बृहत्कथाश्लोकसंग्रह · अध्याय 24
अथ नन्दोपनन्दाभ्यां सेव्यमानः स्वकर्मणा
पुनर्वसुगृहे स्तोकान् दिवसान् अवसं सुखी ॥
कदाचिन् मन्दिराग्रस्थः कुर्वन्न् आशावलोकनम्
श्रमणां दृष्टवान् अस्मि शिष्यासंघपुरःसरीम् ॥
कविभिस् तैर् अनात्मज्ञैर् बुद्धिर् आयास्यते वृथा
ये तस्या वर्णसंस्थाने वर्णयन्ति हतत्रपाः ॥
सर्वथा तं विधातारं धिग् यत् किंचनकारिणम्
येनाकारविरुद्धो ऽस्याम् आचारो दुर्भगः कृतः ॥
सर्वो हि विनियोगार्थम् अर्थः सर्वेण सृज्यते
घटयित्वा घटः केन लोष्टेन शकलीकृतः ॥
धात्रा पुनर् इयं सृष्टा कोमलेव मृणालिनी
शोषिता तुहिनेनेति धिक् तस्य खलताम् इति ॥
ततस् तां चिरम् आलोक्य निर्निमिषेण चक्षुषा
गोमुखः स्फुरितोत्साहः पृच्छति स्म पुनर्वसुम् ॥
अलंकृतपुरीमार्गैर् ऊरुगौरवमन्थरैः
एषा प्रव्रजिता भद्र क्व गच्छति गतैर् इति ॥
तेनोक्तम् ऋषिदत्तेयम् आर्हतं धर्मम् आस्थिता
वीतरागतया सिद्धान् अतिशेते जिनान् अपि ॥
एषा बालसखीं दृष्ट्वा सततं राजदारिकाम्
कन्यकान्तःपुराद् एति याति स्वशयनासनम् ॥
इत्यादि कथयित्वासाव् ऋषिदत्ताम् अवन्दत
अम्बिके सहशिष्यायास् ते नमो ऽस्तु नमो ऽस्त्व् इति ॥
तं च प्रव्रजितावोचद् असंभाष्यो भवान् इति
किम् अर्थम् इति तेनोक्ते तयोक्तम् अवधीयताम् ॥
ज्ञानाधिक्षिप्तसर्वज्ञौ रूपविस्मारितस्मरौ
द्विजौ ज्येष्ठकनिष्ठाख्यौ त्वद्गृहे किल तिष्ठतः ॥
तत् संदर्शनसंभाषा जनितं च सुखं त्वया
द्रविणं कृपणेनेव प्रच्छन्नम् उपभुज्यते ॥
सुहृत्साधारणं यस्य सुखं स परमं सुखी
सुखसंवरणायासाद् विपरीतस् तु दुःखितः ॥
सुहृद्भिः कुपितैस् तस्माद् असंभाष्यः कृतो भवान्
तेषाम् अत्रानयोपायः समर्थश् चिन्त्यताम् इति ॥
अथोच्चैर् गोमुखेनोक्तम् अचिरेण पुनर्वसुः
॥
।
सहनन्दोपनन्दश् च जिनायतनमण्डपम् ॥
अर्हतस् तत्र वन्दित्वा संघं चीवरवाससम्
ऋषिदत्तां च तद् दत्ते विष्टरे समुपाविशम् ॥
अवलम्बितबाहुस् तु मुक्तकक्षश् च गोमुखः
स्थित्वा देवकुलद्वारे जिनस्तोत्रम् उदाहरत् ॥
नमो ऽस्तु सर्वसिद्धेभ्यः साधुभ्यश् च नमो ऽस्तु वः
ऋषभप्रमुखेभ्यश् च सर्वज्ञेभ्यो नमो ऽस्त्व् इति ॥
साधु श्रावक धन्यो ऽसि यः सर्वज्ञं नमस्यसि
इत्यादि बहु निर्ग्रन्थाः प्रीत्यास्तुवत गोमुखम् ॥
अथायम् ऋषिदत्तायाः पादौ गाढं निपीडयन्
अब्रवीत् सुप्रसन्नौ मे भवन्तौ भवताम् इति ॥
तया त्व् अस्य प्रयुक्ताशीर् अस्माकं लघुशासने
श्रावकस्यापि संवाद्या प्रतिपत्तिर् भवत्व् इति ॥
अथोक्तम् उपनन्देन वीणागोष्ठी प्रवर्त्यताम्
एष संनिहितः संघः सकलः सुहृदाम् इति ॥
अन्येनोक्तम् अनायाते प्रवीणे गङ्गरक्षिते
असंनिहितहंसेव नलिनी नीरवा सभा ॥
तस्मान् महाप्रतीहारं भवन्तो गङ्गरक्षितम्
उदीक्षन्ताम् इति ततः संप्राप्तो गङ्गरक्षितः ॥
तं दृष्ट्वा नागरैर् उक्तम् आर्यज्येष्ठस्य वास्य वा
आख्यात निपुणं दृष्ट्वा कतरो रूपवान् इति ॥
आसीच् च मम यत् सत्यं सत्यम् एवास्मि रूपवान्
गङ्गरक्षितरूपेण रूपं मे सदृशं यतः ॥
यदीयम् एतदीयेन रूपेणाप्य् उपचर्यते
उपमानम् उपादेयः सो ऽपि रूपवताम् इति ॥
वन्दित्वा जिनम् अग्रन्थान् ऋषिदत्तां च मां च सः
उपाविशत् पुनश् चोक्तम् उपनन्देन पूर्ववत् ॥
ततः प्रव्रजिताह स्म श्रेष्ठिनि प्रियदर्शने
अनायाते सदः सर्वम् इदम् अप्रियदर्शनम् ॥
अतः प्रतीक्ष्यतां श्रेष्ठी क्षणम् इत्य् उदितेक्षया
अयम् आयात इत्य् आख्यन् नागराः प्रियदर्शनम् ॥
आसीच् च मम तं दृष्ट्वा नैवायं प्रियदर्शनः
एषा पुरुषवेषेण भूषिता प्रियदर्शना ॥
स्त्रैणीभिर् गतिसंस्थान वाणीभिर् व्यक्तम् एतया
क्षिप्तत्रैलोक्यसौन्दर्यम् आख्यातं स्त्रैणम् आत्मनः ॥
सा तु वन्दितदेवादिः सादरं माम् अवन्दत
चिरं सुन्दरि जीवेति मयापि प्रतिवन्दिता ॥
ततः क्रोधारुणाक्षेण गोमुखेनाहम् ईक्षतः
चित्रं नागरकैः कैश्चिल् लज्जितैः कैश्चिद् अम्बरम् ॥
ऋषिदत्ता पुनः सास्रं सविकासचलेक्षणा
सगोमुखम् अपश्यन् माम् आशिरश्चरणं चिरम् ॥
अथ प्रपञ्चम् आक्षेप्तुम् एतं सपदि गोमुखः
अभाषत सुहृद्वर्गं गोष्ठी प्रस्तूयताम् इति ॥
उपनन्दस् ततः पूर्वं तथा वीणाम् अवादयत्
यथा विगतरागाद् यैर् निर्ग्रन्थैर् अपि मूर्छितम् ॥
उपनन्दात् ततो नन्दं नन्दाद् अपि पुनर्वसुम्
पुनर्वसोर् अगाद् वीणा क्रमात् तं गङ्गरक्षितम् ॥
उपनन्दादिकानां च जितनारदपर्वतम्
पराजयत दूरेण पूर्वं पूर्वं परः परः ॥
क्रमप्राप्ता ततो वीणा गोमुखं गङ्गरक्षितात्
सरस्वतीव वित्ताढ्याद् ईश्वराद् दुर्गतं गता ॥
गोमुखस् तु ततो वीणाम् अवादयत लीलया
यथा नागरिकैर् दीनैर् ईक्षितो गङ्गरक्षितः ॥
गोमुखाङ्कात् ततो वीणा याति स्म प्रियदर्शनम्
कुलटेव प्रियोत्सङ्गात् कामिनं प्रियदर्शनम् ॥
ततः प्रवादिते तस्मिन् प्रगीते चातिमानुषम्
वैलक्ष्याद् गोमुखस्यासीद् अभिप्रायः पलायितुम् ॥
किं तु नारदशिष्यो ऽयं सुतो वा तुम्बरोर् इति
यत् सत्यम् अहम् अप्य् आसम् अद्भुतश्रुतिविस्मितः ॥
मुक्तवीणे ततस् तत्र शनैर् मां गोमुखो ऽब्रवीत्
अधुना प्राप्तपर्यायं वादनं भवताम् इति ॥
हसित्वा तम् अथावोचम् अद्यापि हि शिशुर् भवान्
यो मां यत्र क्वचित् तुच्छे प्रवर्तयति वस्तुनि ॥
नग्नश्रमणकानां च किराटानां च संनिधौ
वीणां वादयमानस्य मादृशः कीदृशं फलम् ॥
इति श्रुत्वेदम् उक्तो ऽहम् अनेन कृतमन्युना
चम्पायां कीदृशं कार्यम् अभवद् भवताम् इति ॥
ततस् तम् उक्तवान् अस्मि श्रूयताम् यदि न श्रुतम्
प्राप्तिर् गन्धर्वदत्तायास् तत्र कार्यम् अभूद् इति ॥
अथायम् अवदत् तत्र देवीप्राप्तिः फलं यदि
इहापि गोमुखप्राप्तिः फलम् उत्तमम् इष्यताम् ॥
युष्मद् अन्यो न मां कश्चिद् वीणया जितवान् इति
इदं मे श्रेष्ठम् आगम्य श्रेष्ठिनापहृतं यशः ॥
सो ऽयम् अस्मद्यशश्चौरो यदि नाशु निगृह्यते
त्यजाम्य् एष ततः प्राणान् दुःखभारातुरान् इति ॥
मम त्व् आसीद् असंदिग्धं सर्वम् अत्रोपपद्यते
मरणाभ्यधिकक्लेशो मानभङ्गो हि मानिनाम् ॥
शास्त्रार्थज्ञानमत्तस्य निगृहीतस्य वादिनः
कान्तया च विमुक्तस्य दुःखं केनोपमीयते ॥
तस्माद् एतद् इह न्याय्यम् इति निश्चित्य सादरम्
व्यवस्थापयितुं तन्त्रीर् आरभे दुर्व्यवस्थिताः ॥
ततः पृथुलितैर् नेत्रैः पुलकालिङ्गितत्वचः
अन्योन्यस्य निरैक्षन्त वदनानि सदःसदः ॥
तन्त्रीषु करशाखाग्रैः परामृष्टासु ते ततः
हा हा किम् इदम् इत्य् उक्त्वा पुस्तन्यस्ता इवाभवन् ॥
अथैतस्याम् अवस्थायां मया वीणा च संहृता
तैश् च मुक्तायतोच्छ्वासैर् जीवलोको ऽवलोकितः ॥
हर्षारुणपरामृष्टं विकसद्विशदप्रभम्
अभ्राजत ततः सद्यो गोमुखाननपङ्कजम् ॥
जितगोमुखदर्पस् तु जितो ऽपि प्रियदर्शनः
जितदुर्जयवादीव प्रीतिमान् माम् अभाषत ॥
श्रेष्ठी ज्येष्ठेन वीणायां जगद्विजयिना जितः
इति मे प्रस्थिता कीर्तिर् आपयोधि वसुंधराम् ॥
पूर्णा हि वसुधा शूद्रैर् न च तान् वेद कश्चन
राघवोत्कृत्तमूर्ध्नस् तु शम्बूकस्यामलं यशः ॥
किं चाद्यारभ्य युष्मभ्यं मयात्मैव निवेदितः
वीणावादार्थिनं शिष्यं परिगृह्णीत माम् इति ॥
अस्याम् एव तु वेलायाम् अवोचद् गङ्गरक्षितः
अयम् एव ममाप्य् अर्थः सफलीक्रियताम् इति ॥
ततस् तौ गोमुखेनोक्तौ भवन्ताव् आगमार्थिनौ
अनायासोपदेशौ च यत् तद् एवं भवत्व् इति ॥
स मया शनकैर् उक्तः क्षिप्रम् एव त्वयानयोः
प्रार्थना प्रतिपन्नेति गोमुखेनोदितं ततः ॥
शरीरं काशिराजस्य राज्यम् अन्तःपुरं पुरम्
यच् चान्यद् अपि तत् सर्वं गङ्गरक्षितरक्षितम् ॥
यस्य च स्वयम् एवायं दास्याम् अभ्यनुगच्छति
तस्यापद्भिर् असंकीर्णा हस्तस्थाः सर्वसंपदः ॥
अशेषश्रेणिभर्ता च श्रेष्ठित्वात् प्रियदर्शनः
स यस्य किंकरस् तस्य किंकरा सकला पुरी ॥
एतत् फलम् अभिप्रेत्य मयैताभ्यां प्रतिश्रुतम्
न ह्य् अनालोच्यकर्तारः किंकरा भवताम् इति ॥
प्रशंस्य तस्येति मतिप्रहर्षं नन्दोपनन्दादिसुहृत्समग्रः
नमस्कृतार्हद्व्रतचारिसंघः पुनर्वसोर् वेश्म गतस् ततो ऽहम् ॥
मूल पाठ: Bṛhatkathāślokasaṃgraha · Edition: the text edited by Felix Lacote (Paris, 1908). It was · Data entry Andreas Bigger · GRETIL (Göttingen) · CC BY-NC-SA 4.0