत्यक्षम् एव ते ॥
तदा चापहरन्ती त्वां धनाधिपतिना स्मृता
अहम् अप्रप्य कौशाम्बीं विपन्ना गहने वने ॥
न तथा व्यसनेनासि पीडितस् तेन तादृशा
यथा मयि विपन्नायां प्रियदारः स्त्रियाम् इव ॥
यक्षयोनिम् अवाप्याहं तिर्यग्योनिम् इवाप्सराः
त्वाम् एव शोचितवती सेव शप्तं शतक्रतुम् ॥
आसीच् च मे कदा नाम कथं नाम च भूपतेः
कं नाम च करिष्ये ऽहम् उपकारं मनाग् इति ॥
नीतश् चासि मया स्वप्ने तदा धनपतेः सभाम्
भ्रामितश् च विमानेन सुगर्भस्थसुतो महीम् ॥
भविष्यन्तं च ते पुत्रं मग्नं कस्यांचिद् आपदि
विद्याधरेन्द्रम् उद्धर्ता सुखम् आस्तां भवान् इति ॥
प्राकारस्य ततः खण्डम् अपनीय जगाम सा
यत् तद् भद्रवतीद्वारं कौशाम्ब्यां प्रथितं भुवि ॥
अथाश्रूयन्त पौराणां जल्पितानि गृहे गृहे
सिद्धादेशवचः सत्यं कृतं व्योमचरैर् इति ॥
सीमन्तोन्नयनान्तकर्मविरताव् औत्सुक्यगर्भा पुरी प्रत्यासन्नकरगृहेव तरुणी कृच्छ्रान् निनाय क्षपाम्
शुद्धान्ते च शुकादिपञ्जरवयःकोलाहले ऽपि श्रुते राजा दारकजन्मसंपदघनप्रह्लादम् उत्प्रैक्षत ॥
मूल पाठ: Bṛhatkathāślokasaṃgraha · Edition: the text edited by Felix Lacote (Paris, 1908). It was · Data entry Andreas Bigger · GRETIL (Göttingen) · CC BY-NC-SA 4.0