भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्कथाश्लोकसंग्रह · अध्याय 27

27.1

ततः समापिताहारः सुहृदाम् एव संनिधौ
प्रियदर्शनम् आलिङ्गम् अनङ्गोन्मूलितत्रपः ॥

27.2

अथ क्रोधारुणमुखो गोमुखः प्रियदर्शनम्
पाणाव् आकृष्य त्वरितः स्वगृहान् प्रतियातवान् ॥

27.3

स मयोक्तः समायातः क्रोधविस्तीर्णचक्षुषा
पाण्डित्यान्धक मित्रारे मा स्म तिष्ठः पुरो मम ॥

27.4

पिपासोर् मधुशौण्डस्य मधुशुक्तिं हरेत् करात्
यस्य यस् तस्य कस् तस्माद् अरातिर् अपरः परः ॥

27.5

इत्य् उक्तः स विषादेन त्याजितश् चम्पकाभताम्
राहुणेव तुषारांशुर् अगमद् धूमधूम्रताम् ॥

27.6

तं च दीर्घम् अहःशेषम् आयतां च विभावरीम्
प्रवृद्धैर् गमयामि स्म निषादासनचङ्क्रमैः ॥

27.7

सुहृद्वृन्दवृतः प्रायो द्वेष्याशेषविनोदनः
प्रियदर्शनसंप्राप्तेर् उपायम् अगवेषयम् ॥

27.8

एवंप्राये च वृत्तान्ते धवलोष्णीषकञ्चुकौ
विस्मितौ चिरम् आलोक्य स्थविरौ माम् अवोचताम् ॥

27.9

किंनिमित्तम् अपि ब्रह्मन् ब्रह्मदत्तः प्रजेश्वरः
भवन्तम् इच्छति द्रष्टुम् इष्टं चेद् गम्यताम् इति ॥

27.10

इदम् आकर्ण्य यत् सत्यम् ईषद् आकुलमानसः
गोमुखस्य स्मरामि स्म विचारचतुरं मनः ॥

27.11

किं गच्छानि न गच्छानि गच्छतः किं भवेद् इति
वितर्क्य क्षणम् आसीन् मे संदेहच्छेदनी मतिः ॥

27.12

यो बन्धव्यो ऽथ वा वध्यो न स कञ्चुकिदूतकः
स हि शृङ्खलनिस्त्रिंश पाणिभिः परिवार्यते ॥

27.13

ये च केचिज् जना येषां विषये सुखम् आसते
राज्ञाम् आज्ञाम् अवज्ञाय तेषां जीवन्ति ते कथम् ॥

27.14

अमन्दस्पन्दम् एतच् च काङ्क्षिताम् अक्षि दक्षिणम्
आख्यतीव प्रियाप्राप्तिं मह्यं तद् गमनं हितम् ॥

27.15

निश्चित्येत्यादि निर्गत्य गृहात् प्रवहणं बहिः
कञ्चुक्यानीतम् अद्राक्षम् आरुक्षं चाविशङ्कितः ॥

27.16

पौरसंघातसंबाधं राजमार्गं व्यतीत्य च
राजद्वारं व्रजामि स्म चित्रमङ्गलमण्डलम् ॥

27.17

गोमुखाख्यापिताभिख्यं तद् अध्यास्य क्षणं ततः
प्राविक्षं प्रथमां कक्षां द्वाःस्थवृन्दाभिनन्दितः ॥

27.18

समृद्धिः स्रूयतां तस्याः कृतं वा तत्प्रशंसया
को हि वर्णयितुं शक्तो नरो मेरोर् अधित्यकाम् ॥

27.19

ताम् अतिक्रम्य पञ्चान्याः प्रकृष्टतररम्यताः
सप्तम्यां दृष्टवान् अस्मि महास्थानं महीपतेः ॥

27.20

श्रुतिस्मृतिपुराणादि ग्रन्थसागरपारगैः
धनुर्वेदादितत्त्वज्ञैः कलादक्षैश् च सेवितम् ॥

27.21

विरुद्धं बिभ्रतं मूर्त्या चन्द्रमःसवितृप्रभाम्
सुखसेव्यं दुरीक्षं च तप्तांशुम् इव हैमनम् ॥

27.22

स्वस्तिकृत्वा ततस् तस्मै जातरूपाङ्गम् आनसम्
अध्यतिष्ठं नृपादिष्टं निर्विकाराम्बरावृतम् ॥

27.23

नृपस् तु मां चिरं दृष्ट्वा स्नेहस्निग्धायतेक्षणः
ततस् तारकराजाख्यं सेनाभृतारम् ऐक्षत ॥

27.24

स तु माम् अभितः स्थित्वा कार्यमात्रस्य वाचकः
अवोचद् वचनं चारु विस्पष्टमधुराक्षरम् ॥

27.25

आर्यज्येष्ठ मनस् तावद् अविक्षिप्तं कुरु क्षणम्
राजा मन्मुखसंक्रान्तैर् वाक्यैस् त्वाम् एष भाषते ॥

27.26

येयं भागीरथीशुभ्रा काशिभूपतिसंततिः
सा किम् आख्यायते तुभ्यं प्रथिता पृथिवीव या ॥

27.27

अस्याम् अस्य प्रसूतस्य ब्रह्मदत्तस्य भूपतेः
ये गुणास् ते ऽपि ते बुद्धाः शिशिरांशोर् इवांशवः ॥

27.28

अस्यासीत् कालियो नाम श्रेष्ठी प्राणप्रियः सुहृत्
सफलैर् द्रविणैर् यस्माद् द्रविणेशो ऽपि लज्जितः ॥

27.29

अन्तर्वत्याम् असौ पत्न्यां नीतः पुण्यैस् त्रिपिष्टपम्
अथ सा गृहिणी तस्य काले पुत्रं व्यजायत ॥

27.30

तस्मिञ् जाते महाराजः स्वात्मजाद् अपि हर्षदे
पुरे सान्तःपुरे रम्यं महामहम् अकारयत् ॥

27.31

स कृताशेषसंस्कारः शिशुर् गच्छन् कुमारताम्
अङ्गैर् विद्याकलाभिश् च सकलाभिर् अलंकृतः ॥

27.32

एवंप्राये च वृत्तान्ते द्वाःस्थैर् विज्ञापितो नृपः
द्वारे वः कालियः श्रेष्ठी तिष्ठतीति ससंभ्रमैः ॥

27.33

ततश् चित्रीयमाणेन स नृपेण प्रवेशितः
कस् त्वं कस्य कुतो वेति पृष्टश् चेदम् अभाषत ॥

27.34

देवाहं कालियः श्रेष्ठी देवेन स्वशरीरवत्
लालितः पालितश् चासं शिक्षितश् चाखिलाः कलाः ॥

27.35

सो ऽहं सुचरितैर् अङ्गैः सुखाद् युष्मत्प्रसादजात्
च्यावयित्वा दिवं नीतो न हि नाशो ऽस्ति कर्मणाम् ॥

27.36

अथासौ भवतां दासी दुर्मनाः सुमनाः सुताम्
जातां पुत्र इति ख्यातिम् अनयल् लोभदूषिता ॥

27.37

मृषावादेन तेनास्याः सुरलोकाद् अहं च्युतः
भार्यया हि कृतं कर्म पत्याव् अपि विपच्यते ॥

27.38

कुले च कुलपुत्रस्य जातो जातिस्मरः पुनः
एतम् ईदृशम् आकारं वहामि जननिन्दितम् ॥

27.39

असौ च युवतिर् जाता कान्ताकारा च दारिका
कस्मैचिद् अभिरूपाय वराय प्रतिपाद्यताम् ॥

27.40

अहम् अप्य् एतम् आत्मानम् अङ्गवैकल्यनिन्दितम्
प्रयागे संन्यसिष्यामि प्रस्थापयत माम् इति ॥

27.41

एवमाद्य् उक्तवान् उक्तो विस्मितेन स भूभृता
पूर्वं यद् आवयोर् वृत्तं तत् किंचित् स्मर्यताम् इति ॥

27.42

अनेनापि विहस्योक्तं यद् यद् देवाय रोचते
असंदिग्धं सुविश्रब्धस् तत् तत् पृष्टतु माम् इति ॥

27.43

अथाध्याय चिरं राज्ञा यद् यत् पृष्टं चिरन्तनम्
अशेषं तत् तद् एतेन सविशेषं निवेदितम् ॥

27.44

अथात्यद्भुतम् इत्य् उक्त्वा जातसंप्रत्ययो नृपः
आहैनं दारिका कस्मै जामात्रे दीयताम् इति ॥

27.45

अयं तु परितोषेण स्खलदक्षरम् उक्तवान्
रोचते यो वरस् तस्यै तस्मै सा दीयताम् इति ॥

27.46

ततो ऽन्तःपुरम् आनाय्य सा सार्धम् ऋषिदत्तया
पृष्टा देवीसमूहेन ह्रिया कूर्माङ्गनाकृतिः ॥

27.47

असौ चासौ च जामाता कुलरूपादिभूषणः
भवत्यै रोचते नेति मातर् आख्यायताम् इति ॥

27.48

अथारुणकरछाय कपोलेक्षणयानया
पुण्डरीकम् इवावाते मन्थरं चलितं शिरः ॥

27.49

अथार्यज्येष्ठ इत्य् उक्ते प्रसन्नाक्षिकपोलया
स्वेदार्द्रांशुकया प्राग्वन् न तद् विचलितं शिरः ॥

27.50

तद् भवान् रूचितस् तस्यै नृपाय च यतस् ततः
अद्यैव श्रेष्ठिकन्यायाः पाणिम् आलम्बताम् इति ॥

27.51

ततो मन्दस्पृहेणेव मया अनादरमन्थरम्
भीतान्तःपुरदृष्टेन चिराद् इदम् उदीरितम् ॥

27.52

अवन्तेर् अहम् आयातः सह भ्रात्रा कनीयसा
वेदशास्त्रागमायैव न योषित्प्राप्तिवाञ्छया ॥

27.53

किं तु भूभर्तुर् आदेशो दुर्लङ्घ्यः पुरवासिभिः
योगक्षेमार्थिभिर् भव्यैस् तस्माद् एवं भवत्व् इति ॥

27.54

एतस्मिन्न् अन्तरे मन्द्रं सतालतुमुलध्वनि
प्रतिध्वानध्वनद्व्योम प्राध्वनत् तूर्यमण्डलम् ॥

27.55

यश् च संवत्सरेणापि दुःसंभारो नृपैः परैः
विवाहार्थः स संभारो राज्ञा संभारितः क्षणात् ॥

27.56

ततः सान्तःपुरो राजा स सदारसुहृद्गणः
राजाजिरे ममोदारं करग्रहम् अकारयत् ॥

27.57

दत्वा ततः श्रेष्ठिपदं नगर्यां वित्तं च भूमण्डलमूल्यतुल्यम्
समृद्धिम् अन्वेष्य च कालियस्य प्रास्थापयन् मां मुदितो नरेन्द्रः ॥

27.58

आसीच् च मम लोकोक्तिर् इयं मय्य् एव संप्रति
वर्धमानो यथा राजा श्रेष्ठी जात इति स्थिता ॥

27.59

अथ नन्दोपनन्दाद्यैः प्रवृद्धप्रीतिविस्मयैः
प्रियदर्शनया चास्मि सह क्षिप्तशचीपतिः ॥

27.60

अहोरात्रे त्व् अतिक्रान्ते स गोमुखम् अपश्यतः
महाव्यसनसंकीर्ण इवासीन् मे महोत्सवः ॥

27.61

आसीच् च मे विलक्षस्य विलक्षं गोमुखं बलात्
विदग्धसुहृदां कश्चिद् अपि नामानयेद् इति ॥

27.62

ततः संमानयन्तं तम् आनतान् पुरवासिनः
अद्राक्षं भृत्यवर्गं च संचरन्तम् इतस् ततः ॥

27.63

चिन्तितं च मया दिङ् मां विलक्षकम् अकारणे
बलाद् आनाययाम्य् एनं किं दुःखासिकया मम ॥

27.64

अथ नन्दोपनन्दाभ्याम् असाव् आनायितो मया
आसीनः स्मयमानेन सोपालम्भम् इवोदितः ॥

27.65

किं गोमुखः सखा यस्य प्राज्ञंमन्यो न विद्यते
तस्य साध्यानि कार्याणि न सिध्यन्तीति सो ऽब्रवीत् ॥

27.66

सर्वप्राणभृताम् एव पुराकृतकृतं फलम्
न तु तत्कारणैर् योग्यैर् विना सिध्यति कस्यचित् ॥

27.67

यद् अपीदं महत् कार्यं युष्माभिः किल साधितम्
तत्रापि गोमुखस्यैव प्राज्ञंमन्यस्य कौशलम् ॥

27.68

प्रभवः प्रभवन्तो हि दोषाभासे मनाग् अपि
भृत्यान् उद्वेजयन्त्य् एव तेषां किं क्रियताम् इति ॥

27.69

किम् अस्मिन् भवता कार्ये कृतम् इत्य् उदिते मया
आख्यातुम् अयम् आरब्धः श्रूयतां यन् मया कृतम् ॥

27.70

अस्त्य् अहं भर्त्सितः क्रुद्धैर् युष्माभिः स्वगृहं गतः
तत्र प्रावृत्य मूर्धानं पतित्वा शयनो स्थितः ॥

27.71

ततस् त्रसद्द्रुतगिरा पृष्टो ऽहम् ऋषिदत्तया
किम् एतद् इति तस्यैव न मया दत्तम् उत्तरम् ॥

27.72

सा यदा दृढनिबन्धा पृच्छति स्म पुनः पुनः
युष्मद्वृत्तान्तम् अखिलं तदा कथितवान् अहम् ॥

27.73

साथ प्रमोदबाष्पार्द्र कपोलापृच्छद् आदरात्
वत्सेश्वरसुतः कश्चिद् आर्यज्येष्ठो भवेद् इति ॥

27.74

शपथैः प्रतिषिध्यैनां त्वद्वृत्तान्तप्रकाशनात्
आम सुभ्रू स एवायम् इति तस्यै न्यवेदयम् ॥

27.75

अथासौ स्थिरधीरत्वं गोमुख श्रूयताम् इति
सासूया सप्रमोदेव माम् उक्त्वाकथयत् कथाम् ॥

27.76

आसीत् सुमनसः कापि प्रिया विद्याधरी सखी
दिव्यज्ञाना मरुद्वेगा नाम्ना च प्रियदर्शना ॥

27.77

सा यदृच्छागता चैनां प्रसङ्गे क्वचिद् अब्रवीत्
त्वं माम् आपदि कष्टायां वर्तमाना स्मरेर् इति ॥

27.78

ततः श्रेष्ठिनि कालेन नीते वैवस्वतक्षयम्
श्रेष्ठिन्याः कन्यका जाता शोकानलघृताहुतिः ॥

27.79

अस्यास् त्व् आसीद् अपुत्राया द्रविणस्यातिभूरिणः
सारस्यास्यास्मदीयस्य पालकः को भविष्यति ॥

27.80

उक्ता चास्मि पुरा सख्या व्यसने मां स्मरेर् इति
ततश् चिन्तितमात्रैव ददृशे प्रियदर्शना ॥

27.81

तां चासौ दारिकां दृष्ट्वा प्रकर्षप्रमदस्मिता
अवोचत् सखि मा भैषीर् जनयित्वेदृशीं सुताम् ॥

27.82

एषा विद्याधरेन्द्रस्य भविष्यति भविष्यतः
प्रिया प्रियतमा तस्माज् जृम्भन्तां तूर्यपङ्क्तयः ॥

27.83

अथासाव् ओषधीगर्भं बद्ध्वा तस्याः स्फुरत्करम्
कन्याया हाटकं दृष्ट्वा कण्ठे गण्डकम् अब्रवीत् ॥

27.84

प्रभावाद् ओषधेर् अस्याः स्त्रियम् एनां सतीं जनाः
द्रक्ष्यन्ति पुरुषं मुक्त्वा भविष्यच्चक्रवर्तिनम् ॥

27.85

अमलानन्तपुण्यत्वात् सर्वज्ञाश् चक्रवर्तिनः
पश्यन्ति हि यथाभूतम् अर्थं दिव्येन चक्षुषा ॥

27.86

तेन यः स्त्रियम् एवैनां द्रष्टा स भवति ध्रुवम्
चक्रवर्ती पतिश् चास्याः सर्वविद्याधराधिपः ॥

27.87

ओषधिर् या च कण्ठे ऽस्याः सा नाम्ना प्रियदर्शना
इदम् एव च नामास्याः प्रशस्तं क्रियताम् इति ॥

27.88

तेन यो ऽयं पुरश्रेष्ठी पुरुषः प्रियदर्शनः
विद्याधरेन्द्रयोग्येयं प्रमदा प्रियदर्शना ॥

27.89

किं च वीणासमस्यायां यद् उक्तं चक्रवर्तिना
चिरं सुन्दरि जीवेति तेनैव विदितं मया ॥

27.90

न हि शक्तः स्त्रियं द्रष्टुम् एनाम् अवनिगोचरः
यस् तु पश्यति स्म व्यक्तं चक्रवर्तीत्य् अभून् मम ॥

27.91

त्वं च गोमुख एवेति तदैव ज्ञातवत्य् अहम्
सरूपः सवयाश् चान्यो नास्ति यच् चक्रवर्तिनः ॥

27.92

रूपं च युवराजस्य तव चानायितं मया
कौशाम्बीतः पटे न्यस्तं तच् च निश्चयकारणम् ॥

27.93

इत्यादिभिर् मया चिह्नैर् अयम् अव्यभिचारितः
चक्रवर्तीति विज्ञातः पश्चिमं स्तनदर्शनम् ॥

27.94

यः पुनर् घटनोपायः कार्यः स भवतानयोः
घटने दुर्घटस्यापि चतुरो हि भवान् इति ॥

27.95

एवमादि ततः श्रुत्वा स्पृहयामि स्म मृत्यवे
यस्मान् निश्चितवान् अस्मि त्रयं मरणकारणम् ॥

27.96

मया सत्यं ब्रुवद् भर्ता मिथ्या ब्रूतेति खेदितः
अत्र जीवति यस् तस्य मृत एवामृतोपमः ॥

27.97

पाण्डित्यान्धसुहृद्वैरि मा स्म तिष्ठ पुरो मम
इति यः स्वामिनादिष्टस् तस्य मृत्युम् अर्होत्सवः ॥

27.98

न चास्ति दुर्घटस्यास्य घटने मम कौशलम्
तस्मान् मरणम् एवास्तु धिक् प्राणान् दुःस्थितान् इति ॥

27.99

निर्यातश् च पुरीबाह्यं मरणोपायलिप्सया
कस्याप्य् अदृष्टरूपस्य वाचम् अश्रौषम् अम्बरे ॥

27.100

विपर्यस्त निवर्तस्व निन्द्यान् मरणनिश्चयात्
न हि दुःखक्षयोपायो मृत्युर् इष्टः सताम् इति ॥

27.101

ततः शिथिलितोद्वेगो गिरा खेचरयानया
पुरः पुरुषम् अद्राक्षं स्कन्धारोपितदारकम् ॥

27.102

असौ च दारकः कुण्ठः खञ्जः कुब्जः पृथूदरः
इति संतक्षितः पित्रा कर्कशैर् वचनक्षुरैः ॥

27.103

म्रियस्व धर्षिणीपुत्र प्रेतखादितमातृक
न वहामि न पुष्णामि भवन्तं निष्प्रयोजनम् ॥

27.104

एष त्वां गाढम् आवेष्ट्य ग्रीवां भित्त्वाथवा शिरः
मारयिष्यामि तद् गच्छ वैवस्वतपुरीम् इति ॥

27.105

ततस् तेन विहस्योक्तं मा वाक्षीर् मा च मां पुषः
एतावता हि ते कार्यं न मदीयेन मृत्युना ॥

27.106

मयापि किल कर्तव्यं महत् कार्यं महात्मनाम्
तद् भवान् मां सहस्रेण विक्रीनीतां महात्मसु ॥

27.107

सहस्रं यच् च तद् दत्तं पर्याप्तं जीवनं यतः
मा स्म तस्माद् विना कार्यान् मारयन् मां भवान् इति ॥

27.108

मम त्व् आसीन् महात्मानः के ऽन्ये युष्मज् जगत्त्रये
कुतश् चान्यन् महत् कार्यं युष्मज्जीवितरक्षणात् ॥

27.109

सहस्रं ते न यत् किंचित् कोट्यापि यदि लभ्यते
तुच्छमूल्यस् तथाप्य् एष तृणमुष्टिसमा हि सा ॥

27.110

तत् तद् इत्यादि निश्चित्य गृहम् आनाय्य तं ततः
क्रीणामि स्म सहस्रेण चिन्तामणिम् इवाश्मना ॥

27.111

ऋषिदत्ताम् अथावोचं यावत् स्मरसि किंचन
प्रच्छन्नं श्रेष्ठिनो वृत्तं तावन् मे कथ्यताम् इति ॥

27.112

कालियेन च राज्ञा च यद् यत् कार्यं रहः कृतम्
तत् तत् सुमनसे भर्त्रा कथितं धीरचेतसे ॥

27.113

यच् च श्रुतधरा कार्यं राज्ञः श्रुतवती गुरु
तया तद् ऋषिदत्तायै दुष्प्रकाशं प्रकाशितम् ॥

27.114

तया तया च तन् मह्यं कुब्जाय कथितं मया
कुब्जेन ब्रह्मदत्ताय शेषं प्रत्यक्षम् एव च ॥

27.115

तद् युष्मभिर् यद् आदिष्टं यद् अत्र भवता कृतम्
तद् आचक्ष्वेति कार्यं तद् एतद् अत्र मया कृतम् ॥

27.116

इत्याद्य् आकर्ण्य तत् तस्माद् इन्द्रजालाधिकाद्भुतम्
प्राशंसं चरितं तस्य प्रशस्या हि गुणाधिकाः ॥

27.117

का विद्याधरचक्रवर्तिपदके तुच्छा रतिर् मादृशः सुप्रापं धरणीचरैर् यद् अपरैः क्रोधादिवश्यैर् अपि
प्रज्ञाधिक्कृतदेवदानवगुरुर् येषां सुहृद् गोमुखः ते यत् पिष्टपसप्तकाप्तिविमुखास् तत्कर्मणां जृम्भितम् ॥

मूल पाठ: Bṛhatkathāślokasaṃgraha · Edition: the text edited by Felix Lacote (Paris, 1908). It was · Data entry Andreas Bigger · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc