बृहत्कथाश्लोकसंग्रह · अध्याय 2
अथ बिभ्रद् दुरुच्छेदं शोकं भ्रातृवियोगजम्
उत्सृष्टपृथिवीचिन्तः पालकः कालम् अक्षिपत् ॥
तं पुरोधःप्रभृतयः कदाचिद् अवदन् प्रजाः
उत्सीदन्तीः प्रजा राजन् नार्हसि त्वम् उपेक्षितुम् ॥
भ्रातुः पुरः प्रतिज्ञाय दूरक्षां रक्षितुं क्षितिम्
किं शोचसि न शोको ऽयम् उपायः क्षितिरक्षणे ॥
षष्ठं पापांशम् आदत्ते रक्षन्न् अपि नृपः प्रजाः
निक्षिप्तक्षितिरक्षस् तु सर्वम् एव न मुञ्चति ॥
तस्माज् जिघांसता पापं पुण्यं चोपचिचीषता
राजन् धन्याः प्रजाः कार्याः सुखं चानुबुभूषता ॥
न चेद् अर्थयमानानां वचनं नः करिष्यसि
ध्रुवं द्रक्ष्यसि संक्रान्ता देशान् राजन्वतः प्रजाः ॥
अवृत्तपूर्वम् अस्माभिर् उदासीने त्वयि श्रुतम्
बलाद् अग्निगृहान् नीतः पुरोडाशः शुना किल ॥
बटोश् च भ्राम्यतो भिक्षां भिक्षापात्राद् अनावृतात्
बटुत्वात् क्षिप्तचित्तस्य हृतः काकेन मोदकः ॥
इति श्रुत्वा ससंत्रासो राजा ताडितदुन्दुभिः
मृगेन्द्रासनम् अध्यास्ते सुमेरुं मघवान् इव ॥
तस्मिन् नारूढमात्रे च समं विकसिताः प्रजाः
उदयाचलकूटस्थे नलिन्य इव भास्करे ॥
अथातीते क्वचित् काले विप्रान् पप्रच्छ पार्थिवः
धर्मम् आचक्षतां पूज्याः शुद्धम् इत्य् अथ ते ऽब्रुवन् ॥
सर्वविद्याविदा धर्मः कस् त्वया नावलोकितः
आचारो ऽयम् इति व्यक्तम् अनुयुक्तास् त्वया वयम् ॥
रागादिमन्तः पुरुषास् तैर् उक्ता ह्य् अप्रमाणता
सांख्यादीनाम् अकार्यत्वाद् वेदस्यैव प्रमाणता ॥
तस्माद् वेदेषु विहितं यत् तद् आसेव्यताम् इति
श्रुत्वेदं नृपतिर् यज्ञैर् ईजे निःसंख्यदक्षिणैः ॥
अथोत्सृष्टप्रजाकार्यं दीक्षासन्तानसेवया
मन्त्रिनौ जातसंत्रासौ तं कदाचिद् अवोचताम् ॥
उद्धृतः शोकपङ्कात् त्वं बलिभिर् द्विजकुञ्जरैः
उद्धार्यः सांप्रतं केन दीक्षापङ्काद् दुरुत्तरात् ॥
कामार्थौ यद्य् अपि त्यक्तौ सेव्याव् एव तथापि तौ
दुर्लभो हि विना ताभ्यां धर्मः सुद्धो नृपैर् इति ॥
उपपन्नम् इदं श्रुत्वा प्रतिश्रुत्य तथेति च
देवतायाचनव्यग्र स्त्रीकम् अन्तःपुरं ययौ ॥
पानाभरणवासः स्रक् प्रियवाग्दानमानिताः
अन्तःपुरचरीः प्रैश्याश् चचार परितोषिताः ॥
अनन्तरम् अनुज्येष्ठं देवीः संमान्य भूपतिः
वासुकिन्या महादेव्या निनाय सह यामिनीम् ॥
स ताम्रचूडरुतिभिर् बन्दिवृन्दैर् विबोधितः
उपासिष्ट पुरःसंध्याम् आदिवाकरदर्शनात् ॥
ततो धवलवासः स्रग् अलंकारानुलेपनः
स्तूयमानो जयाशीर्भिर् आस्थानस्थानम् आगतः ॥
पुरोधःप्रभृतीस् तत्र प्रकृतीः प्रकृतिप्रियः
मानयित्वा यथायोग्यं सोपचारं व्यसर्जयत् ॥
स्मयमानस् ततो राजा मन्त्रिणाव् इदम् अब्रवीत्
आपानभूमिर् उद्याने रमणीया प्रकल्प्यताम् ॥
को हि युष्मद्विधसुहृद् विहितापत्प्रतिक्रियः
विषयान् न निषेवेत दृष्टादृष्टाविरोधिनः ॥
सो ऽहं पौरजनं भृत्यान् अन्तःपुरविचारिणः
आत्मानं च भवन्नाथं योजयामि सुखैर् इति ॥
अथ तौ प्रह्वमूर्धानौ स्वाम्यभिप्रायवेदिनौ
पानोपकरणं सर्वं सज्जम् एवेत्य् अवोचताम् ॥
व्याहार्य स ततस् तत्र सबालस्थविरां पुरीम्
वस्त्राभरणमाल्यान्न दानैः प्रीताम् अकारयत् ॥
पद्मरागादिशुक्तिष्ठम् उत्पलाद्यधिवासितम्
कृतजोत्कारम् अन्यो ऽन्यं पीयते स्म ततो मधु ॥
मधुपानान्तरालेषु सविपञ्चीस्वनं मुहुः
गीयते स्म मनोहारि नटाद्यैर् नृत्यते स्म च ॥
विहृत्य दिनम् एवं च शीतरश्मौ दिवाकरे
विसृज्य प्रकृती राजा विवेशान्तःपुरं ततः ॥
तत्रापि श्रुतसंगीतो दृष्टस्त्रीपात्रनाटकः
पायिताशेषभार्यश् च पश्चान् निद्राम् असेवत ॥
एवम् आसेवमानस्य सार्तवं विषयान् गताः
विवृद्धसुखरागस्य बहवस् तस्य वासराः ॥
स कदाचिद् द्विजादिभ्यः सविषादो न्यवेदयत्
स्वप्नो मयाद्य यो दृष्टः प्रशस्यैः श्रूयताम् असौ ॥
वाह्यावलोकनायाहं निर्गतस् तत्र दृष्टवान्
मत्तं महान्तम् आयान्तं मातङ्गं वनचारिणम् ॥
तन् मदामोदम् आघ्राय राज्यहस्त्य् अपि मामकः
क्रोधाद् उन्मूलितालानो यातः प्रति वनद्विपम् ॥
वन्यस् तु हस्तम् उत्क्षिप्य किंचिद् आकुञ्चिताङ्गुलिः
आहूतवान् इव युद्धं सगर्वैः कण्ठगर्जितैः ॥
मदीयेनाथ नागेन वेगेनापत्य दूरतः
संनिपातो महान् दत्तो दन्तयोर् वनदन्तिनः ॥
स्फटिकस्तम्भशुभ्राभ्यां दन्ताभ्यां तेन मामकः
दूरम् उत्क्षिप्य निक्षिप्तस् ततो यातः पराङ्मुखः ॥
पराजितं परेणाथ दृष्ट्वा स्वं राज्यहस्तिनम्
निवर्त्तयितुकामो ऽहम् आसन्नान् इदम् उक्तवान् ॥
निवर्तयामि राज्येभं शीघ्रम् आनयताङ्कुशम्
शिक्षितो वत्सराजेन हस्तिशिक्षाम् अहं ननु ॥
इति मन्त्रयमाणो ऽहम् अलब्धप्रार्थिताङ्कुशः
प्रतिबुद्धः ससंत्रासः किम् एतद् इति चिन्तयन् ॥
इति स्वप्नो मया दृष्टः क्षणदायाः परिक्षये
फलम् इष्टम् अनिष्टं वा पूज्यैर् अत्रोच्यताम् इति ॥
अथानिष्टफलं स्वप्नं जानन्तो ऽपि द्विजातयः
राजोपचारचतुराः स्थापयाम् आसुर् अन्यथा ॥
यौ ऽसौ राजन् गजो वन्यस् तं बुध्यस्व विनायकम्
यश् चाभिषेकहस्ती तं राज्यविघ्नं शरीरिणम् ॥
तत् ते गणपतिः प्रीतः प्रसह्योद्धरति प्रभुः
त्वम् अप्य् उन्मूलितानर्थश् चिरं पाहि महीम् इति ॥
इति दुःश्लिष्टम् आकर्ण्य फलं स्वप्नस्य कल्पितम्
सुखं नालभताथैनम् अब्रूतां मन्त्रिणाव् इदम् ॥
श्रूयतां देव यद् वृत्तं वृद्धस्य जगतीपतेः
आवाभ्यां श्रुतम् एतच् च गृहे कथयतः पितुः ॥
मृगेन्द्रासनम् आरोढुं प्रद्योतेन किलेच्छता
यथाप्रधानमिलिताः पृष्टाः स्वप्नं द्विजातयः ॥
मम सिंहासनस्थस्य स्थितो मूर्ध्नि विहंगमः
विचित्रैः सप्तभिः पक्षैः को ऽसौ व्याक्रियताम् इति ॥
तेषु निर्वचनेष्व् एको द्विजः शाण्डिल्यनामकः
सकम्पवचनो ऽवोचन् नीचै.श् चञ्चलभीरुकः ॥
राज्ञा स्वप्नफलं पृष्टाः किं तूष्णीम् आस्थ कथ्यताम्
त्रस्यद्भिः परुषाद् वापि मादृक् कस्मान् न युज्यताम् ॥
अनिष्टम् अपि वक्तव्यं स्वनुष्ठानप्रतिक्रियम्
दुष्करप्रतिकारे तु युक्तम् इत्थम् उदासितुम् ॥
इति श्रुत्वा महासेनः संशयामृष्टमानसः
शाण्डिल्यम् इदम् अप्राक्षीद् विवक्षुं स्फुरिताधरम् ॥
ब्रह्मन् कथय विश्रब्धम् अनुज्ञातो द्विजैर् अपि
यस्मात् व्याहर्तुम् आरब्धः प्रतिषिद्धो न केनचित् ॥
इत्य् उक्तः क्षितिपालेन व्याहर्तुम् उपचक्रमे
अहितादि हितान्तं च श्रूयतां देव मा कुपः ॥
यो ऽसौ सप्तच्छदः पक्षी सो ऽशनिर् दुःश्रवध्वनिः
सप्त पक्षास् तु ये तस्य सप्त पक्षान् निबोध तान् ॥
सर्वथा विस्तरेणालम् अलं सिंहासनेन ते
कश्चिद् आरोप्यताम् एतद् यस्य नेच्छसि जीवितम् ॥
कञ्चिद् अद्येदम् आरूढम् अर्धमासेषु सप्तासु
अतीतेष्व् अशनिर् हन्ति पतित्वा मूर्धनि ध्रुवम् ॥
इति श्रुत्वा स्फुरत्क्रोधः प्रभूर् भरतरोहकम्
अक्षिणी मुखरस्यास्य खन्येताम् इत्य् अचोदयत् ॥
यथाज्ञापयसीत्य् उक्त्वा बध्नन् परिकरं द्विजान्
मन्त्री साक्षिनिकोचेन ग्राह्यवाक्यान् असूचयत् ॥
मृदुपूर्वं ततो विप्रा महीपालम् अबोधयन्
देव नोन्मत्तवाक्यानि गृह्यन्ते पटुबुद्धिभिः ॥
न च केवलम् उन्मत्तो ब्राह्मणश् चैष मूढकः
तेनापि नयनोद्धारं नैव निग्रहम् अर्हति ॥
किं तु तावद् अयं बद्धः स्थाप्यतां विधवासुतः
पक्षाः सप्त गता यावत् ततः प्राप्स्यति निग्रहम् ॥
सिंहासनम् अपि क्षिप्रम् आरोहतु नराधिपः
लग्ने ऽस्मिन्न् एव सौवर्णः परीक्षार्थं द्विजन्मनः ॥
यदि सत्यैव वाग् अस्य ततः सत्कारम् आप्स्यति
विपर्यये खलीकारं मन्वादिपरिभाषितम् ॥
देवो ऽपि दिवसान् एतान् विद्भिः ब्राह्मणैः सह
कुर्वद्भिः शान्तिकर्माणि महाकालं निषेवताम् ॥
इति श्रुत्वा द्विजातिभ्यो युक्तम् इत्य् अवधार्य च
बन्धयित्वा च शाण्डिल्यं महाकालं ययौ नृपः ॥
तत्र सप्त स्थितः पक्षान् अपश्यद् दिवसे ऽन्तिमे
मध्यंदिने पयोदालीम् उन्नमन्तीं रविं प्रति ॥
अथ सा क्षणमात्रेण व्याप्तानन्तदिगन्तरा
नीलकण्ठगलच्छाया प्रवृष्टा वृष्टिम् अश्मनाम् ॥
चण्डं चटचटाघोषम् उद्घोष्याशनिर् उत्कटः
राजप्रतिकृतिं पिष्ट्वा तत्रैवान्तर्दधे ततः ॥
अथ शाण्डिल्यम् आह्वाय्य कृत्वा विगतबन्धनम्
क्षमयित्वा च विपुलैः संप्रदानैर् अतोषयत् ॥
राज्ञा चास्य कृतं नाम तच् च लोके प्रतिष्ठितम्
सो ऽयं मुखरशाण्डिल्यः सिद्धादेशो ऽनुयुज्यताम् ॥
तेन चाहूय पृष्टेन निःशङ्केन निवेदितम्
शृणु राजन् न कोपं च पितृवत् कर्तुम् अर्हसि ॥
यो ऽसौ वन्यो गजः सो ऽन्यो राजा राजन्न् उपागतः
भवदीयो भवान् एव सर्वथा श्रूयताम् इदम् ॥
त्वम् अन्येन महीपाल महीपालेन राज्यतः
स्वतः प्रच्यावितस् तस्माद् युक्तम् आस्थीयताम् इति ॥
इति श्रुत्वा महीपाले विषादानतमूर्धनि
शनैर् मुखरशाण्डिल्य प्रमुखा निर्ययुर् द्विजाः ॥
मन्त्रिमात्रसहायस् तु राजा कृत्वा अवगुण्ठनम्
कः स्याद् राजेति चिन्तावान् निषसाद नृपासने ॥
सिद्धादेशस्य तु वचः श्रद्दधानः सुरोहकः
विषादाद् दीनया वाचा महीपालम् अभाषत ॥
महासेनेन दुःस्वप्नः स यथा वञ्चितस् तथा
वञ्चय त्वम् अपि क्षिप्रम् अत्यासन्नफलो ह्य् असौ ॥
तिर्यग्योनिगतः कश्चिद् अध्यास्तां पार्थिवासनम्
देवो ऽपि दिवसान् कांचिद् वनवासी भवत्व् इति ॥
तुष्णीभूतं तु राजानम् एव ब्रुवति मन्त्रिणि
गोपालतनयस् तत्र विवेशावन्तिवर्धनः ॥
तस्य संक्रीडमानस्य दूरम् उत्पत्य कन्दुकः
निपत्योत्पत्य च पुनः सिंहासनतलं गतः ॥
अवन्तिवर्धनयशा भगिनि तेन चोदिता
सिंहासनतलाद् एव कन्दुकः कृष्यताम् इति ॥
तयोक्तं स्वयम् एव त्वं किं न कर्षसि कन्दुकम्
किं चाहं भवतः प्रैष्या येनादिशसि माम् इति ॥
ततः पश्येति ताम् उक्त्वा तद् उत्क्षिप्य नृपासनम्
अवन्तिवर्धनो ऽन्यत्र स्थापयाम् आस निर्व्यथः ॥
स तु कन्दुकम् आदातुम् आरब्धश् च नृपेण तु
सिंहासनाद् अवप्लुत्य परिष्वक्तस् त्रपानतः ॥
अथानन्तरम् आहूय राजा प्रकृतिमण्डलम्
उवाच राजपुत्रो ऽयम् अद्य रज्ये ऽभिषिच्यताम् ॥
युष्मत्समक्षम् उक्तो अहं भ्रात्रा ज्येष्ठेन गच्छता
अवन्तिवर्धनं पुत्रं मत्प्रीत्या पालयेर् इति ॥
तदादेशात् सुतत्वाच् च सो ऽयं संवर्धितो ऽधुना
पित्र्यम् आसनम् अध्यास्तां न्यासं प्रत्यर्पितं मया ॥
अथास्मिन् संकटे कार्ये पालकेन प्रदर्शिते
सभायाम् आनताङ्गायां न कश्चिद् किंचिद् उक्तवान् ॥
ततो धर्मार्थकामानां मात्राम् आख्याय पालकः
पुत्रम् आरोपयाम् आस सिंहासनम् अवन्तियम् ॥
कृष्णाजिनाम्बरधरः कृतकेशनाशः स्कन्धावसक्तकरको नृपतिः पुराणः
अध्यासित मुनिवरैः सह काश्यपेन मन्दस्पृहो ऽसितगिरिं तपसे जगाम ॥
मूल पाठ: Bṛhatkathāślokasaṃgraha · Edition: the text edited by Felix Lacote (Paris, 1908). It was · Data entry Andreas Bigger · GRETIL (Göttingen) · CC BY-NC-SA 4.0