बृहत्कथाश्लोकसंग्रह · अध्याय 23
इत्य् आख्याय कथितौ च मिथः प्रव्रजितौ गतौ
द्रुतप्रवहणारूढो गोमुखश् च परागतः ॥
माम् अवोचत् स वन्दित्वा प्रीतिदासः पुनर्वसुः
सर्वनागरकश्रेणि ग्रामणीर् दृश्यताम् इति ॥
अथ प्रणतम् अद्राक्षम् अनुल्बणविभूषणम्
युवानम् अपि वैनीत्याल् लज्जितस्थविरं नरम् ॥
गोमुखाख्यातमाहात्म्यं तं चालिङ्गितवान् अहम्
संभावितगुणाः सद्भिर् अर्हन्त्य् एव च सत्क्रियाम् ॥
अथ यानं समारुह्य तत् पुनर्वसुवाहकम्
सांयात्रिक इवाम्भोधिं तदावासम् अवातरम् ॥
सेविताहारपर्यन्त शरीरस्थितिसाधनः
दिनशेषं नयामि स्म गीतिश्रुतिविनोदनः ॥
ततः सुप्तजने काले पृष्टवान् अस्मि गोमुखम्
कथम् एष त्वया प्राप्तः सुहृद् इत्य् अथ सो ऽब्रवीत् ॥
श्रूयताम् अस्त्य् अहं युष्मान् वन्दित्वा पुनर् आगतः
न च कंचन पश्यामि योग्यम् आश्रयदायिनम् ॥
ततश् चिन्तितवान् अस्मि धनविद्यादिदायिनाम्
संभवः सर्वसाधूनां नास्ति राजकुलाद् ऋते ॥
योगक्षेमप्रयुक्ता हि प्रायः सज्जनसंसदः
राजद्वारं विगाहन्ते समुद्रम् इव सिन्धवः ॥
राजद्वारं ततो गत्वा याचिष्ये कंचिद् आश्रयम्
राजद्वारं हि कार्याणां द्वारम् उक्तं बुधैर् इति ॥
निग्रहानुग्रहप्राप्त लोककोलाहलाकुलम्
तद् गत्वा स्मृतवान् अस्मि प्रेताधिपधनाधिपौ ॥
महामनुष्यचरितः पुरुषो ऽयं विभाव्यते
आश्रयप्रार्थना तस्मान् नास्मिन् संपद्यते मृषा ॥
अयम् अन्यः सुवेषो ऽपि कीनाशविरसाकृतिः
तेन संभाव्यते नास्मात् प्रार्थनाफलम् अण्व् अपि ॥
पुरुषं पुरुषं तत्र चिरम् इत्थं विचारयन्
अभ्यन्तरात् प्रतीहारं दृष्टवान् अस्मि निर्गतम् ॥
स्वस्तिकारनमस्कार ज्योत्कारान् स च कार्यिणाम्
प्रतिमानितवान् सर्वान् सकृन् नमितमस्तकः ॥
अथ विज्ञापनामात्रं पश्यद्भिः कार्यसाधनम्
कार्यिभिर् युगपत् तत्र कार्यविज्ञापना कृता ॥
तेभ्यस् तेनापि सामान्यम् एकम् एवोत्तरं कृतम्
भवतः सुमुखो राजा मा त्वरिष्ट भवान् इति ॥
स प्रतीहारवेषं च वारबाणादिम् अङ्गतः
अवतार्य समीपस्थे न्यस्तवान् परिचारके ॥
तं च दृष्ट्वा समाप्तैव समाश्रयगवेषणा
न हि दृष्टसुवर्णाद्रिः ताम्रं धमति वातिकः ॥
स्वस्तिकृत्वा ततस् तस्मै स्वगृहान् प्रतिगच्छते
मां मुहुः पश्यता प्रीत्या तेनैव सहितो ऽगमम् ॥
गृहे च कृतसत्कारम् असौ माम् अनुयुक्तवान्
आगच्छति कुतः किं वा मद् इच्छति भवान् इति ॥
मयोक्तं भ्रातराव् आवां द्विजौ द्वाव् आगमार्थिनौ
विद्यास्थानम् इदं श्रुत्वा अवन्तिदेशात् समागतौ ॥
इह वासितुम् इच्छावो युष्मत्कृतपरिग्रहौ
बलवत्तरगुप्तो हि कृशो ऽपि बलवान् इति ॥
तेनोक्तं त्वादृशाम् एतद् गुणग्रहणकाङ्क्षिणाम्
अग्राम्यालापरूपाणां स्वगृहं भवताम् इति ॥
मुहूर्तं तत्र चासीनः श्रुतवान् अहम् उत्थितम्
क्षुभिताम्भोधिकल्लोल कोलाहलम् इव क्षणम् ॥
मां तदाकर्णनोत्कर्णम् असौ सस्मितम् उक्तवान्
किं त्वम् एतन् न वेत्थेति न वेदेति मयोदितम् ॥
अयं पुनर्वसुर् नाम दाता वाणिजदारकः
वृतः कितवसंघेन दीव्यति द्यूतमण्डपे ॥
यदा विजयते द्यूते स सर्वं द्रविणं तदा
वितरत्य् अर्थिवर्गाय तस्यैष तुमुलो ध्वनिः ॥
जीयमाने पुनस् तस्मिञ् जानुमूर्धस्थमस्तकाः
विषादमुषितालापा ध्यायन्ति शिवम् अर्थिनः ॥
यदि कौतूहलं तत्र ततो ऽसौ दृश्यताम् इति
प्रतीहारेण कथिते ततश् चिन्तितवान् अहम् ॥
नीतिविद्यावयोवृद्धैर् अमात्यैः किं प्रयोजनम्
येषां यन्त्रितवाक्कायैर् अग्रतो दुःखम् आस्यते ॥
यः समानवयःशीलो मुक्तहस्तः सकिंचन
व्यसनी च स्वतन्त्रश् च सो ऽस्माकम् अधुना सुहृत् ॥
तस्माद् द्यूतसभाम् एव यामि द्रष्टुं पुनर्वसुम्
निर्धार्येति तम् आमन्त्र्य द्यूतकारसभाम् अगाम् ॥
साकीर्णा देवनव्यग्रैः सभा कितवचन्द्रकैः
सरसीवामिषास्वाद गृद्धैर् बककदम्बकैः ॥
तत्रान्यतमयोर् अक्षान् दीव्यतोर् अक्षधूर्तयोः
अक्षः कोणेन पतितः संदिग्धपदपञ्चकः ॥
पञ्चको ऽयं पदं नेदं पदम् एतन् न पञ्चकः
इति जाता तयोः स्पर्धा परस्परजयैषिणोः ॥
तयोर् एकतरेणोक्तं मध्यस्थः पृच्छ्यताम् इति
प्रत्युक्तम् इतरेणापि यथेच्छसि तथास्त्व् इति ॥
अथैकः पुरुषः प्रांशुः पृष्टस् ताभ्याम् अनागरः
कतरत् पश्यसि स्पष्टं पदपञ्चकयोर् इति ॥
तत्र चान्यतमेनोच्चैर् उक्तम् उत्क्षिप्तपाणिना
दीर्घत्वाद् एष निर्बुद्धिर् अतो ऽन्यः पृच्छ्यताम् इति ॥
ततः पृष्टो ऽपरो ह्रस्वः सो ऽपि तेन निवारितः
नेदृशाः प्रश्नम् अर्हन्ति बहुदोषा हि खट्वकाः ॥
अथ मां दृष्टवन्तौ तौ पृष्टवन्तौ च सादरम्
साधो यदि न दोषो ऽस्ति ततो नौ छिन्द्धि संशयम् ॥
त्वं न दीर्घो न च ह्रस्वस् तस्मात् प्राज्ञो न दुष्टधीः
तेन मध्यप्रमाणत्वाद् गच्छ मध्यस्थताम् इति ॥
चिन्तितं च मया कष्टः खलसंदिग्धनिर्णयः
पारद्रविणगृद्धेषु कितवेषु विशेषतः ॥
अवश्यं तु कलाज्ञानं ख्यापनीयं कलाविदा
अप्रकाशं हि विज्ञानं कृपणार्थनिरर्थकम् ॥
न च द्यूतकलान्यत्र कितवेभ्यः प्रकाश्यते
न हि प्रयुञ्जते प्राज्ञाः वेशाद् अन्यत्र वैशिकम् ॥
द्यूते जेष्यति यश् चात्र स मे मित्रं भविष्यति
धनवन्मित्रलाभं हि निधिलाभादिकं विदुः ॥
इत्यादि बहु निश्चित्य पुरस् तेषां सविस्तरम्
अक्षाष्टापदशारीणाम् आख्यं भूमेश् च लक्षणम् ॥
ततः संदिग्धपातस्य तस्याहं कोणपातिनः
सुपिष्टमिष्टकाक्षोदम् अक्षस्योपरि दत्तवान् ॥
अथासाव् इष्टकाक्षोदः पदस्योपरि यो ऽपतत्
सो ऽपतत् सकलो भूमौ पञ्चकस्योपरि स्थितः ॥
ततस् तान् उक्तवान् अस्मि यो भागः पञ्चकाङ्कितः
तस्योत्तानत्वम् उत्कृष्टं क्षोदस् तत्र यतः स्थितः ॥
एतावन् मम विज्ञानम् इत्य् उक्त्वावस्थिते मयि
अहो साध्व् इति निर्घोषः समन्तात् सहसोत्थितः ॥
ततस् तत्रोदितं कैश्चिद् अयम् अक्षविशारदौ
ध्रुवं विजयते दूरान् नलकुन्तीसुताव् इति ॥
ते ऽपरैः कुपितैर् उक्ता जितौ नलयुधिष्ठिरौ
अयं जयति जेताराव् अपि पुषकरसौबलौ ॥
इति प्रशस्यमानं मां तिर्यग् दृष्ट्वा समत्सरः
पदवादी जितो यो ऽसाव् असौ मन्थरम् उक्तवान् ॥
येषां द्यूतपणाभावस् ते किम् अर्थम् इहासते
द्यूतस्थाने हि किं कृत्यं प्रवीणैः प्राश्निकैर् इति ॥
आसीच् च मम कस्मान् मां कौलटेयः क्षिपत्य् अयम्
यो ऽहं त्रैलोक्यसारेण पणेन पणवान् इति ॥
अथ निक्षिप्य सक्रोधं यौष्माकं भूषणं भुवि
एहि दीव्याव मित्रेति तम् अहं धूर्तम् उक्तवान् ॥
स च धूर्तैर् अलंकारः प्रसर्पद्बहलप्रभः
दृष्टस् तृष्णाविशालाक्षैः पतंगैर् इव पावकः ॥
अथासौ क्रोधलोभाभ्याम् अक्षधूर्तः प्रतारितः
मया सह ससंरम्भम् अक्षान् आरब्ध देवितुम् ॥
तेन चाहं त्रिभिः पातैर् अनक्षकुशलः किल
प्रबुद्धैर् गर्धगृद्धेन सहस्रत्रितयं जितः ॥
ततस् तत् सकृद् उन्मोच्य सहस्रत्रितयं मया
लक्षम् एकेन पातेन जितः स कितवाधमः ॥
विजयाज् जृम्भितोत्साहः शङ्कितश् च पराजयात्
न विरन्तुं न वा रन्तुम् असाव् अशकद् आकुलः ॥
दीव्य वा देहि वा लक्षं सौम्येति च मयोदितः
वैलक्ष्याद् घट्टयन्न् अक्षान् न किंचित् प्रतिपन्नवान् ॥
एतस्मिन्न् अन्तरे भृत्यं स्वम् अवोचत् पुनर्वसुः
कितवो ऽयम् इदं लक्षम् अचलं दाप्यताम् इति ॥
मां चायं स्वं गृहं नीत्वा हर्षाद् ऋजुतनूरुहः
तथा पूजितवान् देवं हरं दत्तवरं यथा ॥
मां चावोचद् धनं यत् तद् भवद्भिः कितवार्जितम्
तद् उद्ग्राह्येदम् आनीतं लक्षं ते गृह्यताम् इति ॥
मयाप्य् उक्तम् उपान्ते यद् द्रविणं त्वत्परिग्रहात्
साधितं भवता यच् च तस्य स्वामी भवान् इति ॥
उक्तं चानेन यन् नाम युष्माभिः स्वयम् अर्जितम्
स्वामिनो यूयम् एवास्य धनस्येत्य् अत्र का कथा ॥
यद् अपीदं मयावाप्तं युष्मत्स्वामिकम् एव तत्
अधिगच्छति यद् दासो भर्तुर् एव हि तद् धनम् ॥
यच् च पृच्छामि तन् मह्यं प्रसादे सति कथ्यताम्
भूतलं यूयम् आयाताः किं निमित्तं त्रिपिष्टपात् ॥
मन्ये सत्य् अपि देवत्वे भवद्भिः क्रीडयाहृतैः
आकारान्तरनिर्माणं नात्यन्तम् अनुशीलितम् ॥
तथा च वर्णसंस्थान कलाविज्ञानसंपदः
दृष्टाः केन मनुष्येषु यादृशो भवताम् इति ॥
तेन यत् सत्यम् इत्य् उक्ते दुःखम् आशितवान् अहम्
दूरेण ह्य् अतिनिन्दाया दुःखहेतुर् अतिस्तुतिः ॥
वाराणसीप्रवेशेषु प्रतीहाराय पृच्छते
यन् मया कार्यम् आख्यातं तद् एवास्मै निवेदितम् ॥
अथानेनोक्तम् आश्चर्यं ज्येष्ठस्य जगतां गुणैः
त्वादृशस्यापि यो ज्येष्ठः कीदृशः स भविष्यति ॥
किं वानेन विमर्देन ज्येष्ठस् तिष्ठति यत्र सः
सर्वतीर्थाधिके देशे तं प्रापयत माम् इति ॥
अथैनम् अहम् आदाय गतवान् भवदन्तिकम्
यच् चोत्तरम् अतस् तत्र प्रत्यक्षं भवताम् अपि ॥
इति क्षिप्रम् अयं लब्धो मया वः परिचारकः
न हिंसन्ति न सर्वत्र श्रियः पुण्यवताम् इति ॥
ततस् तम् उक्तवान् अस्मि विपदस् तेन दुर्लभाः
फलं सुचरितस्यैव हृदयं यस्य गोमुखः ॥
किं तु संश्रयमात्रेण पीडनीयः पुनर्वसुः
परान्नं हि वृथाभुक्तं दुःखायैव सताम् इति ॥
एवमादिभिर् आलापैर् अर्धम् अर्धं च निद्रया
नीतवान् अस्मि यामिन्याः प्रातश् चागात् पुनर्वसुः ॥
तं च वन्दितमत्पादम् अवोचद् इति गोमुखः
बल्लवः कुशलः कश्चित् कुतश्चन गवेष्यताम् ॥
त्वदन्यस्य गृहे नान्नम् अर्यज्येष्ठेन सेवितम्
परपाकनिवृत्ता हि साधुवृत्ता द्विजातयः ॥
आदराराधितश् चायं त्वदीयं परिभुक्तवान्
आराधनानुरोधो हि चरितं महताम् इति ॥
प्रत्याख्यानविचित्तस् तु तम् आह स्म पुनर्वसुः
यद्य् एवं जगदीशानां किं नास्ति भवताम् इति ॥
अचिराच् च तदानीतौ संभाव्यगुणसंपदौ
आकारक्षिप्तनासत्याव् अपश्यं पुरुषौ पुरः ॥
तौ च मां चिरम् आलोक्य वदनं च परस्परम्
प्रसार्य सभुजान् पादाञ् जयेत्य् उक्त्वा भुवं गतौ ॥
तौ चाहूय मयायातौ स्पृष्टपृष्ठौ सभाजितौ
वन्दित्वा पुनर् अब्रूतां ब्रूत किं क्रियताम् इति ॥
ततस् तौ गोमुखेनोक्तौ भवन्तौ किल बल्लवौ
सत्यं चेद् इदम् आर्यस्य पाकः संसाध्यताम् इति ॥
तौ च प्रीतौ प्रतिज्ञाय निकर्त्य नखमूर्धजान्
स्नातौ सोष्णीषमूर्धानौ महानसम् अगच्छताम् ॥
अथ वा तिष्ठति व्यासः समासः श्रूयताम् अयम्
सर्वा ताभ्याम् अपूर्वेव प्रक्रिया संप्रसारिता ॥
यावत्या चापरः स्थालीम् अधिश्रयति बल्लवः
तावत्या वेलया ताभ्यां पाक एव समापितः ॥
ततो निर्वर्तितस्नान देवतानलतर्पणः
आहारस्थानम् अध्यासि विप्रपङ्क्तिनिरन्तरम् ॥
पञ्च तित्तिरयः पक्वाश् चत्वारः कुक्कुटा इति
आहारो यैः प्रशस्तस् तैर् अशितं प्राकृताशनम् ॥
आहारं यदि सेवेरन् सकृत् तम् अमृताशनम्
समुत्सृष्टामृताहारा भवेयुर् नामरास् तदा ॥
ततः समापिताहारः कर्णे गोमुखम् अब्रवम्
सूदाभ्यां भुक्तभक्ताभ्याम् अयुतं दीयताम् इति ॥
स गत्वा सहितस् ताभ्यां चिराच् चागत्य केवलः
स्मितसंसूचितप्रीतिर् उपाक्रमत भाषितुम् ॥
मया याव् उदिताव् एतौ न यूवाम् एतद् अर्हथ
अवस्थासादृशं किं तु यत् किंचिद् गृह्यताम् इति ॥
तयोर् एकतरेणाथ भर्तुर् दौःस्थित्यवर्तिनः
न युक्तं धनम् आदातुम् आवाभ्याम् इति भाषितम् ॥
स क्रुद्धेनेतरेणोक्तो धिक् त्वां दीनतराशयम्
जितत्रैलोक्यवित्तेशं वित्तेशं यो ऽनुकम्पसे ॥
महापद्मसहस्राणि यत् प्रसादाद् विमानिनाम्
सुस्थितानि भविष्यन्ति दौःस्थित्यं तस्य कीदृशम् ॥
प्रयच्छत्य् अयुतं यश् च पाकस्यैकस्य निष्क्रयम्
दुःस्थितस् तादृशो यस्य सुस्थितस् तस्य कीदृशः ॥
एवमादि ब्रुवन्न् एव स माल्यम् इव तद् धनम्
धारयित्वा क्षणं मूर्ध्ना प्रस्थाय प्राप्तवान् गृहम् ॥
अथैनं पृष्टवान् अस्मि पटुकौतूहलाकुलः
दिव्यम् ऐश्वर्यम् आगामि कथं वेद भवान् इति ॥
ततस् तेनोक्तम् अस्यैव ब्रह्मदत्तस्य भूपतेः
शतयज्ञाधिकश्रीकः पञ्चयज्ञः पिताभवत् ॥
चिकित्सासूदशास्त्रज्ञः शिल्पित्वे ऽप्य् अशठो ऽभवत्
द्वितीय इव तस्यात्मा देववान् इति बल्लवः ॥
शरीरम् एतद् आयत्तं ममेति कृतबुद्धिना
राज्ञा तस्मै स्वराज्यस्य दशमो ऽंशः प्रकल्पितः ॥
नन्दोपनन्दनामानौ तस्य सूदपतेः सुतौ
ईदृशाकारविज्ञानाव् आवाम् एव च विद्धि तौ ॥
बालाभ्याम् एव चावाभ्यां सूदशास्त्रचिकित्सिते
सहज्ञानप्रयोगाभ्यां कुलविद्येति शिक्षिते ॥
एकदा नौ पितावोचत् पुत्रकौ शृणुतं हितम्
श्रोतारं गुरुवाक्यानां न स्पृशन्ति विपत्तयः ॥
पदवाक्यप्रमाणानि काव्यानि विविधानि च
भवद्भ्यां शिक्षितव्यानि चित्रादिश् च कलागणः ॥
कदाचिद् अजितं जेतुं यातो यातव्यमण्डलम्
शास्त्रकाव्यकथालापैर् विनोदं प्रभुर् इच्छति ॥
विज्ञाय तु तदास्थानम् असंनिहितपण्डितम्
विनोदं तस्य कुर्यातं शास्त्रालापादिभिर् युवाम् ॥
प्रगल्भाः प्रतिभावन्तो बहुवृत्तान्तपण्डिताः
प्रकाशितमनोवृत्तैर् भृत्याः क्रीडन्ति भर्तृभिः ॥
एकविद्यः पुनस् तत्र प्रगल्भो ऽपि तपस्विकः
स्वविद्यालापपर्याय खिन्नश् चिरम् उदीक्षते ॥
अभ्यस्तबहुविद्यश् च निर्विपर्यायमानसः
गतसंशयदुःखत्वात् सुखिनां परमेश्वरः ॥
उत्साहेन च शिक्षेथाम् आयुरैश्वर्यलक्षणम्
दीर्घायुर् वित्तवन्तो हि संसेव्याः सेवकैर् इति ॥
तच् च पित्राज्ञयाशेषम् आवाभ्याम् अनुशीलितम्
रम्यास्वादं च पथ्यं च को ऽवमन्येत भेषजम् ॥
तद् विद्याधरचक्रस्य चक्रवर्ती भविष्यति
ज्यैष्ठचन्द्रसहस्रांशु दीर्घायुश् चेति नौ मतिः ॥
तेन प्रसारिताङ्गाभ्याम् आवाभ्याम् एष वन्दितः
न हि वन्दनसामान्यम् अर्हन्ति बहुवन्दिताः ॥
बहवो हीह तिष्ठन्ति ब्राह्मणास् तीर्थकुक्कुटाः
शिरःस्पन्दनमात्रेण तान् आवां पूजयावहे ॥
तस्माद् यस्माद् असङ्गेन सर्वत्रागमचक्षुषा
ज्येष्ठस्य दृष्टम् ऐश्वर्यम् अतः श्रद्धीयताम् इति ॥
प्रज्ञप्तिकौशिकसुतप्रमुखैर् उक्तं नन्दस्य निश्चिततरं वचनात् तद् आसीत्
भावं हि संशयतमः पटलापिनद्धम् उद्भावयन्त्य् अवितथा वचनप्रदीपाः ॥
मूल पाठ: Bṛhatkathāślokasaṃgraha · Edition: the text edited by Felix Lacote (Paris, 1908). It was · Data entry Andreas Bigger · GRETIL (Göttingen) · CC BY-NC-SA 4.0