भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्कथाश्लोकसंग्रह · अध्याय 20

20.1

इति शेषं वसन्तस्य तनुपाटलकुङ्मलम्
दिवसांश् च नयामि स्म सुभगानिलचन्दनान् ॥

20.2

एकदा दत्तकेनाहम् आगत्य हसतोदितः
अर्यपुत्र विचित्रं वः क्रीडास्थानम् उपागतम् ॥

20.3

राजमार्गे मया दृष्टा वृद्धा स्त्री भास्वरप्रभा
नागरैर् देवि देवीति वन्द्यमाना वरार्थिभिः ॥

20.4

सा चाह प्रभवन्तीव दारक प्रतिगृह्यताम्
तव भर्त्रे मया दत्ता कन्याजिनवतीति माम् ॥

20.5

उक्ता सा च मया देवि भृत्यत्वात् परवान् अहम्
दृष्ट्वा स्वामिनम् आयामि तत् क्षणं क्षम्यताम् इति ॥

20.6

स मयोक्तस् तया साकं हसन्तः सुखम् आस्महे
तेनागच्छतु सात्रैव मद्वचश् चेदम् उच्यताम् ॥

20.7

बहून् संपृच्छ्य कन्यायाः कार्यौ दानप्रतिग्रहौ
प्रष्टव्याः सन्ति चास्माकं तावत् पृच्छामि तान् अहम् ॥

20.8

अन्यच् चागम्यताम् एतद् गृहं यदि न दुष्यति
त्वादृशातिथिसत्कारः कारणं श्रेयसाम् इति ॥

20.9

ततः प्रस्थापितो गत्वा प्रत्यागत्य च दत्तकः
माम् अभाषत भारत्या गम्भीरभयगर्भया ॥

20.10

युष्मत्संदेशम् आकर्ण्य तयोक्तं भीमहासया
अहो महाकुलीनानाम् आचारः साधुसेविनाम् ॥

20.11

किम् अत्रोदयनो राजा प्रष्टव्यः सुहृदा तव
देवी वासवदत्ता वा किं वा मगधवंशजा ॥

20.12

रुमण्वदादयः किं वा किं वा हरिशिखादयः
आह यत् सन्ति मे केचित् तावत् पृच्छामि तान् इति ॥

20.13

आज्ञापयति यच् चैष माम् इहागम्यताम् इति
किम् एवम् अपमान्यन्ते गुरवो गुरुसेविभिः ॥

20.14

अथ वा किम् अहं तस्य समीपं किम् असौ मम
अचिराद् यास्यतीत्य् एतत् स एवानुभविष्यति ॥

20.15

इत्य् उक्त्वा निश्चरन्तीभिर् ज्वालामालाभिर् आननात्
दग्ध्वा चम्पैकदेशं सा महोल्केव तिरोहिता ॥

20.16

मम त्व् आसीद् विदग्धेयं वृद्धा विप्रश्निका ध्रुवम्
इन्द्रजालाभियुक्ता वा मायाकारी भवेद् इति ॥

20.17

भरद्वाजसुतायास् तु तीव्रः संत्रासकारणः
अस्मद्धृदयसंतापी परितापज्वरो ऽभवत् ॥

20.18

मृणालानिलमुक्ताली जलार्द्रपटचन्दनैः
अस्मदङ्गपरिश्वङ्गैर् नास्यास् तापो न्यवर्तत ॥

20.19

ततः शक्रधनुःसम्पा बलाकाचक्रलाञ्छनैः
निरम्बुदाम्बरच्छायैश् छन्नम् अम्बरम् अम्बुदैः ॥

20.20

संतापम् अपनेतुं च सासारैः पश्चिमानिलैः
समारोहाम हर्म्यस्य सान्द्रशुभ्रसुधं शिरः ॥

20.21

तत्रारुद्धप्रणालादि दासीदसोत्तराम्बरैः
पाश्चात्यमरुदाद्योति जडं जलम् अधारयम् ॥

20.22

तत्रान्येषाम् उरोमात्रे मज्जन्तः कुब्जवामनाः
शनकैः शान्तसंतापां भारद्वाजीम् अहासयत् ॥

20.23

इति नः क्रीडतो दृष्ट्वा प्रासादाग्रमहाह्रदे
जले रन्तुम् इवोष्णांशुः प्राविशत् पश्चिमार्णवम् ॥

20.24

भरद्वाजतनूजा तु निषेव्य शिशिरं चिरम्
प्रशान्तागन्तुसंतापा शीतपीडातुराभवत् ॥

20.25

ताम् उरोबाहुवासोभिः समाच्छाद्य निरन्तरम्
विशीतां कृतवान् अस्मि तापशीतापहारिभिः ॥

20.26

अपनीतपिधानैश् च प्रणालैर् मकराननैः
प्रासादात् प्रास्रवत् तोयं सुमेरोर् इव निर्झरैः ॥

20.27

प्रकीर्णसलिलक्रीडा पीडनच्छिन्नभूषणम्
मुनिपीताम्बुधिच्छायं हर्म्याग्रं तद् अदृश्यत ॥

20.28

तस्मिन्न् अभिनवाम्भोद कुम्भाम्भःक्षालनामले
दानैः परिचरामि स्म समानैः परिचारकान् ॥

20.29

इति कान्ते त्रियामादौ गमिते मानितप्रियः
उपायि प्रबलां निद्रां सुखदुःखाभिभाविनीम् ॥

20.30

याते च क्षणदापादे कठोरस्पर्शबोधितः
गम्भीरेक्षणम् अद्राक्षं नरं व्यात्तास्यकन्दरम् ॥

20.31

अनुमाय च तं प्रेतं मन्त्रगर्भम् उपागतम्
क्वापि मां नेतुम् इच्छन्तं नेतुम् ऐच्छं यमालयम् ॥

20.32

भरद्वाजात्मजा त्रस्ता मा स्म निद्रां जहाद् इति
न तं तत्र निहन्मि स्म भीषणारटिशङ्कितः ॥

20.33

तुषारजडम् आरोप्य स्वपृष्टं काष्ठनिष्ठुरम्
स मां सोपानमार्गेण प्रासादाग्राद् अवातरत् ॥

20.34

तत्प्रभावाच् च निद्रान्धाः सुप्ता जागरिकाः क्षितौ
कक्षारक्षास् तम् अद्राक्षुर् न निर्यान्तम् अचेतनाः ॥

20.35

निष्क्रान्तश् च परावृत्य कक्षाद्वारं यद् ऐक्षत
कवाटसंपुटस् तत्र शनैर् अघटयत् स्वयम् ॥

20.36

गृहाद् दूरम् अतीतश् च जानुभ्यां तम् अताडयम्
प्रहारः स तु मे जातो जानुपीडाप्रयोजनः ॥

20.37

यच् च किंचिद् अहं द्रष्टुम् ऐच्छं पटुकुतूहलः
कुलपुत्रः स तत्र स्म किंचित् कालं न गच्छति ॥

20.38

आशाकाशविशालासु विशिखासु प्रसारिताः
अपश्यं द्वीपिनां कृत्तीस् तथेदम् अभवन् मम ॥

20.39

एतावन्ति कुतः सन्ति द्वीपिचर्माणि कानने
आस्तीर्णानि किम् अर्थं वा केनापि विशिखास्व् इति ॥

20.40

यावत् प्रासादम् आलाभ्यो जालवातायनच्युतैः
संततैर् वितता रथ्या प्रदीपार्चिःकदम्बकैः ॥

20.41

अपनीतवितर्कश् च तैर् गतः स्तोकम् अन्तरम्
प्रासादे क्वचिद् अश्रौषं वचः कस्यापि कामिनः ॥

20.42

अयि चन्द्रक किं शेषे ननु भ्रातर् विबुध्यताम्
नाकर्णयसि कूजन्तम् उलूकं सुभगध्वनिम् ॥

20.43

अस्मै दशसहस्राणि दीयन्तां भूषणानि च
अयं नः सुखहेतूनाम् अग्रणीः सुहृदाम् इति ॥

20.44

अनन्तरं च सारङ्ग दर्दूराम्भोदबन्धुना
उत्कण्ठागर्भकण्ठेन नीलकण्ठेन कूजितम् ॥

20.45

ततः कामी ज्वलत्क्रोधश् चन्द्रकं चण्डम् अब्रवीत्
दुष्टस्य चटकस्यास्य मस्तकश् छिद्यताम् इति ॥

20.46

मया तर्कयता चेदं विरुद्धम् इति निश्चितम्
आज्ञातम् अनयोर् न्याय्ये संमाननविमानने ॥

20.47

भार्या नागरकस्यास्य परसंक्रान्तमानसा
एकपर्यङ्कसुप्तापि सुप्ता भर्तुः पराङ्मुखी ॥

20.48

तयोलूकध्वनिं श्रुत्वा भीरुनारीविभीषणम्
त्रस्तयातः परावृत्य गाढम् आलिङ्गितः पतिः ॥

20.49

ततो विरक्तभार्येण भार्यारक्तेन चामुना
उलूकभयपूर्वो ऽपि कान्ताश्लेषो ऽभिनन्दितः ॥

20.50

तेन पूजाम् उलूकस्य सुहृदः कृतवान् अयम्
येनास्य विमुखी कान्ता त्रासाद् अभिमुखी कृता ॥

20.51

श्रुत्वा च शिखिनः केकाः कान्तोत्कण्ठाविधायिनीः
पत्युः कण्ठं परित्यज्य स्थिता भूयः पराङ्मुखी ॥

20.52

तेनानेन मयूरस्य मस्तकश् छेदितो रुषा
येनास्याभिमुखी कान्ता कूजता विमुखी कृता ॥

20.53

अथातीत्य तम् उद्देशम् अश्रौषं मदविद्धयोः
कृतनिग्रहयोर् वाचं कुलटाविटयोर् यथा ॥

20.54

मनोघ्राणहरा गन्धा यया प्रतनुतुङ्गया
आघ्राता मम सा नासा त्वत्कृते विकृता कृता ॥

20.55

कर्तरीपाशसंकाशौ पुरा मण्डितकुण्डलौ
कर्णौ मम तथा भूतौ भवतां भवतो यथा ॥

20.56

साहम् एवंविधा जाता विप्रलब्धा खलु त्वया
कृतघ्न त्वम् अपीदानीम् अवजानासि माम् इति ॥

20.57

अथावोचत् पतिस् तस्याः किं मां इन्दसि नन्दिनि
मयापि ननु यत् प्राप्तं त्वदर्थं तन् न दृश्यते ॥

20.58

देवाः कुसुमधूपाद्यैः पितरः पिण्डवारिभिः
समस्तास् तर्पिता येन दक्षिणाभिर् द्विजातयः ॥

20.59

शूराधिष्ठितपृष्ठानां चूर्णितप्रतिदन्तिनाम्
येन चासिसनाथेन निकृत्ताः करिणां कराः ॥

20.60

पृथुलाः कोमलास् तुङ्गाः पीनाः सत्कृतचन्दनाः
आत्मशेषपरस्त्रीणां येन भुक्ताः पयोधराः ॥

20.61

स मे वामेतरः पाणिः फुल्लतामरसारुणः
कृत्तः शस्त्रेण संधानाद् बन्धनाद् इव पल्लवः ॥

20.62

अधुना वामपादस्य शृणु चण्डि पराक्रमम्
येन क्रान्ता समुद्रान्ता तीर्थस्नानाय मेदिनी ॥

20.63

येन चान्तःपुरारक्ष परिक्षिप्तेन लीलया
वप्रप्राकारपरिखाः शतकृत्वो विलङ्घिताः ॥

20.64

सो ऽयं मारुतसंचारस् ताम्रस् तुङ्गनखाङ्गुलिः
पादो मे यादृशो जातस् तादृशः कस्य कथ्यताम् ॥

20.65

अथ वा यः समुद्रस्य तुलया तुलयेज् जलम्
स गुणान् पाणिपादस्य गणयेन् मन्दधीर् गिरा ॥

20.66

सर्वथा धिग् अधीरं मां यस् त्वादृश्याः स्त्रियः पुरः
आत्मनः पाणिपादस्य प्रशंसामि गुणान् इति ॥

20.67

अथान्यत्र शृणोमि स्म पादः श्लोकस्य शोभनः
आगतस् तं लिखाम्य् आशु दत्त मे वर्तिकाम् इति ॥

20.68

एवं चानन्तवृत्तान्तं चम्पां पश्यन् कुतूहली
आगच्छं नगरीद्वारम् उत्तरं प्रेतवाहनः ॥

20.69

मम त्व् आसीन् न माम् एष गतप्राणो जिघांसति
उत्तरेण हि नीयन्ते न द्वारेण जिघांसितुम् ॥

20.70

चिन्तयन्न् इति निर्यातः प्राकारं समया व्रजन्
क्षीणमांसकम् अद्राक्षं बालकं गतजीवकम् ॥

20.71

अथाचिन्तयम् आलोक्य क्षणं बालचिकित्सितम्
शोषितः शुष्करैवत्या वराको ऽयं मृतः शिशुः ॥

20.72

यदि जीवन्तम् अद्रक्ष्यं लिखित्वा मण्डलं ततः
अत्रास्ये मरणाद् एनम् इष्ट्वा क्रूरग्रहान् इति ॥

20.73

दृष्टवान् अस्मि चान्यत्र चित्रवस्त्रविभूषणम्
पुरुषं प्रोषितप्राणम् अथेदम् अभवन् मम ॥

20.74

रज्जुशस्त्राग्निपानीय जराज्वरगरक्षुधाम्
नायम् अन्यतमेनापि केन नाम मृतो भवेत् ॥

20.75

अये नूनम् अयं कामी कामयित्वान्यकामिनीम्
निद्रासुखम् उपासीनः प्रतिबुद्धः पिपासितः ॥

20.76

सुखसुप्तेति चानेन न सा स्त्री प्रतिबोधिता
गवाक्षस्थोदपात्रस्थम् उदकं पीतम् आत्मना ॥

20.77

अपनीतपिधानं च दृष्ट्वा तज् जलभाजनम्
स्वविषानलदाहान्धः प्रविष्टः प्राग् भुजंगमः ॥

20.78

तेन तद्विषम् उद्गीर्णं तेन तद् दूषितं जलम्
तेन पीतेन मूढो ऽयं सद्यः प्राणैर् वियोजितः ॥

20.79

तस्याश् च परकामिन्या दारिकाभिः ससंभ्रमम्
प्राकारशृङ्गरन्ध्रेण निक्षिप्तः परिखातटे ॥

20.80

अमृतो यदि दृष्टः स्याज् जीवितः स्याद् अयं मया
मन्त्रमण्डलमुद्राणाम् उपांशुस्मरणाद् इति ॥

20.81

अथान्यत्राहम् अद्राक्षं निन्दितासुरकन्यकाम्
अशोकशाखिशाखायाम् उद्बद्धां काम् अपि स्त्रियम् ॥

20.82

अङ्गैः कुसुमसिन्दूर कुङ्कुमालक्तकोज्ज्वलैः
नीलार्धोरुकसंवीत विशालजघनस्थलाम् ॥

20.83

निक्षिप्तं च तयादूरं करच्छुरितचन्द्रिकम्
चीनपट्टांशुकन्यस्तम् अनर्घ्यं रत्नमण्डनम् ॥

20.84

किम् अर्थम् अनया स्त्रैणं कृतं साहसम् इत्य् अहम्
परामृश्य बहून् पक्षान् इदं निश्चितवान् धिया ॥

20.85

इयं पतिव्रता योषिन् नूनं भर्तुश् च वल्लभा
न विमानितवान् एतां पतिः परिहसन्न् अपि ॥

20.86

तेन सुप्तेन मत्तेन जिज्ञासाकुपितेन वा
गृहीतं नाम कस्याश्चित् प्रमदायाः प्रमादिना ॥

20.87

तेन चाश्रुतपूर्वेण वज्रपातप्रमाथिना
गाढं ताडितया क्रूरं कृतं कर्मेदम् एतया ॥

20.88

सर्वथा पुत्रदाराणां पिताभर्तृसमो रिपुः
नास्ति यस् तानितस्नेहाल् लालयत्य् एव केवलम् ॥

20.89

वरं चातितिरस्कारो बालानां नातिलालना
दृश्यन्ते ह्य् अवसीदन्तो धीमन्तो ऽप्य् अतिलालिताः ॥

20.90

वसनाभरणं यच् च भूतले स्वयम् उज्झितम्
तत् तस्करकरस्पर्श परिहारार्थम् एतया ॥

20.91

निश्चौरा चेदृशी चम्पा यन् मेरुगुरुर् अप्य् अयम्
अलंकारो ऽप्य् असत्कारः संकार इव दृश्यते ॥

20.92

एतानि चान्यानि च नागराणां पश्यन् विचित्राणि विचेष्टितानि
चितानलालोकहृतान्धकारम् अगच्छम् उज्जीवजनाधिवासम् ॥

20.93

अथापश्यं शिवास् तत्र त्रासिताः पिशिताशिनीः
दीनभीषणफेत्काराः कुक्कुरैः खरबुक्कितैः ॥

20.94

उज्झिताम्बरम् उद्बाहु प्रकीर्णकचसंचयम्
परितः कुणपं नृत्यड् डाकिनीमण्डलं क्वचित् ॥

20.95

क्वचित् पुरुषम् उत्खड्गम् उपात्तघटकर्परम्
महामांसं महासत्त्वाः क्रीयताम् इति वादिनम् ॥

20.96

सशस्त्रपुरुषव्रात रक्षिताशाचतुष्टयम्
साधकं सिद्धिनिस्त्रिंशम् उत्पतन्तं नभः क्वचित् ॥

20.97

इत्यादिबहुवृत्तान्तं पश्यता प्रेतकेतकम्
यात्रां या गच्छता दृष्टा सा दृष्टा स्थविरा मया ॥

20.98

वटमूले चितावह्नौ वामहस्तार्पितस्रुवा
हंकारान्तेन मन्त्रेण जुह्वती नरशोणितम् ॥

20.99

तं च प्रेतम् असौ दृष्ट्वा साधितादेशम् आगतम्
गुरुहर्षवि।आलाक्षी कर्मशेषं समापयत् ॥

20.100

तं च दत्तार्घसत्कारम् अवोचत् कृतकर्मणे
स्वागतं चन्द्रवक्त्राय कुमारो मुच्यताम् इति ॥

20.101

मम त्व् आसीद् अहो कष्टा चन्द्रमस्यापद् आगता
येन काकमुखस्यास्य मुखम् एतेन तुल्यते ॥

20.102

स तु मां शनकैर् मुक्त्वा बाहुजङ्घं प्रसार्य च
दक्षिणाभिमुखस् तारम् आरट्यापतितः क्षितौ ॥

20.103

अथ मातङ्गवृद्धा माम् अवोचद् दत्तविष्टरा
श्मशानम् आगतो ऽस्मीति खेदं मा मनसो गमः ॥

20.104

श्मशाने भगवान् रुद्रः सरुद्राणीविनायकः
समातृप्रमथानीकस् त्रिसंध्यं संनिधीयते ॥

20.105

यत्र रुद्रः सुरास् तत्र सर्वे हरिपुरःसराः
न ह्य् अन्यत्र तुषारांशुर् अन्यत्रास्य मरीचयः ॥

20.106

मोक्षस्वर्गार्थकामाश् च श्रूयन्ते बहवो द्विजाः
प्राप्ताः प्रेतवने सिद्धिं तस्मान् नेदम् अमङ्गलम् ॥

20.107

यदर्थं त्वं ममानीतस् तद् एतत् संनिशाम्यताम्
न हि निष्कारणः खेदस् त्वादृशाम् उपपद्यते ॥

20.108

आसीन् मातङ्गनाथेन्द्रः क्षुण्णशत्रुर् मतङ्गजः
शरीरीव महद्बाहोर् महासिंहः पतिर् मम ॥

20.109

अहं धनमती नाम मन्त्रशक्तिश् च या मम
सा दिनेषु गमिष्यत्सु विज्ञाता भवता स्वयम् ॥

20.110

चण्डसिंहं महासिंहः पुत्रम् उत्पाद्य निष्ठितः
फलभारम् इवानन्तं धनः कुसुमसंचयः ॥

20.111

सुताजिनवती नाम चण्डसिंहस्य कन्यका
रात्रिं दिवम् असूयन्ति यस्यै त्रिदशकन्यकाः ॥

20.112

तया महासरोयात्राम् अस्माभिः सह यातया
भारद्वाजीद्वितीयस् त्वं दृष्टः प्रवहणाश्रितः ॥

20.113

अथावस्थाभवत् तस्याः कापि दुर्ज्ञानकारणा
दुर्लभे भवति स्त्रीणां दृष्टे त्वादृशि यादृशी ॥

20.114

सखीभिर् अनुयुक्तासौ बहुशः क्लेशकारणम्
यदा नाकथयज् ज्ञाता मन्त्रशक्त्या मया तदा ॥

20.115

प्रार्थनाभङ्गजं दुःखम् असंचिन्त्य स्वयं मया
पौत्र्याः प्राणपरित्राणं करिष्यन्त्या भवान् वृतः ॥

20.116

दीर्घायुषा यदा चाहं परिभूता तथा त्वया
साधयित्वा तथा प्रेतं त्वम् इहानायितो मया ॥

20.117

तेनाजिनवतीं तुभ्यं प्रयच्छामि बलाद् अपि
मालाम् अधारयन्तो ऽपि लभन्ते हि दिवौकसः ॥

20.118

साथ पश्चान्मुखी स्थित्वा पौत्रीम् एहीत्य् अभाषत
अथादृश्यत तत्रैव साप्य् अनागत्म् आगता ॥

20.119

चेदिवत्सेशदायादं मया मन्त्रैर् वशीकृतम्
वरं पाणौ गृहाणेति ताम् अवोचत् पितामही ॥

20.120

मदीयं च तदीयेन स्विन्नं स्विन्नेन पाणिना
स्फुरन्तं स्फुरतागृह्णाद् दक्षिणं दक्षिणेन सा ॥

20.121

तस्याः कररुचा ताम्रे दृष्टपातैः सितासितैः
अपश्यं कुङ्कुमाभे ऽपि स्वकरे वर्णसंकरम् ॥

20.122

अथ माम् अवदद् वृद्धा श्वशुरो दृश्यताम् इति
ततस् ताम् अवदं देवि जनो ऽयं परवान् इति ॥

20.123

ततः पुरुषम् अद्राक्षम् अर्कमण्डलभासुरम्
आवर्तयन्तम् उत्कान्तिं चन्द्रकान्ताक्षमण्डलम् ॥

20.124

धनमत्या ममाख्यातम् अयं विद्याधरेश्वरः
गौरिमुण्डो महागौरीम् आराधयितुम् इच्छति ॥

20.125

व्यालकाङ्गारकौ चास्य भ्रातारौ परिचारकौ
याव् एतौ पार्श्वयोर् अस्य भुजाव् इव महाबलौ ॥

20.126

येनामितगतिर् बद्धः कदम्बे मोचितस् त्वया
सो ऽयम् अङ्गारको यो ऽसौ जहार कुसुमालिकाम् ॥

20.127

आरभ्य च ततः कालाद् गौरिमुण्डः सहानुजः
द्विषन्तम् अन्तरं प्राप्य भवन्तं हन्तुम् इच्छति ॥

20.128

तेन मानसवेगश् च गौरिमुण्डादयश् च ते
अनन्ताश् च महान्तश् च भविष्यन्तश् च शत्रवः ॥

20.129

प्रमत्तम् असहायं च दिव्यसामर्थ्यदुर्गतम्
त्वाम् एतद्विपरीतारिं पान्तु देवगुरुद्विजाः ॥

20.130

तन् नायं तव संबन्धः कन्यामात्रप्रयोजनः
चण्डसिंहसहायो ऽपि महद् अस्य प्रयोजनम् ॥

20.131

मम त्व् अभूद् अभून् मित्रम् एको ऽमितगतिर् मम
इदानीं चण्डसिंहो ऽपि सुमहाबलमातृकः ॥

20.132

इति संकल्पयन्न् एव छायाच्छुरितचन्द्रिकम्
विमानम् अहम् अद्राक्षम् अवरूढं विहायसः ॥

20.133

गच्छतापि स्थिरेणेव तेन मानसरंहसा
खम् अगच्छन्न् इवागच्छं वहनेनेव सागरम् ॥

20.134

अथापश्यं विमानस्य दूराद् अवनिमण्डलम्
लोकालोकादिपर्यन्तम् आदर्शपरिमण्डलम् ॥

20.135

इदम् ईदृशम् आकाशम् अनावरणम् ईक्ष्यते
स तु नास्ति प्रदेशो ऽस्य यो विमानैर् अनावृतः ॥

20.136

अप्सरःशतसंबाधं सक्रीडागिरिनिष्कुटम्
निकृष्टस्यापि देवस्य विमानं योजनायतम् ॥

20.137

सो ऽहम् एवम् अनन्तानि कान्तिमन्ति महान्ति च
गच्छामि स्म विमानानि पश्यन्न् आयान्ति यान्ति च ॥

20.138

कस्मिन्न् अपि ततो देशे कस्यापि शिखरे गिरेः
कस्याम् अपि दिशि स्फीतम् अदृश्यत पुरः पुरम् ॥

20.139

तस्माच् चोदपतद् भास्वद् विमानं व्याप्नुवन् नभः
शृङ्गात् प्रागचलस्येव सहस्रकरमण्डलम् ॥

20.140

मामकेन विमानेन सह तत् समगच्छत
शरीरम् इव मातङ्ग्याः शरीरेण निरन्तरम् ॥

20.141

कृष्णाङ्गश्यामतुङ्गाङ्गस् ताम्रापाङ्गायतेक्षणः
आगमत् पुरुषस् तस्मात् प्रभाव इव देहवान् ॥

20.142

ततस् तं प्रत्यभिज्ञाय दृष्टं यात्रामहोत्सवे
कथितं धनमत्याहं चण्डसिंहम् अवन्दिषि ॥

20.143

असौ चानन्दजस्वेद स्तिमितैर् उत्तनूरुहैः
अङ्गैर् अङ्गं समालिङ्ग्य स्नेहाद्रैः कर्कशैर् अपि ॥

20.144

अपसृत्य ततो दूरं नमयित्वोन्नतं शिरः
ज्योग्भर्तर् जय देवेति स माम् उक्त्वेदम् अब्रवीत् ॥

20.145

अस्माभिः सेवकैः कार्यम् इदं युष्मासु भर्तृषु
आलिङ्गनं तु भर्तॄणां भृत्यैः परिभवो महान् ॥

20.146

बालो ऽपि नावमन्तव्यो जामातेति भवादृशः
महती देवता ह्य् एषा त्वादृग्रूपेण तिष्ठति ॥

20.147

इत्यादि बहु तत् तन् मां यावद् एव वदत्य् असौ
चण्डसिंहपुरं तावत् तुमुलोत्सवम् आसदम् ॥

20.148

तस्य किं वर्ण्यते यत्र विशालं विशिखातलम्
चित्रं चित्रैर् महारत्नैर् इन्द्राणीजघनोचितैः ॥

20.149

एतेन परिखाशाल प्रासादसुरसद्मनाम्
अवश्याधेयशोभानाम् आख्यातं रामणीयकम् ॥

20.150

तस्य किं वर्ण्यते यस्य माणवाः स्मितिमानसाः
न स्तन्यम् अपि यावन्ते जननीर् अपि बालकाः ॥

20.151

तस्य किं वर्ण्यते यत्र पशुपालसुतैर् अपि
सकलाः सकला विद्या मातृकेवानुशीलिताः ॥

20.152

तस्य किं वर्ण्यते यत्र योगिनाम् एव केवलम्
प्रक्षयो न च जायन्ते रथ्याः प्रासादसंकटाः ॥

20.153

येन दोषेण संसारात् परित्रस्यन्ति मोक्षवः
स तस्मिन् मोक्षशास्त्रेषु श्रूयते कपिलादिभिः ॥

20.154

यच् च दूषितसंसारैर् वस्तुदोषैर् अदूषितम्
अकल्मषगुणात् तस्माद् रमणीयतमं कुतः ॥

20.155

न चेदं चण्डसिंहस्य पुरम् एकं प्रशस्यते
अन्येषाम् अपि सिद्धानाम् ईदृशान्य् अधिकान्य् अपि ॥

20.156

अवरुह्य च भूमिष्ठात् तस्माद् अम्बरमन्दिरात्
प्राविशं कन्यकागारं हसिताम्बरमन्दिरम् ॥

20.157

तस्मिन् परिजनो दिव्यैः प्रकारैर् माम् उपाचरत्
किम् अर्थम् अपि चाहुता मात्राजिनवती गता ॥

20.158

सा यदा तन् निशाशेषम् उत्तरं च दिवानिशम्
नागतैव तद् आसीन् मे त्वरातुरमतेर् मतिः ॥

20.159

दर्शनस्मितसंभाषा स्पर्शनालिङ्गनादिभिः
समस्तैर् असमस्तैश् च रमयन्ति प्रियाः प्रियान् ॥

20.160

किरणैर् इन्दुलेखेव गतैव सह तैर् असौ
अहम् अप्य् एष तिष्ठामि दुःखसंतप्तमानसः ॥

20.161

तत् किम् एतत् कथं न्व् एतद् इत्यादि बहु चिन्तयन्
विवाहविघ्नसंभ्रान्तम् ऐक्षे सान्तःपुरं पुरम् ॥

20.162

आसीच् च मम चम्पायाः प्रेतो माम् अनयन् निशि
ज्येष्ठकृष्णचतुर्दश्याम् आर्द्रस्थे तारकापतौ ॥

20.163

नूनम् आषाढशुक्लादौ पञ्चम्याम् उत्तरासु च
फल्गुणीषु विवाहो ऽयं राज्ञा कारयितावयोः ॥

20.164

अयं महाकुलो राजा श्रुतिस्मृतिविशारदः
तद् ब्राह्मेण विवाहेन सूनोः संस्कारम् इच्छति ॥

20.165

उपास्य चतुरः कष्टान् पावकान् इव वासरान्
तां प्रापं कन्यकाम् अन्ते तपःसिद्धिम् इवेप्सिताम् ॥

20.166

घनाघनाम्भोधरजालकालीम् अदृष्टतारागणराजबिम्बाम्
तया सह प्रावृषमासि रम्याम् अशुक्लपक्षान्तनिशाम् इवैकाम् ॥

20.167

सैकदा सपरीवारा निभृतक्रन्दितध्वनिः
अनुयुक्ता मया कच्चिन् नृपः कुशलवान् इति ॥

20.168

तया तु प्रतिषिद्धापि दारिका मेघराजिका
निवेदयितुम् आरब्धा श्रूयतां भर्तृदारक ॥

20.169

पूर्वं विकचिको नाम स्वच्छन्दः खेचराधमः
स्वैस् त्यक्तः सापराधत्वात् किंचित् कालम् इहास्थितः ॥

20.170

कन्या सर्वस्य दृश्येति तेनासौ भर्तृदारिकाम्
आसीनां पितुर् उत्सङ्गे दृष्ट्वा राजानम् उक्तवान् ॥

20.171

दुहिता तव यद्य् एषा ततो मह्यं प्रदीयताम्
मदीयगुणसंख्या च बुद्धैव भवताम् इति ॥

20.172

तेनोक्तं केन न ज्ञाताः प्रसिद्धा हि गुणास् तव
किं तु कोमलजन्मेयं प्रौढा तावद् भवत्व् इति ॥

20.173

तेनाप्य् आमन्त्र्य राजानं स्वदेशाय गमिष्यता
आयोषिद्बालगोपालम् आलापः श्रावितः पुरे ॥

20.174

राज्ञा मह्यं ससत्कारं दत्ताजिनवती सुता
दिष्ट्या वृद्धिर् भवत्य् अद्य ममेव भवताम् इति ॥

20.175

स भर्तृदारिकां श्रुत्वा भर्तृदारकभर्तृकाम्
विस्मृतोपकृतः क्रोधाद् आह राजानम् अत्रपः ॥

20.176

भवतः को ऽयं आचारः सदाचाराभिमानिनः
यद् दत्त्वा तनयां मह्यम् अन्यस्मै दत्तवान् इति ॥

20.177

अथ वालम् उपालभ्य भवन्तम् अभयत्रपम्
सुता वा व्यवहारो वा युद्धं वा दीयताम् इति ॥

20.178

अथाह विहसन् राजा न युद्धं न ममात्मजाम्
लब्धुम् अर्हति दीर्घायुर् व्यवहारस् तु दीयते ॥

20.179

इत्य् उक्त्वा तं महीपालः समन्त्रिगणमातृकः
वायुमुक्तमहाध्यक्षं सप्तपर्णपुरं गतः ॥

20.180

युवाम् अपि रुचौ सत्यां शोभिताशाविहायसौ
तत्रैव सहितौ यातं रोहिणीशशिनाव् इव ॥

20.181

मयोक्तं भीरु मा भैषीः किंनरीकण्ठि मा रुदः
मेघराज्या यथाख्यातं जितः स चपलस् तथा ॥

20.182

इति तस्याः परित्रास तुषारम्लापितं मया
सान्त्वबालातपस्पर्शान् मुखाम्भोजं विकाशितम् ॥

20.183

माम् आदाय ततः पाणौ सा गत्वाम्बरवर्त्मना
सप्तपर्णपुरोद्याने सप्तपर्णपुरे स्थिता ॥

20.184

अब्रवीच् च निरुत्कण्ठैः क्षणम् एकम् इहास्यताम्
यावद् एमि सखीं दृष्ट्वा वन्दित्वा च गुरून् इति ॥

20.185

तस्याम् उत्पत्य यातायाम् उद्याने संचरन्न् अहम्
स्थूलमौक्तिकवर्णानि सप्तपर्णानि दृष्टवान् ॥

20.186

तैश् च ग्रथितवान् अस्मि कदलीपटुतन्तुभिः
बन्धूकतरलं हारम् उत्पलैश् छुरितोदरम् ॥

20.187

पद्मरागेन्द्रनीलादि नानारत्नोपलप्रभैः
कुसुमैः कल्पयामि स्म कम्बूनूपुरमेखलाः ॥

20.188

अवतीर्य ततो व्योम्नः सा प्रिया प्रियवादिनी
निर्जितः स दुरात्मेति हृष्टा माम् अप्य् अहर्षयत् ॥

20.189

कथम् इत्य् अनुयुक्ता च मया सादरम् अब्रवीत्
अनुयोगम् उपेक्षन्ते विवक्षन्तो ऽपि वाचकाः ॥

20.190

वायुमूलान् मया गत्वा वन्दितान्तःपुरस्त्रिया
वायुमुक्ता सखी दृष्टा कन्यान्तःपुरवर्तिनी ॥

20.191

तत्राहं क्षणम् आसीना जितजीमूतगर्जिताम्
प्रध्वनन्तीं शृणोमि स्म भेरीं भैरवगर्जिताम् ॥

20.192

किम् एतद् इति पृष्टा सा संभ्रमोत्कर्णया मया
सखी स्वां दारिकाम् आह याहि विज्ञायताम् इति ॥

20.193

सा मुहूर्ताद् इवागत्य श्वसितोत्कम्पितस्तनी
वर्धसे देवि दिष्ट्येति माम् उक्त्वोक्तवती पुनः ॥

20.194

भेरीं ताडितवान् एष गत्वा विकचिकः सभाम्
वायुमुक्ताक्षदर्शनाश् च समायाताः सभासदः ॥

20.195

ते तम् आहुर् भवान् कस्माद् भेरीं ताडितवान् इति
आर्यवेषः स तान् आह पुरः स्थित्वा निरासनः ॥

20.196

चण्डसिंहः सुतां दत्त्वा मह्यं नगरसंनिधौ
अन्यस्मिन् दत्तवान् यत्र नागरं पृच्छ्यताम् इति ॥

20.197

उच्यताम् इति चोक्तेन तातेन किल संसदा
मेघराज्या यद् आख्यातं तद् एवाख्यातम् आह च ॥

20.198

मदीयपुरवास्तव्यान् साक्षिणश् चायम् आह यान्
पृच्छ्यन्तां ते ऽपि तेषां चेद् अविरुद्धा प्रमाणता ॥

20.199

अथोक्तं वायुमुक्तेन संभाषितसभासदा
नृपतेर् मनुकल्पस्य किम् एतस्य परीक्षया ॥

20.200

न हि प्रामाण्यराजस्य जिज्ञासासंशयच्छिदः
प्रत्यक्षस्यानुमानेन प्रमाणत्वं प्रमीयते ॥

20.201

तस्मात् प्रत्यर्थिना राज्ञा व्यवहारे पराजितः
अर्थी विकचिकः कन्याम् अन्यां मृगयताम् इति ॥

20.202

ततो विकचिकः क्रुद्धः झटित्य् उत्थाय संसदः
उत्पत्य नभसा गच्छन्न् उच्चैर् आह सभासदः ॥

20.203

धिक् खलान् खलु चण्डालान् पक्षपातहताञ् जडान्
अहम् एव हि कर्तव्ये कर्तव्ये बुद्धिवान् इति ॥

20.204

आसीच् च मम यत् सत्यम् आशङ्काकलुषं मनः
कस्मिन् पुनर् असौ कार्ये कर्तव्ये बुद्धिमान् इति ॥

20.205

ततस् तैस् ताम् अलंकृत्य शरत्कुसुमभूषणैः
शरीरशरदाकार तस्कराम् इदम् अब्रवम् ॥

20.206

प्रियाख्यानप्रहृष्टेन विभ्रमाभरणं मया
तवारोपितम् अङ्गेषु सुभगाङ्गि विराजते ॥

20.207

सा ततस् तान् अलंकारान् द्विषती कण्टकान् इव
माम् अवोचद् विधूयाङ्गम् असूयामन्थरस्मिता ॥

20.208

अपरास्व् अपि भार्यासु युष्माभिर् इदम् आहितम्
न हि दृष्टं विनाभ्यासात् क्रियाकौशलम् ईदृशम् ॥

20.209

तस्मान् निर्माल्यतुल्येन न कार्यम् अमुना मम
का हि दुर्लभम् आत्मानं कितवैः परिभावयेत् ॥

20.210

मम त्व् आसीद् अपूर्वेयम् अस्या विषमशीलता
उपायैर् दुर्निवर्त्यैव प्राणामशपथादिभिः ॥

20.211

नारी च लघुसारत्वात् तरंगश्रेणिचञ्चला
नौकेव प्रतिकूलाशु कुशलैः परिवर्त्यते ॥

20.212

भार्याज्ञातिगृहे वासश् चिरं दौर्भाग्यकारणम्
यदि विप्रत्ययः कश्चिद् भर्तारं किं न पश्यसि ॥

20.213

भर्त्रा ते चाटुकारेण भार्यां तोषयता किल
तत् कृतं दुर्विदग्धेन येन भार्यैव रोषिता ॥

20.214

सुभगं करणं यद् यत् समाचरति दुर्भगः
सुतरां तेन तेनास्य दौर्भाग्यम् उपचीयते ॥

20.215

सर्वथा वारयिष्यामि पुत्रान् अपि भविष्यतः
मा चिरं पुत्रकाः स्थात भार्याज्ञातिगृहेष्व् इति ॥

20.216

तया तु मन्मुखं दृष्ट्वा ह्रीतत्रस्तविलक्षया
अस्निग्धस्मितया हा हा किम् एतद् इति भाषितम् ॥

20.217

अतः परम् अयुक्तो ऽयं प्रपञ्च इति ताम् अहम्
अनयं वेपमानाङ्गीम् आलिङ्ग्योत्सङ्गम् अङ्गनाम् ॥

20.218

सा तु लब्धसमाश्वासा दीर्घिकातीर्थवर्तिनी
अर्यपुत्र प्रसीदेति व्याहरत् तारम् आतुरा ॥

20.219

पश्यामि स्म ततः खस्थं तं विद्याधरपांसनम्
परितः स्फुरितस्फीत मण्डलाग्रांशुमण्डलम् ॥

20.220

रोषभीषणघोषेण तेनोक्तं धरणीचर
ते पश्यत इयं कान्ता ह्रियते ध्रियताम् इति ॥

20.221

क्रोधापहतधैर्यत्वाद् वाच्यावाच्याविवेचिना
संभावितस्वसारेण मयासाव् इति भर्त्सितः ॥

20.222

आकाशगोचरो ऽस्मीति किं त्वं नीच विकत्थसे
काको ऽपि हि नभश्चारी न च मुञ्चति नीचताम् ॥

20.223

यः सिंहशिरसि न्यस्य काकश् चरणम् उत्पतेत्
न तेन परिभूतः स्यात् केसरी धरणीचरः ॥

20.224

एवम् उत्तेज्यमानो ऽपि नावतीर्णः स भूतलम्
परितश् चकितः पश्यन् सावज्ञानम् इवाब्रवीत् ॥

20.225

स्थलकच्छपकल्पाय वैनतेयपराक्रमः
त्वादृशे मादृशः क्रुध्यन् केन पापान् न शोच्यताम् ॥

20.226

इत्य् उक्त्वा करुणाक्रन्दां ताम् असौ खेचराधमः
भुवः श्येन इव श्यामाम् आदायोदपतद् दिवम् ॥

20.227

अथापश्यं महाज्वाला ज्वालसंकुचिताम्बराम्
आपतन्तीं दिवं देवीम् उत्पातोल्काम् इवाशिवाम् ॥

20.228

चण्डविद्याधरानीक परिवारं च भूपतिम्
महाकालम् इव क्रुद्धं गणामरगणानुगम् ॥

20.229

उत्तानवदनश् चाहं चण्डसिंहम् अनुव्रजन्
अन्यत्रैव गतः क्वापि दिङ्मोहमुषितस्मृतिः ॥

20.230

भ्राम्यता श्राम्यता रूक्ष वृक्षेषूपवने घने
चिराद् आकर्णितो धीराद् उच्चकैर् उच्चरन् ध्वनिः ॥

20.231

हे हे कालाक्षि कालाक्षि गङ्गे गङ्गे महीति च
वत्सलानां विवत्सानां रम्भश् च सुभगो गवाम् ॥

20.232

गत्वा च त्वरयापश्यं याष्टीकं पालम् अग्रतः
कुलत्थस्थूलपुलकम् उरुजङ्घोरुविस्तृतम् ॥

20.233

प्रतिमल्लभुजानाम बन्धुरस्कन्धकंधरम्
वेगवच्चर्पटाताड किणकर्कशकर्णकम् ॥

20.234

ततस् तम् अब्रवं साम्ना सततं महितं गवाम्
भ्रष्टः पन्था ममाटव्यां तम् आख्यातु भवान् इति ॥

20.235

तेनोक्तं गोकुले रात्रिं गमयित्वा गतश्रमः
प्रगे द्रष्टा स्वपन्थानं तदेत स्वगृहान् इति ॥

20.236

गत्वा तेन सहापश्यं घोषम् आसन्नगोकुलम्
मन्द्रमन्थध्वनिक्षिप्त मन्दरास्फालितार्णवम् ॥

20.237

अकुट्टिमसमा यत्र साङ्गणोटजभूमयः
हरिद्गोमयसंमार्ग संप्रसारितमानसाः ॥

20.238

बन्धूकचूतकास्तम्बैः परिक्षिप्तोटजाङ्गणैः
यत्र नाभीरनारीणां परिभूतं कराधरम् ॥

20.239

यत्र तुम्बीलताजालैः कुटीपटलरोधिभिः
लज्जिताः पङ्कजिन्यो ऽपि कलिकाङ्गुलितार्जिताः ॥

20.240

यस्मिन्न् अदृष्टदुर्दर्श पांसुसंकारसंकटाः
निरवाच्यतला रथ्याः कूर्ददुद्दामतर्णकाः ॥

20.241

कर्णिकारामलैर् अङ्गैः पृथुलैर् जघनस्थलैः
स तादृङ्मलिनः स्त्रीणां यत्र वेषो विभूषितः ॥

20.242

वनगोकुलवृद्धत्वाद् यत्र गोपा गवार्जवाः
गोप्यस् तु चतुराचारा नटीर् अप्य् अतिशेरते ॥

20.243

एवमादिप्रकारेण घोषेण हृतमानसम्
मां गोपः स्वगृहं नीत्वा गृहिणीम् आह्वयन् मुदा ॥

20.244

सुदेवदुहितः क्वासि ननु गोपालदारिके
देवस् ते गृहम् आयातः स भक्त्याराध्यताम् इति ॥

20.245

ततः पयोदशकलात् सा कलेव कलावतः
गृहान् निरगमद् गौरी प्रकीर्णतनुचन्द्रिका ॥

20.246

दारुदन्तशिलामय्यः प्रतिमास् तावद् आसताम्
न तां वेधाः क्षमः स्रष्टुं मधूच्छिष्टमयीम् अपि ॥

20.247

भावभिर् वर्तमानैश् च कविभिः किम् उदाहृतैः
न तां वर्णयितुं शक्तौ व्यासवाल्मीकिनाव् अपि ॥

20.248

सा मां गोमयपीठस्थं स्वसेव स्वच्छमानसा
आशिरःपादम् अश्रान्ता संवाहितवती चिरम् ॥

20.249

यं यम् एवोपसारं सा तुच्छम् अप्य् आचरेन् मयि
सर्वम् अन्वसहे तं तं दाक्षिण्यक्षयशङ्कया ॥

20.250

सलिलैः कांस्यपात्रस्थैर् अधावच् चरणौ मम
सोत्तमाङ्गेषु चाङ्गेषु नवनीतम् अदान् मुदा ॥

20.251

उच्छाद्य कणकल्केन तत्र स्तीमितमस्तकः
लोध्रकर्बूरमुस्ताभिर् घृष्टो ऽहं स्नपितस् तया ॥

20.252

अशित्वा चाशनं मेध्यम् अल्पान्नं बहुगोरसम्
विपाप्मानम् इवात्मानम् अमन्ये मद्यपायिनम् ॥

20.253

कल्पयित्वा तु मे गोपः शय्यां वल्कलपल्लवैः
एतत् ते गृहम् इत्य् उक्त्वा अंसभारो व्रजम् अव्रजत् ॥

20.254

मम त्व् आसीद् अयं मन्ये वीतरागादिबन्धनः
सक्लेशः को नु विश्वस्याद् दारेषु च परेषु च ॥

20.255

साधारणकलत्राणाम् ईर्श्याक्षोभितचेतसाम्
तिरश्चाम् अपि दृश्यन्ते प्रकाशमरणा रणाः ॥

20.256

अयं तु दयितान् दारान् मुनिमानसहारिणः
मयि निक्षिप्य यातीति व्यक्त एष स पुंगवः ॥

20.257

अथ वा निष्प्रवीणेषु बहिर्वृत्तिकुटुम्बिषु
नारीतन्त्रेषु तन्त्रेषु किम् आचारपरीक्षया ॥

20.258

रजकध्वजगोपाल मालाकारनटस्त्रियः
दृश्यन्ते याः सदाचाराः सा तासां बालशीलता ॥

20.259

एषा तु गोपयोषापि रूपिण्य् अपि तरुण्य् अपि
एवं गम्भीरधैर्येति दुर्बोधाः परबुद्धयः ॥

20.260

चिन्ताम् एतां कुर्वतः कार्यवन्ध्याम् आसीत् सा मे सोपकारैव रात्रीः
सद्यः कान्ताकण्ठविश्लेषदुःखम् आरात् सह्यं चेतसा यन् न सोढम् ॥

20.261

ततः प्रातः स मां गोपः कृपालुर् इव तत्त्ववित्
घोरात् कान्तारसंसाराद् अचिरद् उदतारयत् ॥

20.262

एष ते संभवग्रामः प्रांशुप्राग्वंशकाननः
दृश्यन्ते यस्य सीमान्ताः सीरमन्तः ससंकटाः ॥

20.263

देशान्तरम् अभिप्रेतम् अत्र विश्रम्य गम्यताम्
इति माम् इदम् उक्त्वासौ निवृत्तः कृतबन्धनः ॥

20.264

अथेक्षुगहनछायाः क्षिप्तशारदिकातपाः
सेवमानः प्रयामि स्म संतप्तो भानुभानुभिः ॥

20.265

विकाशिकुमुदारामाः प्रशंसन् सरसीः क्वचित्
स्थलीर् इव निदाघान्ते फुल्लाविरलकन्दराः ॥

20.266

क्वचिद् गर्भितशालीनि शालेयानि कुतूहली
सगुन्द्रागहनानीव पल्वलानि विलोकयन् ॥

20.267

क्वचिद् उत्कूलकालिन्दी सराम्भःपूरितैर् इव
कृतहंसद्विजातीर्यैः सरोभिः प्रीणितेक्षणः ॥

20.268

सत्त्वाकारसतीकार कोमलापाण्डुपांसुभिः
कृष्टैर् आकृष्टदृष्टिश् च जाह्नवीपुलिनैर् इव ॥

20.269

एवमादिशरत्काल कान्तिविस्मारितप्रियः
गच्छन् पुरुषम् अद्राक्षं ग्रामाद् आयान्तम् अन्तिके ॥

20.270

स तु मां चिरम् ईक्षित्वा ब्रवीति स्म सविस्मयः
चित्रम् आर्यकनिष्ठस्य यूयं सुसदृशा इति ॥

20.271

मम त्व् आसीद् असंदिग्धं दृष्टवान् एष गोमुखम्
न हि तस्माद् ऋते कश्चिद् अस्ति मत्सदृशः क्षितौ ॥

20.272

पृच्छामि स्म च तं भद्र स कनिष्ठः क्व तिष्ठति
कीदृशा वा विनोदेन गमयेद् दिवसान् इति ॥

20.273

ततस् तेनोक्तम् अत्रैव ग्रामे गृहपतिर् द्विजः
अस्ति साधारणार्थार्थः प्रियवादी प्रसन्नकः ॥

20.274

एकदा ब्राह्मणः पृष्टस् तेन ब्रह्मसभां गतः
आगतः कतमाद् देशात् किम् अर्थं वा भवान् इति ॥

20.275

तेनोक्तम् आगताव् आवाम् अवन्तिविषयाद् द्विजौ
भ्रातरौ स च मे ज्येष्ठो यात्रायाम् अन्यतो गतः ॥

20.276

तद् गवेषयमाणो ऽहम् एतं ग्रामम् उपागतः
छात्त्राणाम् अत्र सर्वेषाम् उपपन्नः समागमः ॥

20.277

इत्य् उक्ते तेन तेनोक्तम् इदं वः सधनं गृहम्
येन येनात्र वः कार्यं तत् तद् आदीयताम् इति ॥

20.278

गृहे गृहपतेस् तस्य क्षमावान् अपि शीलतः
त्रस्तभृत्यकृताराधो दुर्वासोवद् वसत्य् असौ ॥

20.279

हालिकत्वान् न जानामि ज्ञाता किं किम् असाव् इति
यन्मात्रं तु विजानामि तन्मात्रं कथयामि वः ॥

20.280

छात्त्रैस् तावत् किम् उद्दिष्टैर् अप्राप्तसकलागमैः
आचार्या अपि विद्यासु तस्यैव छात्त्रतां गताः ॥

20.281

इति चाहुः किम् अस्माभिर् वृथैवात्मावसादिभिः
विश्वकर्माथ वा ब्रह्मा कस्मान् नायम् उपासितः ॥

20.282

एवमादिविनोदो ऽसाव् आर्यज्येष्ठं प्रतीक्षते
उत्कण्ठः सर्वतः पश्यञ् जीमूतम् इव चातकः ॥

20.283

आर्यज्येष्ठो भवान् एव यदि तल् लघु कथ्यताम्
अकालकौमुदी ग्रामे सहसा जृम्भताम् इति ॥

20.284

आम सौम्य स एवाहम् इति संवादितो मया
ऊर्ध्वचूडः स वेगेन प्रति ग्रामम् अधावत ॥

20.285

सहसा तेन चोत्क्षिप्तो ग्रामे त्रासितकातरः
उत्थितस् तोषनिर्घोषस् तालसंपातसंकुलः ॥

20.286

विनिःसृत्य ततो ग्रामाद् गोमुखो विकसन्मुखः
दूराद् एव यथादीर्घम् अपतन् मम पादयोः ॥

20.287

बालैर् आलिङ्गितैः पुत्रैर् दारैश् च न तथा प्रियैः
जन्यते जनिता प्रीतिस् तेन मे सुहृदा यथा ॥

20.288

प्रसन्नवदनं चारात् तद् आख्यातं प्रसन्नकम्
आलिङ्ग्य सहितस् तेन संभवग्रामम् आसदम् ॥

20.289

उभेटीकूटपटल प्रासादादिगता च माम्
ग्रामीणा जनता यान्तम् अङ्गुलीभिर् अदर्शयत् ॥

20.290

प्रीतानुचरवर्गेण प्रसन्नकनिवेशने
कृतासुकरसत्कारः प्रेरयं दिवसं क्षणम् ॥

20.291

शयनीयगृहस्थं च माम् अभाषत गोमुखः
नीतवन्तः कथं यूयम् इयतो दिवसान् इति ॥

20.292

घोषवासावसाने च स्ववृत्ते कथिते मया
पृष्टः स्ववृत्त आचष्ट गोमुखः प्रियविस्तरः ॥

20.293

अस्त्य् अहं स्वगृहात् प्रातर् युष्मान् सेवितुम् आगतः
प्रतिबुद्धान् न चापश्यं पाण्डाव् अपि दिवाकरे ॥

20.294

संभ्रान्तमत्प्रयुक्ता च प्रविश्य परिचारिका
हा शून्यम् इति साक्रन्दा निर्गता वासमन्दिरात् ॥

20.295

ततः सवत्सकौशाम्बी क्रन्दितह्रादपूरिताः
विन्ध्याकाशदिशश् चण्डम् आरटन्न् इव पीडिताः ॥

20.296

अथ ताडितहस्तेन मा मा भैष्टेति वादिना
आदित्यशर्मणा लोकः सिद्धादेशेन वारितः ॥

20.297

स चावोचन् महीपालम् अलं गत्वा विषण्णताम्
न ह्य् अदर्शनमात्रेण भानोः संभाव्यते च्युतिः ॥

20.298

यस्य वेगवती रक्षा क्षमासंरक्षणक्षमा
ब्रह्मजातिर् इवावध्या स कस्माद् दुःस्थताम् इयात् ॥

20.299

अथ वोत्तिष्ठत स्नात जुहताश्नीत गायत
पश्चाद् वार्त्तोपलम्भाय वियद् आलोच्यताम् इति ॥

20.300

इदं श्रुत्वापि नैवासीत् कस्मैचिद् अशने रुचिः
उत्कण्ठाविषयाद् अन्यत् किं सोत्कण्ठाय रोचते ॥

20.301

अथोत्तानमुखाः पौराः खं पश्यन्तः समन्ततः
विच्छिन्नाभ्रलवाकारं किम् अप्य् ऐक्षन्त पूर्वतः ॥

20.302

किम् एतद् इति पौराणां यावद् वाक्यं समाप्यते
तावद् आसन्नम् अद्राक्षं पुरो ऽमितगतिं दिवः ॥

20.303

शरपातान्तरे चास्य वधूवेषविभूषणाम्
वेगवत्तनयां देवीं यान्तीम् अन्तःपुरं प्रति ॥

20.304

अथ व्यज्ञापयं देवं देव प्राज्ञप्तिकौशिकिः
दिष्ट्यामितगतिः प्राप्तः प्रीत्या संभाव्यताम् इति ॥

20.305

स तु माम् अब्रवीत् कर्णे कथं कथम् अयं मया
विद्याधरो मनुष्येण सता संमान्यताम् इति ॥

20.306

ततस् तम् उक्तवान् अस्मि यया हरिशिखादयः
तयामितगतिर् दृष्ट्या विश्रब्धं दृश्यताम् इति ॥

20.307

आगच्छागच्छ तातेति स तम् आहूतम् आगतम्
प्रसारितभुजः प्रह्वम् आमृशत् पृष्ठमूर्धनि ॥

20.308

सो ऽपि न्युब्जिकया दूरम् अपसृत्य प्रणम्य च
आहूतः पुनर् आदिष्टम् अध्यास्तानुच्चम् आसनम् ॥

20.309

तं राजा क्षणम् आसीनम् अखेदम् इदम् उक्तवान्
भ्रातुः कथय वृत्तान्तम् इति तेनोदितं ततः ॥

20.310

राज्ञा मानसवेगेन चक्रवर्ती नभस्तलात्
पातितो ऽन्धतमे कूपे स्ववीर्याच् चोत्थितस् ततः ॥

20.311

वेगवत्य् अपि सक्रोधा जित्वा भ्रातरम् अम्बरे
इयं मत्सहितागत्य गता राजावरोधनम् ॥

20.312

युवराजो ऽपि चम्पायां वीणादत्तकवेश्मनि
सुखं तिष्ठति मा भूत् तद् विशङ्का भवताम् इति ॥

20.313

मातरौ पुत्र पश्येति समादिष्टो महीभुजा
स मया सहितो गत्वा देव्यौ दूराद् अवन्दत ॥

20.314

क्षणं चान्तःपुरे स्थित्वा निर्यातः स मयोदितः
विस्तरेण सखे मह्यं भर्तुर् वृत्तं निवेद्यताम् ॥

20.315

भिद्यन्ते न रहस्यानि गुरूणां संनिधौ तथा
यथाभिन्नरहस्यानाम् अशङ्कैः सुहृदाम् इति ॥

20.316

अथोक्तं तेन यद्य् एवं विविक्ते क्वचिद् आस्यताम्
न हीदं शक्यम् आख्यातुं न श्रोतुं प्रस्थितैर् इति ॥

20.317

अथान्तःपुरनिर्यूहे निराकृतमहाजने
आसीनाय स मे वृत्तं युष्मद्वृत्तम् अवर्तयत् ॥

20.318

अस्त्य् अहं युवराजेन मोचितः शङ्कुबन्धनात्
तेनैव च कृतानुज्ञः प्रायाम् अङ्गारकं प्रति ॥

20.319

चक्रवर्तिभयाच् चासौ त्यक्तवान् कुसुमालिकाम्
बलवत्संश्रयात् केन दुर्बलेन न भीयते ॥

20.320

सो ऽहम् आदाय विश्रब्धं त्वत्सखीम् आश्रमे पितुः
अवसं दिवसान् एतान् कदाचित् काश्यपस्थले ॥

20.321

अद्य चानुगृहीतो ऽस्मि स्मरता चक्रवर्तिना
स च गत्वा मया दृष्टस् तिष्ठन्न् अवटसंकटे ॥

20.322

स चावटतटस्थो माम् आज्ञयानुगृहीतवान्
युध्यामानां सह भ्रात्रा रक्ष वेगवतीम् इति ॥

20.323

उत्पत्य च मया दृष्टा निर्जिता भ्रातृशात्रवा
उत्खातनिजरागेव योगिनीचक्रवर्तिनी ॥

20.324

सा तु मां प्रणतं दूराद् आज्ञापितवती लघु
भ्रातः प्रज्ञप्तिम् आवर्त्य स्वामी विज्ञायताम् इति ॥

20.325

तां विज्ञापितवान् अस्मि देवि चम्पानिवासिनः
भवने दत्तकस्यास्ते तत्र संभाव्यताम् इति ॥

20.326

अथ दूरेण मां जित्वा वेगाद् वेगवती गता
प्रावृड्जडम् इवाम्भोदं समीरणपरंपरा ॥

20.327

प्राप्य चातिचिराच् चम्पाम् अहं दत्तकवेश्मनि
दृष्टवान् मानुषादृश्यां देवीं देवस्य संनिधौ ॥

20.328

नागभोगाङ्कपर्यङ्के निषण्णं च नभःपतिम्
जगत्पतिम् इवानन्त भुजङ्गोत्सङ्गशायिनम् ॥

20.329

पृष्टश् च युवराजेन सादरेणैव दत्तकः
रूपं गन्धर्वदत्तायाः कीदृग् इत्य् उच्यताम् इति ॥

20.330

वेगवत्या ततः क्रोध दैन्यवैलक्ष्यधूम्रया
पश्यामितगते भर्तुर् आचारम् इति भाषितम् ॥

20.331

वर्णितं दत्तकेनापि रूपं तस्यास् तथा यथा
सद्यो विकसितं भर्तुर् देव्यास् तु म्लानम् आननम् ॥

20.332

अथोक्तं शनकैर् भर्त्रा दत्तकः कूपकच्छपः
येन गन्धर्वदत्ताया रूपम् एष प्रशंसति ॥

20.333

यदि पश्येद् अयं मुग्धः प्रियां मदनमञ्जुकाम्
दूरे गन्धर्वदत्तास्तां रम्भाम् अपि न वर्णयेत् ॥

20.334

उक्तश् चार्यदुहित्राहं कम्पयित्वा शनैः शिरः
बहु श्रोतव्यम् अत्रास्ति निपुणं श्रूयताम् इति ॥

20.335

पुनर् अप्य् उक्तवान् स्वामी सा तथापि प्रिया प्रिया
प्रियां वेगवतीं प्राप्य यत् सत्यं विस्मृतैव मे ॥

20.336

ततः सद्यस् तदङ्गानि लज्जामुकुलितान्य् अपि
अद्राक्षं विकसन्तीव तुङ्गीभूतैस् तनूरुहैः ॥

20.337

उक्तश् चास्मि तया स्मित्वा भ्रातर् गच्छाव संप्रति
यावन्नापरम् एतेन किंचिद् दुर्वच उच्यते ॥

20.338

एकेन पटुनानेकं दूष्यते मधुरं वचः
विषतोयलवेनेव दुग्धकुण्डम् उरूदरम् ॥

20.339

यावत्या वेलया देव्या वाक्यम् इत्यादि कल्पितम्
देवः संचिन्त्य तावत्या पश्चाद् ऊहितवान् इदम् ॥

20.340

यथा प्राप्य द्वितीयां मे विस्मृता प्रथमा प्रिया
तृतीयायास् तथ प्राप्त्या द्वितीया विस्मरिष्यते ॥

20.341

काव्यस्त्रीवस्त्रचन्द्रेषु प्रायेण विगुणेष्व् अपि
अपुराणेषु रज्यन्ते स्वभावाद् एव जन्तवः ॥

20.342

तेन गन्धर्वदत्तायाः शुल्कं संपाद्यताम् अहम्
प्रसह्य स्वीकरिष्यामि कृष्णाम् इव धनंजयः ॥

20.343

इति दारुणया पत्युर् इयं वाचा विमोहिता
दृष्ट्या दृष्टिविषस्येव निश्चेष्टा वसुधाम् अगात् ॥

20.344

ततः किंकार्यमूढेन मया कथम् अपि प्रभुः
प्रतीकारशतावध्यं वृत्तान्तं तं न बोधितः ॥

20.345

उत्थाय च ससंज्ञेयं दिवम् उत्पत्य भाषते
वन्दमाना गुरोः पादान् क्षपयामि शरीरकम् ॥

20.346

अथवा कुरु बन्धुत्वं भ्रातः काष्ठानि संहर
राजद्वारे श्मशाने वा यस् तिष्ठति स बान्धवः ॥

20.347

दुःखानि ह्य् अनुभूयन्ते सशरीरैः शरीरिभिः
दुःखाधिकरणं तन् मे शरीरं दह्यताम् इति ॥

20.348

मयोक्तेयं क्व देवस्य देवी वेगवतः सुता
क्व चासदृशम् एतत् ते वदनान् निर्गतं वचः ॥

20.349

यदि त्यक्तशरीराणां शरीरं न पुनर् भवेत्
ततो नैव विरुध्येरन् नात्मानैर् आत्म्यवादिभिः ॥

20.350

चित्तवृत्तिनिरोधेन यत् खिन्नैर् मोक्षुभिश् चिरम्
मुस्ताग्रन्थिप्रमाणेन तद् विषेणैव लभ्यते ॥

20.351

तस्मान् नास्तिक्यम् उज्झित्वा सर्वसर्वज्ञनिन्दितम्
धर्माधिकरणं देवि शरीरं पाल्यताम् इति ॥

20.352

तया तु सर्वम् एवेदम् अश्रुत्वा शून्यचेतसा
ननु संहर दारूणि किं चिरेणेति भाषितम् ॥

20.353

मयोक्तं यदि युष्माकम् अयं चेतसि निश्चयः
अहम् एव ततः पूर्वं प्रविशामि चिताम् इति ॥

20.354

अथाहं परुषालापम् उक्तः कुपितया तया
माम् अनुम्रियमाणस् त्वम् उच्यसे किं जनैर् इति ॥

20.355

अथैनाम् उक्तवान् अस्मि सत्यम् एतद् विरुध्यते
जीवितं तु महादोषं तथा च श्रूयतां कथा ॥

20.356

अस्यास् त्व् आकाशए आसानो दुःश्लिष्टालापकर्पटाम्
चित्तम् आक्षिप्तवान् अस्मि कथाकन्थां प्रसारयन् ॥

20.357

अस्ति भागीरथीकच्छः प्रांशुकाशशराकारः
बदरीखदिरप्राय कान्तारतरुदुर्गमः ॥

20.358

स्फीतसीमान्तलुण्ठाकाः खड्गिशम्बरतस्कराः
दुर्गराजं यम् आश्रित्य राजभ्यो ऽपि न बिभ्यति ॥

20.359

प्रभावाद् यस्य शार्दूलैर् विरलीकृतगोकुलैः
गोष्ठश्वा इव गायन्ते मत्ता मृगयुदन्तिनः ॥

20.360

यच् च घर्मान्तवादाग्नि ज्वालाजनितवेदनम्
पयःश्वेतपयःपूरैर् निर्वापयति जाह्नवी ॥

20.361

तत्रान्यत्र शरस्तम्बे बदरीझाटवेष्टिते
बिलं कृत्वा शतद्वारम् उवास किल मूषिक ॥

20.362

वानेयैः पावनैर् अन्नैर् जाह्नवीयैश् च वारिभिः
स भृत्यान् बिभराम् आस वैखानस इवाश्रमे ॥

20.363

कदाचित् प्रोषिते तस्मिन्न् आहाराहारकाङ्क्षिणि
गृहम् अस्यागमन् मित्रम् आखुर् नगरगोचरः ॥

20.364

आसीनश् चार्घ्यपाद्याभ्याम् असौ मूषिकयार्चितः
ताम् अपृच्छत् क्व यातो नः सखा सखि भवेद् इति ॥

20.365

तयाहारार्ह्तम् इत्य् उक्ते प्रस्थितं तम् उवाच सा
अयम् आयाति ते भ्राता सुमुहूर्तम् उदीक्ष्यताम् ॥

20.366

असत्कारे गृहाद् याते कृतघ्ने ऽपि स ते सखा
निद्राहाराभिलाषाभ्यां सप्तरात्रं वियुज्यते ॥

20.367

त्वं पुनस् तस्य मित्रं च चिराच् च गृहम् आगतः
निरातिथ्यश् च यामीति वृषस् त्वम् अविषाणकः ॥

20.368

यावच् चेयं कथा तावन् निर्ग्रन्थाङ्गमलीमसैः
धूमैर् धूसरितो भानुः स्वर्भानुतिमिरैर् इव ॥

20.369

अनन्तरं च साङ्गार भस्मसंतानहारिणः
अपवन्त नभस्वन्तो गङ्गाताण्डवहेतवः ॥

20.370

ततः पृषतगोकर्ण परंपरपरंपराः
लङ्घितोद्भ्रान्तशार्दूलाः प्राधावन्न् अभि जाह्नवीम् ॥

20.371

अथासौ मूषिकः पापस् ताम् आमन्त्र्य ससंभ्रमः
अपगन्तुम् उपक्रान्तस् तया संभ्रान्तयोदितः ॥

20.372

अहो नगरवासित्वं देवरेण प्रकाशितम्
महासाहसम् आरब्धम् आत्मानं येन रक्षता ॥

20.373

नागराः किल भाषन्ते धर्मार्थग्रन्थकोविदाः
आत्मार्थे सकलां जह्यात् पण्डितः पृथिवीम् इति ॥

20.374

त्वदीयेन तु मित्रेण मित्रामित्रा विपद्गताः
शरीरनिरपेक्षेण स्वगुणा इव रक्षिताः ॥

20.375

अथ वा कृतम् आलापैर् अकालो ऽयम् उदासितुम्
दावदाहभयाद् बालान् परित्रायस्व पुत्रकान् ॥

20.376

बहून् एतान् अहं मुग्धान् अनुन्मीलितलोचनान्
पञ्चरात्रप्रसूतत्वात् संचारयितुम् अक्षमा ॥

20.377

त्वं पुनः पुरुषः शक्तः प्रियापत्यश् च यत्नतः
तुङ्गगङ्गातटीं येन संचारय सुतान् इति ॥

20.378

स तु पापाखुर् आलम्ब्य संभ्रान्तव्याघ्रवालधिम्
मुषिकाम् अवकर्ण्यैव गङ्गारोधः परागमत् ॥

20.379

ततः पाषाणवर्षस्य पततः कुट्टिमेष्व् इव
उत्थितः परितः कच्छं पटुः पटपटाध्वनिः ॥

20.380

अथालोच्य बुभुक्षोस् तं कक्षं कक्षं विभावसोः
सर्वं ज्वालाच् छलेनाङ्गं जिह्वामयम् इवाभवत् ॥

20.381

दावकालानलः स्तम्ब कक्षसंसारम् आयतम्
दग्ध्वा निरिन्धनः शान्तः प्राप्य गङ्गातटाम्बरम् ॥

20.382

ततः पटुमरुद्व्यस्त भम्सस्कन्धवसुंधरः
क्षणेन ददृशे कच्छः प्रांशुवल्मीकसंकुलः ॥

20.383

एतस्मिन्न् ईदृशे काले शङ्काग्रस्तः स मूषिकः
अनुमाय चिराच् चिह्नैर् आजगाम स्वम् आलयम् ॥

20.384

तत्रापश्यत् ततः कान्ताम् अन्तर्गृहम् अचेतनाम्
ज्वालाव्यतिकरोष्णाभिर् उत्स्विन्नां धूमवर्तिभिः ॥

20.385

सर्वान् आलिङ्ग्य सर्वाङ्गैः शावकान् गतजीवकान्
दीर्घनिद्राम् उपासीनाम् असंमीलितलोचनान् ॥

20.386

अथ मूढश् चिरं स्थित्वा प्रबुद्धो विललाप सः
विलापैकविनोदा हि बन्धुव्यसनपीडिताः ॥

20.387

महाभूतानि भूतानि भूतानां भूतये किल
महाभूतेन भूताङ्गे भवता किम् इदं कृतम् ॥

20.388

वरं ब्रह्मवधादीनि पातकानि महान्त्य् अपि
न पुनर् यत् त्वया पाप दुष्करं दुष्कृतं कृतम् ॥

20.389

ननु ब्रह्मवधादीनि यान्ति निष्कृतिभिः क्षयम्
शरणागतबालस्त्री कृतहत्यास् तु दुःक्षयाः ॥

20.390

यस्मान् निष्करुणेनेदं दग्धम् आखुकुलं त्वया
दशजन्मसहस्राणि तस्माद् आखुर् भविष्यसि ॥

20.391

अथ वा निर्दहत्व् एष दीप्तशापहुताशनः
तम् एव चपलं येन सर्वभक्षः कृतो भवान् ॥

20.392

इत्यादि विलपन्तं तं समेत्य स सुहृद् ध्रुवः
मूषिकैर् अपरैः सार्धम् अलीकम् अवदद् वचः ॥

20.393

स्वयम् एव सखे सख्या स्त्रीत्वाद् वामस्वभावया
मयि प्रार्थयमाने ऽपि कुटुम्बम् अवसादितम् ॥

20.394

दशकृत्वो मयोक्तेयं भवती सहिता मया
गङ्गाकूलं त्रिभिर् वारैः शावकान् नयताम् इति ॥

20.395

असंभ्रान्ता च माम् आह कातराणां भवादृशाम्
अपायशतदर्शिन्यः स्वच्छवृत्ते ऽपि बुद्धयः ॥

20.396

वेतस्वन्नड्वलोपान्तम् अन्तरे पल्वलं महत्
नीलाविरलपर्णाश् च जम्बूवञ्जुलराजयः ॥

20.397

न चाग्नेर् अस्ति सामर्थ्यम् अदाह्यं दग्धुम् ईदृशम्
सो ऽतिदूरेण विच्छिन्नः कथम् अस्मान् दहेद् इति ॥

20.398

स तु मित्रीयमाणस् तं चिरम् आलोक्य पृष्टवान्
एवम् उक्तः प्रजावत्या भवान् किं कृतवान् इति ॥

20.399

तेनोक्तं वामशीलत्वाद् यदेयं प्रत्यवस्थिता
निष्प्रत्याशस् तदा प्राणान् अहं रक्षितवान् इति ॥

20.400

लज्जमाने नते तस्मिन् स्थिते ऽसाधावधोमुखे
आखुर् अन्यतमस् तेषां तम् असाधुम् अभाषत ॥

20.401

तुषान् गोपयता त्यक्ताः प्राज्ञेन कलमास् त्वया
रक्षता सुत्यजान् प्राणांस् त्यक्ता यद् दुस्त्यजा गुणाः ॥

20.402

प्राणानां च गुणानां च विशेषः स्यात् कियान् इति
मीमांसित्वा चिरं देवाः साम्यम् एषाम् अकल्पयन् ॥

20.403

तान् प्रजापतिर् आहैत्य मा कृध्वं विषमं समम्
तरंगतरलाः प्राणा गुणा मेरुस्थिरा इति ॥

20.404

अथ वा मृत एव त्वम् उत्क्रान्तं पश्य ते यशः
अयशोमरणात् त्रस्ता यशोजीवा हि साधवः ॥

20.405

सखे सावाग्निना दग्धं त्वत्कुटुम्बं ममाग्रतः
अहं जीवित इत्य् एतत् को ब्रूयान् मूषिकाद् ऋते ॥

20.406

इति ते तम् उपालभ्य परिसंस्थाप्य चेतरम्
कुटुम्बं चास्य संस्कृत्य प्रतिजग्मुर् यथागतम् ॥

20.407

स चाखुर् मूषिकश्रेण्या तस्माद् आरभ्य वासरात्
आसनस्थानसंभाषा संभोगैर् वर्जितः कृतः ॥

20.408

अहं तु स्वामिनीं दृष्ट्वा पवित्रितचितानलाम्
अक्षताङ्गः स्वयं मन्दः किं वक्ष्यामि पुरः प्रभोः ॥

20.409

चतुर्वर्गस्य धर्मादेर् हेतुः साधुसमागमः
साधुभिर् वर्ज्यमानस्य नष्टम् एतच् चतुष्टयम् ॥

20.410

तद् गरिष्ठाद् अतो दोषाल् लघिष्ठं मरणं मया
अङ्गीकृतम् अलं प्राणैर् अकीर्तिमलिनैर् इति ॥

20.411

यावच् च समयं बद्ध्वा कथा परिसमाप्यते
तावद् आवाम् अनुप्राप्ताव् आस्थानं भवताम् इति ॥

20.412

ततः स सत्कृतो राज्ञा वसनाभरणादिभिः
प्रीतः प्रीतं महीपालं प्रणिपत्य तिरो ऽभवत् ॥

20.413

तत्राचिरगते देवं सेनापतिर् अभाषत
तन्त्रेण सह गच्छन्तु चम्पां हरिशिखादयः ॥

20.414

राजपुत्रस्य नागन्तुं न स्थातुं तत्र युज्यते
पान्थस्येवासहायस्य पुराधिष्ठानवासिनः ॥

20.415

शतानि पञ्च नागानाम् अभ्यस्तास्त्रनिषादिनाम्
तावन्त्य् एव सहस्राणि तादृशाम् एव वाजिनाम् ॥

20.416

पत्तयश् च प्रतिष्ठन्तां वाजिसंख्याचतुर्गुणाः
पत्तिरक्ष्या हि मातङ्गाः कर्मण्याः समरेष्व् इति ॥

20.417

प्राप्तकालम् इदं स्तुत्वा राजा सेनापतेर् वचः
तन्त्रेण साहितान् अस्मान् प्राहिणोद् युष्मदन्तिकम् ॥

20.418

अथ विन्ध्याचलच्छायां गुञ्जद्वानरकुञ्जराम्
आक्रामन्तः प्रयामः स्म स्वच्छशैलसरिज्जलाम् ॥

20.419

संनिविष्टं च तत् तन्त्रम् अन्यस्मिन् विन्ध्यसानुषु
ध्वनत्पटहशृङ्गं च चौरचक्रम् उपागतम् ॥

20.420

अदृष्टतरुपाषाण शकुन्तमृगचारणः
दृष्टः पुलीन्द्रभावेन विन्ध्यः परिणमन्न् इव ॥

20.421

ततः पुलिन्द्रकोदण्ड षण्डमुक्तैः शिलीमुखैः
संततैर् वयम् आक्रान्ताः शलभैर् इव शालयः ॥

20.422

अथ नागाधिरूढेन सैनापत्येन तत् कृतम्
प्रत्यक्षम् अपि यद् दृष्टं न कश्चित् समभावयत् ॥

20.423

तत्करभ्रमितप्रास चक्रप्रान्तपरागताः
परावृत्य परान् एव पराघ्नन्परमार्गणाः ॥

20.424

भ्रान्तकुन्तपरिक्षिप्तं न शरीरम् अदृश्यत
तस्य बाहुसहस्रं तु फलेन समभाव्यत ॥

20.425

आक्रान्तचतुराशेषु विन्ध्यकान्तारवासिषु
तद्विसृष्टान् अपश्याम युगपत् पततः शरान् ॥

20.426

स्फुरत्किरणनिस्त्रिंश पाणिर् यौगन्धरायणिः
दृष्टः सर्वेण सर्वेषां पुलीन्द्राणां पुरः स्थितः ॥

20.427

सर्वथानेन संदृष्टं परचक्रम् उदायुधम्
तदासन्नविमानस्थैर् दृष्टम् अप्सरसां गणैः ॥

20.428

प्रतिपक्षक्षयं घोरम् अकरोत् तं तपन्तकः
कृतब्रह्मास्त्रमोक्षेण द्रोणेनापि न यः कृतः ॥

20.429

मयापि सतुरंगेण तत्र तत्राभिधावता
निष्प्रयोजनयत्नेन स्वे परे चोपहासिताः ॥

20.430

ततस् तस्करचक्रेण व्यतिभिन्नं भवद्बलम्
नीहारनिकरेणेव भास्वत्करकदम्बकम् ॥

20.431

एतस्मिन्न् आकुले काले शालस्कन्धावृतः परः
दृढं मर्मणि बाणेन मत्तुरंगम् अताडयत् ॥

20.432

तुरंगस् तु तथा पाद ताडनान्य् अविचिन्तयन्
स्थाणुपाषाणगर्तांश् च यथावेगम् अधावत ॥

20.433

दिनान्तेन च निर्गत्य गहनाद् विन्ध्यकाननात्
स्थित एवामुचत् प्राणान् पश्चात् कायम् अपातयत् ॥

20.434

ततः संहृत्य दारूणि गुरूणि च बहूनि च
तस्यानुष्थितवान् अस्मि संस्कारं सोदकक्रियम् ॥

20.435

दिङ्मोहभ्रान्तचेताश् च प्रांशुम् आरुह्य शाखिनम्
एतं ग्रामकम् अद्राक्षम् आराद् आकुलगोकुलम् ॥

20.436

आगतश् चाहम् एतेन साधुनाराधितस् तथा
यथा गुरुर् यथा देवो यथा राजा यथाव् वरः ॥

20.437

तं च तस्करसेनान्यम् अघ्नन् हरिशिखादयः
इति मह्यम् इयं वार्त्ता कथिता पथिकैर् इति ॥

20.438

कान्तासुहृद्गुणकथाश्रवणोत्सुकस्य रम्या विनिद्रनयनस्य गता ममासौ
सर्वेन्द्रियार्थजनितानि हि सेव्यमाना दीर्घास्ववृत्तिर् इव हन्ति सुखानि निद्रा ॥

मूल पाठ: Bṛhatkathāślokasaṃgraha · Edition: the text edited by Felix Lacote (Paris, 1908). It was · Data entry Andreas Bigger · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc