भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्कथाश्लोकसंग्रह · अध्याय 3

3.1

अथावन्तिषु जन्तूनां क्षुद्राणाम् अपि केनचित्
जन्यते स्म न संतापः पार्थिवे ऽवन्तिवर्धने ॥

3.2

एवं बहुषु यातेषु वासरेषु महीपतिः
कदाचिद् वाहयित्वाश्वान् निवृत्तो दृष्टवान् क्वचित् ॥

3.3

तमालालम्बिदोलान्तर् विलसन्तीं कुमारिकाम्
कालिन्दीह्रदसंक्रान्तां लोलाम् इन्दुकलाम् इव ॥

3.4

उत्तरीयान्तसंसक्तम् आकर्षन्तीं शिखण्डकम्
निर्मुच्यमाननिर्मोकं भोगं भोगवधूम् इव ॥

3.5

दृश्यमानस् तया राजा तां च पश्यन् पुनः पुनः
आवृतो हयशालाभिः स्वं विवेश निवेशनम् ॥

3.6

तत्र संक्षिप्तम् आसेव्य मज्जनादि रहोगतः
दोलायमानहृदयो दोलाम् एव व्यचिन्तयत् ॥

3.7

मन्दाशनाभिलाषस्य मन्दनिद्रस्य भूपतेः
मन्दधर्मार्थचिन्तस्य दिवसाः कतिचिद् गताः ॥

3.8

कदाचिद् अथ वेलायां मन्दरश्मौ दिवाकृति
क्षुभितानाम् इवाश्रौषीत् स निर्घोषम् उदन्वताम् ॥

3.9

दिदृक्षुः कारणं तस्य समुद्भूतकुतूहले
प्रासादतलम् अरोहद् अन्तःपुरचरावृतः ॥

3.10

नृमातङ्गतुरंगोष्ट्र गवाजैडकरासभान्
संप्रमर्दन्तम् अद्राक्षीन् मातङ्गं संघमर्दनम् ॥

3.11

उन्मूलितमहावृक्षश् चूर्णितप्रांशुमंदिरः
भृङ्गमालापरीवारः स ययौ प्रति पक्षणम् ॥

3.12

पानप्रसक्तमातङ्ग मण्डलप्रहितेक्षणम्
मातङ्गराजम् अद्राक्षीन् मातङ्गग्रामणीस् ततः ॥

3.13

आदिदेश समीपस्थां कन्यकाम् अविलम्बितम्
हस्तिकीटो ऽयम् उद्दामो दुर्दान्तो दम्यताम् इति ॥

3.14

कराम्भोरुहसंस्पर्श सुभगेनाथ साम्भसा
आरात् सिषेच करिणं करे कुञ्चितपुष्करे ॥

3.15

अथ संरम्भसंहारात् संवेल्लितकरः करी
ववन्दे चरणौ तस्याः संस्पृश्य शिरसा महीम् ॥

3.16

ताम् अवन्तिपतिर् दृष्ट्वा दृष्टपूर्वां तथागताम्
चित्रीयमाणहृदयश् चिन्तयाम् आस चेतसा ॥

3.17

किं चित्रं यद् अयं नागः सहरागः सचेतनः
वशीकृतः शरीरिण्या वशीकरणविद्यया ॥

3.18

इयं हि वीतरागादीन् मुनीन् अपि निरीक्षिता
वशीकुर्याद् विशन्ती च चलयेद् अचलान् अपि ॥

3.19

अथेन्द्रायुधरागेण सोत्तरीयेण दन्तयोः
बद्धां दोलाम् अधिष्ठाय नागं याहीत्य् अचोदयत् ॥

3.20

ततो मन्दतराभ्यासैश् चरणैः संघमर्दनः
अभिस्तम्भम् अगाद् वीत भयपौरजनावृतः ॥

3.21

तयोक्तम् आतपश् चण्डः संतापयति माम् इति
अशोकपल्लवैश् छायाम् अथ तस्याश् चकार सः ॥

3.22

बन्धयित्वा गजं स्तम्भे प्रासादतलवर्तिनम्
वन्दित्वा च महीपालं मातङ्गी पक्षणं ययौ ॥

3.23

मातङ्गीवन्दनापूतम् आत्मानं प्रेक्ष्य पार्थिवः
केयं कस्य कुतो वेति पृच्छति स्म सुरोहकम् ॥

3.24

स तस्मै कथयाम् आस देव न ज्ञायते कुतः
सहसैवेदम् आयातं परुन् मातङ्गपक्षणम् ॥

3.25

ऋद्धिमन्तो ऽत्र मातङ्गास् तेषाम् उत्पलहस्तकः
ग्रामणीस् तस्य कन्येयं सुता सुरसमञ्जरी ॥

3.26

इति श्रुत्वा प्रविश्यान्तर् ध्यायन् सुरसमञ्जरीम्
स्वदेहं यापयाम् आस पित्तज्वरचिकित्सितैः ॥

3.27

सुरोहकस् तु तं दृष्ट्वा मातङ्गीदूषिताशयम्
आख्यद् अङ्गारवत्यै स तन्नप्तुर् वृत्तम् ईदृशम् ॥

3.28

सा तु स्थित्वा क्षणं तूष्णीं विचारस्तिमितेक्षणा
स्मितापगमितत्रासं सुरोहकम् अभाषत ॥

3.29

मातङ्गरूपधारिण्यो यथान्या दिव्ययोषितः
तथेयम् अपि केनापि निमित्तेनागता महीम् ॥

3.30

क्व संघमर्दनो व्यालः क्व च तद्दन्तलम्बनम्
व्यापारो ऽयम् अदिव्यस्य प्रेक्षितः केन कस्यचित् ॥

3.31

अथ वालं विमर्शेन स्वयं सबन्धिनो गृहम्
कन्यां वरयितुं यामि नात्मतुल्यास्ति दूतिका ॥

3.32

साथ प्रवहणारूढा वृद्धविप्रपुरःसरा
गत्वा पक्कणमध्यस्थं ददर्शोत्पलहस्तकम् ॥

3.33

दूराद् एव स दृष्ट्वा ताम् आत्तकर्करवेणुकः
सह मातङ्गसंघेन ववन्दे दूरम् उत्सृतः ॥

3.34

अथाङ्गारवती यानाद् अवतीर्णा तम् अब्रवीत्
अहं त्वां द्रष्टुम् आयाता त्वम् अप्य् एष पलायसे ॥

3.35

कार्यं मे महद् आसन्नम् आधीनं चापि तत् त्वयि
दूरोत्सरणम् उत्सृज्य तेन ढौकस्व माम् इति ॥

3.36

तम् उत्सारितमातङ्गं सासन्नासीनम् अब्रवीत्
मन्नप्त्रे दीयतां राज्ञे राज्ञी सुरसमञ्जरी ॥

3.37

चाण्डालीस्पर्शनं राजा नार्हतीत्य् एवमादिभिः
न च ग्रामेयकालापैस् त्वं मां बाधितुम् अर्हसि ॥

3.38

यश् च दिव्याभिमानस् ते तत्रापीदं ममोत्तरम्
ममापि भद्र दौहित्रश् चक्रवर्ती भवादृशाम् ॥

3.39

इत्य् अङ्गारवतीवाक्यम् आकर्ण्योत्पलहस्तकः
अनुक्तोत्तर एवास्यै तथेति प्रतिपन्नवान् ॥

3.40

अथ प्रच्छन्नम् आरोप्य युग्यं सुरसमञ्जरीम्
मृतसंजीविनी नप्तूर् असाव् ओषधिम् आनयत् ॥

3.41

परिणीय तु मातङ्गीम् अन्तर् अन्तःपुराद् बहिः
स बुद्ध्यापि न याति स्म प्रत्यक्षम् अपि तां स्मरन् ॥

3.42

इयम् एवास्ति तत्त्वेन मिथ्यान्यद् इति चिन्तयन्
गन्धर्वनगराकारं स संसारम् अमन्यत ॥

3.43

गमयन् दिवसान् एवम् एकदा सह कान्तया
स प्रासादगतो ऽपश्यत् पक्षणं निर्जनंगमम् ॥

3.44

तं च दृष्ट्वा त्रियामान्ते मन्दं सुरसमञ्जरी
क्रन्दन्ती परिमृज्याश्रुम् अनुयुक्तेति भूभृता ॥

3.45

किं शून्यं पक्कणं दृष्ट्वा रुद्यते सुन्दरि त्वया
उतान्यद् अस्ति दुःखस्य कारणं कथ्यताम् इति ॥

3.46

साब्रवीत् किं ममाद्यापि पक्कणेन बवद्गतेः
किं तु कारणम् अस्त्य् अन्यद् भीषणं तन् निशाम्यताम् ॥

3.47

सिद्धमातङ्गविद्यो ऽयं पिता मम महर्2द्धिकः
सप्तवर्णपुरे पूर्वं वायुमुक्ते पुरे ऽवसत् ॥

3.48

तत्र कालः श्वपाको ऽस्ति विद्याधरगणाधमः
इप्फको नाम तस्यैव पित्राहं च प्रतिश्रुता ॥

3.49

तातस्य वियतायातः कदाचिद् अथ मारुतः
रजःपिशङ्गभृङ्गालीम् अहरत् कुसुमस्रजम् ॥

3.50

सा तु संध्याम् उपासीनं गङ्गारोधसि नारदम्
स्थाणुस्थिरं भुजंगीव विलोला पर्यवेष्टयत् ॥

3.51

व्युत्थितश् च समाधेस् तं दृष्ट्वा लोहितलोचनः
नारदश् चण्डकोपत्वाद् उच्चैर् इदम् अभाषत ॥

3.52

शरीरोपहता माला येनेयं मालभारिणा
क्षिप्ता मयि मनुष्येषु चण्डालः स भवत्व् इति ॥

3.53

सो ऽथ शापोपतप्तेन पित्रा विज्ञापितो मम
तीव्रस्य ब्रह्मशापस्य प्रतीकारो भवत्व् इति ॥

3.54

अथ कृपाम्बुशमित क्रोधज्वालाकदम्बकः
नारदाग्निर् उवाचेदं म्लानम् उत्पलहस्तकम् ॥

3.55

न शक्यः प्रतिसंहर्तुं शापवह्निर् मयाप्य् अयम्
उत्सृष्टः कृतपुङ्खेन धानुष्केणेव सायकः ॥

3.56

किं त्व् अनिच्छाशमाः शापाः प्राज्ञैर् अभिमुखा गताः
स्वल्पेनापि हि वञ्च्यन्ते तेन त्वम् अपि वञ्चय ॥

3.57

परिणेष्यति गौपालिर् भवतस् तनयां यदा
तदा त्वं दारुणाद् अस्माद् अस्मच्छापाद् विमोक्ष्यसे ॥

3.58

इति शापे वरं लब्ध्वा वयं त्वत्पादपालिताः
उषिता वर्जिता दुःकैर् अहोरात्रसमां समाम् ॥

3.59

साहं मुनेः प्रसादेन जाता त्वत्पादपालिका
तेनापि शान्तशापेन स्वर्गाद् अस्मान् निराकृता ॥

3.60

स कदाचिद् इतो दृष्ट्वा गतम् उत्पलहस्तकम्
मत्कृते त्वाम् अपि क्रूर इप्फकः पीडयेद् इति ॥

3.61

निर्मातङ्गम् इदं दृष्ट्वा मया पितृनिवेशनम्
चण्डालभयशङ्किन्या रुदितं निःसहायया ॥

3.62

अस्ति चात्रापि सुकर उपायः स तु दुष्करः
महाराजस्य साध्यत्वात् प्रतिकूलो हि पार्थिवः ॥

3.63

यदि विज्ञापयन्तीं मं नान्यथा वक्तुम् इष्यसि
ततो विज्ञापयिष्यामि कर्तव्ये तु भवान् प्रभुः ॥

3.64

अथोक्तं जनराजेन यद् इच्छसि तद् उच्यताम्
मुक्त्वान्यस्त्रीकथां भीरु सर्वं संपादयामि ते ॥

3.65

अथानन्दजनेत्राम्बु सिक्ताननपयोधरा
अतिप्रसाद इत्य् उक्त्वा अब्रवीत् सुरसमञ्जरी ॥

3.66

विद्याधरादिराजेन व्यवस्था स्थापिता यथा
हिंसितव्यः सदोषो ऽपि न अन्तःपुरगतो नृपः ॥

3.67

इतीदं नृपतिः श्रुत्वा ताम् उवाच कृतस्मितः
अनुग्रहे ऽपि याच्ञेति यद् इदं तद् इदं ननु ॥

3.68

ततश् चारभ्य दिवसाद् अहर्निशम् अवन्तिपः
अमावास्यां शशीवासीज् जनदुर्लभदर्शनः ॥

3.69

कदाचिद् अथ निर्यान्तीं पुरीम् उदकदानकम्
श्रुत्वा हर्म्यावलीशेषां राजाप्य् आसीत् समुत्सुकः ॥

3.70

शैशवप्राप्तराज्यत्वाद् इन्द्रियानीतमानसः
तदाल्पदर्शी समयं विसस्मार स तं ततः ॥

3.71

प्रसुप्ताम् एव दयिताम् आरोप्य शिबिकां निशि
तटं शिवतडागस्य चित्रवृत्तान्तम् आनयत् ॥

3.72

ततस् तन् मकराकीर्णं पोतेनेव महार्णवम्
प्लवेन व्यचरत् सार्धं भार्यया वीतनिद्रया ॥

3.73

अनुज्ञातावगाहांश् च पश्यन् पौरकुमारकान्
सो ऽपश्यद् दयितां भीतां मा भैषीर् इति चाब्रवीत् ॥

3.74

सावदत् पालिता येन प्रजाः सर्वा न बिभ्यति
तस्यैवोरसि तिष्ठन्ती बिभेमीति न युज्यते ॥

3.75

किं तु यात्रानुभूतेयम् इदानीं निष्प्रयोजनम्
इहासितम् अहं मन्ये तस्माद् आवर्त्यताम् इति ॥

3.76

यात्रापहृतचेतस्त्वात् तद्वाक्यम् अवकर्णयन्
सभार्यं बद्धम् आत्मानम् ऐक्षतावन्तिवर्धनः ॥

3.77

क्रन्दताम् अथ पौराणां पश्यतां चोर्ध्वचक्षुषाम्
इप्फकः स्फुरितक्रोधः समुत्क्षिप्य जहार तम् ॥

3.78

अथाङ्गारवतीं मूढां पौत्रापहरणश्रवात्
ह्लादयाम् आसतुर् वाक्यैः सचिवौ सजलानिलैः ॥

3.79

सा ताव् उवाच संभ्रान्ता गत्वासितगिरिं लघु
पालकः श्राव्यतां सूनोर् वृत्तान्तम् इति तौ गतौ ॥

3.80

काश्यपप्रमुखांस् तत्र नमस्कृत्य च तापसान्
वन्दितायाचचक्षाते पालकाय हृतं सुतम् ॥

3.81

अथ कण्ठगतप्राणं काश्यपः समजीवयत्
स्वन्तः खल्व् एष वृत्तान्त इति वाक्यामृतेन तम् ॥

3.82

संदेहश् चेन् निरीक्षस्व नभःप्रस्थापितेक्षणः
आयान्तीम् एव जानीहि पुत्रवार्त्तां शिवाम् इति ॥

3.83

अथागच्छन्तम् ऐक्षन्त नभःप्रहितदृष्टयः
चकासदसिचर्माणं दिवि दिव्यं तपस्विनः ॥

3.84

सो ऽवतीर्य मरुन्मार्गाद् अस्वतन्त्रीकृतेप्फकः
सह चावन्तिनाथेन काश्यपादीन् अवन्दत ॥

3.85

वधूवन्दितपादे च चेतनावति पालके
विद्याधरः कथितवान् वृत्तान्तं मुनिसंनिधौ ॥

3.86

नरवाहनदत्तस्य विद्याधरपतेः प्रियम्
मां दिवाकरदेवाख्यं जानीत परिचारकम् ॥

3.87

सो ऽहं हिमवतो गच्छन् नभसा मलयाचलम्
उपरिष्टाद् अवन्तीनां चण्डालं दृष्टवान् इमम् ॥

3.88

अपहृत्यापगच्छन्तं सदारं मेदिनीपतिम्
इप्फकं नाम मातङ्गं विद्याधरकुलाधमम् ॥

3.89

मुञ्चेति च मयोक्तः सन् यदायं न विमुक्तवान्
तदा युद्धेन निर्जित्य प्राप्तितश् चक्रवर्तिनम् ॥

3.90

अनुयुक्तश् च तेनायम् अयं राजा हृतस् त्वया
किम् इत्य् अवोचद् एतेन यन् मे दारा हृता इति ॥

3.91

अथ भर्त्राहम् आदिष्टः संयम्य प्राप्यताम् अयम्
सभासद्भिः सभां सद्भिः काश्यपाद्यैर् अधिष्ठिताम् ॥

3.92

व्यवहारे विनिर्जित्य लब्धा सुरसमञ्जरीम्
वर्धमानकमालां वा निर्जितो ऽयं सरासभाम् ॥

3.93

अहम् अप्य् आर्युषं द्रष्टुं काश्यपं स्वं च मातुलम्
आगन्ता स्वः प्रतिज्ञातं तेषाम् आगमनं मया ॥

3.94

ततः संमान्य राजानं दिव्यैर् अम्बरभूषणैः
आलिङ्ग्य च ससौहार्दं मया सह विसृष्टवान् ॥

3.95

स चायम् इप्फको बद्धः सदारश् चैष भूपतिः
चक्रवर्ती च वो द्रष्टुम् आगन्ता सावरोधनः ॥

3.96

ते दिवाकरदेवस्य श्रुत्वेदम् ऋषयो वचः
हर्षाश्रुसिक्ततनवः कृच्छ्राद् अक्षपयन् क्षपाम् ॥

3.97

अथ प्रातर् नभोव्यापि निरभ्रे व्योम्नि गर्जितम्
आकर्ण्य मुनयो ऽपृच्छन् किम् एतद् इति खेचरम् ॥

3.98

सो ऽब्रवीद् एष निर्घोषो दुन्दुभीनां विमानिनाम्
विमानगर्भवर्तित्वात् श्रूयते गर्जिताकृतिः ॥

3.99

अयम् आयाति नः स्वामी विद्याधरपतीश्वरः
गर्जद्दुन्दुभिजीमूतो नभसा दृश्यताम् इति ॥

3.100

रोहितेन्द्रधनुर्विद्युत् बलाकाद्युतिपिञ्जरम्
अम्भोदानाम् इव व्याप्त सकलाशानभस्तलम् ॥

3.101

नानारत्नप्रभाजाल करालम् अथ तापसैः
आराद् आयाद्विमानानां दिवो वृन्दम् अदृश्यत ॥

3.102

अवतीर्याश्रमद्वारि विमानं चक्रवर्तिनः
स्थितम् अन्यानि शैलस्य कन्दरासानुमूर्धसु ॥

3.103

विद्याधराधिराजस्य विमानं कमलाकृति
पद्मरागपलाशानां षड्विंशत्या परिष्कृतम् ॥

3.104

स्वयं गरुडपाषाण कर्णिकामध्यम् आस्थितः
स्थितास् तस्य पलाशेषु भार्याश् चित्रविभूषणाः ॥

3.105

सभार्याकरिणीयूथः स विद्याधरकुञ्जरः
सभां कमलिनीम् आगात् फुल्लाननसरोरुहाम् ॥

3.106

अभिवाद्य ततस् तत्र काश्यपप्रमुखान् मुनीन्
हर्षातिशयनिश्चेष्टं ववन्दे मातुलं मुनिम् ॥

3.107

भर्तारम् अनुयान्तीभिर् अनुज्येष्ठतपस्विनः
देवीभिर् वन्दितास् तस्य श्वशुरस् तदनन्तरम् ॥

3.108

अनुज्ञातासनासीनं काश्यपश् चक्रवर्तिनम्
प्रसृष्टानन्दनेत्राम्बुर् अब्रवीद् गद्गदाक्षरम् ॥

3.109

अप्राप्तेष्टार्थसंपत्ति वाञ्छाशीर् अभिधीयते
आयुष्मता तु तत् प्राप्तम् आशिषां यद् अगोचरम् ॥

3.110

किं तु संभाषितैः कार्यं प्रतिसंभाषणं यतः
आचारम् अनुगच्छद्भिर् अस्माभिर् इदम् उच्यते ॥

3.111

अनिन्द्यम् इदम् ऐश्वर्यं सभार्यासुहृदस् तव
महाकल्पावसाने ऽपि कूटस्थं तिष्ठताम् इति ॥

3.112

पालकेनानुयुक्तस् तु वधूनां गोत्रनामनी
गोमुखः कथयाम् आस प्रेरितश् चक्रवर्तिना ॥

3.113

एवमादिकथान्ते च चक्रवर्ती तपस्विनः
अब्रवीद् इप्फकः पूज्या मातङ्ग अनुयुज्यताम् ॥

3.114

कं दोषम् अयम् उद्दिश्य यात्राव्यापृतमानसम्
सार्धं सुरसमञ्जर्या राजानं हृतवान् इति ॥

3.115

स पृष्टः प्रत्युवाचेदं मह्यम् उत्पलहस्तकः
दत्त्वा दुहितरं पश्चाद् एतस्मै दत्तवान् इति ॥

3.116

अथ ब्रूहीति पृष्टः सन्न् उवाचावन्तिवर्धनः
दत्त्वा न दत्तवान् यो ऽस्मै नन्व् असौ पृच्छ्यताम् इति ॥

3.117

अथोज्झितासनः सभ्यान् उवाचोत्पलहस्तकः
यथाहायं तथैवेदं विशेषं तु निबोधत ॥

3.118

नारदेन पुरा शप्तः क्रुद्धेनाहं यथा तथा
प्रत्यक्षम् एव पूज्यानां दिव्यलोचनचक्षुषाम् ॥

3.119

तदा मयैष दीर्घायुर् बहुकृत्वः प्रबोधितः
सुता दत्ता मया तुभ्यम् उपयच्छस्व ताम् इति ॥

3.120

उक्तश् चैवम् उवाचायं निन्दितां कः सचेतनः
कन्यकाम् उपयच्छेत शापदग्धात् कुलाद् इति ॥

3.121

प्रत्याख्याता यदानेन चण्डसिंहादिसंनिधौ
अवन्तिपतये दत्ता तदा सुरसमञ्जरी ॥

3.122

संदेहश् चेदमी सर्वे विद्याधरगणेश्वराः
पृच्छ्यन्ताम् इति पृष्टैश् च तत् तथेति निवेदितम् ॥

3.123

काश्यपस् तम् अथावोचद् अवसन्नो ऽसि खेचर
चण्डसिंहादिभिर् यस्मात् प्रमाणैः प्रतिपादितः ॥

3.124

अस्य चाविनयस्येदं प्रायश्चित्तं समाचर
वाराणस्यां मृताङ्गानि गङ्गाम्भसि निमज्जय ॥

3.125

प्रेतावासकृतावासो वसानः प्रेतचीवरम्
भैक्षाशनश् च वर्षान्ते मुक्तशापो भविष्यसि ॥

3.126

अथोज्जयन्याः कथम् अप्य् उपागतैर् जरान्धजात्यन्धजडार्भकैऋ अपि
दिदृक्षुभिर् वत्सनरेन्द्रनन्दनं तपोवनं सप्रमदैस् तदावृतम् ॥

मूल पाठ: Bṛhatkathāślokasaṃgraha · Edition: the text edited by Felix Lacote (Paris, 1908). It was · Data entry Andreas Bigger · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc