भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्कथाश्लोकसंग्रह · अध्याय 4

4.1

अथ विद्याधरपतिः काश्यपेनार्युषा पुरः
ऋषिमातुलमित्राणां पृष्टो भार्यागणस्य च ॥

4.2

आयुष्मन् वयम् एते च तपोवित्ताः सपालकाः
त्वत्कथाश्रवणोत्कण्ठ निष्कम्पमनसः स्थिताः ॥

4.3

ऐश्वर्यं दुर्लभं लब्धम् इदम् आयुष्मता यथा
स्वीकृताश् च यथा वध्वस् तथा नः कथ्यताम् इति ॥

4.4

अथ विद्याधरेशस्य पृष्टस्येति तपस्विना
त्रासात् पृथुतराक्षस्य जातम् अच्छायम् आननम् ॥

4.5

अचिन्तयच् च कष्टेयम् आपद् आपतिता यतः
अत्यासन्नो ऽतिचपलः को न दह्येत वह्निना ॥

4.6

इयम् अपि भृशं रक्ता प्रीत्याहम् अनयाहृतः
इदं सचेतनः को नु कथयेद् गुरुसंनिधौ ॥

4.7

शूरो मया हतः शत्रुर् मां शूरः शरणं गतः
इति शूरकथां शूरः कुर्यात् कः शूरसंनिधौ ॥

4.8

अनाख्याने मुनेः शापो महापातकम् अन्यथा
सुलभान्तो वरं शापो दुस्तरं न तु पातकम् ॥

4.9

कृत एव तु गौर्या मे प्रसादः संकटेषु माम्
स्मरेर् इति न च न्याय्यं ताम् अपि स्मर्तुम् ईदृशि ॥

4.10

इति चिन्तितमात्रैव पुरस्ताच् चक्रवर्तिनः
अभाषत महागौरी प्रभोपहतभास्करा ॥

4.11

ऋषिमातुलभार्याणां सुहृदां च सभूभुजाम्
श्रोतुं यद् उचितं यस्य स तच् छ्रोष्यति नेतरः ॥

4.12

इत्य् उक्त्वा वदने तस्य पटूभूत्वा सरस्वती
चरितं कथयाम् आस सा चित्रं चक्रवर्तिनः ॥

4.13

मुनिमातुलमित्राणि राजानो दयिताश् च ये
आख्यायमानं चरितं शृण्वन्त्व् अचलचेतसः ॥

4.14

अस्ति वत्सेषु नगरी कौशाम्बी हृदयं भुवः
संनिविष्टानुकालिन्दि तस्याम् उदयनो नृपः ॥

4.15

मनाग् जनपदस्यास्य नगर्याः पार्थिवस्य च
कथयेयं यदि गुणान् न कथा कथिता भवेत् ॥

4.16

यो हि सप्तार्णवद्वीपां द्रष्टुम् उच्चलितः क्षितिम्
रत्नानि गणयेन् मेरोः कदा द्रष्टा स मेदिनीम् ॥

4.17

तस्माद् अलं प्रसङ्गेन कथाव्यासङ्गकारिणा
कथ्यमानां कथाम् एव शृणुत प्रकृतां मया ॥

4.18

महावरोधनस्यापि भार्याबुद्धिर् द्वये स्थिता
तस्य वासवदत्तायां पद्मावत्यां च भूपतेः ॥

4.19

महाप्रभावा नृपतेः शार्ङ्गपाणेर् भुजा इव
सकाया इव चोपायाश् चत्वारो मित्रमन्त्रिणः ॥

4.20

ऋषभश् च रुमण्वांश् च तथा यौगन्धरायणः
वसन्तकश् चेति स तैः सह कालम् अयापयत् ॥

4.21

कदाचिद् आस्थानगतं नृपं वाणिजदारकौ
जानुस्पृष्टमही पृष्टौ संविज्ञापयताम् इदम् ॥

4.22

देवावयोः पिता यातः सभयं मकरालयम्
सह तेन स पोतेन नागलोकं प्रवेशितः ॥

4.23

ज्येष्ठश् च तनयस् तस्य पितृभक्त्यैव सागरम्
गतस् तत्रैव च गतः सो ऽपि तातगतां गतिम् ॥

4.24

यच् च नो द्रविणं सारं तद् गृहीत्वा प्रजावती
स्थिता न मृग्यमाणापि बहुकृत्वः प्रयच्छति ॥

4.25

तेन देव यदि न्याय्यं पितृद्रविणम् आवयोः
भ्रातृजाया ततः सा नौ व्युत्थिता दाप्यताम् इति ॥

4.26

अथ राजावदत् पह्वां प्रतीहारीं यशोधराम्
दुष्करं कुलनारीभी राजास्थानप्रवेशनम् ॥

4.27

तेन गत्वा गृहं तस्यास् त्वया वाणिजयोषितः
सा यदाह सभायास् तत् समक्षं कथ्यताम् इति ॥

4.28

अथ विज्ञापयाम् आस यातायाता यशोधरा
विज्ञापयति सा यत् तद् आकर्णयितुम् अर्हथ ॥

4.29

सा दूराद् एव मां दृष्ट्वा प्रत्युद्गम्य ससंभ्रमा
स्वाग्तं राजजिह्वाया इत्य् अवोचत् कृतस्मिता ॥

4.30

अथ वेत्रासनासीनां प्रयुक्तार्घादिसत्क्रियाम्
सा माम् आहागमे कार्यम् आर्यया ज्ञाप्यताम् इति ॥

4.31

देवादेशे तु कथिते तयोक्तं पटुलज्जया
आर्ये सर्वम् इदं सत्यं देवरौ मे यद् आहतुः ॥

4.32

किं तु तस्यानयोर् भ्रातुर् विपन्नं वहनं श्रुतम्
वहनस्य पुनः स्वामी विपन्न इति न श्रुतम् ॥

4.33

सांयात्रिकाश् च बहवः श्रुतपोतविपत्तयः
अविपन्ना गृहान् एव श्रूयन्ते पुनर् आगताः ॥

4.34

तथा कदाचिद् अनयोः स भ्राता वहनापदः
विमुक्तः पुनर् आयायान् ममावैधव्यलक्षणैः ॥

4.35

अन्यच् चापन्नसत्त्वाया मासो ऽयं दशमो मम
वर्तते भ्रातृपुत्रो ऽपि कदाचिद् अनयोर् भवेत् ॥

4.36

पुत्रो मे यदि जायेत जीवन् वा पतिर् आपतेत्
ततः स्वीकृतसर्वस्वौ देवरौ मे क्व यास्यतः ॥

4.37

एतन् मनसि कृत्वार्थं द्रव्यं देवरयोर् अहम्
न निक्षिप्तवती शेषम् आर्यया ज्ञाप्यताम् इति ॥

4.38

इति श्रुत्वा महीपालो वाणिजाव् इदम् अब्रवीत्
कुटुम्बाचारचतुरा युक्तम् आह कुटुम्बिनी ॥

4.39

भ्रातृव्ये भवतोर् जाते भ्रातुर् आगमने ऽथ वा
उभयोर् नोभयोर्वापि युक्तं भोक्ष्यामहे तदा ॥

4.40

अथानिष्ठितए एवास्मिन्न् आलापे पूरिताम्बरः
तूर्यगर्जितसंभिन्नस् तारः कलकलो ऽभवत् ॥

4.41

सहासया च सहसा वासोवासादिहस्तया
वणिग्गणिकया राजा व्यज्ञाप्यत वियातया ॥

4.42

वर्धतां नश् चिरं देवो दिष्ट्या प्रकृतिसंपदा
वणिजो भ्रातृजायाया जातः पुत्रो ऽनयोर् इति ॥

4.43

चित्रीयमाणचित्तेन चिन्तितं च महीभुजा
अहो पुत्रस्य माहात्म्यं प्रत्यक्षम् अनुभूयते ॥

4.44

कुटुम्बिनः पुत्रनाम्नि जाते शोणितबिन्दुके
हर्षविभ्रान्तचित्तानां वणिजां पश्य डम्बरम् ॥

4.45

वणिजो द्रविणस्यायम् अतः पालक इत्य् अमी
समं हर्षविषादाभ्यां मित्रामित्रसमा गताः ॥

4.46

अस्माकं तु धनस्यास्य मेदिनीमण्डलस्य च
अवसाने विना पुत्रात् पालकः को भविष्यति ॥

4.47

इति पुत्रगतां चिन्ताम् उपासीनस्य भूपतेः
दीर्घश्वाससहायस्य दिवसाः कतिचिद् ययुः ॥

4.48

तम् एकदा सुखासीनं सेनापतिर् अभाषत
यात्रा मृगाजिनोद्याने त्वद्दृष्ट्या मण्डताम् इति ॥

4.49

गतश् च दृष्टवांस् तत्र तत्र तत्र निवेशिताः
विशालाश् चित्रशालाः स चित्रन्यस्तनराधिपाः ॥

4.50

अपृच्छच् च रुमण्वन्तम् अयं कः कः क्षितीश्वरः
ये चैतान् अनुतिष्ठन्ति ते के के पुरुषा इति ॥

4.51

सो ऽब्रवीद् एष सगरः कीर्तिलङ्घितसागरः
षष्त्या पुत्रसहस्राणां शूराणां परिवारितः ॥

4.52

अयं दशरथो राजा वृतो रामादिभिः सुतैः
अयं पाण्डुर् अमी चास्य तनयाः पञ्च पाण्डवाः ॥

4.53

एवमादीन् असौ दृष्ट्वा स्वर्गिणः पुत्रिणो नृपान्
विचिन्तश् चिन्तयाम् आस चित्रां यात्राम् अचिन्तयन् ॥

4.54

पुण्यवन्त इमे भूपाः पुत्रवन्तो दिवं गताः
मन्दपुण्येन यातव्यं मन्ये पुंनरकं मया ॥

4.55

स मृगाजिनयात्रायाः परीतः पुत्रचिन्तया
निवृत्यापश्यद् आवन्त्यां मन्दिरोद्यानसेविनीम् ॥

4.56

स्वकराम्बुरुहछाया संलोहितितपल्लवम्
ताम्राशोकलताप्रान्तम् अवलम्ब्य व्यवस्थिताम् ॥

4.57

अनादराद् अनाहितैर् माल्यचन्दनभूषणैः
उद्वेगम् इव शंसन्तीं म्लानाननसरोरुहाम् ॥

4.58

उपगम्याब्रवीच् चैनां किम् अशोकः सशोकया
वन्द्येत लब्धविजयो रक्तो बालो निषेव्यते ॥

4.59

साब्रवीत् सहसायात भर्तृकारितसंभ्रमा
महाराज कुतः शोको नामापि तव गृह्यताम् ॥

4.60

किं तु पारावतीम् एनां चञ्च्वा चञ्चुषु तण्डुलान्
आवपन्तीं स्वशावानाम् ईक्षे पुत्रवतीम् इति ॥

4.61

आसिच् च नृपतेश् चिन्ता यथाहं पुत्रचिन्तया
अनन्तया संततया तथेयम् अपि खिद्यते ॥

4.62

अथ तत्र क्षणं स्थित्वा गत्वा पद्मावतीगृहम्
अदृष्ट्वा तत्र तां तस्याः पृष्टवान् परिचारिकाम् ॥

4.63

क्व देवीत्य् उक्तयाख्यातम् उद्याने पुत्रकस्य सा
माधव्या सहकारस्य विवाहम् अनुतिष्ठति ॥

4.64

श्रुत्वेति वत्सराजस्य बुद्धिर् आसीद् अहो मम
भार्याणां दिवसा यान्ति सह पुत्रमनोरथैः ॥

4.65

लोकस्यानिच्छतः पुत्रैः कीर्णगृहकरोदिभिः
फलकेषु कृताक्रन्दैर् अवकाशो न लभ्यते ॥

4.66

अस्माकम् इच्छताम् एकः कुलजीवितकारणम्
न लभ्यते सुतः पश्य वैपरीत्यं विधेर् इति ॥

4.67

निर्याय स ततः स्वस्मिन् मन्दिरोद्यानमण्डपे
अनागतागतसुहृत् परिवार उपाविशत् ॥

4.68

अपृच्छत् सुहृदस् तत्र भवतां जीवितौषधम्
मूलं कुलतरोः कस्य कियन्तः पुत्रका इति ॥

4.69

तेषु निष्प्रतिवाक्येषु किंचिन् नमितमूर्धसु
वसन्तकः परिहसन् प्रणयित्वाद् अभास्.अत ॥

4.70

स्वामिभक्ता वयं देव स्वामिवृत्तानुवर्तिनः
यावन्तः स्वामिनः पुत्रास् तावन्तो ऽस्माकम् अप्य् अतः ॥

4.71

तम् अवोचत् समीपस्थः शनैर् यौगन्धरायणः
अप्रस्तावे ऽपि भवतो मुखम् एतद् अनावृतम् ॥

4.72

पुत्रचिन्तारुजार्तस्य कुर्वाणः शल्यघट्टनम्
नन्व् अनेकगुणां भर्तुर् उत्पादयसि वेदनाम् ॥

4.73

तस्माद् एवंविधे काले भृत्यवृत्तविदा त्वया
स्वामिचित्तानुकुलैव वृत्तिर् आस्थीयताम् इति ॥

4.74

सो ऽब्रवीत् पुत्रचिन्तैनं यदि सत्येन पीडयेत्
ततः पिङ्गलिकैवेयं देवम् आराधयेद् इति ॥

4.75

अथेदं नीयकैर् उक्तं युक्तं श्रुत्वा महीभुजा
यासौ पिङ्गलिका सा नः पुत्रिणी कथ्यताम् इति ॥

4.76

अनन्तरं च ढौकित्वा जयशब्दपुरःसरम्
पुत्रवान् भव देवेति ब्राह्मणी तम् अवर्धयत् ॥

4.77

अभिवाद्य महीपलस् ताम् अपृद्धद् अथार्यया
आगम्यते कुतः के वा तवामी बालका इति ॥

4.78

गृहाद् वासवदत्ताया राजन्न् आगम्यते मया
बालकाश् च सुता एते ममेति कथितं तया ॥

4.79

अथ ताम् अब्रवीद् राजा चित्रम् एतत् त्वयोदितम्
न हि भर्त्रा न च सुतैर् भवितव्यं तवेदृशैः ॥

4.80

त्वं लेखाभिः पतिघ्नीभिः सकलैव करालिता
चिरप्रोषितकान्ताया गृहभित्तिर् इव स्त्रियः ॥

4.81

न च पत्या विना पुत्रैर् भवितव्यं यतः स्त्रियः
तस्माद् इदं महच् चित्रं स्फुटं नः कथ्यताम् इति ॥

4.82

अथावोचद् असौ देव यथात्थ न तद् अन्यथा
महती तु कथा श्रोतुम् इच्छा चेच् छ्रूयताम् इयम् ॥

4.83

अस्त्य् अवन्तिषु विप्राणाम् अधिवासः कपिष्ठलः
अग्निकुण्डचितसीमा स्फीतगोधूमगोकुलः ॥

4.84

उवास ब्राह्मणस् तत्र सोमदत्तस् त्रयीधनः
यस्यान्तेवासिभिर् व्याप्ता वसुधा वेदवेदिभिः ॥

4.85

पत्नी वसिष्ठकल्पस्य वासिष्ठी तस्य सुव्रता
वसिष्ठपत्नीम् अपि या साधुवृत्ताम् अलज्जयत् ॥

4.86

तस्य तस्याम् अपुत्रस्य काले महति गच्छति
उत्पन्नोल्केव संध्यायां सुता लोचनदुर्भगा ॥

4.87

सोमदत्तस् तु तां दृष्ट्वा स्त्रीलक्षणविशारदः
पतिपुत्रधनैर् हीनाम् आदिदेश भविष्यतीम् ॥

4.88

अनर्थानां बलीयस्त्वाद् अचिरेणैव दुर्भगा
धूमकेतुशिखेवोच्चैः परुषा सा व्यवर्धत ॥

4.89

भिक्षाम् आच्छिद्य शिष्येभ्यो बुभुक्षाक्षपितत्रपा
अप्रक्षालितहस्तैव तत्समक्षम् अभक्षयत् ॥

4.90

दुर्भगत्वाद् विरूपत्वात् कलिकारितया च ताम्
न कश्चिद् वरयाम् आस वरः प्राप्तवराम् अपि ॥

4.91

न च तां सोमदत्तो ऽपि कस्मैचिद् अशुभाम् अदात्
मा स्म युज्यत दुःखेन प्राप्यैनां निन्दिताम् इति ॥

4.92

ग्राम्याग्निनेव संकार कूटिका साप्य् अदह्यत
सर्वंकषप्रभावेन प्रबलेनाङ्गजन्मना ॥

4.93

कदाचित् कश्चिद् आगत्य वाचाटो बटुर् उच्चकैः
मस्तकस्थो भयकरः सोमदत्तम् अभाषत ॥

4.94

उपाध्यायस्य दुहिता माम् आक्रुध्य निरागसम्
इष्टकालोष्टकैर् हन्ति तेनासौ वार्यताम् इति ॥

4.95

सोमदत्तस् ततः क्रुद्धः सुतां चण्डम् अभर्त्सयत्
उल्के पिशाचिके गच्छ शीघ्रं मम गृहद् इति ॥

4.96

सा तु तत् परुषं श्रुत्वा मनस्विजनदुःश्रवम्
स्मरपीडासहत्वाच् च मरणाय मनो दधे ॥

4.97

अरण्यानिं ततो गत्वा मरणोपायकाङ्क्षया
अद्राक्षित् क्वचिद् उद्देशे प्रासादं दैत्यघातिनः ॥

4.98

तस्यादूरे च सरसीं कूजत्कुररसारसाम्
गुञ्जन्मधुकरश्रेणीम् अनुमातव्यरोधसम् ॥

4.99

आसीच् चास्या मया तावन् मर्तव्यम् इति निश्चितम्
उपायेषु तु संदेहस् तत्रोपायो ऽयम् उत्तमः ॥

4.100

देवं माधवम् अर्चन्ती कमलेन्दीवरादिभिः
पङ्कजावयवाहारात् क्षीणा त्यक्ष्यामि जीवितम् ॥

4.101

कृतपुण्या मृता स्वर्गं यास्यामि निरुपद्रवम्
नरकं तु न यास्यामि स्त्रीमृत्युमृतसंकुलम् ॥

4.102

साकरोद् इति निश्चित्य यथासंकल्पम् आदृता
रात्रौ च बद्धपर्यङ्का देवं माधवम् अस्मरत् ॥

4.103

मासमात्रे गते ऽपश्यत् स्वप्नान्ते मधुसूदनम्
वरं वरय पुत्रीति भाषमाणं मुदायुतम् ॥

4.104

साथ व्यज्ञापयत् प्रह्वा देवं विरचिताञ्जलिः
मरणं मे जगन्नाथ प्रसादः क्रियताम् इति ॥

4.105

देवस् ताम् अवदन् नेदं देवताराधनात् फलम्
प्राणिहत्याविपाको ऽयम् आत्महत्या च निन्दिता ॥

4.106

तस्माद् अन्यं वरं ब्रूहि पतिपुत्रधनाधिकम्
येन हीनासि वैराग्यान् निर्याता स्वगृहाद् इति ॥

4.107

साब्रवीत् कृतपुण्याभिः पत्यादिः स्त्रीभिर् आप्यते
अहं त्व् आचरितापुण्या दुःखैर् एव विभाविता ॥

4.108

तेनालं पतिपुत्रादि चिन्तया फलहीनया
मृत्युना शान्तिम् इच्छामि सा मे संपाद्यताम् इति ॥

4.109

सो ऽब्रवीत् सत्यम् एवेदं किं तु जन्मान्तरे त्वया
यवाढकः पितुर् गृहे ब्राह्मणायोपपादितः ॥

4.110

स च जातश् चतुर्वेदः स्वपुण्यैर् इह जन्मनि
सुरूपः साधुवृत्तश् च स ते भर्ता भविष्यति ॥

4.111

स च त्वाम् उर्वशीरूपाम् एको द्रक्ष्यति नापरः
क्रीतो यवाढकेन त्वम् इति यावन् न वक्ष्यसि ॥

4.112

जन्मान्तरे च पूर्वस्मिन् भक्षयन्त्यास् तिलास् तव
अष्टौ निपतिता वह्नाव् अञ्जलेर् विरलाङ्गुलेः ॥

4.113

ते ते पुत्रा भविष्यन्ति पुत्रि चन्द्रनिभाननाः
मरणाद् दारुणात् तेन चित्तम् आवर्त्यताम् इति ॥

4.114

इत्य् उक्त्वान्तर्हिते देवे प्रतिबुद्धा ददर्श सा
सशिष्यवर्गं पितरं तद्गवेषिणम् आगतम् ॥

4.115

तपःकृशां सकरुणः पिता कारितपारणाम्
श्राम्यन्तीम् अनयद् गेहं विश्राम्यन्तीं तरौ तरौ ॥

4.116

या सा पिङ्गलिका देव देवम् आराध्य केशवम्
वरं लब्धवती तस्मात् तां माम् एव निबोध ताम् ॥

4.117

एकदा तु चतुर्वेदः सान्तेवासी यदृच्छया
गृहम् अस्माकम् आयातः कृतातिथ्यो ददर्श माम् ॥

4.118

मम तातं तु सो ऽपृच्छद् ब्रह्मन् कस्येयम् आत्मजा
कान्तिनिन्दितचन्द्राभा युक्तं चेत् कथ्यताम् इति ॥

4.119

ममेति कथिते पित्रा मां प्रार्थयत स द्विजः
पित्रा दत्तं च विधिवन् मुदितः परिणीतवान् ॥

4.120

ततश् चारभ्य दिवसात् स सिद्ध इव किंकरः
न कांचिन् न करोति स्म ममाज्ञां निन्दिताम् अपि ॥

4.121

अमी चाष्टौ सुतास् तस्माद् अचिरेणैव दुर्लभाः
लब्धा मया सुता ये ऽस्य प्रसादाल् लोकधारिणः ॥

4.122

इति काले गते भर्ता मां कदाचिद् अभाषत
पृष्ठं दुःखायमानं मे चण्डि संवाह्यताम् इति ॥

4.123

अनुक्तपूर्ववचनम् उक्तवन्तम् अथाब्रुवम्
किम् अहं भवता क्रीता पृष्ठसंवाहिकेति तम् ॥

4.124

सो ऽब्रविन् नीचकैस् त्रासाद् अङ्गुष्ठाग्रेण गां लिखन्
अहं वा किं त्वया क्रीतो येन प्रेष्यत्वम् आगतः ॥

4.125

ततो विस्मृत्य समयं भर्तारं रोषदूषिता
क्रीतो यवाढकेनासि मयेत्य् अप्रियम् अब्रुवम् ॥

4.126

असाव् अपि च मां दृष्ट्वा सहजाकारवञ्चिताम्
संनिकर्षाद् अपक्रम्य संभ्रान्त इदम् अब्रवीत् ॥

4.127

अपि कासि कुतश् चासि केनासि विकृता कृता
कच्चित् पिङ्गलिका नासि कश् च नाम यवाढकः ॥

4.128

इति तेनानुयुक्ताहं यथावृत्तम् अवर्णयम्
सो ऽपि संजातनिर्वेदो न जाते क्व पलायितः ॥

4.129

तस्मिन् देशान्तरं याते ताते च त्रिदशालयम्
पितृभर्तृविहीनाहम् एनं देशम् उपागता ॥

4.130

स्वदेशप्रीतियोगाच् च देव्या वसवदत्तया
सपुत्रानुगृहीता अस्मि भक्ताच् छादनरक्षणैः ॥

4.131

तेन देवेन यत् पृष्टं कुतस् ते बालका इति
एवम् एते मया लब्धास् तुष्टान् नारायणाद् इति ॥

4.132

इति हृष्तमतिर् निशाम्य तस्याश् चरितं पुत्रसमूहलाभहेतुम्
सचिवैः सहितश् चकार राजा सुतसंप्राप्तिफलं क्रियाविचारम् ॥

मूल पाठ: Bṛhatkathāślokasaṃgraha · Edition: the text edited by Felix Lacote (Paris, 1908). It was · Data entry Andreas Bigger · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc