भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्कथाश्लोकसंग्रह · अध्याय 22

22.1

ततः किंचिद् विहस्योक्तः परिव्राड् ब्रह्मचारिणा
यथा पुरुषकारस्य प्राधान्यं तन् निशाम्यताम् ॥

22.2

आसीद् उज्जयनीवासी सार्थकार्थपरिग्रहः
वणिक् सागरदत्ताख्यः सागरागाधमानसः ॥

22.3

सागरं तेन यातेन मुक्तपोतेन गच्छता
अपरः प्रेक्षितः पोतस् तरलध्वजलक्षणः ॥

22.4

अङ्गापोतम् अमुं येन पोतं प्रेरयतेति सः
यावन् निर्यामकान् आह तावत् पोतौ समीयतुः ॥

22.5

ततः सागरदत्तस् तं पोतस्वामिनम् उक्तवान्
यूयं ये वा यतस् त्या वा तन् नः प्रत्युच्यताम् इति ॥

22.6

तेनोक्तं बुद्धवर्माहं वणिग् राजगृहालयः
भवन्तः के कुतो वेति ततः सो ऽपि न्यवेदयत् ॥

22.7

अथ काव्यकथापान तन्त्रीगीतदुरोदरैः
सविनोदौ जगाहाते तौ दुर्गाधं महोदधिम् ॥

22.8

गत्वा च काञ्चनद्वीपम् उपान्तानन्तकाञ्चनौ
प्राप्तवन्तौ परावृत्य समुद्रतटपत्तनम् ॥

22.9

अथ सागरदत्तेन बुद्धवर्मेति भाषितः
प्रीतिर् नः स्थिरतां यायाद् यथा संपाद्यतां तथा ॥

22.10

भार्यायां गुरुगर्भायां निरगच्छम् अहं गृहात्
तस्याश् च दिवसिर् एभिर् जातम् अन्यतरद् द्वयोः ॥

22.11

दुहिता चेत् ततो दत्ता भवत्पुत्राय सा मया
पुत्रश् चेत् त्वं ततस् तस्मै दद्याः स्वतनयाम् इति ॥

22.12

तेनोक्तं महद् आश्चर्यम् इयम् एव हि नो मतिः
अथ वा किम् इहाश्चर्यम् एकम् एवावयोर् वपुः ॥

22.13

इति तौ कृतसंबन्धौ परिष्वज्य परस्परम्
महामहिषसार्थाभ्यां यथास्थानम् अगच्छताम् ॥

22.14

प्रणिपत्य च राजानाव् अवन्तिमगधाधिपौ
तत्प्रयुक्तातिसत्कारौ ययतुः स्वगृहान् प्रति ॥

22.15

तत्र सत्क्रियमाणौ च सत्कुर्वाणौ च संततम्
बन्धुभिर् ब्राह्मणादींश् च गमयाम् आसतुर् दिनम् ॥

22.16

ततः सागरदत्तस्य पर्यङ्कम् अधितिष्ठतः
उत्सङ्गे दारिका न्यस्ता विराजत्कुन्दमालिका ॥

22.17

कस्येयं कुन्दमालेति स भार्याम् अनुयुक्तवान्
सापि कस्यापरस्येति शनैर् आचष्ट लज्जिता ॥

22.18

तेन चोक्तम् इदं यादृग् बालिका कुन्दमालिका
ययोः स्याद् ईदृशः पुत्रः पितरौ तौ सपुत्रकौ ॥

22.19

तस्माद् दुहितृमातेति मा गास् त्वं भीरु भीरुताम्
न कीर्तिजननी विद्या निन्द्या भवितुम् अर्हति ॥

22.20

ताम् इत्यादि समाश्यस्य पयोनिधिसमागमम्
बुद्धवर्मसखित्वं च तस्यै कथितवान् असौ ॥

22.21

कस्येयं कुन्दमालेति ताम् अपृच्छद् यतः पिता
प्रसिद्धा तस्य नाम्नापि सा ततः कुन्दमालिका ॥

22.22

बुद्धवर्मापि पप्रच्छ निरालापां कुटुम्बिनीम्
तस्मिन् गर्भे तवोत्पन्नं यत् तन् नः कथ्यताम् इति ॥

22.23

अथ वामनम् एकाक्षं रूक्षं तुन्दिलदन्तुरम्
लम्बौष्ठं भुग्नपृष्ठं च सा तं पुत्रं समर्पयत् ॥

22.24

सो ऽब्रवीत् किं वृथैवायं धृतः कुरुभकस् त्वया
कस्माद् ईक्षणिकां पृष्ट्वा गर्भ एव न पातितः ॥

22.25

यः स सागरदत्तेन सह संबन्धकः कृतः
विकृताकृतिनानेन स प्रेतेन निराकृतः ॥

22.26

संदिशेद् यदि नामासाव् अहं दुहितृवान् इति
तदा किं प्रतिसंदेश्यं मयाहं पुत्रवान् इति ॥

22.27

भार्यां चावोचद् आगच्छेद् दूतो मालवकाद् यदि
एनं कुरुभकं तस्मै न कश्चित् कथयेद् इति ॥

22.28

अयं कुरुभकः कस्माद् इति यत् तं पिताब्रवीत्
व्याहरन्ति स्म तं पौरास् ततः कुरुभकाख्यया ॥

22.29

अथातीते क्वचित् काले बुद्धिवर्मा रहः स्थितः
लेखं सागरदत्तेन प्रस्थापितम् अवाचयत् ॥

22.30

स्व् अस्ति राजगृहे पूज्यं बुद्धवर्माणम् ऊर्जितम्
उज्जयन्याः परिष्वज्य विज्ञापयति सागरः ॥

22.31

सख्यास् ते दुहिता जाता श्रेयोलक्षणभूषणा
रूपेण सदृशी यस्याः प्रमदा न भविष्यति ॥

22.32

तवापि यदि भार्यायाः पुत्रो जातः शिवं ततः
कन्या चेद् वामशीलेन देवेन मुषिता वयम् ॥

22.33

निर्निमित्तापि हि प्रीतिर् या न संबन्धबृंहिता
श्रीर् उत्साहसनाथेव प्रयाति स्थिरताम् इति ॥

22.34

ततः सत्कृत्य तं दूतम् अपृच्छद् गृहिणीं वणिक्
तस्मिन्न् एवं गते कार्ये ब्रूहि किं क्रियताम् इति ॥

22.35

तयोक्तं द्व्यङ्गुलप्रज्ञा जानीयुर् वा स्त्रियः कियत्
किं तु पृष्टेति वक्ष्यामि पृष्टधृष्टा हि मादृशी ॥

22.36

सत्यानृतं वणिक्वृत्तं परित्याज्यं न वाणिजैः
सहजं हि त्यजन् वृत्तं दुर्वृत्त इति निन्द्यते ॥

22.37

पुत्रस् तावत् तवोत्पन्नस् तत्र कानृतवादिता
ये पुनस् तस्य दोषास् तान् मिथ्या भण गुणा इति ॥

22.38

आख्यायन्ते हि सर्वार्थाः कृत्रिमैर् एव नामभिः
आहुर् मधुरकं केचित् तं तादृङ्मारकं विषम् ॥

22.39

कार्ये हि गुरुणि प्राप्ते मिथ्या सत्यम् अपीष्यते
अश्वत्थामा हतो द्रौणिर् इत्य् ऊचे किं न पाण्डवः ॥

22.40

धनगर्धपराधीनाः कालहुंकारदारुणे
क्रीडाकमलिनीं यान्ति त्वद्विधाः क्षारसागरे ॥

22.41

सांयात्रिकपतेस् तस्य दुहिता भवतो गृहे
न विनाम्भोधिसारेण प्रवेष्टा धनराशिना ॥

22.42

तस्मान् मा स्मावमन्यध्वम् अधन्यैर् दुर्लभां श्रियम्
कृच्छ्रायासशतप्राप्यां न कृच्छ्राधिगताम् इति ॥

22.43

इत्यादिवचनं तस्याः सूक्तम् इत्य् अभिनन्द्य सः
ददौ सागरदत्ताय संदेशं दूतसंनिधौ ॥

22.44

वक्तव्यः सुहृद् अस्माकम् अस्माकम् अपि दारकः
उत्पन्नस् तादृशो यस्य कथिता कथम् आकृतिः ॥

22.45

अथ वा ये गुणाः के ऽपि तस्य शारीरमानसाः
स्वयम् एवासि तान् दृष्टा किं नस् तैः कथितैर् इति ॥

22.46

इत्यादि बहु संकीर्णम् असौ संदिश्य सादरम्
दूतं प्रस्थापयाम् आस सपाथेयप्रदेशनम् ॥

22.47

एवम् अष्टाव् अतिक्रान्ताः समा दूतसमागमैः
अथ दूतः स्फुटालापो बुद्धवर्माणम् उक्तवान् ॥

22.48

अहं सागरदत्तेन सकलत्रेण भाषितः
जामातरम् अनालोक्य मा स्मागच्छद् भवान् इति ॥

22.49

तन् माम् उज्जयनीं यूयं यदि गच्छन्तम् इच्छथ
तं मे दारकम् आख्यात तदीयांश् च गुणान् इति ॥

22.50

तेन तु क्षणम् उत्प्रेक्ष्य समग्रस्मृतिनोदितम्
आस्ते मातुलशाले ऽसौ ताम्रलिप्त्यां पठन्न् इति ॥

22.51

अनेनापि प्रपञ्चेन चतुष्पञ्च समा ययुः
अथ त्रिचतुराः प्रापुर् दूताश् चतुरभाषिणः ॥

22.52

ते चादृतम् अनादृत्य बुद्धवर्माणम् अब्रुवन्
आह संबन्धिनी यत् त्वां सदारं तन् निशाम्यताम् ॥

22.53

अमी संवत्सरा यातास् त्रयोदशचतुर्दशाः
अद्यापि च न पश्यामो वयं जामातुर् आकृतिम् ॥

22.54

दृष्टस्य किल पण्यस्य भवतः क्रयविक्रयौ
इति लोकप्रवादो ऽयं भवतापि न किं श्रुतः ॥

22.55

त्वं यच् चात्थ पठन्न् आस्ते ताम्रलिप्त्याम् असाव् इति
इदम् अप्य् अतिदुर्बद्धं सव्याजम् इव वाचकम् ॥

22.56

येषां कर्म च वृत्तिश् च विहिते पाठपाठने
तेषाम् अपि परिच्छिन्नः पाठकालः कियान् अपि ॥

22.57

त्वदीयेन तु पुत्रेण त्यक्तसर्वान्यकर्मणा
पठता सकलं जन्म नेयम् इत्य् असमञ्जसम् ॥

22.58

तस्मात् क्रीडाम् इमां त्यक्त्वा यमहासविभीषणाम्
अत्र वा ताम्रलिप्त्यां वा दारको दर्श्यताम् इति ॥

22.59

इति यावद् असौ तावत् पूज्यैर् विश्रम्यताम् इति
तान् उक्त्वा गृहिणीम् ऊचे बुद्धवर्मा ससंभ्रमः ॥

22.60

अनुत्प्रेक्ष्यैव मन्देन दोषम् आगामिनं मया
दूराशाग्रस्तचित्तेन प्रमदावचनं कृतम् ॥

22.61

त्वत्पुत्रस्य हि ये दोषाः काणदन्तुरतादयः
कालेनैतावता तेषां कतमः प्रक्षयं गतः ॥

22.62

वर्धमाणे शरीरे हि निजा दोषाः शरीरिणाम्
सुतराम् उपचीयन्ते शरीरावयवा इव ॥

22.63

तस्माद् दर्शय दूतेभ्यः पुत्रं हरगणाकृतिम्
अथ वा पण्डितेनैवम् उपायश् चिन्त्यताम् इति ॥

22.64

तया चोक्तं मयोपायः कीदृशो ऽप्य् अत्र चिन्तितः
यद्य् असौ रोचते तुभ्यं ततः प्रस्तूयताम् इति ॥

22.65

उच्यताम् इति तेनोक्ता कर्णे किम् अपि साब्रवीत्
सो ऽपि शोभनम् इत्य् उक्त्वा तम् उपायं प्रयुक्तवान् ॥

22.66

विविक्ते ब्राह्मणं मित्रं तत्प्रतिग्रहजीविनम्
प्रियालापशतप्रीतम् अयाचत सदीनतः ॥

22.67

श्वेतकाकप्रसिद्धस्य मम पुत्रस्य ये गुणाः
आकारश् च प्रकारश् च यादृक् किं तस्य कथ्यते ॥

22.68

यच् च सागरदत्तेन मया च परिभाषितम्
बुद्धं तद् भवतः सर्वं सहदूतसमागमम् ॥

22.69

तेन नस् तेन सौहार्दं सुहृदा स्थिरतां नय
अथ वा स्वार्थ एवायं तव धिङ् मां मुधाकुलम् ॥

22.70

य एष भवतः पुत्रो यज्ञगुप्तः सुरूपवान्
श्रुतिस्मृत्यादितत्त्वज्ञः कलासु च विशारदः ॥

22.71

एष सागरदत्तस्य तनयाम् उपयच्छताम्
तादृशीम् एव चानीय मत्पुत्राय प्रयच्छतु ॥

22.72

यच् च रत्नसुवर्णादि लप्स्यते द्रविणं ततः
तस्यांशस् तव भावीति लज्जते कथयानया ॥

22.73

एवमादि स तेनोक्तः सोत्साहं स्वार्थतृष्णया
अब्रवीत् त्वद्विधेयैः किं मद्विधैः प्रार्थितैर् इति ॥

22.74

यज्ञगुप्तम् अथाहूय संनिधौ बुद्धवर्मणः
पिता श्रावितवान् एतं वृत्तान्तं पूर्वमन्त्रितम् ॥

22.75

तेनोक्तं गुरुवाक्यानि युक्तिमन्तीतराणि वा
शिशुभिर् न विचार्याणि तस्माद् एवं भवत्व् इति ॥

22.76

ततः कतिचिद् आसित्वा दिवसान् बुद्धवर्मणा
यज्ञगुप्तः स्वलंकारः संबन्धिभ्यः प्रदर्शितः ॥

22.77

अब्रवीच् चायम् आयातस् ताम्रलिप्त्याः स दारकः
आकारश् च गुणाश् चास्य दृश्यन्तां यादृशा इति ॥

22.78

ततस् तैर् विस्मितैर् उक्तम् अनिन्द्या कुन्दमालिका
सह बालवसन्तेन यद् अनेन समेष्यति ॥

22.79

गुणानां त्व् एतदीयानाम् अन्वेषणम् अनर्थकम्
दृश्यते निर्गुणानां हि नेदृशाकारधीरता ॥

22.80

किं तु नामास्य दुःश्लिष्टम् अयं कुरुभकः किल
न हि कुब्जपलाशाख्या पारिजातस्य युज्यते ॥

22.81

अथ वा दुःश्रवं नाम श्रूयते महताम् अपि
क्लेदुर् इत्य् उच्यते चन्द्रो मातरिश्वेति मारुतः ॥

22.82

न चापि गुणवद् वाच्य वाचकं परिभूयते
आश्रयस्य हि दौर्बल्याद् आश्रितः परिभूयते ॥

22.83

सर्वथा सार्थवाहस्य प्रसूताद्य कुटुम्बिनी
युवयोर् अद्य सौहार्दं गतं कूटस्थनित्यताम् ॥

22.84

तस्माद् आशुतरं गत्वा त्यक्तनिद्राशनादिकाम्
वर्धयामो वयं दिष्ट्या सार्थवाहकुटुम्बिनीम् ॥

22.85

भवद्भिर् अपि पुण्याहे वरयात्रा प्रवर्त्यताम्
न हीदानीं विवाहस्य कश्चिद् अस्ति विघातकः ॥

22.86

इत्य् उक्त्वा तेषु यातेषु सारवत्प्राभृतेषु सः
यज्ञगुप्तं वरीकृत्य वरयात्रां व्यसर्जयत् ॥

22.87

यो ऽसौ कुरुभकस् तं च यज्ञगुप्तं चकार सः
संज्ञया यज्ञगुप्तं तु वरं कुरुभकं वणिक् ॥

22.88

कल्पितब्राह्मणाकल्पस् तुलहेमाङ्गुलीयकः
श्रेष्ठिपुत्रो ऽपि जामातुर् आसीत् तत्र वयस्यकः ॥

22.89

वरयात्रा चिरात् प्रापद् अवन्तिनगरीं ततः
उत्कान्तिकान्तवृत्तान्तां यक्षसेनालकाम् इव ॥

22.90

सिप्रातटे निविष्टं च जन्यावासकम् आवसत्
वसन्तोपहृतश्रीक पुरोद्यानमनोहरम् ॥

22.91

तृणीकृतमहाकालास् तद् अहः सकुतूहलाः
अतृप्तदृष्टयो ऽपश्यन् वरं पौरपरंपराः ॥

22.92

स चोज्जयनकैर् धूर्तैर् वङ्कवाचकपण्डितैः
वेणुवीणाप्रवीणैश् च कांचिद् वेलाम् अयापयत् ॥

22.93

अथासौ स्यालकेनोक्तः कल्पिताहारभूषिणा
सज्जं वः पानम् अन्नं च किम् आध्वे भुज्यताम् इति ॥

22.94

स चानेकासनाम् एकाम् आलोक्य मनुभूमिकाम्
केन केनात्र भोक्तव्यम् इति स्यालकम् उक्तवान् ॥

22.95

तेनोक्तं जातरूपाङ्गं तुङ्गविद्रुमपादकम्
यूयं मध्यमम् अध्याध्वम् आसनं पटुवासनम् ॥

22.96

ये चैते दत्तवेत्राङ्गे युष्मान् उभयतः समे
एते ज्येष्ठकनिष्ठौ ते स्यालकाव् अधितिष्ठतः ॥

22.97

पार्श्वयोर् उभयोर् दीर्घा या चासनपरंपरा
तवास्याम् उपवेष्टव्यं शेषया स्यालमालया ॥

22.98

वरस् तु क्षणम् अव्यूह स्यालम् एतद् अभाषत
अस्माभिः सह युष्माभिर् न कार्यं पानभोजनम् ॥

22.99

गोत्राचारो ऽयम् अस्माकं तावत् पानं न सेव्यते
भुज्यते वापरैः सार्धं यावन् न परिणीयते ॥

22.100

परिणीय निवृत्तेन लब्धाज्ञेन सता पितुः
कार्यम् एतन् न वा कार्यं विनादेशाद् गुरोर् इति ॥

22.101

एवं नामेत्य् अनुज्ञातः श्वशुरेण वरः पृथक्
दुर्मनायितसंबन्धी पूतम् आहारम् आहरत् ॥

22.102

याते यामे च यामिन्या गर्जद्वादित्रमण्डलः
गृहं सागरदत्तस्य परिणेतुम् अगाद् असौ ॥

22.103

तत्रालम्बितवान् वध्वाः स्फुरच्चामीकरं करम्
स्मरन् गुरुवचो धीर्यान् निर्विकारकरो वरः ॥

22.104

स चात्राग्निं परिक्रम्य चण्डशूलाकुलः किल
पाणिभ्याम् उदरं धृत्वा मुमोह च पपात च ॥

22.105

प्रशान्तोच्छ्वासनिःश्वासे तस्मिन् संमीलितेक्षणे
मूकितोद्दामधूर्येण क्रन्दितेन विजृम्भितम् ॥

22.106

श्वश्रूर् जामातरं दृष्ट्वा ताडितोरःशिरास् ततः
उच्चैर् भर्तृसमावस्थाम् आक्रोशत् कुन्दमालिकाम् ॥

22.107

हा हतासि विनष्टासि धिक् त्वां प्रच्छन्नराक्षसीम्
जितप्रद्युम्नरूपो ऽयं पतिर् उत्सादितो यया ॥

22.108

त्वम् एव न मृता कस्माद् अहं वा दुःखभागिनी
यया त्वं सकलं जन्म द्रष्टव्यामृतया मृता ॥

22.109

कथं जीवति सा या स्त्री बालैव मृतभर्तृका
दूरान्तरगरिष्ठो हि नारीणां जीवितात् पतिः ॥

22.110

या च माता सुताम् इष्टां चारुताशीलशालिनीम्
शक्ता विधविकां द्रष्टुं ज्येष्ठा कालस्य सा स्वसा ॥

22.111

इत्यादि विलपन्त्य् एव सा च निश्चेष्टनाभवत्
हृदयोदरसंधिश् च जामातुः स्पन्दितः शनैः ॥

22.112

ततः पौरसमूहस्य जामातरि तथाविधे
हर्षहासाट्टहासानाम् आसीन् नान्तरम् अम्बरे ॥

22.113

शनकैश् च स निःश्वस्य जिह्मस्फुरितपक्ष्मणी
उदमीलयद् आताम्रे लोचने गुरुतारके ॥

22.114

ततः सागरदत्तेन कृतस् तादृङ् महोत्सवः
वृद्धतालब्धपुत्रेण यो नृपेणापि दुष्करः ॥

22.115

किम् एतद् इति पृष्टश् च स वैद्यैः प्रत्युवाच तान्
आमाशयगतं शूलं बाधते गुरु माम् इति ॥

22.116

अथ वासगृहस्थस्य वैद्या जामातुर् आदृताः
शूलस्यामनिदानस्य कृतवन्तश् चिकित्सितम् ॥

22.117

शूलैर् आयास्यमानस्य लब्धनिद्रस्य चान्तरे
तस्य जाग्रद्वधूकस्य कथम् अप्य् अगमन् निशा ॥

22.118

नागरातिविषामुस्ता क्वथपानावतर्पितः
अस्नेहाल्पतराहारः सो ऽभवत् प्रत्यहः कृशः ॥

22.119

स्वयं भेषजपेषादि व्यापृता कुन्दमालिका
विस्मृतेव वधूलज्जां भर्तृमान्द्यभयातुरा ॥

22.120

ततः पतिम् उपासीनां स कुब्जः कुन्दमालिकाम्
अङ्गेषु भयसन्नाङ्गीं कुर्वन् केलीं किलास्पृशत् ॥

22.121

अब्रवीच् च विमुञ्चैनं किराटम् अपटुं विटम्
देवतागुरुभिर् दत्तं कान्तं तोषय माम् इति ॥

22.122

अथोत्थाय ततः स्थानाद् भर्तृशय्यातिरस्कृता
केयं केलिर् अनार्येति वधूर् भर्तारम् अब्रवीत् ॥

22.123

स तां सस्मितम् आह स्म मा स्म ग्रामेयिका भव
का हि नागरिकंमन्या हास्यात् नटबटोस् त्रसेत् ॥

22.124

धनिनाम् ईदृशाः क्षुद्राः प्रायो वाचालताफलाः
न हि मूकं शुकं कश्चिच् चिरं धरति पञ्जरे ॥

22.125

तस्मात् क्रीडनकाद् अस्माद् अबद्धभाषमाणकात्
हसतः स्पृशतश् चाङ्गं भीरु मा वित्रसीर् इति ॥

22.126

तेन सा बोधिताप्य् एवं सदाचारकुलोद्भवा
चण्डाभिर् घटदासीभिस् तं भुक्तं निरभर्त्सयत् ॥

22.127

आसीच् च यज्ञगुप्तस्य यावद् एवैष मूढकः
रहस्यं न भिनत्त्य् एतत् तावन् न्याय्यम् इतो गतम् ॥

22.128

तं कदाचिद् अभाषन्त भिषजो निष्फलक्रियाः
पानाहारविहारेषु किम् इच्छति भवान् इति ॥

22.129

ततः क्षामतरालापस् तान् अवोचच् चिराद् असौ
पितरौ द्रष्टुम् इच्छामि प्रियपुत्रौ प्रियाव् इति ॥

22.130

अथ सागरदत्ताय वैद्यैर् एवं निवेदितम्
एवं वदति जामाता तच् च प्रतिविधीयताम् ॥

22.131

यद् यद् वैद्येन कर्तव्यम् आमाशयचिकित्सितम्
कृतम् अप्य् अकृतं तत् तद् एतस्मिञ् जातम् आतुरे ॥

22.132

स्वदेशाय तु यातो ऽयं भवेद् अपि निरामयः
जगत्प्रसिद्धिसिद्धं हि सुहृद्दर्शनम् औषधम् ॥

22.133

धात्रीप्रधानपरिवारचमूसनाथाम् अम्भोधिसारधनहारमहोष्ट्रयूथाम्
श्यामां निशाम् इव कृशेन तुषारभासा प्रास्थापयत् सह वरेण वणिक्तनूजाम् ॥

22.134

प्रयाणकैश् च यावद्भिर् अगाद् राजगृहं वरः
श्रेष्ठी च द्विगुणान् प्रीतान् प्राहिणोत् परिचारकान् ॥

22.135

अन्यजामातृवार्त्ताभ्यां द्वाभ्यां द्वाभ्यां प्रयाणकात्
निवर्तितव्यं युष्माभिर् इति चासाव् उवाच तान् ॥

22.136

प्रथमाद् वासकाद् यौ च निवृत्तौ परिचारकौ
श्रेष्ठिने कथितं ताभ्यां वरः स्वस्थो मनाग् इति ॥

22.137

यथा यथा च याति स्म वासकान् उत्तरोत्तरान्
शनकैः शनकैर् मान्द्यम् अत्यजत् स तथा तथा ॥

22.138

अन्यात् तु वासकाद् अन्यौ निवृत्तपरिचारकौ
वरं सागरदत्ताय हृष्टपुष्टाङ्गम् आख्यताम् ॥

22.139

अथासाव् इति हर्षान्धस् त्यक्तपात्रपरीक्षणः
आचतुर्वेदचण्डालं विततार निधीन् अपि ॥

22.140

कृत्रिमस् तु वरः प्रातस् त्यक्तजामातृडम्बरः
गृहीतब्राह्मणाकल्पः प्रस्थितः पदगः पथि ॥

22.141

वैषेणागन्तुना मुक्तः स रेजे निजया श्रिया
सेन्द्रचापतडिद्दाम्ना घनेनेव निशाकरः ॥

22.142

वरप्रवहणं तच् च कुन्दमालिकयास्थितम्
आरुरोह वराकारः प्रीतः कुरुभकः खलः ॥

22.143

तं दृष्ट्वा विकृताकारं जितशंकरकिंकरम्
प्रविधूय वधूर् अङ्गं लोचने सममीलयत् ॥

22.144

वधूवरम् अथ द्रष्टुं सकला सकुतूहला
निरगात् त्यक्तकर्तव्या जवना जनता पुरात् ॥

22.145

तौ च दुर्बद्धसम्बन्धौ मुक्तालोहगुडाव् इव
दृष्ट्वा धुतकरैः पौरैर् अधिक्षिप्तः प्रजापतिः ॥

22.146

कामचारेण कामो ऽपि तावन् नैव प्रशस्यते
किं पुनर् यः सदाचारः सर्गहेतुर् भवादृशः ॥

22.147

सर्वथा वामशीलानां त्वम् एव परमेश्वरः
येनैताव् अप्सरःप्रेतौ दुर्योज्यौ योजिताव् इति ॥

22.148

बुद्धवर्मापि निर्याय सर्वश्रेणिपुरःसरः
वधूम् अभ्यनयत् कान्त्या जितराजगृहं गृहम् ॥

22.149

अङ्कस्थवधुकस् तत्र स चावोचत् कुटुम्बिनीम्
इयम् एवास्तु ते पुत्रस् तनया च वधूर् इति ॥

22.150

मन्यमानेषु मानेषु वन्दमानेषु बन्दिषु
नटादिषु च नृत्यत्सु सार्कं तद् अगमद् दिनम् ॥

22.151

अथ चक्षुर्मनःकान्तम् आवासं कुन्दमालिका
यज्ञगुप्तवयस्येन कुब्जकेन सहाविशत् ॥

22.152

तत्र शय्यासमीपस्थम् आस्थिता चित्रम् आसनम्
वधूर् वरवयस्यो ऽपि तदनन्तरम् उन्नतम् ॥

22.153

चिन्तयन्तस् ततः तत्र सर्वे मोहान्धमानसाः
अमूलाग्राणि पत्त्राणि लिलिखुर् नमिताननाः ॥

22.154

अस्मिन्न् अचिन्तयत् कष्टे वृत्तान्ते कुन्दमालिका
अपि नामैष मां मुक्त्वा ब्राह्मणो न व्रजेद् इति ॥

22.155

आसीत् कुरुभकस्यापि विविक्ते रन्तुम् इच्छतः
अपि नामैष निर्यायाद् बहिर् वासगृहाद् इति ॥

22.156

यज्ञगुप्तस् तयोर् बुद्ध्वा तत् कालोचितम् इङ्गितम्
गमनं चात्मनः श्रेयस् ततो निर्गन्तुम् ऐहत ॥

22.157

सा तम् उच्छलितं दृष्ट्वा सविषादम् अभाषत
दारान् आपद्गतान् मुक्त्वा प्रस्थितः क्व भवान् इति ॥

22.158

तेनोक्तं यस्य दारास् त्वं विधात्रा परिकल्पिता
आपन्नास्मीति मा वोचस् तिष्ठन्ती तस्य संनिधौ ॥

22.159

तत् समालभताम् एष त्वदालिङ्गनचुम्बनम्
वयं तु खरधर्माणो भारमात्रस्य भागिनः ॥

22.160

इत्थम् उक्त्वा स चान्याभिः प्रेष्याभिः सह निर्ययौ
अनिच्छाम् ऐच्छद् आक्रष्टुं ग्राम्यः कुरुभकश् च ताम् ॥

22.161

ततस् तारतरारावैः श्रोणीचरणभूषणैः
व्याहरन्तीव तं विप्रं निर्जगाम जवेन सा ॥

22.162

मत्तप्रमत्तपौरे च नृत्यद्भृत्यनिरन्तरे
यज्ञगुप्तस् तया नैव दृष्टस् तत्र गृहाङ्गणे ॥

22.163

एष यात्य् एष यातीति सादृश्यभ्रान्तिवञ्चिता
यं कंचिद् अपि सा यान्तम् अन्वयासीत् तदाशया ॥

22.164

रभसेन च निर्याय रथ्यापथम् अवातरत्
हिण्डीवादित्रभीता च कुम्भकारकुटीगमात् ॥

22.165

तत्र कापालिकं दृष्ट्वा सुषुप्तं मदमूर्छया
सुश्लिष्टा हन्त रक्षेयम् इत्य् अध्यवसितं तया ॥

22.166

अथाभरणम् उन्मुच्य महासारं शरीरतः
अभ्यस्तवणिगाचारा बबन्ध दृढम् अम्बरे ॥

22.167

खट्वाङ्गादिकम् आदाय कापालिकपरिच्छदम्
घूर्णमाना मदाद् ग्रामं बाह्यं निरगमत् पुरात् ॥

22.168

तत्र च ब्राह्मणी काचित् तया श्वेतशिरोरुहा
स्वगृहालिन्दकासीना दृष्टा कर्पासकर्त्त्रिका ॥

22.169

एकाकिन्य् एव सा दैवं निन्दित्वा करुणस्वना
धिक् क्षुद्रं बुद्धवर्माणम् इति सक्रोधम् अब्रवीत् ॥

22.170

ताम् अपृच्छद् असाव् आर्ये निर्व्याजगुणशालिनः
साधोः किं दुष्कृतं तस्य निन्द्यते यद् असाव् इति ॥

22.171

तयोक्तम् अतिमुग्धो वा धूर्तो वा भगवन्न् असि
तदीयं दुष्कृतं येन प्रकाशम् अपि न श्रुतम् ॥

22.172

अथ वा श्रोष्यति भवान् अन्यतस् तत् सुदुःश्रवम्
मादृशी तु न शक्तैव वक्तुं प्रकृतिकातरा ॥

22.173

यावच् चेदम् असाव् आह तावद् उच्चैस् तरां पुरे
डिण्डिमध्वनिसंभिन्ना परिबभ्राम घोषणा ॥

22.174

अहो राजसमादेशो यो वधूं बुद्धवर्मणः
नागरः कश्चिद् आचष्टे स दारिद्र्येण मुच्यते ॥

22.175

यः पुनः स्वगृहे मोहात् प्रच्छादयति तं नृपः
पाटयत्य् अधनं कृत्वा दारुणैः क्रकचैर् इति ॥

22.176

अथेदं ब्राह्मणी श्रुत्वा नेत्राम्बुप्लावितानना
परितोषपराधीना जहास च रुरोद च ॥

22.177

अब्रवीच् च किम् आश्चर्यं यद् उज्जयनिको जनः
नातिसंधीयते धूर्तैर् मूलदेवसमैर् इति ॥

22.178

साधु साधु महाप्राज्ञे सुजाते कुन्दमालिके
यया सकुब्जकः पापो बुद्धवर्मातिसंधितः ॥

22.179

यथा राजगृहं पुत्रि त्वयेदं सुखम् आसितम्
यज्ञगुप्तेन संगम्य त्वयापि स्थीयतां तथा ॥

22.180

इत्यादि ब्रुवतीं श्रुत्वा चिन्तयाम् आस ताम् असौ
निष्कारणजनन्य् एषा गोपायिष्यति माम् इति ॥

22.181

शनैश् चाकथयत् तस्यै वृत्तं वृत्तान्तम् आत्मनः
गाढम् आलिङ्ग्य सा चैनां प्रीता प्रावेशयद् गृहम् ॥

22.182

अवतार्य च तत्रास्यास् तां कापालिकतण्डिकाम्
तद्भारपरिखिन्नानि गात्राणि पर्यवाहयत् ॥

22.183

अभ्यज्य स्नपयित्वा च सुखोष्णैः सलिलैर् असौ
स्थूलचेलदलास्तीर्णे शयने समवेशयत् ॥

22.184

परिधाय च ताम् एव बीभत्साम् अस्थिशृङ्खलाम्
भ्राम्यत्संभ्रान्तपौरं तत् सा प्रातः प्राविशत् पुरम् ॥

22.185

किंनिमित्तम् अयं लोकः संचरत्य् आकुलाकुलः
इति पृष्टवती कंचिद् असौ पुरनिवासिनम् ॥

22.186

तेनोक्तम् इह च स्थाने श्रेष्ठिनो बुद्धवर्मणः
पुत्रः कुरुभको नाम स्वनामविकृताकृतिः ॥

22.187

तस्मै चान्येन षण्ढेन परिणीय द्विजन्मना
शैलूषेणेव लुब्धेन स्वभार्या प्रतिपादिता ॥

22.188

सा तं कुरुभकं त्यक्त्वा मार्गयन्ती च तं द्विजम्
प्रदोषे क्वाप्य् अपक्रान्ता लोकस् तेनायम् आकुलः ॥

22.189

ततस् ततस् तया श्रुत्वा सान्तःस्मितमुदाहृतम्
भद्र षण्ढस्य तस्याशु गृहं नयत माम् इति ॥

22.190

ततस् तन्मधुरालाप रक्तपौरपुरःसरा
यज्ञगुप्तगृहं प्रापद् ब्रह्मनिर्घोषभूषणम् ॥

22.191

तत्र चाग्निगृहद्वारि व्याख्यानकरणाकुलम्
सान्तेवासिनम् आसीनं यज्ञगुप्तं ददर्श सा ॥

22.192

ततो निधाय खट्वाङ्गं रचितस्वस्तिकासना
को ऽयं व्याख्यायते ग्रन्थ इत्य् अपृच्छत् समत्सरा ॥

22.193

सो ऽब्रवीद् भगवन्न् एषा मानवी धर्मसंहिता
एतस्यां चातुराश्रम्यं चातुर्वर्ण्यं च वर्ण्यते ॥

22.194

तयोक्तं किम् अलीकेन न हीयं धर्मसंहिता
लोकायतम् इदं मन्ये निर्मर्यादजनप्रियम् ॥

22.195

क्व धर्मसंहिता क्वेदम् अधर्मचरितं तव
न हि वैद्यः स्वशास्त्रज्ञः कुष्ठी मांसं निषेवते ॥

22.196

व्याचख्यानेन विप्रेण मानवीं धर्मसंहिताम्
व्यतिक्रान्तसवर्णेन परिणीता वरा त्वया ॥

22.197

सा चाखण्डशरीरेण सुरूपेण कलाविदा
यूना च काणकुण्ठाय मत्कुणाय किलार्पिता ॥

22.198

तन् माहेश्वर पृच्छामि किम् अर्थम् इदम् ईदृशम्
त्वया कृतम् अकर्तव्यं युक्तं चेत् कथ्यताम् इति ॥

22.199

सो ऽब्रवीद् भगवन् युक्तम् अयुक्तं वा भवत्व् इदम्
विधेयैर् अविकार्यार्थाद् गुरुवाक्याद् अनुष्ठितम् ॥

22.200

तथा हि जामदग्न्येन दुर्लङ्घ्याद् वचनात् पितुः
मातुः कृत्तं शिरस् तत्र किम् आह भगवान् इति ॥

22.201

तयोक्तं दिव्यवृत्तान्ता नादिव्यस्य निदर्शनम्
न हि रुद्रेण पीतेति पिबन्ति ब्राह्मणाः सुराम् ॥

22.202

न च प्राज्ञेन कर्तव्यं सर्वम् एव गुरोर् वचः
गुरुः किं नाम न ब्रूयाद् दुःखक्रोधादिबाधितः ॥

22.203

तीव्रशूलातुरशिराः पुत्रं ब्रूयात् पिता यदि
शिरो मे छिन्द्धि पुत्रेति किं कार्यं तेन तत् तथा ॥

22.204

यच् च मातुः शिरः कृत्तं रामेण वचनात् पितुः
तत् तस्यैव प्रभावेन सद्यः संघटितं पुनः ॥

22.205

त्वया तु गुरुवाक्येन कृताकर्तव्यकर्मणा
दिव्यप्रभावहीनेन तत् कथं कार्यम् अन्यथा ॥

22.206

इदानीम् अपि ताम् एव भवान् विनेष्यति प्रियाम्
गुरुवाक्यं कृतं पूर्वं यद् गतं गतम् एव तत् ॥

22.207

तस्याम् इत्युक्तवाक्यायाम् असाव् आसीन् निरुत्तरः
वादिवाच्ये हि निर्दोषे किं वाच्यं प्रतिवादिनः ॥

22.208

एवं च चिरम् आसित्वा नभोमध्यगते रवौ
भिक्षावेलापदेशेन तम् आमन्त्योच्चचाल सा ॥

22.209

तेन चोक्ता स्वम् एवेदम् ऋद्धिमच् च गृहं तव
तेनात्रैव सदाहारं करोतु भगवान् इति ॥

22.210

ततस् तया विहस्योक्तं नास्तिकस्य भवादृशः
असंभोज्यम् अभोज्यत्वाद् अन्नं कापालिकैर् अपि ॥

22.211

कृत्वापि तु महत् पापं पश्चात् तापं करोति यः
पुनःसंवरणं चासौ याति भोज्यान्नताम् इति ॥

22.212

एवमादि तम् उक्त्वासौ गत्वा च ब्राह्मणीगृहम्
अपनीय च तं वेषम् आचरन् मज्जनादिकम् ॥

22.213

तं च कापालिकं कल्पं सायम् आदाय सा पुनः
यज्ञगुप्तगृहं गत्वा दिनशे.अम् अयापयत् ॥

22.214

अन्नकालं च रात्रिं च नयन्ती ब्राह्मणीगृहे
शेषं च यज्ञगुप्तस्य सानयद् दिवसान् बहून् ॥

22.215

कदाचिच् चाभवत् तस्यास् तृष्णावशगचेतसा
अकार्यम् इदम् एतेन कृतं कर्म द्विजन्मना ॥

22.216

तेन शक्यो मयानेतुम् अयं दर्शिततृष्णया
कार्ये हि सुलभोपाये न मुह्यन्ति सुमेधसः ॥

22.217

अथ मुक्तालताम् एकाम् अरुणां तरलांशुभिः
असौ विक्रापयाम् आस तया ब्राह्मणवृद्धया ॥

22.218

हेमरूप्यं च तन्मूल्यम् आहतानाहतं शुचि
ताम्रकुम्भयुगन्यस्तं सीमान्ते निहितं तया ॥

22.219

अथ धातुक्रियावाद निधिवादाश्रयैर् असौ
आलापैश् चिरम् आसित्वा यज्ञगुप्तम् अभाषत ॥

22.220

एकरात्रं वसेद् ग्रामे पञ्चरात्रं मुनिः पुरे
इति प्रव्रजिताचारम् एतं वेद भवान् इति ॥

22.221

एतावन्तम् अहं कालं वत्स राजगृहे स्थितः
त्यक्तप्रव्रजिताचारस् तद् अभवत् प्रीतिवञ्चितः ॥

22.222

गृहिणो ऽपि हि सीदन्ति स्नेहशृङ्खलयन्त्रिताः
विरक्ताः स्वशरीरे ऽपि निःसङ्गाः किं मुमुक्षवः ॥

22.223

तेन वाराणसीं गन्तुम् अहम् इच्छामि संप्रति
तीर्थदर्शनतन्त्रा हि सोमसिद्धान्तवादिनः ॥

22.224

अन्यच् चाहं विजानामि दारिद्र्यव्याधिवैद्यकम्
महाकालमतं नाम निधानोत्पाटनागमम् ॥

22.225

मया च ध्यानखिन्नेन वनान्ते परिसर्पता
उज्ज्वलैर् लक्षितश् चिह्नैः केनापि निहितो निधिः ॥

22.226

यदि चास्ति मयि प्रीतिस् ततः स्वीक्रियताम् असौ
सफलाः खलु संपर्काः साधुभिस् त्वादृशैर् इति ॥

22.227

यज्ञगुप्तस् तम् उत्खाय निधिं तत्सहितस् ततः
सधीराप्ततरच्छात्त्रः प्रच्छन्नं गृहम् आनयत् ॥

22.228

तत्र पित्रे निधानं तत् प्रीतः कथितवान् असौ
महाकालमतज्ञात्वं तस्य कापालिकस्य च ॥

22.229

तम् उवाच पिता पुत्रं त्यक्त्वा वेदान् अनर्थकान्
महाभिक्स्.ओर् महाज्ञानं महाकालमतं पठ ॥

22.230

दिव्यं चक्षुर् इदं तात महाकालमतं मतम्
निधिगर्भां नरो येन छिद्रां पश्यति मेदिनीम् ॥

22.231

महापाशुपतस् तस्मान् महाकाल इव त्वया
महाकालमतस्यार्थे यत्नाद् आराध्यताम् इति ॥

22.232

इति प्रोत्साहितस् तेन महाकालमतार्थिना
यज्ञगुप्तो ब्रवीति स्म प्रस्थितां कुन्दमालिकाम् ॥

22.233

अहम् अप्य् अनुगच्छामि भवन्तं तीर्थम् अस्थिरम्
दृष्टादृष्टमहाश्रेयः कारणं मादृशाम् इति ॥

22.234

तया तु वार्यमाणो ऽपि वाचा मन्दप्रयत्नया
महाकालमतप्रेप्सुर् असौ नैव निवृत्तवान् ॥

22.235

अथ वाराणसीं गत्वा यज्ञगुप्ताय सा ददौ
रत्नं नातिमहामूल्यम् इति चैनम् अभाषत ॥

22.236

अस्य रत्नस्य मूल्येन यथासुखम् इहास्यताम्
न तु तारुण्यमूढेन संभाष्या गणिका त्वया ॥

22.237

त्वादृङ् नवदशप्रायः श्रोत्रियः सकुतूहलः
वेश्यावश्यः स्वदाराणां यात्य् अवश्यम् अवश्यताम् ॥

22.238

गणिकाडाकिनीभिश् च पीतसर्वाङ्गलोहितः
यज् जीवति तद् आश्चर्यं क्व धर्मः क्व यशःसुखे ॥

22.239

इत्यादिम् आदेशम् असौ तदीयं तथेत्य् अनुज्ञाय तथा चकार
आराध्यवाक्यानि हि भूतिकामाः सेवाविधिज्ञा न विकल्पयन्ति ॥

22.240

चतुरः पञ्च वा मासान् वाराणस्यां विहृत्य तौ
नैमिषं जग्मतुस् तस्माद् गङ्गाद्वारं ततः कुरून् ॥

22.241

कुरुभ्यः पुष्करं तत्र गमयित्वा घनागमम्
कार्त्तिकान्ते महापुण्यं दृष्टवन्तौ महालयम् ॥

22.242

यज्ञगुप्तम् अथावोचद् एकदा कुन्दमालिका
बहुद्रविणम् उत्पाद्य ददामि भवते निधिम् ॥

22.243

तम् आदाय गृहान् गच्छ दृष्टादृष्टार्थसाधनम्
त्रिवर्गेण हि युज्यन्ते गृहस्था गृहमेधिनः ॥

22.244

अश्रुतश्रुतयो मूढा रण्डा निर्वसवो ऽपि वा
भवन्ति खलु धर्मार्थं तीर्थयात्रापरायणाः ॥

22.245

अहम् अप्य् अधुना गच्छाम्य् अवन्तिनगरीं प्रति
सा हि कापालिकालीना गणिकानाम् इवाकरः ॥

22.246

महापाशुपतास् तत्र निशातशितपट्टिशाः
यात्रायां किल युध्यन्ते युद्धमात्रप्रयोजनाः ॥

22.247

तत्र कापालिकः कश्चिन् निहन्याद् अपि मां बली
काकतालीयमोक्षा हि शस्त्रपञ्जरचारिणः ॥

22.248

उज्जयन्यां च यत् पापं दुष्कृतं कृतवान् असि
स्वर्गवद् ब्रह्मघातेन तेन सा दुर्गमा त्वया ॥

22.249

तेनायासफलं तत्र विशङ्के गमनं तव
प्रावृत्य च ततः पश्य सनिधिः पितराव् इति ॥

22.250

आसीच् चास्य प्रसन्नौ मे पादाव् अस्य महात्मनः
हन्त संप्रति संप्राप्तं महाकालमतं मया ॥

22.251

लोको हि प्राणसंदेहे प्राणधारणकारणम्
सर्वम् अप्य् उज्झति स्फीतं किम् उ ग्रन्थम् अनर्थकम् ॥

22.252

चिरम् आराधितश् चायं निरपेक्षः स्वजीविते
महाकालमतं तन् मे कथं नाम न दास्यति ॥

22.253

यं च दोषम् अहं तत्र कृतवान् गुरुशासनात्
तस्य प्रच्छादनोपायो यत् किंचिद् इव तुच्छकः ॥

22.254

मां देवकुलकोणेषु लीनं कालपटच्चरम्
परुषाकुलकेशं च न कश्चिल् लक्षयैष्यति ॥

22.255

युक्तम् इत्यादि निर्धार्य सो ऽब्रवीत् कुन्दमालिकाम्
किं चान्तेवासिनां युक्तं मोक्तुम् आचार्यम् आपदि ॥

22.256

या गतिर् भवतः सैव ममापि सहचारिणः
न हि गच्छति पूर्णेन्दौ कलङ्को ऽस्य न गच्छति ॥

22.257

इत्यादि वदतो वल्गु जातसंमदमानसा
अनुज्ञातवती तस्य गमनं कुन्दमालिका ॥

22.258

अथावन्तिपुरीं गत्वा यज्ञगुप्तम् उवाच सा
इह भद्रवटे भद्र विनयस्व पथिश्रमम् ॥

22.259

आगच्छामि निधिं दृष्ट्वा निहितं केनचित् क्वचित्
यावत् तावत् त्वयोत्कण्ठा न कार्या माम् अपश्यता ॥

22.260

उज्जयन्यां निधानानि दुर्लभानि यतस् ततः
आशङ्के चिरम् आत्मानं परिभ्रान्तम् इतस् ततः ॥

22.261

आयुष्मन्तः प्रजावन्तो अपितृवन्तो ऽपि वा समाः
न ह्य् औज्जयनकाः पौराः स्थिरान् निदधते निधीन् ॥

22.262

एवमादि तम् उक्त्वासौ गत्वा सिप्रासरित्तटम्
मुक्त्वा कापालिकाकल्पम् अमलाम् अकरोत् तनुम् ॥

22.263

कुन्दशुभ्रपरीधाना शङ्खस्फटिकमण्डना
शरद्द्यौर् इव साभासीज् ज्योत्स्नाताराकुलाकुला ॥

22.264

भिन्नवर्णां च भिन्दन्ती स्तनाभ्यां कण्ठकण्ठिकाम्
जालशिक्यस्थितालाबूः सा प्रतस्थे सपिण्डिका ॥

22.265

ततः कापालिका मत्ताः पिबन्तो बद्धमण्डलाः
व्याहरन्ति स्म ताम् उच्चैः कुञ्चिताङ्गुलिपाणयः ॥

22.266

एह्य् एहि तरलापाङ्गि यस् ते कापालिकः प्रियः
तेन सार्धं यथाश्रद्धं पानम् आसेव्यताम् इति ॥

22.267

ततस् तत्रापि सा तेभ्यः प्रकृत्या प्रतिभावती
तान् अतिद्रुतया गत्या जगाम च जगाद च ॥

22.268

पश्यन्तीं च रमणीयां स्पृश्यमानां च भीषणाम्
अलं भगवतां दृष्ट्वा मां दृष्टिविषकन्यकाम् ॥

22.269

पतिर् मम हि गन्धर्वः क्रूरताजितराक्षसः
ईर्ष्यावान् अप्रमत्तश् च सदा रक्षति माम् असौ ॥

22.270

तेन माम् अभियुञ्जाना कन्दर्पशरताडिता
यमेनेव क्षयं नीता कोटिर् युष्मादृशाम् इति ॥

22.271

ततः कापालिकैर् उक्तम् उक्तं यद् अनया श्रिया
तन् न केवलम् एतस्याम् अधिकं चोपपद्यते ॥

22.272

त्रैलोक्ये ऽनिद्रताहेतोर् अस्याः कान्ताकृतेः कृते
आश्चर्यं यन् न युध्यन्ते ब्रह्मविष्णुमहेश्वराः ॥

22.273

तस्माद् गन्धर्वम् अन्यं वा कंचित् त्रैलोक्यसुन्दरम्
अनुगृह्णातु सस्नेहैर् इयम् आलोकितैर् इति ॥

22.274

ततः सा परिकर्षन्ती सपाषण्डिगणा पुरीम्
आशीःकलकलोन्नीतम् अगच्छद् भवनं पितुः ॥

22.275

हृष्टार्थे वर्गसंबाधं सप्तकक्षं प्रविश्य तत्
मातुर् वासगृहद्वारि भिक्षां देहीति चाब्रवीत् ॥

22.276

गृहाद् गृहीतभिक्षा च निर्याय परिचारिका
आशिरश्चरणाङ्गुष्ठम् अपश्यत् कुन्दमालिकाम् ॥

22.277

चिराच् च प्रत्यभिज्ञाय घ्नती सहृदयं शिरः
प्रविश्य कथयाम् आस स्वामिन्यै शनकैर् असौ ॥

22.278

उत्सन्नासि विनष्टासि यस्यास् ते धरणीधृता
शिरीषामालिकालोला दुहिता कुन्दमालिका ॥

22.279

सा हि कापालिकाकल्प कलङ्कां दधती तनुम्
इयं तिष्ठति ते द्वारि स्वयं वा दृश्यताम् इति ॥

22.280

इदम् आकर्ण्य निष्क्रान्ता सा तां दृष्ट्वा तथाविधाम्
वाच्यताम् अनपेक्ष्यैव स्नेहाद् एतच् चचार सा ॥

22.281

बिभेद लवशः पिच्छं कपालं च कपालशः
चिच्छेद गुडिकां शश्वत् शङ्खस्फतिकमण्डनम् ॥

22.282

पाटयित्वा च तां तस्यास् तन्तुशः कण्ठकण्ठिकाम्
मङ्गलस्नानशुद्धान्तां शुद्धान्तम् अनयत् ततः ॥

22.283

तत्रैनाम् अब्रवीन् माता मातर्विश्रब्धम् उच्यताम्
किम् एतद् एवम् एवेति सा ततस् ताम् अभाषत ॥

22.284

अकस्माद् भ्रान्तिर् अम्बायाः कथं तव सुता सती
असतीभिर् अपि क्षिप्तं चरेत् कापालिकव्रतम् ॥

22.285

आस्तां तावत् कथा चेयं तातपादान् इहाह्वय
अस्ति मे गुरु कर्तव्यं साध्यते तच् च तैर् इति ॥

22.286

अथ सागरदत्तस् ताम् आलोक्य व्याहृतागतः
किं किम् एतत् कथं चेति शशङ्के विषसाद च ॥

22.287

तं च दृष्ट्वा तथाभूतम् अत्रस्ता कुन्दमालिका
आश्वासयितुम् आलिङ्ग्य ववन्दे विजहास च ॥

22.288

अब्रवीच् चैनम् आश्वस्तम् आस्ते भद्रवटाश्रमे
जामाता तव स स्यालैस् तस्माद् आनाय्यताम् इति ॥

22.289

तदादिष्टैश् च संरब्धैर् गृहीतः स्यालकैर् असौ
लब्धो ऽसि पुत्रचौरेति मृषा परुषभाषिभिः ॥

22.290

किं तिष्ठसि शठोत्तिष्ठ प्रतिष्ठ स्वपुरं प्रति
त्वाम् आहूयति राजेति सस्मिताश् चैनम् अब्रुवन् ॥

22.291

ततस् तान् प्रत्यभिज्ञाय संभाव्य वधबन्धने
मानस्तोकम् ऋचं जप्त्वा शिखाबन्धं चकार सः ॥

22.292

ससान्त्वं चाब्रवीद् अङ्ग क्षणम् एतद् उदीक्ष्यताम्
मम कापालिको मित्रं यावद् आयात्य् असाव् इति ॥

22.293

स तैस् तारं विहस्योक्तस् त्वं यन् मित्रम् उदीक्षसे
स गतः प्रथमं तत्र तेनैव ग्राहितो भवान् ॥

22.294

निष्प्रयोजनसौहार्दा वचःसदृ।अचेतसः
सुहृदो ऽपि विरज्यन्ते खलानां त्वादृशाम् इति ॥

22.295

तं विषण्णं प्रहृष्टास् ते मूकं बहुपटुस्वनाः
गृहीत्वा गृहम् आजग्मुः प्रीतबन्धुजनावृतम् ॥

22.296

तत्र सागरदत्तेन प्रीतिकण्टकितत्वचा
परिष्वक्तस्य जामातुः सप्राणम् अभवद् वपुः ॥

22.297

कृतार्घादिसपर्यश् च स निवर्तितभोजनः
अध्यशेत महाशय्यां रम्यमण्डपसंस्तृताम् ॥

22.298

तत्रास्य श्वशुरौ स्यालाः स्यालभार्याश् च सात्मजाः
आप्ताश् च श्रेष्ठिनः पौराः परितः समुपाविशन् ॥

22.299

साथागच्छद् वणिक्कन्या मधुराभरणक्वणा
वाचालकलहंसेव निष्कलङ्काम्बरा शरत् ॥

22.300

गुरवः सत्कृता मूर्ध्ना वाचा सवयसस् तया
यज्ञगुप्तः पुनर् दृष्ट्या सरागाञ्जनगर्भया ॥

22.301

अध्यास्य च पुरः पित्रोर् असौ वामनम् आसनम्
विवाहादियथावृत्तम् आत्मवृत्तं न्यवेदयत् ॥

22.302

आसीच् च यज्ञगुप्तस्य धिग् धिङ् मे विफलाः कलाः
द्व्यङ्गुलप्रज्ञया यो अहं वञ्चितः कुलकन्यया ॥

22.303

अथ वा द्व्यङ्गुलप्रज्ञाः पुरुषा एव मादृशाः
कुशाग्रीयधियो योषा यासां कर्मेसम् ईदृशम् ॥

22.304

किम् अतः परमाश्चर्यं यन् नागरिकयानया
तिष्ठतां गतिसंस्थाने स्वरो ऽपि परिवर्तितः ॥

22.305

विराटनगरे पार्थैः कथं मूढात्मभिः स्थितम्
इति ये विचिकित्सेयुस् तेषाम् एषा निदर्शनम् ॥

22.306

सर्वथा गुरुवाक्येन यन् मया चरितं महत्
तस्माद् अस्म्य् अनयैवाद्य मोचितः पातकाद् इति ॥

22.307

वृत्तान्तं चैतद् आकर्ण्य प्रहृष्टेन महीभृता
सहजामातृकानीता स्वगृहं कुन्दमालिका ॥

22.308

तस्मिन् बहुमहाग्रामं दानं बहुसुवर्णकम्
स दत्त्वा यज्ञगुप्ताय सस्मितस् ताम् अभाषत ॥

22.309

यथा द्विजातिकर्मभ्यो न हीयते पतिस् तव
त्वया धीरतया पुत्रि तथा संपाद्यताम् इति ॥

22.310

तयातिधैर्याङ्कुशवारितेर्ष्यया द्विजातिकन्यां परिणायितः पतिः
न हि क्षितीशान् अविलङ्घ्यशासनान् विलङ्घयन्ति प्रियजीवितश्रियः ॥

22.311

द्विजातिकन्यां रतिपुत्रकाम्यया सुखाय शुद्धाय च कुन्दमालिकाम्
निषेवमानः सुकृतं च संततं निनाय विप्रः सफलं समाशतम् ॥

22.312

पौगण्डाय वितीर्णयापि विधिना यस्माद् वणिक्कन्यया चित्रोपायपरंपराचतुरया प्राप्तः पतिर् वाञ्छितः
संतोषक्षतसत्त्वसत्त्वदयितः संसेवितः कातरैस् तस्मात् पौरुषमारुतेन बलिना दैवाद्रिर् उन्मूलितः ॥

मूल पाठ: Bṛhatkathāślokasaṃgraha · Edition: the text edited by Felix Lacote (Paris, 1908). It was · Data entry Andreas Bigger · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc