भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्कथाश्लोकसंग्रह · अध्याय 21

21.1

तत्र मित्रप्रकाण्डेन गोमुखेन विनोदितः
मासम् आसिषि विप्रैश् च प्रसन्नैः सप्रसन्नकैः ॥

21.2

एकदा गोमुखेनोक्तं योजने ग्रामकाद् इतः
अविमुक्ताविमुक्तत्वात् पुण्या वाराणसी पुरी ॥

21.3

आप्राग्ज्योतिषकश्मीर द्वारकाताम्रपर्णि यत्
तत् सर्वं सुलभं तस्यां मनोहारिविनोदनम् ॥

21.4

कदाचिच् चोपलभ्येत तत्र पान्थात् कुतश्चन
वार्त्ता हरिशिखादीनाम् अतः सागम्यताम् इति ॥

21.5

तम् उक्त्वा युक्तम् आत्थेति तं चामन्त्र्य प्रसन्नकम्
साक्रन्दात् संभवग्रामात् प्रति वाराणसीम् अगाम् ॥

21.6

अथ स्तोकान्तरातीतं माम् अभाषत गोमुखः
वहानि किम् अहं युष्मान् यूयं वहत माम् इति ॥

21.7

चिन्तितं च मया हन्त विनष्टः खलु गोमुखः
यूयं मां वहतेत्य् एष नो ब्रूयात् कथम् अन्यथा ॥

21.8

आसनस्यापि यश् छायां मदीयस्य नमस्यति
अरिष्टाविष्टतां मुक्त्वा कथम् इत्थं स वक्ष्यति ॥

21.9

स मयोक्तः सदैन्येन भवान् गुरुपदश्रमः
तन् मदीयम् अशङ्केन पृष्ठम् आरुह्यताम् इति ॥

21.10

तेन चोक्तं विलक्षेण मा ग्रहीत यथा श्रुतम्
नेयं संभाव्यते चिन्ता जातारिष्टे ऽपि मादृशि ॥

21.11

किं तु यः किंचिद् आचष्टे पान्थस्य पथिकः पथि
वोढा भवति तस्यासौ खेदविस्मरणाद् इति ॥

21.12

स मयोक्तो भवान् एव सर्ववृत्तान्तपेशलः
आख्यातुं च विजानाति यत् ततः कथयत्व् इति ॥

21.13

तेनोक्तं पञ्च कथ्यन्ते कथावस्तूनि कोविदैः
धर्मार्थसुखनिर्वाण चिकित्साः सहविस्तराः ॥

21.14

तत्र सत्त्वोपकारार्था कायवाङ्मानसक्रिया
प्रभवः सर्वधर्माणां जगती जगताम् इव ॥

21.15

येनोपायेन मित्रत्वं यान्ति मध्यस्थशत्रवः
सर्वार्थानाम् असौ हेतुर् गुणानाम् इव सज्जनः ॥

21.16

परस्त्रीगणिकात्यागः संतोषो मन्दरोषता
नातिसक्तिश् च दारेषु सुखं दुःखं विपर्ययः ॥

21.17

साङ्गस्य सुखरागादेर् अनङ्गस्य च देहिनः
संबन्धाभावम् अत्यन्तं निर्वाणं विदुर् ईश्वराः ॥

21.18

अर्धरात्रे ऽपि भुञ्जानः परमार्थबुभुक्षितः
कूटवैद्यपरित्यागी रोगैर् दूरेण वर्ज्यते ॥

21.19

दृष्टसंसारसाराणाम् ऋषीणां को हि मादृशः
असारो गुरुसाराणि दर्शनानि विडम्बयेत् ॥

21.20

तेन यत् किंचिद् उच्छास्त्रं बालभावाद् उदाहृतम्
शुकवाशितनिःसारम् इदं मे मृष्यताम् इति ॥

21.21

इदमादीः कथाः शृण्वन् निरन्तरसुरालयाम्
गङ्गाभरणम् आख्यातां प्रापं वाराणसीं ततः ॥

21.22

तत्र बाह्यनिविष्टस्य शून्यस्य पुरसद्मनः
जरद्दारुसुधाचित्रम् अध्यतिष्ठाम मण्डपम् ॥

21.23

गोमुखस् तु क्षणं स्थित्वा माम् अवोचद् गतश्रमम्
मुहूर्तकम् अनुत्कण्ठैर् इह युष्माभिर् आस्यताम् ॥

21.24

यत्र स्थातव्यम् अस्माभिर् उपलभ्य तम् आश्रयम्
आगच्छामीति माम् उक्त्वा चलैर् उच्चलितः पदैः ॥

21.25

गत्वा षोडशविंशानि पदानि सहसा स्थितः
ततः किम् अपि निश्चित्य निवृत्तो माम् अभाषत ॥

21.26

यद् इदं युष्मदङ्गेषु दिव्यं भूषणम् आहितम्
इदम् आदाय गच्छामि स्थातुं नास्येह युज्यते ॥

21.27

त्रिदण्डिपाण्डराङ्गादि पाषण्डैश् छद्मकङ्कटैः
वाराणसी महाचौरैस् तीर्थध्वाङ्क्षैर् अधिष्ठिता ॥

21.28

युष्मान् एकाकिनो दृष्ट्वा सालङ्कारान् निरायुधान्
तेषां साहसिकः कश्चिद् अनर्थं चिन्तयेद् इति ॥

21.29

एवं भवतु नामेति मयासाव् अनुमोदितः
तदाभरणम् आदाय प्राविशत् त्वरितः पुरम् ॥

21.30

अथाचिरगते तस्मिन् परिव्राड्ब्रह्मचारिणौ
परिचङ्क्रमणश्रान्तौ तस्मिन्न् एव न्यसीदताम् ॥

21.31

आसीच् च मम ताव् एतौ नूनं पाषण्डितस्करौ
निरायुधासहायं मां मुषितुं किल वाञ्छतः ॥

21.32

तद् एतेषां सहस्रेषु सकृपाणकरेष्व् अपि
गवाम् इवोद्विषाणानां मतिर् मे मन्थरादरा ॥

21.33

ऊरुमूलस्थशस्त्रेषु प्रव्रज्याकङ्कटेषु यः
प्रयुङ्क्ते निर्घृणः शस्त्रं को ऽन्यः क्लीबतमस् ततः ॥

21.34

एवमादिविकल्पं माम् असाव् आलोक्य मस्करी
निराश इव विद्राणो ब्रह्मचारिणम् उक्तवान् ॥

21.35

जल्पाकग्रथितैर् ग्रन्थैः सांख्ययोगादिभिर् वयम्
विप्रलब्धाः सुखं त्यक्त्वा मोक्षमार्गे किल स्थिताः ॥

21.36

यथा तृणम् उपादातुम् अम्बराम्भोजम् एव वा
कश्चिन् महत् तपः कुर्यान् मोक्षार्थो नस् तथा श्रमः ॥

21.37

तृणवत्सुलभो मोक्षो यदि खेदो ऽफलस् ततः
अथ खाम्बोजदुष्प्रापस् ततो नष्टा मुमुक्षवः ॥

21.38

परलोकस्य सद्भावे हेतुः सर्वज्ञभाषितः
सर्वज्ञस्यापि सद्भावः पञ्चदिव्यप्रमाणकः ॥

21.39

यो ऽप्य् उपादीयते हेतुः सर्वज्ञास्तित्वसिद्धये
सो ऽप्य् असिद्धविरुद्धादि दोषाशीविषदूषितः ॥

21.40

तद् अलं विटवाचाट घटितैः काव्यकर्पटैः
सेवमाना यथाच्छन्दम् आस्महे विषयान् इति ॥

21.41

ब्रह्मचारी तु सावेगः परिव्राजकम् उक्तवान्
प्रसारितस् त्वया कस्माद् असारो मल्लदण्डकः ॥

21.42

प्रतिज्ञाहेतुदृष्टान्ताः साधवस् तावद् आसताम्
सर्वतन्त्राविरुद्धेन सिद्धान्तेनैव बाध्यसे ॥

21.43

असत्तां परलोकस्य शुष्कतर्केण साधयन्
वितण्डावादवार्त्तार्तः साधु शोच्यो भविष्यसि ॥

21.44

अथ वास्ताम् इदं तावद् इदं तावन् निगद्यताम्
स्मृतीनां विटकाव्यत्वं कथं वेद भवान् इति ॥

21.45

तेनोक्तं मानुषाणां च प्रायः सर्वशरीरिणाम्
नन्दीशप्रमुखैर् उक्तम् अहं जानामि लक्षणम् ॥

21.46

यश् चैष पुरुषः को ऽपि पान्थः पांसुलपादकः
एष विद्याधरेन्द्राणाम् इन्द्रः किल भविष्यति ॥

21.47

एनं दृष्ट्वाधितिष्ठन्तम् एतं जर्जरमण्डपम्
मल्लदण्डकनिःसारान् उत्प्रेक्षे सकलागमान् ॥

21.48

अदृष्टार्थाः किल ग्रन्था दृष्टार्थैर् गारुडादिभिः
अर्थवन्तो ऽनुमीयन्ते याचकैर् इव दायकाः ॥

21.49

यथा च विटकाव्यत्वान् मृषा पुरुषलक्षणम्
श्रुतिस्मृतिपुराणादि तथा संभाव्यताम् इति ॥

21.50

इतरस् तम् अथावोचद् अतीतभवसंचितम्
इष्टानिष्टफलं कर्म दैवम् आहुर् विचक्षणाः ॥

21.51

यच् चेदं लक्षणं नाम शरीरेषु शरीरिणाम्
एतद् दैवाभिधानस्य लक्षणं पूर्वकर्मणः ॥

21.52

न चापुरुषकारस्य दैवं फलति कस्यचित्
कालकारणसामग्रीम् ईश्वरो ऽपि ह्य् अपेक्षते ॥

21.53

अयं तु तरुणः कल्यः कान्तिक्षिप्तसुरासुरः
कुण्ठया गण्डमण्डानां मन्दचेष्टतया समः ॥

21.54

यथा धनुर् अधानुष्कं यथा बीजम् अवापकम्
सत्तामात्रफलं पुंसस् तथा दैवम् अपौरुषम् ॥

21.55

परिव्राड् अब्रवीद् दैवं पौरुषाद् बलवत्तरम्
ज्ञापकं चास्य पक्षस्य श्रूयतां यन् मया श्रुतम् ॥

21.56

अस्ति सिन्धुतटे ग्रामो ब्रह्मस्थलकनामकः
तत्रासीद् वेदशर्मेति चतुर्वेदो द्विजोत्तमः ॥

21.57

तस्य यो ऽन्यतमः शिष्यः पाठं प्रति दृढोद्यमः
तस्माद् एव च स छात्रैर् आहूयत दृढोद्यमः ॥

21.58

तमोभेदकनाम्नश् च गृहस्थस्य गृहे सदा
दापितं भोजनं तस्य आच्छादनं वेदशर्मणा ॥

21.59

तत्र भिन्नतमा नाम परिव्राट् पाञ्चरात्रिकः
वासम् आवसथे तस्य करोति स्म दृढोद्यमः ॥

21.60

अनेन च प्रकारेण पटुश्रद्धानमेधसा
अधीतं दशभिर् वर्षैस् तेन वेदचतुष्टयम् ॥

21.61

अथ भिन्नतमाः कृत्वा वर्णाश्रमकथां चिरम्
प्रशान्तजनसंपाते प्रदोषे तम् अभाषत ॥

21.62

बहुगोमहिषीभूमि दासीदासम् इदं मया
तन्त्रस्थानम् उपान्तं च चाटादिभ्यश् च रक्षितम् ॥

21.63

ध्यानाध्यायप्रधानं च विहितं भिक्षुकर्म यत्
वैश्यकर्माभियुक्तस्य तस्य नामापि नास्ति मे ॥

21.64

अधुना तु वचःकाय परिस्पन्दापहारिणी
परलोकसमासन्ना जरातन्द्रीर् इवागता ॥

21.65

गृहमेधिव्रतस्थानाम् अलसानां स्वकर्मसु
धर्मसाधनम् उद्दिष्टम् ऋषिभिस् तीर्थसेवनम् ॥

21.66

आह वेदान्तवादश् च तारकं ब्रह्म तन्त्रयेत्
एतस्मान् न विमुञ्चेयुर् अविमुक्तं मुमुक्षवः ॥

21.67

श्वः प्रस्थातास्महे तस्मात् प्रातर् वाराणसीं प्रति
बुद्धधर्मे प्रशस्ता हि धर्मस्य त्वरिता गतिः ॥

21.68

भवतापि श्रुतिस्मृत्योः प्रामाण्यम् अनुजानता
नियोगेनैव कर्तव्यः पत्नीपुत्रपरिग्रहः ॥

21.69

गृहस्थाश्रमधर्मश् च गवादिधनसाधनः
न च प्रतिग्रहाद् अन्यद् विप्रस्य धनसाधनम् ॥

21.70

तत् सुखोपनतं चैतद् अनिन्द्यम् अतिभूरि च
सदासीदासम् अस्माकं धनम् आदीयताम् इति ॥

21.71

तेनोक्तं युष्मदादिष्टम् अकार्यम् अपि मादृशः
न विकल्पयितुं शक्तः किं पुनर् न्याय्यम् ईदृशम् ॥

21.72

किं त्व् आमन्त्र्य पितृस्थानौ विद्याजीवितदायिनौ
कर्तास्मि भवदादेशम् अतिवाह्य निशाम् इति ॥

21.73

यातायां तु त्रियामायां तम् आमन्त्रयितुं गतम्
संप्रतिष्ठासमानो ऽपि चिरं भिक्षुर् उदैक्षत ॥

21.74

यदा तु दिवसार्धे ऽपि गते छात्त्रः स नागतः
तं गवेषयितुं भिक्षुः स्वयम् एव तदा गतः ॥

21.75

स तु तेनाङ्गणे दृष्टस् तमोभेदकवेशमनः
शनैश् चङ्क्रमणं कुर्वन् नीचैश् चाम्नायमानसम् ॥

21.76

उक्तं च भवता कस्माद् इयच्चिरम् इह स्थितम्
अथार्थेनैव तेनार्थस् तथा नः कथ्यताम् इति ॥

21.77

ततस् तेनोक्तम् एतस्मिन् गृहे केनापि हेतुना
व्यग्रः परिजनः सर्वस् तत्र तत्राभिधावति ॥

21.78

यां याम् एव च पृच्छामि किम् एतद् इति दारिकाम्
सा सा माम् आह संरब्धा शिवं ध्यातु भवान् इति ॥

21.79

तं चाद्यापि न पृच्छामि तमोभेदकम् आकुलम्
तेनाहं नागतः क्षिप्रं सकाशं भवताम् इति ॥

21.80

अथ भिन्नतमाः स्मित्वा दृढोद्यमम् अभाषत
येनायम् आकुलो लोकस् तद् अहं कथयामि ते ॥

21.81

तमोभेदकभार्यायाः प्रसूतिः प्रत्युपस्थिता
अयं परिजनस् तत्र तत्रतत्राकुलाकुलः ॥

21.82

दारिका जायते चास्य तां च त्वं परिणेष्यसि
सा च रागग्रहाविष्टा दुष्टचेष्टा भविष्यति ॥

21.83

इति तस्मिन् कृतादेशे गते स्वविवधं प्रति
इतरश् चिन्तयाम् आस शङ्काकम्पितमानसः ॥

21.84

ब्राह्मणी ब्राह्मणस्यास्य यदि कन्यां विजायते
ततो भिन्नतमोवाक्यम् अभूतार्थं न जायते ॥

21.85

स्तोभावेशविषाच्छेद क्रियासु व्यक्तशक्तिभिः
शेषाणाम् अपि मन्त्राणां सामर्थ्यम् अनुमीयते ॥

21.86

इति चिन्तयतस् तस्य दीनो गृहपतिर् गृहात्
हा दैवं खलम् इत्यादि लपन् नीचैर् विनिर्गतः ॥

21.87

क्षणाच् च श्वगृहीतस्य मार्जारस्येव कूजतः
अन्तर्भवनम् उद्भूतः श्वागारपरुषश्रुतिः ॥

21.88

ततः प्रसाधिता नार्यो लज्जाप्रावृतमस्तकाः
पक्षद्वारेण निर्जग्मुर् नैराश्योत्तानपाणयः ॥

21.89

परिचारकवर्गश् च शोचद्बन्धुकदम्बकम्
अमन्त्रयत वामस्य विधेः किं क्रियताम् इति ॥

21.90

एवंप्रायप्रपञ्चे तु गृहे तस्मिन् दृढोद्यमः
सिद्धप्रव्रजितादेश जातभीतिर् अचिन्तयत् ॥

21.91

परिव्राजकवाक्येन तथाभूतेन साधितम्
दैवं पुरुषकारेण जनाः पश्यन्तु बाधितम् ॥

21.92

सिन्धुदेशं परित्यज्य दे।आद् देशं परिव्रजन्
अयं परिहराम्य् एनां दूरतः कर्दमाम् इति ॥

21.93

एवमादि विमृश्यासाव् असंमन्त्र्यैव संस्कृतान्
दशयोजनम् अध्वानम् एकाहेन पलायितः ॥

21.94

सद्वीपां च परिक्रम्य वर्षैर् द्वादशभिर् महीम्
गङ्गातटम् उपागच्छत् तीर्थोपासनकाम्यया ॥

21.95

अथातपपिपासार्तश् छायासलिलवाञ्छया
कस्मिंश्चिद् ब्राह्मणग्रामे कंचन प्राविशद् गृहम् ॥

21.96

तत्र चालिन्दकासीनाम् अर्कतूलाभमूर्धजाम्
ययाचे ब्राह्मणीम् अम्ब पानीयं दाप्यताम् इति ॥

21.97

सा त्व् अभाषत संभ्रान्ता हले पुत्रि तमालिके
आसनोदकम् आदाय लघु निर्गम्यताम् इति ॥

21.98

ततः पीठालुकाहस्ता वसितासितकञ्चुका
आपिङ्गापान्तकेशान्ता कन्यका निरगाद् गृहात् ॥

21.99

दिशस् तरलया दृष्ट्या पश्यन्ती संततस्मिता
पङ्गुभङ्गुरसंचारा चिरात् प्रापद् दृढोद्यमम् ॥

21.100

आस्यताम् अत्र मित्रेति वदन्त्या शून्यया तया
पीठबुद्ध्या पुरस् तस्य निक्षिप्तं जलभाजनम् ॥

21.101

अथ ताम् अब्रवीद् वृद्धा मुक्त्वैताम् अविनीतताम्
अपरेणोदपात्रेण जलम् आवर्ज्यताम् इति ॥

21.102

सा तु कृत्रिमसंत्रास जनितोत्कटवेपथुः
अन्तर्हसितभुग्नौष्ठी वृद्धाज्ञां समपादयत् ॥

21.103

ततो गतश्रमं वृद्धा पृच्छति स्म दृढोद्यमम्
आगच्छति कुतो देशात् कं वा याति भवान् इति ॥

21.104

तेनोक्तं न स देशो ऽस्ति नागच्छामि यतः क्षितौ
यच् च ब्रूथ क्व यासीति तत्र विञापयामि वः ॥

21.105

कस्मिंश्चिद् ब्राह्मणग्रामे कुर्वन् बटुकपाठनाम्
संतुष्टो ग्रामवासोभिर् निनीषे दिवसान् इति ॥

21.106

ततस् तम् अब्रवीद् वृद्धा नीतिज्ञैः सत्यम् उच्यते
न ह्य् अतप्तेन लोहेन तप्तं संधीयते क्वचित् ॥

21.107

मम द्वौ पुत्रनप्ताराव् अधुनैवोपनीतकौ
तौ च संयोजितौ पुण्यैर् अर्थिनाव् अर्थिना त्वया ॥

21.108

भवान् अध्यापनेनार्थी तौ चाध्ययनकाङ्क्षिणौ
नष्टाश्वदग्धरथवद् योगो ऽस्तु भवताम् इति ॥

21.109

ततस् तस्यै प्रतिज्ञाय तौ बटू पाठयन्न् असौ
अन्तेवासिगणं चान्यम् अस्थात् संवत्सरद्वयम् ॥

21.110

एकदा ताम् अभाषन्त वृद्धाम् आगत्य बान्धवाः
कस्माद् दृढोद्यमायेयं दीयते न तमालिका ॥

21.111

ये जामातृगुणास् तेषां कश्चिद् अस्ति क्वचिद् वरे
दृढोद्यमे पुनः पश्य यदि कंचिन् न पश्यसि ॥

21.112

दुर्लभः सुलभीभूतस् तस्मात् स्वीक्रियताम् अयम्
केन वन्यः करी वारीम् आगतः स्वयम् उज्झितः ॥

21.113

इति तैर् बोधिता वृद्धा प्रतीता तान् अयाचत
यद्य् एवं स्वयम् एवायं पूज्यैर् अभ्यर्थ्यताम् इति ॥

21.114

ते ततस् तम् अभाषन्त भौतिक ब्रह्मचारिणा
आम्नाताश् चावबुद्धाश् च वेदाः सस्मृतयस् त्वया ॥

21.115

अवश्यं चाधुना कार्यः शुद्धपत्नीपरिग्रहः
उरःकण्ठौष्ठशोषस्य मा भूद् वैफल्यम् अन्यथा ॥

21.116

अतः प्रतीष्यताम् एषा सर्वशुद्धा तमालिका
ज्येष्ठं ज्येष्ठाश्रमस्याङ्गं त्रयी विद्येव देहिनी ॥

21.117

एवमादि स तैर् उक्तः क्षणम् एतद् अचिन्तयत्
युक्तं यद् ब्राह्मणैर् उक्तम् अत्र तावत् किम् उच्यते ॥

21.118

यश् चासौ सिन्धुविषये दूषितः कृत्यया तया
पारे सागरवत् सो ऽपि दूरत्वात् सुदुरागमः ॥

21.119

अथ दैवेन सैवेयम् आनीता सिन्धुदेशतः
सूचीसूत्रगते दैवात् ततः कः कुत्र मोक्ष्यते ॥

21.120

एवमादि स निश्चित्य प्रतिश्रुत्य तथेति च
परिणीय च तां कन्यां संवत्सरम् अयापयत् ॥

21.121

अथ यातत्रियामायां त्रियामायां दृढोद्यमः
जृम्भावेदितनिद्रान्तां पृच्छति स्म तमालिकाम् ॥

21.122

ब्रूहि सुन्दरि पश्याम कुटुम्बस्यास्य कः प्रभुः
केयं भवति ते वृद्धा काव् एतौ बटुकाव् इति ॥

21.123

तया त्व् आयतनिश्वास कथितायतदुःखया
स्रुताश्रुकणिकाश्रेण्या कथितं स्खलदक्षरम् ॥

21.124

अस्या ब्राह्मणवृद्धायाः प्रियः साधुर् अभूत् पतिः
यस्य विद्याधनैस् तृप्ताः शिष्ययाजकयाचकाः ॥

21.125

तेन चाशेषवेदाय क्षमादिगुणशालिने
दुहिता गृहजामात्रे छात्त्राय प्रतिपादिता ॥

21.126

ताडितश् चरणेनापि यः क्षमावान् अभूत् पुरा
स जामातृतया क्रोधाद् गमितः कृष्णसर्पताम् ॥

21.127

महान्तम् अपि संमानं मन्यमानो विमानताम्
श्वश्रूश्वशुरयोः खेदम् आत्मनश् चाकरोद् वृथा ॥

21.128

एकदा परिहासेन स्यालकस् तम् अभाषत
दुर्वासःसदृशस् तात दुराराधो भवान् इति ॥

21.129

यद्य् एवं दुर्दुरूढेन किं मयाराधितेन वः
इत्य् उक्त्वा मन्थरालापः सदारो गत एव सः ॥

21.130

श्वश्रूश्वशुरमित्राणाम् अवकर्ण्य कदर्थनाम्
निरपेक्षं स्वदेशाय सिन्धुदेशाय यातवान् ॥

21.131

तत्र च ग्रामम् अध्यास्य ब्रह्मस्थलकनामकम्
अचिरान् नित्यकाम्यानि कर्माणि निरवर्तयत् ॥

21.132

तस्य तस्यां च भार्यायां कालरात्रिसमा सुता
यमौ च तनयौ जातौ यमकालौ कुलस्य यौ ॥

21.133

अहम् एव च सा कन्या तौ चैतौ काकतालुकौ
यैर् मातापितराव् एव बालैर् एव समाहितौ ॥

21.134

सिन्धुदेशैकदेशश् च सिन्धुना चण्डरंहसा
दुर्वारगुरुपूरेण सहसाकृष्य नीयते ॥

21.135

अथ मातापितृभ्यां नस् तद्भयाद् अवधारितम्
मातामहगृहं यान्तु बाला मे निविशन्त्व् इति ॥

21.136

ततः शङ्केषुभिन्नस् ताम् अभाषत दृढोद्यमः
शेषं सुज्ञानम् एवास्याः कथायाः स्थीयताम् इति ॥

21.137

आसीच् चास्य स सर्वज्ञः परिव्राजकभास्करः
स्फुटं भिन्नतमा एव भिन्नाज्ञानतमा यतः ॥

21.138

अनुभूतौ तथाभूतौ तदादेशौ मयाधुना
तृतीयपरिहाराय त्यजामि पृथिवीम् इति ॥

21.139

अथ द्वादशवर्षानि भ्रांत्वा द्वीपान्तराणि सः
निर्विण्णश् चिन्तयाम् आस किंचिद् धवलमूर्धजः ॥

21.140

आदिष्टं यत् परिव्राजा तत् तयोन्मादमत्तया
कालेनैतावता नूनम् अकृत्यं कृत्यया कृतम् ॥

21.141

अस्माभिश् च न वेदोक्तं न वेदान्तोक्तमोहितम्
व्रणैर् इव विसर्पद्भिः क्वापीतं पुरुषायुषम् ॥

21.142

तेन वाराणसीं गत्वा तीर्थोपासनहेतुकम्
पुण्यं स्वर्गफलं कुर्वन्न् अयामि दिवसान् इति ॥

21.143

ततः सागरम् उत्तीर्य गङ्गासागरम् आगमत्
ततो वाराणसीं प्रापद् अमुञ्चन्न् एव जाह्नवीम् ॥

21.144

पाविशन्न् एव चापश्यन् नरधातुपरिच्छदम्
स्खलदालापसंचारं महापाशुपतं पुरः ॥

21.145

तं चानु स्फटिकप्राय कर्णकण्ठविभूषणाम्
मदिराताम्रजिह्माक्षां विचित्रगलकण्ठिकाम् ॥

21.146

द्विगुणीकुर्वतीं मार्गं वङ्कैर् गतिनिवर्तनैः
अमुक्तनिजनिर्मोकां भुजंगीम् इव योषितम् ॥

21.147

सा तु कापालिकेनोक्ता द्रुतम् एहि कपालिनि
न यावद् अविमुक्तस्य धूपवेलातिवर्तते ॥

21.148

हुंहुंकारादिभिः स्तुत्वा संस्थात्रयपरं ध्रुवम्
ततः शुण्डिकशालेषु मार्गयामि सुराम् इति ॥

21.149

एवंप्राये च वृत्तान्ते चिरं दृष्ट्वा दृढोद्यमम्
पपात पादयोस् तस्य ताराक्रन्दा कपालिनी ॥

21.150

पुनः कापालिक्नोक्तं मुञ्च ब्राह्मणम् अध्वगम्
परिहासश् चिरं चण्डि विरुद्धस् त्यज्यताम् इति ॥

21.151

साब्रवीद् एष मे भर्ता दैवतैः प्रतिपादितः
त्वं तु धृष्टविटो भूत्वा किं व्याहरसि माम् इति ॥

21.152

तं च प्रपञ्चम् आलोक्य स प्रदेशः सकौतुकैः
जनैर् अगणितैर् व्याप्तः श्रमणब्राह्मणादिभिः ॥

21.153

सा चावोचच् चतुर्वेद रिक्तवेदो ऽसि सर्वथा
सवेदः को हि निर्वेदं वेदोक्तैः कर्मभिर् व्रजेत् ॥

21.154

न त्वयोत्पादिताः पुत्रा नाग्निहोत्रम् उपासितम्
नार्चिताः पितरः पिण्डैर् वायुभूतेन हिण्डितम् ॥

21.155

त्वया दृढोद्यम त्यक्ता साहं मन्दा तमालिका
कुलात् कुलम् अटन्तीदं चरामि कुलटाव्रतम् ॥

21.156

अवृद्धकुलवासिन्यस् तरुण्यः पतिवर्जिताः
यैर् अदुष्टाः स्त्रियो दृष्टास् ते दृष्टाः केनचित् क्वचित् ॥

21.157

तेन त्यक्तवता दारान् यत् त्वया पापम् अर्जितम्
तान् एव भरमाणेन तत् समुच्छिद्यताम् इति ॥

21.158

अथ लज्जाविषादान्धम् ऊचुर् विप्रा दृढोद्यमम्
भगवत्या यद् उक्तं तत् तत्त्वतः कथ्यताम् इति ॥

21.159

तेनात्मनश् च तस्याश् च द्विजादिजनसंनिधौ
ब्रह्मस्थलकवासादि यद् वृत्तं तन् निवेदितम् ॥

21.160

अथोक्तं ब्राह्मणैर् ब्रह्मन् ब्राह्मणी परिगृह्यताम्
रक्तदारपरित्यागम् आचरन्ति न साधवः ॥

21.161

यच् च किंचिद् अकर्तव्यम् अनाथ्याद् अनया कृतम्
तस्य कृच्छ्रतमैः कृच्छ्रैर् विशुद्धिः क्रियताम् इति ॥

21.162

तेनोक्तं यादृशं पापं प्रायश्चित्तैर् अपोह्यते
पूज्यानाम् एव तद् बुद्धम् इदं बुध्यत यादृशम् ॥

21.163

हीनवर्णाभिगामिन्यः पातकिन्यः किल स्त्रियः
इयं त्व् अशुभसावर्णं यम् उपास्ते स दृश्यताम् ॥

21.164

तद् उपास्ताम् इयं भद्रा यम् उपासच् छिवं ध्रुवम्
सुखानां चोपहर्तारं महापाशुपतं पतिम् ॥

21.165

इत्य् उक्तवति सा तस्मिन्न् उवाचोपचितत्रपा
आ मृत्योस् त्वत्समीपस्था नयामि दिवसान् इति ॥

21.166

अथैको ब्राह्मणस् तेषु दृढोद्यमम् अभाषत
मदीया दुहिता ब्रह्मन् रूपिणी परिणीयताम् ॥

21.167

धनं मे धनदस्येव सैव चैका सुता यतः
ततस् तस्य च तस्याश् च भवेद् भर्ता भवान् इति ॥

21.168

आसीच् चास्य किम् अद्यापि स्यान् न स्याद् इति चिन्तया
परिव्राजकवाक्यं हि कृतार्थीकृतम् एतया ॥

21.169

प्रतिज्ञाय च तां कन्यां ददानाद् ब्राह्मणात् स्वयम्
समहाद्रविणस्कन्धाम् उपयेमे दृढोद्यमः ॥

21.170

तमालिकापि संहार्य केशान् काषायचीवरा
दृढोद्यमगृहासन्ना वसती कालम् अक्षिपत् ॥

21.171

दृढोयमो ऽपि संततं द्विजातिकर्म साधयन्
हरोत्तमाङ्गलालिताम् उपास्त जह्नुकन्यकाम् ॥

21.172

तत् तेन येन कृतदुष्करपौरुषेण वाक्यं न भिन्नतमसः कृतम् अप्रमाणम्
शूरेण दैवहरिणा प्रभुणा प्रसह्य तस्माज् जितः पुरुषकारगजाधिराजः ॥

मूल पाठ: Bṛhatkathāślokasaṃgraha · Edition: the text edited by Felix Lacote (Paris, 1908). It was · Data entry Andreas Bigger · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc