भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्कथाश्लोकसंग्रह · अध्याय 28

28.1

एवं वाराणसीस्तं मां दारमित्रैर् उपासितम्
उपातिष्ठन्त काशिक्याः श्रेणयः पण्यपाणयः ॥

28.2

तांश् च भाषितवान् अस्मि सर्ववृत्तान्तकोविदः
अयम् आर्यकनिष्ठो वः श्रेणिश्रेस्ठी भवत्व् इति ॥

28.3

अथ याते क्वचित् काले सौधे सप्रियदर्शनः
सोपाने तारम् अश्रौषं हंसानाम् इव निस्वनम् ॥

28.4

मम त्व् आसीन् न हंसानां नूपुराणाम् अयं ध्वनिः
पदमन्थरसंचारो यच् चाविच्छिन्नसंततिः ॥

28.5

न चैष कुलनारीणाम् उपपत्त्या विरुध्यते
उत्सवाभ्युदयेष्व् एव ता हि बिभ्रति भूषणम् ॥

28.6

तेनान्तःपुरसंचार वारस्त्रीचरणोचितः
किम् अर्थम् अपि सोपाने चरत्य् आभरणध्वनि ॥

28.7

एवं च विमृशन्न् एव ताराभरणशिञ्जिताः
चित्रांशुकधरा नारीर् अपश्यं रूढयौवनाः ॥

28.8

तासां कुमुदिका नाम लोकलोचनकौमुदी
प्रगल्भापि विनीतेव वन्दित्वा माम् अभाषत ॥

28.9

आर्यज्येष्ठं यशोभागिन् भवतो भर्तृदारिका
विज्ञापयति वन्दित्वा सादरं राजदारिका ॥

28.10

मया व्रतकम् उद्दिश्य पूजिता देवताद्विजाः
वण्टकस् तस्य युष्माभिः सदारैर् गृह्यताम् इति ॥

28.11

अथ मह्यं सुसंस्कारं सा समुद्रं समुद्गकम्
वासःकुसुमगन्धांश् च हारिगन्धान् उपासरत् ॥

28.12

अथोद्वृत्य जगत्सारान् असौ मह्यम् अदर्शयत्
द्विप्रकारान् अलंकारान् नरनारीजनोचितान् ॥

28.13

मयोक्तं द्वयम् अप्य् एतद् अर्हति प्रियदर्शना
प्रेषितं योषिता यत् तद् योषिद् एव यतो ऽर्हति ॥

28.14

इदम् आकर्ण्य ताः प्रेक्ष्य विस्मिताः सस्मिताश् च माम्
तस्यै दत्त्वा च तद् द्रव्यम् अगच्छन् कृतवन्दनाः ॥

28.15

यशोभागिन्न् इति श्रुत्वा तयोक्तं पीडितो ऽभवम्
अनभ्यस्तं हि यद् येन तेन तद् वस्तु दुःसहम् ॥

28.16

ममामन्त्रयते यावान् पुरुषः प्रमदाजनः
सर्वो ऽसाव् आर्यपुत्रेति मुक्त्वैतां पुरुषाम् इति ॥

28.17

किं चान्यत् कुलकन्यानां केयम् ईदृक् स्वतन्त्रता
येयम् अस्मद्विधैः सार्धं लोकयात्रा निरङ्कुशैः ॥

28.18

किं तु कामयमानापि कामिनि कामिनि प्रिये
न धनायत्य् अपि स्वाङ्गं किम् अङ्ग धनम् अध्रुवम् ॥

28.19

तद् अस्याः को भवेद् भावो मयीत्य् एतद् वितर्कयन्
अन्धकारमुखेनाहं गोमुखेन इति भाषितः ॥

28.20

अर्यपुत्र दुरन्तेयम् ईदृशीभिर् भवादृशाम्
लोकयात्रेत्य् अथावोचम् एनं परिहसन्न् इव ॥

28.21

दुरन्ता वाथ वा स्वन्ता न हीयं प्रस्तुता मया
अथ वा संकटात् त्राता ममास्त्य् एव भवान् इति ॥

28.22

इति तस्मिन्न् अहोरात्रे गते कुमुदिकादिकाः
आगत्येदम् अभाषन्त सव्रीडाविनया इव ॥

28.23

अर्यपुत्रार्यदुहिता वन्दित्वा राजदारिका
अस्मद्दोषे कृतव्रीडा विज्ञापयति साञ्जलिः ॥

28.24

क्षमणीयो ऽयम् अस्माकम् आचारातिक्रमो यतः
मुढभृत्यकृता दोषा न ग्राह्याः स्वामिनाम् इति ॥

28.25

मयाप्य् उक्तं न पश्यामि दोषम् आचरितं तया
अस्ति चेत् क्षान्त एवासौ तथाप्य् आख्यायताम् इति ॥

28.26

ततः कुमुदिकाचष्टे माम् अपृच्छन् नृपात्मजा
आर्यज्येष्ठस् त्वयालापान् भाषितः कीदृशान् इति ॥

28.27

आर्यज्येष्ठ यशोभागिन्न् इत्यादौ कथिते मया
सासूया सविषादेव वेपमानेदम् अब्रवीत् ॥

28.28

अयि वैरिणि भर्तारम् एवं वदति काङ्गना
यथोक्तो मन्दया ज्येष्ठो यशोभागिन्न् इति त्वया ॥

28.29

न च त्वदीयम् एवेदं वचः संभावयत्य् असौ
परसंदेशहारी हि प्रतीतो गणिकाजनः ॥

28.30

यः श्रेष्ठिदुहितुर् भर्ता सो ऽस्माकम् अपि धर्मतः
प्रियदर्शनया सार्धम् अभिन्नैव हि मे तनुः ॥

28.31

अर्यपुत्रस् त्वया तस्माद् अर्यपुत्रेति भाष्यताम्
तथा विज्ञाप्यतां चेदं यथावज्ञां न मन्यते ॥

28.32

अस्मदर्थं मया चेयम् उच्यतां प्रियदर्शना
व्रतकोत्सवम् आसेव्य सायाह्ने प्रतियास्यति ॥

28.33

इति श्रुत्वेदम् आसीन् मे को ऽन्यः परिभवः परः
एतस्माद् यद् असाव् आह भार्या प्रस्थाप्यताम् इति ॥

28.34

या वधूस् तातपादानां मम भार्या च सा कथम्
कुटुम्बिजनयोषेव गच्छेत् परगृहान् इति ॥

28.35

अथ मां गोमुखो ऽवोचत् किम् अस्थाने विशङ्कया
नेदं परगृहं देव्यास् तथा विदितम् एव वः ॥

28.36

मङ्गलं हि विवाहान्तम् अस्यास् तत्रैव कारितम्
तच् चैतच् च गृहं तस्माद् अभिन्नं दृश्यताम् इति ॥

28.37

ततस् तद्वचनान् न्याय्याद् अनुज्ञाता सती मया
प्रासादाग्राद् अवारोहत् समं तु प्रियदर्शना ॥

28.38

अथ प्रासादपृष्ठस्थो दान्तैर् उज्ज्वलमण्डनैः
गोभिः प्रवहणं युक्तम् अपश्यं राजवर्त्मनि ॥

28.39

राजकञ्चुकिभिर् वृद्धैर् अनन्तैर् वेत्रपाणिभिः
नारीवर्षवरप्राय जनवृन्दैश् च संवृतम् ॥

28.40

तच् च राजकुलाद् दृष्ट्वा गच्छत्प्रवहणं ततः
तद् दिनं गमयामि स्म दीर्घबन्धनदुर्गमम् ॥

28.41

सूर्यो ऽपि तद् अहर् मन्ये भग्नाक्षस्यन्दनो भवेत्
दैत्योच्छिन्नतुरंगो वा येनास्तं कथम् अप्य् अगात् ॥

28.42

अथ प्रासादम् आरुह्य राजमार्गं निरूपयन्
तद् एव यानम् अद्राक्षं दीपिकावलयावृतम् ॥

28.43

अवतीर्य च हर्म्याग्राद् दीपिकाचन्द्रिकासखीम्
सोपाने दृष्टवान् अस्मि श्राम्यन्तीं प्रियदर्शनाम् ॥

28.44

ताम् आदाय ततः पाणौ मदप्रमदबाधिताम्
चिराद् आरोपयामि स्म हर्म्याग्रशयनान्तिकम् ॥

28.45

क्षणं च तत्र विश्रान्तां ताम् आलिङ्गम् असौ च माम्
ततश् चड् इति विच्छिन्नं तत्काञ्चीगुणबन्धनम् ॥

28.46

शराटिकुररश्रेणिः पुलिनान् नलिनीम् इव
शिञ्जाना रशना शय्यां तन् नितम्बाद् अथापतत् ॥

28.47

तां च भिन्नमणिच्छायाच् छत्रच्छादितदीपिकाम्
दृष्ट्वा पृष्टा मया तस्याः संप्राप्तिं प्रियदर्शना ॥

28.48

बहु श्रोतव्यम् अत्रास्ति क्रमेण श्रूयताम् इति
उक्त्वा रुष्टैव तां दृष्ट्वा साचष्ट स्म कथाम् इमाम् ॥

28.49

अस्त्य् अहं युष्मदादेशाद् गता कन्यावरोधनम्
न च तत्र मया दृष्टा मार्गयन्त्या नृपात्मजा ॥

28.50

ततः परिजनस् तस्याः प्राह मां राजदारिका
गृहोपवनम् अध्यास्ते तत्र संभाव्यताम् इति ॥

28.51

प्रविश्य च मया दृष्टा तस्मिन्न् उद्यानपालिका
वसन्तसुमनःकॣप्त मालाभरणधारिणी ॥

28.52

सा च पृष्टा मयावोचद् यो ऽयं संध्यावदारुणः
अशोकषण्डस् तत्रास्ते विविक्ते राजदारिका ॥

28.53

अनेन चार्यदुहितुर् वक्रेणापि तथा व्रजः
यो ऽयं प्रियङ्गुषण्डस्य याति मध्येन निर्भयः ॥

28.54

दूरात् कुरबकानां च काननम्
माधवीसहकारानाम् अङ्कोलानां च वर्जय ॥

28.55

भ्राम्यन्मधुकरस्तेन सेनासंबाधपादपम्
भृङ्गदंशभयात् कस् तं नाप्रमत्तस् त्यजेद् इति ॥

28.56

तेन च प्रस्थिताद्राक्षं कदम्बकुटजान् अपि
मालतीसप्तपर्णाश् च मञ्जरीच्छन्नपल्लवान् ॥

28.57

मम त्व् आसीद् अहो शक्तिर् दोहदस्य वरीयसी
अनृताव् अपि येनैते जृम्भिताः पादपा इति ॥

28.58

साथ पङ्कजिनीकूले हिमवत्कंधराजते
शिलापृष्ठे मया दृष्टा सान्द्रचन्दनकर्दमे ॥

28.59

समशीतातपे ऽप्य् अस्मिन् वसन्ते शारदीव सा
मध्यंदिने ज्वरेणैव खेद्यमाना बलीयसा ॥

28.60

संततैस् तालवृन्तैश् च चन्दनापाद्रमारुतैः
वीज्यमाना वचोभिश् च सान्त्व्यमानातिकोमलैः ॥

28.61

अथ तस्या मया गत्वा समीपं वन्दना कृता
तयापि क्षिप्तचेतस्त्वान् न किंचिद् अपि भाषितम् ॥

28.62

ततः कुमुदिका तस्याः पादम् आलम्ब्य निष्ठुरम्
प्रतिबुद्धाम् अवोचत् तां भगिनी दृश्यताम् इति ॥

28.63

ततः कुमुदिकाहस्तम् आलम्ब्योत्थाय मां चिरम्
आलिङ्गितवती स्वाङ्गैर् ध्वान्ताङ्गाराग्निदुःसहैः ॥

28.64

सुखासीनां च माम् आह भर्ता ते सुखभागिनि
सततं कुशलीत्यादि तथेति च मयोदितम् ॥

28.65

पुनर् आह स ते भर्ता छात्त्रत्वाद् दुर्जनः किल
आहाराद्यैर् दुराराधस् त्वया तद् इति मे मतिः ॥

28.66

प्रीत्या नन्दोपनन्दाभ्यां येनाहरति साधितम्
तेन नैवोपचर्यो ऽसौ मयेति कथितं मया ॥

28.67

पुनर् उक्तं तया स्मित्वा नेदं संभाव्यते तयोः
राज्यांशो दशमस् ताभ्याम् अभिमानात् किलोज्झितः ॥

28.68

तौ त्वद्भर्तुर् अवित्तस्य पान्थस्याज्ञातजन्मनः
दासम् अभ्युपगच्छेतां कथं नामेति दुर्घटम् ॥

28.69

मयोक्तं सर्वम् अस्त्य् एतत् किं तु तौ दिव्यचक्षुषौ
यद् एवादिशतः किंचित् तत् तथैव हि सिध्यति ॥

28.70

ज्येष्ठस्य च गुणा ज्येष्ठास् ताभ्यां कस्येति मानुषाः
तेनाङ्गीकृतवन्तौ तौ मद्भर्तुर् भृत्यताम् इति ॥

28.71

भगीरथयशाः श्रुत्वा निष्कम्पाक्षी कथाम् इमाम्
तनूरुहविकारेण साश्रुणालिङ्गिता बलात् ॥

28.72

एवं च क्षणम् आसीनाम् आह मां राजदारिका
अङ्गं प्रवहणक्षोभात् खिन्नम् अभ्यञ्ज्यताम् इति ॥

28.73

आस्ताम् आस्ताम् इति मया अनिच्छन्त्या यावद् उच्यते
तावद् बलाद् बलातैलं न्यधात् कुमुदिका मयि ॥

28.74

सर्वथाक्षिनिकोचाद्यैर् उक्त्वा कुमुदिकादिकाः
सा मे ऽभ्यङ्गापदेशेन विवृत्याङ्गानि पश्यति ॥

28.75

एतत् त्वत्करशाखाभिर् लिखितं म्भकम्
मदीयम् अङ्गम् आलोक्य राजदारिकयोदितम् ॥

28.76

अहो सखे सलज्जासि बालिका कुलपालिका
ययेह दुःसहा सोढा कोमलाङ्ग्या कदर्थना ॥

28.77

अथ वा त्वं पराधीना भर्तैव तव निर्दयः
येन प्रबलदर्पेण कृतं वैषम्यम् ईदृशम् ॥

28.78

को ऽन्यो निष्करुणस् तस्मात् त्वं येनोत्पलकोमला
दन्तिनेव महान्धेन मथिता पुण्डरीकिणी ॥

28.79

मत्संदेशं च वाच्यो ऽसौ किम् अस्थाने कृतम् त्वया
न हि चूडामणिः पादे प्रभवामीति बध्यते ॥

28.80

इदं हि कर्कशाः सोढुं शक्ता राजन्यकन्यकाः
छायाकोमलगात्र्यस् तु न हि वानिजदारिकाः ॥

28.81

इत्यादि बहु जल्पित्वा सा माम् उद्वर्तनादिभिः
सत्कारैर् अन्नपानान्तैः संमानितवती चिरम् ॥

28.82

तस्याश् च क्षणसंक्षिप्तं मम संवत्सरायतम्
युष्मत्कथाप्रसङ्गेन सार्कं गतम् इदं दिनम् ॥

28.83

अथाचलनितम्बाभात् स्वनितम्बाद् विमुच्य सा
आमुचन् मेखलाम् एनां मन्नितम्बे लघीयसि ॥

28.84

बहुर् विस्रंसमानायां ग्रन्थिर् अस्यां तया कृतः
स्वहस्तविलतैर् यत्नान् मृणालीतन्तुसूत्रकैः ॥

28.85

ततः प्रस्थापितवती माम् इत्यादि विधाय सा
मेखला स्खलिता चेयं छित्त्वा तत् तन्तुबन्धनम् ॥

28.86

इति तस्यास् तया चित्रे प्रपञ्चे ऽस्मिन् निवेदिते
संकल्पजन्मनामृष्टः संकल्पयितुम् आरभे ॥

28.87

तया यद् गुरु संदिष्टम् उपलब्धं च यत् तया
एतद् एव सुपर्याप्तम् अनुरागस्य लक्षणम् ॥

28.88

यत् पुनर् मेखला बद्धा निःसरैर् बिसतन्तुभिः
सत्स्व् अप्य् अन्येषु सूत्रेषु तत्रेदं चिन्तितं तया ॥

28.89

निर्दयालिङ्गनक्षोभाद् इदं विच्छेदम् एष्यति
अथेयं मेखला स्रस्ता शय्यायां निपतिष्यति ॥

28.90

लम्बां चेमाम् असौ दृष्ट्वा मन्नितम्बविशालताम्
अनया प्रीतिम् आधास्यत्य् अपि काम् इति ॥

28.91

एकैकतो ऽपि वृत्तान्त उपपन्ने तया कृते
मया तु ज्ञातकार्यत्वाद् उत्प्रेक्षेयम् उपेक्षिता ॥

28.92

अथाहम् अब्रवं श्यामा भगीरथयशाः स्फुटम्
कथं वेत्थेति सापृच्छद् अथेत्थम् अहम् उक्तवान् ॥

28.93

गौराणाम् असिताभासम् असितानां सिताधिकम्
श्यामानां मण्डनं तज्ज्ञैस् चित्रवर्णं तु वर्णितम् ॥

28.94

पारिजातस्रगाभाभा यद् इयं मेखला ततः
बाला दूर्वादलश्यामा नियतं राजदारिका ॥

28.95

किं च नान्या ततः काचिद् दर्शनीयतमा यतः
दर्शनीयतमा श्यामा नारीणाम् इति दर्शनम् ॥

28.96

तयोक्तं धिग् धिग् अस्त्व् एषां रत्नलक्षणकारिणाम्
जनः प्रच्छादनीयो ऽपि ख्यापितो यैः शठैर् अपि ॥

28.97

इत्य् आद्या कथया तस्याः क्षपायाः प्रहरद्वयम्
प्राप्त्युपायविचारेण तृतीयः प्रेरितो मया ॥

28.98

मम त्व् असीद् इयं चिन्ता किं ममोपायचिन्तया
देवतास् तत् करिष्यन्ति येन शान्तिर् भविष्यति ॥

28.99

वेगवत्यादिकाप्राप्ताव् उपायः कः कृतो मया
यथा ताः प्राप्तवान् अस्मि तथा राजसुताम् इति ॥

28.100

अथ माम् एकदागत्य सायं कुमुदिकावदत्
भगीरथयशा युष्मान् वन्दित्वा याचते यथा ॥

28.101

ये मयारोपिताश् चूता माधवीचम्पकादयः
ते जाता मञ्जरीभार भरभङ्गुरपल्लवाः ॥

28.102

अतः श्वस् तत्र गत्वाहं माधवीसहकारयोः
कर्त्री विवाहसंस्कारम् अपरेषां च पूजनम् ॥

28.103

तेन युष्मद्गृहद्वाराद् गृहीत्वा प्रियदर्शनाम्
प्रातर् एव प्रायातास्मि तद् एषा मुच्यताम् इति ॥

28.104

अथ तस्यै प्रतिज्ञाय गच्छत्व् एवं भवत्व् इति
द्रष्टव्या राजपुत्रीति खिद्यमानो ऽनयं निशाम् ॥

28.105

प्रातः कुमुदिकागत्य भाषते स्म ससंभ्रमा
भगीरथयशाः प्राप्ता गच्छत्व् अर्यसुतेति माम् ॥

28.106

अथ तां दृष्टवान् अस्मि प्रस्थाप्य प्रियदर्शनाम्
प्रासादाग्रस्थितो द्वाःस्थ स्वच्छप्रवहणास्थिताम् ॥

28.107

आस्तां च मम तां दृष्ट्वा क्षणं मानसचक्षुषी
सुषुप्ताव् अस्थितस्येव नष्टसंकल्पदर्शने ॥

28.108

सर्वथा पुण्यवन्तस् ते सुरासुरनरोरगाः
असाव् अकालमृत्युर् यैर् नारीरूपो न वीक्षितः ॥

28.109

तया चाननम् उन्नम्य हृष्टः संदृष्टवान् अहम्
सहस्राक्षं स्वम् आत्मानं तच्चक्षुष्कादिकोज्ज्वलम् ॥

28.110

मां च मद्दयितां नासौ संमानितवती समम्
मयि दृष्टम् अदात् तस्यां गाढ ठग्रहार्हणाम् ॥

28.111

अथ स्वयानम् आरोप्य सा प्रियां प्रियदर्शनाम्
कञ्चुक्यादिचमूगुप्ता नगरोपवनं गता ॥

28.112

अहं तु तद् दिनं नीत्वा कृच्छ्रान् मन्दिरनिष्कुटे
हर्म्यमूर्धानम् आरोहं राजपुत्रीदिदृक्षया ॥

28.113

अथ प्रवहणेनासौ नभस्वत्पटुरंहसा
मद्गृहद्वारम् आगच्छद् दूराद् उन्नमितानना ॥

28.114

सा च मां तत्र पश्यन्ती संततं प्रियदर्शनाम्
गाढं निष्पीडयन्ती च चिरम् अङ्गं न्यपीडयत् ॥

28.115

वन्दनाच्छद्मना पश्चान् माय्य् आत्मानं निधाय सा
चेतोविनिमयं कृत्वा प्रवृत्ता शिबिकाम् इति ॥

28.116

आराधयामि नृपसूनुकृते नु गौरीं किं खानयामि चतुरैस् त्वरितं सुरुङ्गाम्
इत्याद्युपायशतचिन्तनतान्तचेताः कृच्छ्रान् निशाम् अनयम् अप्रतिलब्धनिद्रः ॥

मूल पाठ: Bṛhatkathāślokasaṃgraha · Edition: the text edited by Felix Lacote (Paris, 1908). It was · Data entry Andreas Bigger · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc