बृहत्कथाश्लोकसंग्रह · अध्याय 19
स्निधैर् दारैः सुहृद्भिश् च मैत्रीमात्रनिबन्धनैः
चम्पायां रममाणस्य कालः कश्चिद् अगाद् मम ॥
एकदा प्रासकैः क्रीडन् सह गन्धर्वदत्तया
सहसा प्रमदावेषम् अपश्यं पुरुषं पुरः ॥
कपालशिखिपिञ्छाभ्यां विराजितकरद्वयम्
अयुक्तेन्द्रधनुश्छाय शृङ्गारगलकण्ठिकम् ॥
गन्धर्वदत्तया चासौ दत्तस्वासनया स्वयम्
प्रक्षाल्य चरणौ भक्त्या स्वालंकारैर् अलंकृतः ॥
तच् च मे गुरुगाम्भीर्यं क्वापि नीतम् असूयया
यथा केसरिशावस्य गन्धहस्तिजिघांसया ॥
ममासीद् इयम् एवात्र सदोषा कुलमानिनी
एष स्त्रीपुरुषः शोच्यो यो न स्त्री न पुमान् इति ॥
माम् उद्दिश्य ततस् तेन क्रोधारुणितचक्षुषा
वदता निहतो ऽसीति विमुक्तः शिखिपिच्छकः ॥
स मे केशकलापाग्रम् ईषद् आमृश्य यातवान्
नागेषुर् इव कर्णास्त्रः किरीटाग्रं किरीटिनः ॥
स्वयम् एव च तत् तस्य कपालम् अपतत् करात्
निःस्थाम्नः कुञ्जरस्येव विधानं विनशिष्यतः ॥
सो ऽथ ग्रामेयकेनेव धिया धूर्तो ऽतिसंधितः
धूम्रछायः शनैर् जल्पन् धिग् धिङ् माम् इति निर्गतः ॥
अथ गन्धर्वदत्ता मां दीप्तामर्षम् अशङ्किता
सवाडवम् उपासर्पन् निम्नगेव महार्णवम् ॥
मम त्व् आसीद् अहो स्त्रीणाम् अत्रासमत्रपं मनः
यत् पुरेव प्रगल्भेयम् उपसर्पति माम् इति ॥
सा माम् अवोचद् भीतेव शीतलीभवत क्षणम्
किंचिद् विज्ञापयाम्य् एष यातु वः क्रोधपावकः ॥
अयं विकचिको नाम गौरीशिखरवासिनः
विद्याधरपतेर् भ्राता गौरिमुण्डस्य साधकः ॥
भूतव्रतं च नामेदं बहुविध्नं चरत्य् अयम्
समाप्ते ऽस्मिन्न् अविघ्नेन वन्ध्याः स्युर् नो मनोरथः ॥
या च पूजयते तं स्त्री गौरीव्रतविचारिणम्
तस्यै वरं महागौरी दयते शापम् अन्यथा ॥
विज्ञापयामि संक्षिप्तं क्रोधाद् अन्यो महाबलः
विहन्ता सर्वसिद्धीनां नास्ति विघ्नविनायकः ॥
सिद्धकल्पं च तस्येदं खण्डयत्या महाव्रतम्
तुष्टया तोषिता गौरी मया यूयं च रोषिताः ॥
तद् एतस्यास्य युष्मभ्यं क्रुद्धेभ्यः क्रुध्यतस् तथा
गौरीभ्रष्टा महाविद्या विद्येव तनुमेधसः ॥
तेन युष्माकम् एवेदं कार्यं कुर्वाणया गुरु
यन् मया रोषिता यूयम् एतन् मे मृष्यताम् इति ॥
स च क्रोधग्रहश् चण्डः शनकैः शनकैर् मम
दयितामन्त्रवादिन्या हृदयाद् अपसर्पितः ॥
इति संजनितोत्साहस् तयाहं मन्त्रसाधनैः
आसीनः सानुदासेन कदाचिद् इति भाषितः ॥
आसीद् इहैव चम्पायाम् इष्टभार्यो महीपतिः
तेन दोहदकं पृष्टा भार्यावोचत् त्रपावती ॥
क्रीडन्मकरकुम्भीर कुलीरझषकच्छपे
क्रीडेयं सह युष्माभिर् जले जलनिधेर् इति ॥
राज्ञापि मगधैर् साङ्गैर् बन्धयित्वाशु निम्नगाम्
सरः सागरविस्तारम् अवन्ध्याज्ञेन खानितम् ॥
तत्र नक्रादिसंस्थान दारुयन्त्रनिरन्तरे
विमानाकारपोतस्थौ तौ राजानौ विचेरतुः ॥
आरभ्य च ततः कालात् तत्र यात्रा प्रवर्तिता
आहृष्टपरपुष्टेषु दिवसेषु महीभुजा ॥
ते चैते दिवसाः प्राप्ताः पटुकोकिलकूजिताः
सा च यात्रेयम् आयाता रम्यामृतभुजाम् अपि ॥
इष्यते यदि च द्रष्टुं सह गन्धर्वदत्तया
अस्मदादिपरीवारैस् ततः सा दृश्यताम् इति ॥
अभिनीय ततो रात्रिं प्रातः प्रवहणाश्रितः
निर्गच्छामि स्म चम्पायाः पौरनेत्रोत्पलार्चितः ॥
चक्षुर्मनोहराराम च्छायाम् अध्यासितं ततः
पक्कणं दृष्टवान् अस्मि राजराजपुरोज्ज्वलम् ॥
तस्य मध्ये च मातङ्गं गन्धमातङ्गधीरतम्
कालम् अप्य् उज्ज्वलायामं घनाघनम् इवाम्बुदम् ॥
कालिन्दीनीलकालीं च वृद्धां पिङ्गशिरोरुहाम्
दीप्तसौदामनीचक्रां प्रावृषेण्याम् इव क्षपाम् ॥
दोलालिलाविलोला च तत्रादृश्यत कन्यका
नीलनीरजमालेव कोमलानिललासिता ॥
चिन्तितं च मया कान्ता यदि मे कालिका भवेत्
इयम् एव ततस् तन्वी क्षिप्तकुङ्कुमगौरता ॥
स्थानाच् चाचलितैवासौ दृष्ट्या मां दूरम् अन्वगात्
मालयेव पलाशानाम् अंशुमन्तं सुवर्चला ॥
तां चालिङ्गितवान् अस्मि दृष्ट्या दूरीभवन्न् अपि
नितान्तस्निग्धया प्राचीं प्रभयेव दिवाकरः ॥
स्निग्धे दृष्टी विसर्ज्येति दूतिकाप्रतिदूतिके
तया मम मया तस्या नीताः प्राणा विधेयताम् ॥
अथारामान् अभिक्रुध्यन्न् आवयोर् व्यवधायकान्
मातङ्गीं मनसागच्छं शरीरेण महासरः ॥
स च यात्रोत्सवश् चित्रो मयान्याहितचेतसा
तत्रस्थेनैव नो दृष्टः संसार इव योगिना ॥
अथ यात्रोत्सवे तत्र पीत्वेव मधु भास्करः
मन्दमन्दपरिस्पन्दस् ताम्रमण्डलताम् अयात् ॥
मम त्व् आसीद् यथा देवः प्राचीं कमलिनीप्रियः
अप्रसाद्यैव तां भानुः प्रतीचिम् उपसर्पति ॥
तथा गन्धर्वदत्तायाः पुर एवानुवर्ण्य ताम्
मातङ्गीम् अनुसर्पामि यथा राजा तथा प्रजाः ॥
अथ वा मानुषैर् एव यः पन्थाः कामिभिर् गतः
तम् एवानुगमिष्यामि न देवचरितं चरेत् ॥
सानुदासम् अथावोचं भरद्वाजात्मजा त्वया
पूर्वम् एव सयानेन नगरीम् अभिनीयताम् ॥
पश्चाज् जनसमूहस्य गच्छन्त्याः पथि पांसवः
पराधूसरयन्त्य् अस्याः सोत्पलामलकावलीम् ॥
शोभां यात्रिकलोकस्य पश्यन् प्रविशतः पुरम्
पुरस्ताद् अहम् आयामि सह नागरकैर् इति ॥
अथ गन्धर्वदत्तायां प्रवृत्तायां पुरं प्रति
दारिके द्वे परावृत्य वन्दित्वा माम् अवोचताम् ॥
आवाम् आज्ञापिते देव्या स्वामिनं निर्विनोदनम्
विनोदयतम् आलापैर् युवाम् अपरुषैर् इति ॥
ततस् ते मदयित्वाहं तोषयित्वा च भूषणैः
पटुवेगेन यानेन पक्कणान्तिकम् आगमम् ॥
सापि तत्रैव दोलायां स्थिता मातङ्गसुन्दरी
गच्छन्तम् इव निर्व्याजम् आगच्छन्तं समैक्षत ॥
विश्रब्धम् अथ तां द्रष्टुं शनैर् यानम् अचोदयम्
ततस् तद् अपि संप्राप्तं जवेन कुलटाद्वयम् ॥
आसीच् च मम यल् लोके प्रसिद्धम् अभिधीयते
श्रेयांसि बहुविघ्नानि भवन्तीति तथैव तत् ॥
दुःखेन च गृहं गत्वा शून्यः संमान्य च प्रियाम्
निद्राम् अभिलषामि स्म मातङ्गीसंगमाशया ॥
अर्धरात्रे तु सहसा प्रतिबुद्धा मुनेः सुता
प्रयुक्ते मयि ये दास्यौ ते पानीयम् अयाचत ॥
धौतप्रमृष्टवदना स्वादिताननभूषणा
उपवेश्य पुरो ऽक्लेशैर् अपृच्छद् बन्धकीद्वयम् ॥
अर्यपुत्रेण मातङ्गी तया वा लोलनेत्रया
दृष्टो ऽयं तरलेनेति ततस् ताभ्यां निवेदितम् ॥
न तथा सार्यपुत्रेण प्रेक्षिता जीर्णकन्यका
नेत्राभ्याम् अनिमेषाभ्याम् अर्यपुत्रस् तया यथा ॥
ततः प्राक् प्रतिबुद्धं माम् अपृच्छत् सुप्रभासुता
जाग्रथ स्वपिथेत्य् उच्चैर् जाग्रमीति मयोदितम् ॥
तयोक्तम् अयम् आरम्भो युष्माकं दृश्यते यथा
तथा नलिनिकां नूनं कर्तुम् इच्छसि माम् इति ॥
क्वासौ नलिनिका का वा कस्य वेति मयोदिते
भरद्वाजसुताख्यातुम् उपाक्रामत वृत्तकम् ॥
अस्ति पश्चात् समुद्रान्ते स्वाचारधनवत्प्रजम्
नगरं काननद्वीपं महेन्द्रनगरोपमम् ॥
अमहेन्द्रगुणस् तत्र मनुजेन्द्रः प्रजाप्रियः
पुत्रो मनोहरस् तस्य संज्ञायापि मनोहरः ॥
विदिताशेषवेद्यो ऽपि गन्धशास्त्रप्रियो ऽधिकम्
नानारुचिषु सत्त्वेषु कस्यचित् किंचिद् ईप्सितम् ॥
सुहृदौ बकुलाशोकौ वसन्तस्येव तस्य यौ
वसन्तम् इव तं प्रेम्णा न कदाचिद् अमुञ्चताम् ॥
कदाचिद् द्वारपालेन वन्दित्वा राजसूनवे
कुमारावसथस्थाय समित्राय निवेदितम् ॥
युष्मान् सुमङ्गलो नाम बुद्धगन्धानुशासनः
अग्राम्यो धीरवचनः कस्माद् अपि दिदृक्षते ॥
गच्छ प्रवेशयेत्य् उक्त्वा द्वारपालं मनोहरः
विलेपनम् उपादत्त धूपं च त्वरितो ऽदहत् ॥
सुमङ्गलो ऽप्य् अनुज्ञातः प्रविश्य द्वारदेशतः
शिरो निपीड्य पाणिभ्यां संकोच्याङ्गम् अपासरत् ॥
अनेन मम धूपेन गन्धमाल्यविवादिना
आघ्रातेन शिरःशूलम् उत्पन्नम् इति चावदत् ॥
आकृष्टे स्थगिकायाश् च स्वस्याः फलकसंपुटे
मनोहरं मुहुः पश्यन् स्वयं धूपम् अयोजयत् ॥
ततः कृतनमस्कारः स मनोहरम् अब्रवीत्
सुमनोगन्धसंवादी धूपो ऽयं दाह्यताम् इति ॥
ततः सबकुलाशोकस् तस्मिन् गन्धे मनोहरः
प्रतीतो गन्धशास्त्रज्ञं सुमङ्गलम् अपूजयत् ॥
एवं च कृतसत्कारो राजपुत्रं सुमङ्गलः
दिनैस् त्रिचतुरैर् एव चतुरः पर्यतोषयत् ॥
एकदा बकुलाशोक सुमङ्गलपुरःसरः
मनोहराम् अगाद् द्रष्टुं यक्षसत्त्रां मनोहरः ॥
तत्र तत्र ततस् तेन पश्यता तत् तद् अद्भुतम्
यक्षीप्रतिकृतिर् दृष्टा विन्यस्ता चित्रकर्मणि ॥
निर्जीवापि स्फुरन्तीव मूकापि मृदुवाग् इव
चित्रे न्यस्तापि सा तेन चित्ते न्यस्तातिरागिणा ॥
द्रष्टव्यं चान्यद् उज्झित्वा रमणं चित्तचक्षुषाम्
सुमनोगन्धधूपाद्यैस् ताम् एवैकाम् असेवत ॥
बलवन्मन्मथापास्त भोग्याभोग्यविचारणः
नितम्बाद् अम्बरं तस्याः स किलाक्रष्टुम् ऐहत ॥
चित्रभित्तिम् अथ त्यक्त्वा सापि पद्मेव पद्मिनीम्
विष्णोर् वक्ष इव श्यामम् असेवत नभस्तलम् ॥
उवाच राजपुत्रं च नाम्नाहं सुकुमारिका
यक्षी यक्षपतेः शापात् प्राप्तालेख्यशरीरताम् ॥
तेन क्षणिकरोषेण नारीषु च दयालुना
शापान्तम् अर्थितेनाहम् इति निध्याय धीरिता ॥
चित्रन्यस्ततनुं यस् त्वां मनुष्यो ऽभिभविष्यति
स एव कृतशापान्तस् तव भर्ता भविष्यति ॥
इति त्वं राजराजेन भर्ता मे प्रतिपादितः
सदृशो वरदानेन शापो ऽपि हि महात्मनाम् ॥
यदि ते ऽस्ति मयि प्रीतिस् ततः क्रीडत्सुरासुरम्
शैलं श्रीकुञ्जनामानं यक्षावासं व्रजेर् इति ॥
अथान्तर्धिं गता यक्षी महामोहं मनोहरः
तं चालोक्य तथावस्थं विषादं बकुलादयः ॥
लब्धसंज्ञश् च तैर् उक्तः श्रुत्वा यक्षीकथाम् असौ
अलम् आकुलतां गत्वा सुलभा सुकुमारिका ॥
यद्य् असौ दुर्गमः शैलस् ततस् तं सुकुमारिका
युष्मत्संभोगम् इच्छन्ती न तथा कथयेद् इति ॥
एकदा पितरं द्रष्टुं स गतः ससुहृद्गणः
सिद्धयात्रं परावृत्तम् अपश्यत् पोतवाणिजम् ॥
राज्ञो दत्तमहारत्नः स राज्ञा कृतसत्क्रियः
पृष्टस् तेन भवान् किं किम् आश्चर्यं दृष्टवान् इति ॥
तेनोक्तम् अम्बुधेस् तीरे देवेन वसता सता
दृष्टं किं नाम नाश्चर्यम् आश्चर्यनिधिर् अम्बुधिः ॥
किं त्व् एकदाहम् अद्राक्षं हृतपोतो नभस्वता
सान्द्रहेमप्रभापिङ्गं तुङ्गशृङ्गस्रजं नगम् ॥
किम् एतद् इति पृष्टश् च मया निर्यामको ऽवदत्
वृद्धैर् एष समाख्यातः श्रीकुञ्जः शृङ्गवान् इति ॥
एवमादि निवेद्यासौ वाणिजः स्वगृहान् अगात्
राजपुत्रो ऽपि राजानं नत्वा वाणिजम् अन्वगात् ॥
प्रददाव् अथ सर्वस्वं तस्मै त्रासेन वाणिजः
राजपुत्राद् गृहप्राप्ताद् आढ्यः को नाम न त्रसेत् ॥
तेनापि सुमनोमाला मात्रम् आलभ्य भाषितम्
न सत्कारखलीकारम् अर्हन्ति शिशवो गुरोः ॥
किं तु यस् तातपादेभ्यः श्रीकुञ्जः कथितस् त्वया
स कुतूहलिने मह्यं स्पष्टम् आख्यायताम् इति ॥
प्रत्याश्वस्तस् ततस् तस्य वचोभिर् मधुरैर् असौ
श्रीकुञ्जं सहितं चिह्नैर् इत्य् आख्यातुं प्रचक्रमे ॥
अथैकदा मदेनेव महाव्यालो मतङ्गजः
मरुता त्याजितस्थैर्यो यातः पोतः स्वतन्त्रताम् ॥
प्रशान्तोत्पातवातत्वात् सागरे चाम्बरस्थिरे
चित्राकारान् अपश्याम प्राणिनो जलचारिणः ॥
क्वचित् केसरिशार्दूल द्वीपिखड्गर्क्षशम्बरान्
यूथशः प्रस्तुतक्रीडान् उन्मज्जननिमज्जनैः ॥
अन्यत्राविद्धकर्णानां स्त्रीपुंसानाम् अवाससाम्
ध्वनिमात्रकभाषाणां द्वंद्वानि पशुधर्मणाम् ॥
क्वचिद् उत्पततस् तुङ्गान् नागान् आयतपक्षतीन्
पक्षच्छेदभयालीनान् नगान् इव महार्णवात् ॥
अवाच् च सहसा मोदः कौवेर्याः पवनाहृतः
यस्याघ्राणाय संपन्नं मन्ये घ्राणम् अयं जगत् ॥
द्रक्ष्यन्तः संभवं तस्य सकुतूहलदृष्टयः
दूराद् गिरिम् अपश्याम रत्नकूटस्थकिंनरम् ॥
किम् एतद् इति प्र्ष्टश् च मया निर्यामको ऽब्रवीत्
वृद्धैर् एष समाख्यातः श्रीकुञ्जः शृङ्गवान् इति ॥
इत्यादि कथितं तेन यद् यत् तत् तन् मनोहरः
सहसागरदिग्देशं स्पष्टं संपुटके ऽलिखत् ॥
आगमय्य ततः पोतम् आप्तनिर्यामकास्थितम्
बकुलादिसहायो ऽसाव् अगाहत महार्णवम् ॥
अनुकूलमहावेग समीरप्रेरितेन सः
आसीदद् अचिरेणैव पोतेन दिशम् ईप्सिताम् ॥
सदृशैः स्फलकस्थानां चिह्नैर् जनितनिश्चयः
मनश्चक्षुःशरीरैः सः श्रीकुञ्जं युगपद् गतः ॥
अम्भोधिजलकल्लोल धौतनीलोपलं ततः
आकाशाशविशालोच्चं पोतः सोपानम् आसदत् ॥
तत्रैव सुहृदस् त्यक्त्वा यद् उत्कण्ठो मनोहरः
तेन शैलाग्रम् आरोहद् धर्मेनेव त्रिपिष्टपम् ॥
यक्षस्त्रीपुंसवृन्दैश् च प्रेक्ष्यमाणः ससंमदैः
संकल्पचक्षुषा पश्यन्न् अगच्छत् सुकुमारिकाम् ॥
तत्र काश्चिद् अभाषन्त कृतार्था सुकुमारिका
ययास्मिन्न् आहितं प्रेम नरामरकुमारके ॥
सुरासुरनराणां हि कस्यायं न मनोहरः
यो वृतः सहजाहार्यैः शरीरादिगुणैर् इति ॥
प्रक्रीडन्तीम् अथापश्यद् विशाले मन्दिराजिरे
स्वे संकल्पमये यक्षीं वक्षसीव मनोहरः ॥
प्रत्युद्गम्य तया चासौ रूपाजीवाप्रगल्भया
स्विन्नकण्टकिते पाणौ गृहीत्वान्तः प्रवेशितः ॥
तस्याः पितरम् अद्राक्षीत् तत्रारब्धदुरोदरम्
रक्ताक्षं शातकौम्भाभं समदं मेदुरोदरम् ॥
उपवेश्य च तेनाङ्के घ्रात्वा मूर्ध्नि महोहरः
श्वश्रूः पश्येत्य् अनुज्ञातः प्रविवेशावरोधनम् ॥
यत्र संपूर्णतारुण्याः कर्णिकारस्रगुज्ज्वलाः
श्वश्रूश्वशुरयोस् तस्य पितामह्यो ऽपि योषितः ॥
अभिवाद्य च तास् तत्र स ताभिर् अभिनन्दितः
अनुज्ञातश् च सस्नेहं प्राविशत् कन्यकागृहम् ॥
दिव्यस्य मधुनः पानं दिव्यतन्त्रीरुतिश्रुतिः
दिव्यस्त्रीसंप्रयोगाश् च मनोहरमनो ऽहरन् ॥
इत्य् असौ क्षणम् आसीनः सुकुमारिकयोदितः
अतीता दिवसाः पञ्च कुमार प्रतिगम्यताम् ॥
देवलोकैकदेशो ऽयं यत् ततो ऽस्मिन् न लभ्यते
स्थातुं मानुषमात्रेण पञ्चमाद् दिवसात् परम् ॥
भवन्तं च परित्यज्य गच्छेयुः पोतवाहकाः
वहनस्वामिनं पञ्च प्रतीक्षन्ते दिनानि ते ॥
श्रुत्वेदं राजपुत्रस्य देवपुत्रस्य यादृशी
स्वर्गतश् च्यवमानस्य ध्यामध्यामाभवत् प्रभा ॥
तं दृष्ट्वा तादृशाकारम् अवोचत् सुकुमारिका
अद्यारभ्य गमिष्यामि तवैवाहं गृहान् इति ॥
स तया धीरितो गत्वा पोतम् उद्विग्नवाहकम्
तत्रैव सुहृदो ऽपश्यद् दिव्यरत्नाम्बरस्रजः ॥
स्थिताः स्थ दिवसान् एतान् क्व कथं वेति चोदिताः
तेन ते कथयन्ति स्म यथा यूयं तथा वयं ॥
सुकुमारिकयादिष्टाः प्रहृष्टा गुह्यकाङ्गनाः
अस्मान् उपचरन्ति स्म सुरान् इव सुराङ्गनाः ॥
महादेवम् उपासीना मृता गच्छन्ति मानुषाः
सेवमाना वयं देवं देवताम् अमृता गताः ॥
इति यक्षीकथारक्ता महाध्वानं महाभयम्
तासाम् एवानुभावेन संतेरुस् ते महोदधिम् ॥
व्यापारैर् उज्झितं सर्वैस् त्रिवर्गप्राप्तिहेतुभिः
प्राविशंस् तद्वियोगार्तं शून्यराजपथं पुरम् ॥
अथैका ब्राह्मणी वृद्धा किम् अर्थम् अपि निर्गता
अवगुष्ठितमूर्धानं पश्यति स्म मनोहरम् ॥
तम् असौ प्रत्यभिज्ञाय परितोषस्खलद्गतिः
गत्वा ध्यानपरास्थानं महीपालम् अतोषयत् ॥
मन्त्रिप्रभृतयस् तेन वारिताः पुरवासिनः
मा वोचद् दारकं कश्चित् क्व गतो ऽभूद् भवान् इति ॥
राजपुत्रो ऽपि राजानम् अवन्दत विलक्षकः
सो ऽपि तस्याङ्कम् आरोप्य हरति स्म विलक्षताम् ॥
स्वं च मन्दिरम् आगत्य स सुमङ्गलम् उक्तवान्
गन्धशास्त्रफलं सारं धूपम् आयोज्यताम् इति ॥
अद्यागच्छति युष्माकं सखीभिः सहिता सखी
सुगन्धिताप्रधानं च रतम् आहुर् अनिन्दितम् ॥
गन्धराजश् च यो ऽस्माकं घुष्यते यक्षकर्दमः
स कर्दमसमस् तासाम् अतो ऽसौ यक्षकर्दमः ॥
तस्माद् आदरम् आस्थाय शास्त्रम् अद्य प्रकाश्यताम्
धनुर्वेदस्य कृत्स्नस्य विद्धसारं हि सौष्ठवम् ॥
इति प्रोत्साहितस् तेन स्वार्थेन च सुमङ्गलः
धूपस्नानीयगन्धादि यथादेशम् अयोजयत् ॥
मनोहरस् तु ससुहृत् कृतकामुकडम्बरः
आसन्नदयिताशून्यां दुःखशय्याम् असेवत ॥
ततः स तादृशो गन्धस् तथायत्नेन साधितः
प्रेरितः पटुनान्येन समीरेणेव तोयदः ॥
भासा विच्छाययन्तीव चन्द्रकान्तादिचन्द्रिकाम्
प्रविश्य सहसाछ्यास्त पर्यङ्कं सुकुमारिका ॥
ततः सस्मितम् आलोक्य बकुलादीन् उवाच सा
ससहायाहम् आयाता यात विश्रम्यताम् इति ॥
प्रणम्य तेषु यातेषु कुमारसुकुमारिके
यथा तथाविधोत्कण्ठे तथागमयतां निशाम् ॥
संभोगरमणीयैश् च शरीरैर् बकुलादयः
प्रभाते राजपुत्राय रात्रिवृत्तं न्यवेदयन् ॥
रात्रौ रात्रौ समेतानां वियुक्तानां दिवा दिवा
इति संवत्सरो यातस् ताभिस् तेषाम् अचेतितत्ः ॥
एकदा स्यन्दमानाश्रुः साक्रन्दा सा तम् अब्रवीत्
स्वाधीनानां पराधीनैः सह संगतिर् ईदृशी ॥
अद्यारभ्य मया देवः सेवितव्यो धनेश्वरः
सखीसहितया वर्षं गृहीतब्रह्मचर्यया ॥
पितरौ वन्दितुं चाहम् अष्टम्यादिषु पर्वसु
स्वगृहाय गमिष्यामि तत्र गच्छेद् भवान् इति ॥
त्वत्सङ्गसुभगा या दिक् ताम् अपि प्रेक्ष्य जीव्यते
निन्दितामृतपानेन किं पुनर् दर्शनेन ते ॥
तस्याम् उक्त्वेति यातायाम् आयाता बकुलादयः
खं पश्यन्तम् अपश्यंस् तम् इयं यातीति वादिनम् ॥
ततः सबकुलाशोके सशोके पार्थिवात्मजे
तोषगद्गदवाग् उच्चैर् अभाषत सुमङ्गलः ॥
किम् अस्ताने विषादेन पोतम् आरुह्य मामकम्
दृष्टमार्गा मुहूर्तेन यामस् तं गुह्यकाचलम् ॥
ध्यायन्तस् तत्र ताः कान्ताः पश्यन्तश् चान्तरान्तरा
संगमाशाधनप्राणा यापयाम समाम् इति ॥
ततः स तेन पोतेन प्रस्थितश् च महार्णवम्
स च पोतः समीरेण दूरं हृत्वा विपादितः ॥
राजपुत्रस् तु दयितां सिद्धां विद्याम् इव स्मरन्
तां न चेतितवान् एव विपत्तिं मारदारुणाम् ॥
उत्तीर्णस्यैव जलधेर् वेलारोधासि सर्पतः
चौरसैन्येन संयम्य तस्यालंकरणं हृतम् ॥
ततस् तस्करसैन्यं तद् वाजिसैन्येन सर्वतः
वेष्टितं कुट्टितं बद्धम् उद्बद्धं पादपेषु च ॥
एकश् चारुतराकारः पुरुषः प्रणिपत्य तम्
करिणीपृष्ठम् आरोप्य ससैन्यः प्रस्थितः पुरः ॥
अदूरं चान्तरं गत्वा बन्दिस्तुतिगुणान्वयः
मनोहरः पुरं प्रापत् कुङ्कुमालिप्तचत्वरम् ॥
रत्नवन्दनमालानां स शृण्वन् पटुशिञ्जितम्
आगच्छत् कलरासानां नानापत्त्रिस्रजाम् इव ॥
पुरानुरूपशोभं च प्राविशत् स नृपालयम्
विशालमण्डपासीनं शक्राकारं नराधिपम् ॥
अवतीर्य च हस्तिन्याः स राजानम् अवन्दत
गाढम् आलिङ्ग्य तेनापि चिरं प्रीत्या निरूपितः ॥
शरीरावयवान् दृष्ट्वा मुहुस् तस्यावदत् ततः
कुतः सुमङ्गलाद् अन्यश् चक्षुष्मान् इति भूपतिः ॥
आसीच् च राजपुत्रस्य स एवायं सुमङ्गलः
भवेद् अहम् इव भ्रष्टः पोतभङ्गभयाद् इति ॥
गच्छ विश्रम्य तातेति राज्ञोक्तः प्राविशत् पुरम्
अपश्यन् नतमूर्धानं स तम् एव सुमङ्गलम् ॥
पृच्छति स्म च तं भद्र मित्रे प्राणसमे तव
भुजौ मे बकुलाशोकौ कच्चित् कुशलिनाव् इति ॥
तेनोक्तं बकुलाशोकौ गृहान् कुशलिनौ गतौ
यथा चाहम् इहायातस् तथाश्रोतुं प्रसीदत ॥
पुनरुक्तगुणाख्यानम् एतत् नागपुरं पुरम्
दृष्टम् एव हि युष्माभिर् नृपश् चैष पुरंदरः ॥
जयन्त इति पुत्रो ऽस्य शूरः चारुः कविः पटुः
स येन यूयम् आनीताः सागरोपान्तकाननात् ॥
सुता नलिनिका नाम नृपतेस् तस्य तादृशी
यस्या न प्रमदालोके न चास्ति सदृशो वरः ॥
वरं वरयता तस्याः पित्रा द्वीपान्तराण्य् अपि
गुणरूपान्तरज्ञान शालिनः प्रहिता हताः ॥
अनेन च प्रपञ्चेन यदा कालो बहुर्गतः
तदा माम् अयम् आहूय सदैन्यस्मितम् उक्तवान् ॥
त्वं न केवलम् अस्माकं सर्वाध्यक्षगणाग्रणीः
नाथो ऽपि भव नस् तात संकटाद् उद्धरन्न् इतः ॥
कुलशीलवयोरूपैर् यः स्याद् अस्याः समो वरः
आदरेण तम् अन्विष्येस् त्यज श्रीमदिरारुजम् ॥
भूरिसारधनाढ्यो ऽपि गुणद्रविणदुर्गतः
दुर्गतेभ्यः सुदूरेण शोचनीयः सताम् इति ॥
ततो नलिनिकारूपम् आलिख्य फलके मया
मही साष्टादशद्वीपा परिक्रान्ता वरार्थिना ॥
यदा तु पटुयत्नो ऽपि नालभे वरम् ईप्सितम्
तदा त्यक्तुमनः प्राणान् प्राविविक्षं महोदधिम् ॥
गतश् च काननद्वीपं दृष्टवान् अस्मि संचरन्
युष्मद्गुणकथासक्ताः संतताः साधुसंपदः ॥
ततः स मे स्थिराधैर्यस् तादृङ्मरणनिश्चयः
ज्योत्स्नयेव तमोराशिर् युष्मत्कीर्त्या निराकृतः ॥
गन्धशास्त्रव्यसनिनो युष्मान् बुद्ध्वा च लोकतः
आत्मापि गन्धशास्त्रज्ञस् तदा वः श्रावितो मया ॥
तुल्यज्ञानस्वभावा हि भर्तॄणाम् अनुजीविनः
रञ्जयन्ति मनः क्षिप्रं गुणैर् अपि निराकृताः ॥
गन्धमाल्यविसंवादी धूपो यच् चापि दाहितः
सुहृद्भिः सह युष्माभिर् अहं जिज्ञासितस् तदा ॥
यच् च योजितवान् अस्मि गन्धमाल्यानुवादिनम्
धूपं तत् फलके न्यस्ताम् अपश्यं भर्तृदारिकाम् ॥
ताम् आलोक्य ततो युष्मान् मन्ये ऽहं धन्यजन्मनाम्
आत्मनो राजपुत्र्याश् च विधातुश् च कृतार्थताम् ॥
सो ऽहं स्वार्थपरो युष्मान् अपहर्तुम् इतो गतः
यावद् युष्मद्गुणैर् एव हृतः साधुमनोहरैः ॥
तथापि सत्कृतो युष्मान् हर्तुम् एवाहम् उद्यतः
पापम् अध्याचरन्त्य् एव भृत्या भर्तृप्रियेप्सवः ॥
पुण्यैर् नलिनिकायाश् च युष्मत्संगमहेतुभिः
सेवाचारापदेशेन गतैव सुकुमारिका ॥
इदं चान्तरम् आसाद्य मया यूयं त्वरावता
संनिधापितपोतेन समुद्रम् अवतारिताः ॥
प्रदेशे यत्र चाम्भोधिर् विपन्नं वहनं वहेत्
विपन्नवहनस् तत्र न च कश्चन विद्यते ॥
तेन तौ बकुलाशोकाव् अविपन्नौ गृहान् गतौ
इदं च पुरम् आयाता यथा यूयं तथा वयम् ॥
तस्मान् नलिनिकाद्यैव युष्माभिर् अनुगम्यताम्
न हि श्रीः स्वयम् आयान्ती कालातिक्रमम् अर्हति ॥
मनोहरस् तु तां प्राप्य सर्वाकारमनोहराम्
यथाकामम् उपाभुङ्क्त करी कमालिनीम् इव ॥
सुमङ्गलेन सा चोक्ता मा स्म शेथाः पृथङ्निशि
पत्युस् ते दयिता यक्षी मैवं नैषीद् असाव् इति ॥
कुपिता राजपुत्राय राजपुत्री कदाचन
उन्निद्रैव सनिद्रेव सुप्ता किल पृथक् क्षणम् ॥
अथ सेवावधौ पूर्णे वर्षान्ते सुकुमारिका
शयितं पृथग् आसाद्य मनोहरम् अपाहरत् ॥
यथा नलिनिकाभर्ता सुकुमारिकया हृतः
युष्मान् अपि हरेद् एषा तथा मातङ्गकन्यका ॥
मन्यध्वे यादृशीम् एनां कन्यका नेयम् ईदृशी
न हि चण्डालकन्यासु रज्यन्ते देवसूनवः ॥
इदं नलिनिकावृत्तं स्मृत्वा यूयं मयोदिताः
न मे नलिनिकावार्त्ता विरसान्ता भवेद् इति ॥
अनन्यगतसंकल्पम् एवं मां मा स्म कल्पयः
इति जिह्मं पुरस् तस्याः कामुकाचारम् आचरम् ॥
गन्धर्वदत्तावचनात् प्रियत्वं मातङ्गकन्या सुतराम् अगान् मे
मदं विधत्ते मदिरा प्रकृत्या किम् अङ्ग कान्ताननसङ्गरम्या ॥
मूल पाठ: Bṛhatkathāślokasaṃgraha · Edition: the text edited by Felix Lacote (Paris, 1908). It was · Data entry Andreas Bigger · GRETIL (Göttingen) · CC BY-NC-SA 4.0