बृहत्कथाश्लोकसंग्रह · अध्याय 26
इत्यादिकुटिलालाप कलापगमितत्रपाम्
ताम् आमन्त्र्य स्वम् आवासम् अगच्छं सहगोमुखः ॥
एकदा पुनर् आयातस् तयानुष्ठितस्सत्क्रियः
विपणेर् गृहम् आयातम् अपश्यं प्रियदर्शनम् ॥
कञ्चुकं मुञ्चतस् तस्य मया दृष्टः पयोधरः
पयोधरान्तरालक्ष्यः शशीव परिमण्डलः ॥
आसीच् च मम योषैषा यतस् तुङ्गपयोधरा
स्तनकेशिवतीत्वं हि प्रथमं स्त्रीत्वलक्षणम् ॥
लोकस् तु यद् इमां सर्वः प्रतिपन्नः पुमान् इति
भ्रान्तिज्ञानम् इदं तस्य किंचित् सादृश्यकारितम् ॥
अथ वा किं विकल्पेन ममातिमिरचक्षुषः
न हि दृष्टेन दृष्टार्थे द्रष्टुर् भवति संशयः ॥
इत्यादि बहुसंकल्पम् अनिमेषविलोचनम्
अपश्यद् ऋषिदत्ता मां पश्यन्तं प्रियदर्शनम् ॥
अथासौ गद्गदालापा प्रीतिबाष्पावृतेक्षणा
आत्मानं चेतयस्वेति प्रियदर्शनम् अब्रवीत् ॥
असाव् अपि तम् उद्देशं प्रकाश्य झगिति त्विषा
तडिद्गुण इवाम्भोदं प्राविशन् मन्दिरोदरम् ॥
ऋषिदत्ताम् अथापश्यं क्रोधविस्फारितेक्षणः
ययापक्रमितः श्रेष्ठी मम लोचनगोचरात् ॥
उत्थाय च ततः स्थानात् सकामक्रोधगोमुखः
पुनर्वसुगृहं प्राप्य पर्यङ्कशरणो ऽभवम् ॥
ततः क्रमं परित्यज्य कामावस्थापरंपरा
तुमुलायुधिसेनेव युगपद् माम् अबाधत ॥
अथाचिरागतश्रीको यथा बालः पृथग्जनः
तथाज्ञापितवान् अस्मि गोमुखं रूक्षया गिरा ॥
अपि प्रव्रजिताभर्तः प्रिया मे प्रियदर्शना
अकृतप्रतिकर्मैव क्षिप्रम् आनीयताम् इति ॥
स तु माम् अब्रवीत् त्रस्तः का नाम प्रियदर्शना
त्याजिताः स्थ यया सद्यश् चेतसः स्थिरताम् इति ॥
मयोक्तं तव यः स्यालः पुरुषः प्रियदर्शनः
अयम् एव जगत्सारः प्रमदा प्रियदर्शना ॥
यच् च वक्ष्यसि सर्वस्यां वाराणस्याम् अयं पुमान्
भवतः कथम् एकस्य प्रमदेति तद् उच्यते ॥
ऋषिदत्ता विरक्तेति परिच्छिन्ना पुरा तया
अधुना भवतः कान्ता जातेत्य् अत्र किम् उच्यते ॥
गतानुगतिको लोकः प्रवृत्तो हि यथा तथा
परमार्थं पुनर् वेद सहस्रैकः पुमान् इति ॥
तेनोक्तं जनतासिद्धं विरुद्धम् अपि न त्यजेत्
क्रियते छगलः श्वापि संहत्य बहुभिर् बलात् ॥
तेन युष्मद्विधैः प्राज्ञैर् न वाच्यं सद् अपीदृशम्
अश्रद्धेयं न वक्तव्यं प्रत्यक्षम् अपि यद् भवेत् ॥
श्रूयतां च कथा तावद् अर्थस्यास्य प्रकाशिका
प्रमाणं हि प्रमाणज्ञैः पुराकल्पे ऽपि वर्तितम् ॥
बभूव कौशिको नाम वेदवेदाङ्गविद्द्विजः
सत्यव्रततया लोके प्रसिद्धः सत्यकौशिकः ॥
कदाचिद् अभिषेकाय तेन यातेन जाह्नवीम्
सशिष्यपरिवारेण तरन्ती प्रेक्षिता शिला ॥
महतासौ प्रयत्नेन शिष्यान् अन्वशिषत् ततः
नायम् अर्थो महानर्थः प्रकाश्यः पुत्रकैर् इति ॥
अथैकश् चपलस् तेषां बटुः पिङ्गलनामकः
विपणौ मन्त्रयां चक्रे कस्यचिद् वणिजः पुरः ॥
श्रेष्ठि किं न शृणोष्य् एकम् आश्चर्यं कथयामि ते
तरन्तीं दृष्टवान् अस्मि सोपाध्यायः शिलाम् इति ॥
अथान्तःपुरिका दासी किम् अपि क्रेतुम् आगता
एतद् आलापम् आकर्ण्य राजपत्न्यै न्यवेदयत् ॥
तयापि कथितं रज्ञे स तां पृष्ट्वा परंपराम्
बटुनाख्यातम् आह्वाय्य पृष्टवान् सत्यकौशिकम् ॥
सत्यं बूहीति नो वाच्यः सत्यवादिव्रतो भवान्
मिथ्या ब्रूहीति नो वाच्यः कामी मिथ्याव्रतो हि सः ॥
किं तु यत् पिङ्गलेनोक्तम् एतद् युक्तं परीक्षितुम्
प्रमदात् सत्यम् अप्य् एते वदन्ति बटवो यतः ॥
सशिष्यैः किल युष्माभिस् तरन्ती प्रेक्षिता शिला
किम् एतत् सत्यम् आहो स्विन् मृषेत्य् आख्यायताम् इति ॥
आसीच् चास्य धिग् एतां मे निन्दितां सत्यवादिताम्
दुःश्रद्धानम् अनिष्टं च यन् मया वाच्यम् ईदृशम् ॥
न सत्यम् अपि तद् वाच्यं यद् उक्तम् असुखावहम्
इति सत्यप्रवादो ऽयं न त्याज्यः सत्यवादिभिः ॥
तस्मात् सत्यम् इदं त्यक्त्वा मृषावादशताधिकम्
असत्यम् अभिधास्यामि सत्यवादशताधिकम् ॥
अथावोचत् स राजानं राजन् मिथ्या बटोर् वचः
अग्निं पश्यति यः शीतं प्लवमानां शिलाम् असौ ॥
कः श्रद्दध्याद् बटोर् वाचं निसर्गाधीरचेतसः
चपलस्योपमानं हि प्रथमं बटुमर्कटाः ॥
विषण्णम् इति विश्वास्य राजानं सत्यकौशिकः
विरुद्धवादिनं क्रुद्धः पिङ्गलं निरवासयत् ॥
तद् एवं लोकविद्विष्टम् अनुयुक्तो ऽपि भूभृता
सत्यम् सत्यप्रतिज्ञो ऽपि नावदत् सत्यकौशिकः ॥
युष्माकं पुनर् अज्ञात शीलचारित्रजन्मनाम्
विरुद्धम् इदम् ईदृक् कः श्रद्दध्याद् वदताम् इति ॥
स मयोक्तो भवान् एव दुःश्रद्धानस्य भाषिता
यस्यास्मिन् प्रमदारत्ने पुमान् इति विपर्ययः ॥
किं चानेन प्रलापेन स्त्रीरत्नं प्रियदर्शनाम्
अचिरात् स्वीकरिष्यामि क्रोशतां त्वादृशाम् इति ॥
एवं च मम वृत्तान्तं विजानन्न् अपि गोमुखः
वैद्यराजं समाहूय वैद्यराजम् उपागमत् ॥
स ममालापम् आकर्ण्य कायच्छायां विलोक्य च
प्रधार्य चापरैर् वैद्यैः शनकैर् इदम् अब्रवीत् ॥
मानसो ऽस्य विकारो ऽयम् ईप्सितालाभहेतुकः
तेनास्मै रुचितं यत् तद् आशु संपाद्यताम् इति ॥
अथ नन्दोपनन्दाभ्यां संस्कार्याहारम् आदरात्
मां पुनर्वसुहस्तेन गोमुखः प्राग् अभोजयत् ॥
स चाहारः सुसंस्कारो लोभनो ऽप्य् अमृताशिनाम्
त्रिफलाक्वाथवद्द्वेषान् ममाङ्गानि व्यधूनयत् ॥
ततो नन्दोपनन्दाभ्यां भोज्यमानः क्रमेण तौ
सविषादौ करोमि स्म विषादाव् इव वैरिणौ ॥
तेषु वन्ध्यप्रयत्नेषु गोमुखः प्रियदर्शनम्
लज्जामन्दपदन्यासं नमिताननम् आनयत् ॥
स मां समानपर्यङ्क मध्यम् अध्यासितस् ततः
ग्रासान् अग्रासयत् षड् वा सप्त वा गोमुखाज्ञया ॥
ये तत्पाणिसरोजसङ्गसुभगा ग्रासा मया स्वादितास् तैः सद्यस् तनुताम् अनीयत स मे संकल्पजन्मा ज्वरः
शैलेन्द्राः शुचिशुक्रभानुदहनप्लुष्टोपलाधित्यका मन्दैर् अप्य् उदबिन्दुभिर् नवतरैर् उज्झन्ति संतप्तताम् ॥
मूल पाठ: Bṛhatkathāślokasaṃgraha · Edition: the text edited by Felix Lacote (Paris, 1908). It was · Data entry Andreas Bigger · GRETIL (Göttingen) · CC BY-NC-SA 4.0