भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्कथाश्लोकसंग्रह · अध्याय 25

25.1

तत्र नन्दादिभिर् मित्रैर् आराधनविशारदैः
अकृत्रिमसुहृद्भावैः स.गतः सुखम् आसिषि ॥

25.2

एकदाहारवेलायां दृश्यते स्म न गोमुखः
अथ नीतम् अनाहारैर् अस्माभिर् अपि तद् दिनम् ॥

25.3

असौ तु सायम् आगत्य नातिस्वाभाविकाकृतिः
तद् अनाथमतोद्विग्नं मां विनीतवद् उक्तवान् ॥

25.4

राजमार्गे मया दृष्टः पौरसंघातसंकटे
भृत्यो हरिशिखस्यैव लोकेनान्तरितः स च ॥

25.5

तद्गवेषयमाणेन मयाद्य गमितं दिनम्
कार्ये हि गुरुणि व्यग्रं जिघत्सापि न बाधते ॥

25.6

स चावश्यं मयान्वेष्यः सुहृद्वार्त्तोपलब्धये
तस्मान् मा माम् अपश्यन्तः कृध्वं दुःखासिकाम् इति ॥

25.7

मया चायम् अनुज्ञातः क्षिप्तसप्ताष्टवासरः
मदमन्थरसंचारो बहुजल्पन्न् उपागमत् ॥

25.8

अथैनम् अहम् आलोक्य क्रोधक्षोभितमानसः
स्थित्वा क्षणम् अनालापः परुषालापम् अब्रवम् ॥

25.9

ईदृशस् तादृशः प्राज्ञः प्रेक्षाकारी च गोमुखः
इति पङ्गोस् तुरंगस्य कृता गरुडवेगता ॥

25.10

पूर्वं ब्राह्मणम् आख्याय समस्तायाः पुरः पुरः
अधुना मधुना मत्तः कथं पश्यसि माम् इति ॥

25.11

अथ माम् अयम् आह स्म न मदः पारमार्थिकः
सदोषं तु वचो वक्तुं मयायं कृत्रिमः कृतः ॥

25.12

मत्तस्य किल वाग्दोषाः पारुष्यानृततादयः
दूषयन्ति न वक्तारम् अतो ऽयं कृत्रिमो मदः ॥

25.13

ततस् तम् उक्तवान् अस्मि संभावितगुणस्य ते
मदप्रच्छादनोपायः किं न्व् अदोषो ऽपि विद्यते ॥

25.14

अथानेनोक्तम् अस्तीति कथम् इत्य् उदिते मया
अयम् आरभताख्यातुं लज्जामन्थरिताक्षरम् ॥

25.15

श्रूयताम् ऋषिदत्ता मे यत्र नेत्रपथं गता
आरभ्य दिवसात् तस्माच् चेतोविषयताम् इति ॥

25.16

निरवग्रहतां बुद्ध्वा चित्तस्याथ ममाभवत्
कस्माद् अविषये चक्षुश् चेतसा मे प्रसारितम् ॥

25.17

ज्ञातधर्मार्थशास्त्रत्वात् स्थानात् साधुसभासु च
रागाधीनं न मे चक्षुः प्रवृत्तं गणिकास्व् अपि ॥

25.18

नूनम् एषा परिग्राह्या मम प्रव्रजिता यतः
संकल्पेन ममैतस्यां दुर्दान्ततुरगो ऽयतः ॥

25.19

तस्माद् अस्याम् अनिष्टस्य संकल्पस्य निबन्धनम्
जिज्ञास्ये तावद् इत्य् एनाम् अगच्छं द्रष्टुम् अन्व् अहम् ॥

25.20

नानाकारैर् विनोदैश् च देशान्तरकथादिभिः
द्वित्रैर् एव दिनैस् तस्या विश्वासम् उदपादयम् ॥

25.21

एकदा प्रस्तुतालापः पृष्टो ऽहम् ऋषिदत्तया
के के देशास् त्वया दृष्टाः क्रामता पृथिवीम् इति ॥

25.22

समृद्धिः सशरीरेव कौशाम्बी यत्र पत्तनम्
वत्सदेशः स दृष्टः प्राङ् ममेति कथिते मया ॥

25.23

तयोक्तम् अलम् आलापैर् अपरैस् तव दुर्भगैः
क्रियतां वत्सकौशाम्बी संबन्धैव पुनः कथा ॥

25.24

अथ जानासि कौशाम्ब्याय्म् आकारजितमन्मथम्
गोमुखं नाम निष्णातं सविद्यासु कलास्व् इति ॥

25.25

अथाचिन्तयम् आत्मानम् एतस्यै कथयामि किम्
अथ वा धिग् अधीरं माम् एवं तावद् भवत्व् इति ॥

25.26

ततो ऽहम् उक्तवान् आर्ये जानासीति किम् उच्यते
आत्मानं को न जानाति स हि मे परमः सुहृत् ॥

25.27

अथ वा न विशेषो ऽस्ति सूक्ष्मो ऽपि मम गोमुखात्
तेन मां पश्यता व्यक्तं दृष्टो भवति गोमुखः ॥

25.28

अथासौ लोचनान्तेन बाष्पस्तिमितपक्ष्मणा
सानुरागेव दृष्ट्वा मां चिरं मन्थरम् अब्रवीत् ॥

25.29

गोमुखः किल रूपेण कलाकौशलचारिणा
वत्सराजसुतं मुक्त्वा नान्येन सदृशः क्षितौ ॥

25.30

यदि चासौ त्वदाकारस् त्वत्कलाजालपेशलः
विद्याधरकुमारेण गोमुखः सदृशस् ततः ॥

25.31

यस् त्वदाकारविज्ञानः सर्वथा पुण्यवान् असौ
गन्धशैलो ऽपि हि श्लाघ्यस् तुल्यमानः सुमेरुणा ॥

25.32

इत्य् उक्त्वा चीवरान्तेन मुखम् आवृत्य नीचकैः
असौ रोदितुम् आरब्धा सोत्कमस्तनमण्डला ॥

25.33

ऋषिदत्ताम् अथावोचम् आर्ये किं कारणं त्वया
रुद्यते मृतपत्येव गोमुखश्रवणाद् इति ॥

25.34

तयोक्तं श्रूयताम् अस्ति विद्वान् राजगृहे वणिक्
पद्मो नाम धनं यस्य पद्मस्येव महानिधेः ॥

25.35

कुटुम्बाचारचतुरे प्रिये पत्युः पतिव्रते
सुमना महदिन्ना च तस्य भार्ये बभूवतुः ॥

25.36

तयोर् अभवतां पुत्रौ मातृनामसनामकौ
पुत्राभ्यां दयिते पित्रोस् तथा दुहितराव् अपि ॥

25.37

तत्र या सुमना नाम तस्याः सुमनसः सुता
नगर्यां परिणीतात्र श्रेष्ठिना कालियेन सा ॥

25.38

दुहिता महदिन्नाया या च मातुः सनामिका
चेदिवत्सेशमित्रेण परिणीतर्1षभेण सा ॥

25.39

ऋषभान् महदिन्नायाम् उत्पन्नः किल गोमुखः
न कुतश्चिन् न कस्यांचित् कश्चिज् जगति यादृशः ॥

25.40

अहं तु महदिन्नस्य तनया गुणशालिनः
हिमाद्रेर् अपि नियान्ति सरितः क्षारवारयः ॥

25.41

साहं बालैव गुरुभिर् गोमुखाय प्रतिश्रुता
कं हि नाम न गच्छन्ति कन्यापित्रोर् मनोरथाः ॥

25.42

काले क्वचिद् अतीते तु तं गुणैर् जनवल्लभम्
हिमकाल इवासाधुः कालः पद्मम् अनाशयत् ॥

25.43

तत्कुटुम्बं ततस् तेन धारकेन विना कृतम्
उन्मूलितदृढस्तम्भ मन्दिरावस्थां गतम् ॥

25.44

वाराणस्यां ततः पित्रा स्वसुः सुमनसो गृहे
स्थापिताहं पितृष्वस्रा दुहितेव च लालिता ॥

25.45

संतताद्यैः क्रमेणाथ ज्वरैः पञ्चभिर् अप्य् अहम्
पीड्यमाना बभूवान्धा प्रत्याख्याता चिकित्सकैः ॥

25.46

अत्र चागाधजैनेन्द्र शास्त्रसागरपारगा
असीच् छ्रुतधरा नाम श्रमणा करुणावती ॥

25.47

एतं वाचा समानीय मन्त्रागदविशारदा
माम् असाव् अचिरेणैव तस्माद् व्याधेर् अमोचयत् ॥

25.48

स्वस्थावस्थां च मां दृष्ट्वा सुमना गृहम् आनयत्
अथ क्रोधाद् इवागृह्णात् सैव ज्वरपरंपरा ॥

25.49

ततः श्रुतधारायै माम् अर्पयत् सुमनाः पुनः
स च यातः पुनर् व्याधिर् मन्त्रागदभयाद् इव ॥

25.50

श्रवणाम् अवदद् दैन्याद् दुर्मनाः सुमनास् ततः
प्रव्रज्याग्राहणेनेयं बालिका जीव्यताम् इति ॥

25.51

तथा चाग्राहयत् सा माम् अर्हत्प्रवचनं यथा
सकलः श्रमनासंघः सिष्यताम् अगमन् मम ॥

25.52

केवलज्ञानदीपेन दृष्ट्वा संसारफल्गुताम्
निर्वाणस्य च सारत्वं निष्ठां श्रुतधरागमत् ॥

25.53

निर्वृत्तायां ततस् तस्यां संहत्य श्रमणागणः
गणनीम् अकरोद् अस्मिन् विहारे माम् अनिच्छतीम् ॥

25.54

ध्यानं यद् यत् समापद्य देवतालम्बनं निशि
बलाद् आलम्बनं तत्र गोमुखः संनिधीयते ॥

25.55

यदा यदा च गोशब्दम् अधीयाना वदाम्य् अहम्
मुखोत्तरपदस् तत्र जायते स तदा तदा ॥

25.56

जल्पन्ती मुखशब्दं च प्रयुञ्जे यदि केवलम्
गोशब्दपूर्वपदतां बलात् तत्रोपगच्छति ॥

25.57

गोमुखेन परामृष्टं श्लाघनीयं तृणाद्य् अपि
इति चिन्तापराधीना महान्तं कालम् अक्षिपम् ॥

25.58

तावच् च न मया त्यक्ता प्रत्याशा गोमुखाश्रया
आगता यावद् अन्यैव वार्त्ता दत्तनिराशता ॥

25.59

चम्पास्थस्य प्रभोर् मूलं प्रस्थितः सबलः किल
गोमुखः ससुहृद्वर्गः पुलिन्दैर् अन्तरे हतः ॥

25.60

यच् चास्मि न मृता सद्यः श्रुत्वा गोमुखवैशसम्
विचारणसमर्थायाः प्रज्ञायाः सा समर्थता ॥

25.61

आसीच् च मम जीवन्ती जीवितस्य महत् फलम्
रम्याम् आकर्णयिष्यामि गोमुखस्य कथाम् इति ॥

25.62

अपि चापरम् अप्य् अस्ति जीवितालम्बनं मम
हतः प्रवादमात्रेण गोमुखः शबरैर् इति ॥

25.63

तेन गोमुखसंबन्धाम् आकर्ण्य रुदितं मया
अमृताभ्यधिकत्वे ऽपि दुःखहेतुं कथाम् इति ॥

25.64

मम त्व् आसीद् यथाहेयं सर्वं तद् उपपद्यते
युष्मद्दासाः कथं कुर्युः पापसंकल्पम् अन्यथा ॥

25.65

स्वैर् इयं गुरुभिर् दत्ता मदीयैर् अपि यार्थिता
कुमारी सानुरागा च तस्मान् न त्यागम् अर्हति ॥

25.66

इत्यादि बहु निर्धार्य तत्स्वीकरणकारणम्
अदुष्टं ग्रहणोपायम् अहम् एतं प्रयुक्तवान् ॥

25.67

स्वादुना पिण्डपातेन वन्दनेन चिकित्सया
मर्दनाभ्यञ्जनाद्यैश् च लघु संघम् अतोषयम् ॥

25.68

व्यग्रेण चात्र वृत्तान्ते दत्तं वः कृतकोत्तरम्
मित्रवार्ताविदाव्यग्रं प्रतीक्षध्वं न माम् इति ॥

25.69

ऋषिदत्ताम् अथावोचं स्वशिल्पे लब्धकौशलाः
श्रावकैः संनिधार्यन्ताम् अन्नसंस्कारकारकाः ॥

25.70

अर्हताम् अर्हणं कृत्वा गन्धवासस्रगादिभिः
ऋषिभ्यः श्रमणाभ्यश् च दातुम् इच्छामि भोजनम् ॥

25.71

मिथ्यादृष्टिसहस्राणि भोजयित्वा यद् अर्ज्यते
तद् एकम् अर्हतं भक्त्या सद्यः पापं प्रमार्ज्यते ॥

25.72

तेन सन्तीह यावन्तः प्रियसर्वज्ञशासनाः
सश्रावकगणान् आर्यांस् तांस् तद् आमन्त्र्यताम् इति ॥

25.73

सर्वथा साधितः सूदैर् आहारः स तथा यथा
जितजिह्वैर् अपि प्रीतं जिनशासनपारगैः ॥

25.74

अथाहम् ऋषिदत्तायाः पुरः सकृतकज्वरः
पतितस् तुङ्गरोमाञ्चः सवेपथुविजृम्भकः ॥

25.75

तादृशी च मया व्यक्ता ज्वरितानुकृतिः कृता
दुष्करः परितापो ऽपि यथा संभावितस् तया ॥

25.76

किम् एतद् इति चापृच्छत् सा माम् उज्ज्वलसंभ्रमा
दन्तकूजितसंभिन्नं मयाप्य् एतन् निवेदितम् ॥

25.77

षड्रात्राभक्षणक्षामो गृहीतो वातहेतुना
ज्वरेणानुभवाम्य् एताम् अवस्थाम् ईदृशीम् इति ॥

25.78

ततः स्वस्वपनावासे श्रमणागणसंकुले
माम् असौ करुणाविष्टा संवाहितवती चिरम् ॥

25.79

अथ संघट्टयन् दन्तान् उक्तवान् अस्मि तां शनैः
महाजनविविक्तो ऽयम् आवासः क्रियताम् इति ॥

25.80

ऋषिदत्ताकृतानुज्ञास् ताश् च प्रव्रजिता गताः
तदभिप्रायजिज्ञासुर् अथ ताम् इदम् अब्रवम् ॥

25.81

आर्ये विरुध्यते स्त्रीणां पितृभ्रातृसुतैर् अपि
व्रतस्थानां विशेषेण स्थातुं सह रहश् चिरम् ॥

25.82

अहं च कितवः पान्थः संभाव्याविनयाक्र्टिः
पृथग्जना जनाश् चैते तेन निर्गम्यताम् इति ॥

25.83

तयोक्तं क्षणम् अप्य् एकम् अशक्ता स्वस्थम् अप्य् अहम्
मुक्त्वा त्वां स्थातुम् अन्यत्र किं पुनः संततज्वरम् ॥

25.84

संभावनापि रम्यैव मादृश्यास् त्वादृशा सह
श्लाघ्या किंशुकशाखापि वसन्तसहचारिणी ॥

25.85

धन्यो ज्वरो ऽपि येनेदं त्वदङ्गम् उपयुज्यते
कालकूटम् अपि श्लाघ्यं लीढशंकरकंधरम् ॥

25.86

एवमादि ब्रुवाणैव प्रखलीकृतसाधुना
सा महाग्रहचण्डेन गृहीता भावजन्मना ॥

25.87

मम त्व् आसीद् इयं चिन्ता सत्यम् आहुश् चिकित्सकाः
सर्वे संक्रामिणो रोगाः स्पृशतां प्राणिनाम् इति ॥

25.88

मदीयः कृत्रिमो ऽप्य् एनं यत्र संक्रामति ज्वरः
कथं नाम न संक्रमेत् तत्र यः परमार्थिकः ॥

25.89

तथा हि स्वेदरोमान्च बाष्पकम्पविजृम्भिका
ज्वरस्य परिवारो ऽयम् अङ्गम् अस्याः प्रबाधते ॥

25.90

सर्वथा स्मरशास्त्रेषु यद् इङ्गितम् उदाहृतम्
लावण्यम् इव गात्रेषु तद् अस्याः प्रास्फुरत् स्फुटम् ॥

25.91

ततस् ताम् उक्तवान् अस्मि धिक् त्वां निष्करुणाशयाम्
शीतज्वरार्तम् अङ्गैर् या न पीडयसि माम् इति ॥

25.92

अथाश्लिष्यं तथा सा मां नादृश्यत यथा पृथक्
विरलेवारुणालोकं निशान्तशशिचन्द्रिका ॥

25.93

ततस् ताव् आवयोश् चण्डौ तथाश्लेषचिकित्सया
अपायातां मुहूर्तेन कृत्रिमाकृत्रिमौ ज्वरौ ॥

25.94

यातायाम् अथ यामिन्यां बुद्ध्वा वृत्तान्तम् ईदृशम्
संघः संहत्य तां स्वस्मान् निवासान् निरवासयत् ॥

25.95

अथ प्रवहणारूढाम् ऋषिदत्तां मया सह
अनयन् मुदितः श्रेष्ठी गृहं मङ्गलसंकुलम् ॥

25.96

तत्रावयोः ससुमनाः सुमनाः प्रियदर्शनः
प्रीतनागरकानीकं करग्रहम् अकारयत् ॥

25.97

तद् एवम् ऋषिदत्ता वः संवृत्ता परिचारिका
अथ वा किं विकल्पेन स्वयम् आलोक्यताम् इति ॥

25.98

तथापि कथितं तेन नैव संशयम् अत्यजम्
दुःश्रद्धानं हि सहसा काकतालीयम् ईदृशम् ॥

25.99

मालालंकारवस्त्रादि गृहोपकरणानि च
प्रस्थाप्य प्राक् तदार्हाणि तां दिदृक्षुस् ततो ऽगमम् ॥

25.100

तत्र चासौ मया दृष्टा चित्रांशुकविभूषणा
नानापुष्पां हसन्तीव वसन्तोपवनश्रियम् ॥

25.101

प्रतिमाः काष्ठमय्यो ऽपि शोभन्ते भूषितास् तथा
लज्जितासुरकन्यासु तादृशीषु तु का कथा ॥

25.102

प्रव्रज्यायां पुनर् यस्याः कान्तिर् यासीद् अकृत्रिमा
दुर्लभाणि क्वचित् तस्या वाचकान्य् अक्षराण्य् अपि ॥

25.103

आसीच् च मम दुःश्लिष्टं कान्तरूपविरूपयोः
अलंकारकलापस्य गुरुसारस्य धारणम् ॥

25.104

अलंकारावृता तावत् कान्तरूपस्य चारुता
न शक्या सर्वथा द्रष्टुं जनैर् लोलेक्षणैर् अपि ॥

25.105

विरूपस्य तु वैरूप्यं यत् प्रच्छादनम् अर्हति
प्रकाशयति तल् लोके पटुमण्डनडिण्डिमः ॥

25.106

अथाधिष्ठितपर्यङ्कम् ऋषिदत्तोपगम्य माम्
अवन्दत प्रहृष्टापि प्रव्रज्यात्यागलज्जिता ॥

25.107

ततस् ताम् उक्तवान् अस्मि सख्याः किं कार्यम् आशिषा
सरागैव सती या त्वं वीतरागगतिं गता ॥

25.108

मोक्षः कारुणिकैर् उक्तः सिद्धैर् दुःखक्षयः किल
क्षीणदुःसहदुःखत्वान् मोक्षं प्राप्तासि सर्वथा ॥

25.109

सर्वथा सुभगतामहोद्धतः किंकरो भवतु गोमुखस् तव
यो,सितो हि जितदृष्टभर्तृकास् तोषयन्ति जननीसखीजनम् ॥

मूल पाठ: Bṛhatkathāślokasaṃgraha · Edition: the text edited by Felix Lacote (Paris, 1908). It was · Data entry Andreas Bigger · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc