भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्कथाश्लोकसंग्रह · अध्याय 1

1.1

महाखाता महाशाला पुर्य् अस्त्य् उज्जयिनीति या
महाम्भोधिमहाशैल मेखलैव महामही ॥

1.2

प्रासादान् यत्र पश्यन्तः संततान् हैमराजतान्
मेरुकैलासकूटेभ्यः स्पृहयन्ति न नागराः ॥

1.3

वेदमौर्वीविपञ्चीनां ध्वनयः प्रतिमन्दिरम्
यत्र संनिपतन्तो ऽपि न बाधन्ते परस्परम् ॥

1.4

कृतं वर्णनया तस्या यस्यां सततम् आसते
महाकालप्रभृतयस् त्यक्त्वा शिवपुरं गणाः ॥

1.5

तस्याम् आसीन् महासेनो महासेनः क्षितीश्वरः
यस्य देवीसहस्राणि षोडश श्रीपतेर् इव ॥

1.6

चिरं पालयतस् तस्य प्रजाः शास्तोक्तकारिणः
गोपालः पालकश् चेति सुतौ जातौ गुणाम्बुधी ॥

1.7

बृहस्पतिसमश् चास्य मन्त्री भरतरोहकः
रोहन्तकः सुरोहश् च तस्यास्तां तत्समौ सुतौ ॥

1.8

नरेन्द्रमन्त्रिपुत्राणां चतुर्विद्यार्थवेदिनाम्
प्रयोगेषु च दषाणां यान्ति स्म दिवसाः सुखम् ॥

1.9

अथ गां पालयाम् आस गोपालः पितृपालिताम्
पालको ऽपि यवीयस्त्वाद् यौवराज्यम् अपालयत् ॥

1.10

मन्त्रिपुत्रौ तु मन्त्रित्वम् अथ भूमिर् नवेश्वरा
नवमन्त्रिकृतारक्षा जायते स्म पुनर् वा ॥

1.11

गजराजम् अथो राजा दानराजिविराजितम्
अधिष्ठाय जगत्सारं निर्जगाम बहिः पुरः ॥

1.12

तद्दर्शनाशयायातम् अनेकं नृकदम्बकम्
बिभ्यद् व्याडाद् गजात् तस्माद् इतश् चेतश् च विद्रुतम् ॥

1.13

कन्यकान्यतमा तत्र गृह्यमाणाथ हस्तिना
प्रांशुप्राकारतः प्रांशोर् अगम्यां परिखाम् अगात् ॥

1.14

खातपातव्यथाजात संज्ञानाशात् क्षणं ततः
तटस्था हस्तिपृष्ठस्थं साभाषत रुषा नृपम् ॥

1.15

अवध्यम् अवधीर् यस् त्वं पितरं तस्य किं मया
अधीतवेदं यो हन्ति ब्राह्मणं तस्य के मृगाः ॥

1.16

इति कन्यावचः श्रुत्वा दुःश्रवं श्वपचैर् अपि
चिन्तेषु भिन्नहृदयः प्रविवेश निवेशनम् ॥

1.17

अतिवाह्य च दुःखेन दिनशेषं समासमम्
जनवादोपलम्भाय प्रदोषे निर्ययौ गृहात् ॥

1.18

कालकम्बलसंवीतः सासिचर्मासिपुत्रिकः
समन्त्रागदसंनाहः संचचार शनैः शनैः ॥

1.19

अथ शुश्राव कस्मिंश्चित् देवतायतने ध्वनिम्
अभिसारिकया सार्धं भाषमाणस्य कामिनः ॥

1.20

हतं मुष्टिभिर् आकाशं तुषाणां कण्डनं कृतम्
मया येन त्वया सार्धं बद्धा प्रीतिर् अबुद्धिना ॥

1.21

इयम् एतावती वेला खिद्यमानेन यापिता
मया त्वं तु गृहाद् एव न निर्यासि पतिव्रता ॥

1.22

कौमारः सुभागो भर्ता यदि नाम प्रियस् तव
खलीकृतैः किम् अस्माभिर् वृथेव कुलपुत्रकैः ॥

1.23

एवमादि ततः श्रुत्वा सा प्रगल्भाभिसारिका
विहस्य विटम् आह स्म त्वादृशा हि हतत्रपाः ॥

1.24

ननु चित्तं मयाराध्यं तस्यापि भवतः कृते
न हि भर्तॄन् अविश्वास्य रमन्ते कुलटा विटैः ॥

1.25

अथ निर्मक्षिकं भद्र मधु पातुं मनोरथः
जहि घातय बालं मे पतिं नित्यप्रमादिनम् ॥

1.26

अथ पापाद् असि त्रस्तः स्फुटं नाहं तव प्रिया
ननु दुर्वाररागान्धः सुतां याति प्रजापतिः ॥

1.27

अथवालं विवादेन वैधर्म्यं किं न पश्यसि
येन राज्यसुखान्धेन प्रजापालः पिता हतः ॥

1.28

सुदुःश्रवम् इदं श्रुत्वा गोपालो दुर्वचं वचः
गच्छन्न् अन्यत्र शुश्राव ध्वनिं विप्रस्य जल्पतः ॥

1.29

अयि ब्राह्मणि जागर्षि नन्दिनि क्रन्दते शिशुः
त्वरितं याजते देहि स्तन्यं कण्ठो ऽस्य मा शुषत् ॥

1.30

इति श्रुत्वा गिरं भर्तुर् विनिद्रा ब्राह्मणी सुतम्
पितृघातिन् म्रियस्वेति निर्दयं निरभर्त्सयत् ॥

1.31

आः पापे किम् असंभद्धं पितृघातिन्न् इति त्वया
बालो ऽयम् उक्तेत्य् एनं ब्राह्मणः कुपितो ऽब्रवीत् ॥

1.32

किम् आर्यपुत्र पुत्रेण यदा राज्ञा पिता हतः
श्रुतिस्मृतिविद् इत्य् एतद् उवाच ब्राह्मणी पतिम् ॥

1.33

श्रुत्वैवमादि कौलीनं प्रविश्यान्तःपुरं नृपः
अनयत् क्षणदाशेषम् असंमीलितलोचनः ॥

1.34

अथ गाढान्धकारायां वेलायां मंत्रिणौ रहः
अपृच्छत् को ऽयम् अस्मासु प्रवादः कथ्यताम् इति ॥

1.35

ततस् ताव् ऊचतुस् त्रस्तौ सत्रासं नृपचोदितौ
कौलीनहेतुश्रुतये चित्तं देवावधीयताम् ॥

1.36

सुगृहीताभिधानस्य प्रद्योतस्य पितुस् तव
आसन्न् अव्यभिचारीण्य् अरिष्टान्य् अष्टौ मुमूर्षतः ॥

1.37

उद्धार्ये धवले केशे प्रमादात् कृष्णए उद्धृते
उद्धर्तारं महीपालः कर्तयाम् आस नापितम् ॥

1.38

भुञ्जानेन च पाषाणे दशनाग्रेण खण्डिते
कुलक्रमागतो वृद्धः सूपकारः प्रमापितः ॥

1.39

प्रकृतेर् विपरीतत्वं जानन्न् अप्य् एवमादिभिः
प्रभो विधेर् विधेयत्वाद् ब्राह्मणान् अप्य् अबाधत ॥

1.40

भर्तुर् ईदृशि वृत्तान्ते मन्त्री तस्यावयोः पिता
अदृष्टभर्तृव्यसनः पूर्वम् एवागमद् दिवम् ॥

1.41

श्रुतमन्त्रिविनाशस् तु स राजा राजयक्ष्मणा
गुरुशोकसहायेन सहसैवाभ्यभूयत ॥

1.42

ततस् ताते दिवं याते यातुकामे च भूपतौ
प्रजासु च विरक्तासु जातौ स्वः किंक्रियाकुलौ ॥

1.43

प्राप्तकालम् इदं श्रेय इति बुद्ध्वा प्रसारितम्
कौलीनम् इदम् आवाभ्यां सपर्यन्तेष्व् अवन्तिषु ॥

1.44

क्रोधबाधितबोधत्वाद् बाधमानं निजाः प्रजाः
बन्धयाम् आस राजानं राजपुत्रः प्रियप्रजः ॥

1.45

शृङ्खलातन्त्रचरणः स्वतन्त्राद् भ्रंशितः पदात्
सुखस्य महतो दध्यौ स राजेन्द्रो गजेन्द्रवत् ॥

1.46

चिन्तामुषितनिद्रत्वाद् आहारविरहेण च
स क्षपाः क्षपयन् क्षीणः संवत्सरशतायताः ॥

1.47

पुत्रेणैवम् अवस्थो ऽपि प्रजाप्रियचिकीर्षुणा
न मुक्त एव मुक्तश् च यावत् प्राणैः प्रियैर् इति ॥

1.48

निदानम् इदम् एतस्य कौलीनस्य विगर्हितम्
इतरद् वाधुना देवः प्रभुर् इत्य् अथ भूपतिः ॥

1.49

अधोमुखः क्षणं स्थित्वा तलाहतमहीतलः
दृष्ट्वा च सास्रम् आकाशम् अनाथ इदम् अब्रवीत् ॥

1.50

तुल्यौ शुक्रबृहस्पत्योर् युवां मुक्त्वा सुहृत्तमौ
अनपायम् उपायं कः प्रयुञ्जीतैतम् ईदृशम् ॥

1.51

किं तु सत्त्ववताम् एष शङ्काशून्यधियां क्रमः
दृष्टादृष्टभयग्रस्त चेतसां न तु मादृशाम् ॥

1.52

तस्मत् पालयतं भद्रौ पालकं पालकं बुवः
इदं त्व् अलीककौलीनम् अशक्तो ऽहम् उपेक्षितुम् ॥

1.53

तस्यैवं भाषमाणस्य व्रीडाधोमुखमन्त्रिणः
कूजन् प्रकाशयाम् आस क्षीणां ताम्रशिखः क्षपाम् ॥

1.54

अथ शुश्रुविरे वाचः सूतमागधबन्दिनाम्
यशोधवलितानन्त दिगन्तोद्बुध्यताम् इति ॥

1.55

दीनदीनं तद् आकर्ण्य कर्णदारणम् अप्रियम्
पिधाय पार्थिवः कर्णाव् उत्तमाङ्गम् अकम्पयत् ॥

1.56

स चावोचत् प्रतीहारी निवार्यन्ताम् अमी मम
क्षते क्षारावदेकेन किं फलं भवताम् इति ॥

1.57

आसीच् चास्याथ वा धिङ् माम् एवम् आत्मापवादिनम्
ननु प्रशस्यम् आत्मानं नाहम् अर्हामि निन्दितुम् ॥

1.58

निर्यन्त्रणविहारेण चिरजीविनि राजनि
राजपुत्रेण लडितः केनान्येन यथा मया ॥

1.59

समुच्छिन्नदुरुच्छेद बाह्याभ्यन्तरवैरिणा
वर्णाश्रमाः स्वधर्मेभ्यः किं वा विचलिता मया ॥

1.60

अवन्तिवर्धनसमो निजाहार्यगुणाकरः
पुत्रः पुन्नरकात् त्राता कस्यान्यस्य यथा मम ॥

1.61

अथवास्ताम् इदं सर्वम् एकेनैवास्मि वर्धितः
नरवाहनदेवेन जामात्रा चक्रवर्तिना ॥

1.62

एक एव तु मे नासीद् गुणः सो ऽप्य् अयम् आगतः
प्रसादान् मन्त्रिवृषयोर् यत् तपोवनसेवनम् ॥

1.63

इति निष्कम्पसंकल्पश् चोदयाम् आस मन्त्रिणौ
ससिंहासनम् आस्थानं मण्डपे दीयताम् इति ॥

1.64

तयोस् तु गतयोः केशान् वापयित्वा सवल्कलः
कमण्डलुसनाथश् च भूपालो निर्ययौ गृहात् ॥

1.65

विषादविप्लुताक्षेण वक्षोनिक्षिप्तपाणिना
दृश्यमानो ऽवरोधेन विवेशास्थानमण्डपम् ॥

1.66

त्रासम्लानकपोलेन दृष्टः पृथुलचक्षुषा
पालकेनाब्रवीत् तं च स्थित एव स्थितं स्थितम् ॥

1.67

प्रसादात् तात तातस्य वत्सराजस्य च त्वया
बुद्धेः स्वस्याश् च शुद्धायाः किं नाम न परीक्षितम् ॥

1.68

अतो ऽनुशासितारं त्वाम् अनुशासति बालिशाः
येन लोके तए उच्यन्ते वियाताः पितृशिक्षकाः ॥

1.69

एतावत् तु मया वाच्यं पित्र्यं सिंहासनं त्वया
वर्णाश्रमपरित्रार्थम् इदम् अध्यास्यताम् इति ॥

1.70

तच् चावश्यम् अनुष्ठेयम् अस्माकीनं वचस् त्वया
मादृशां हि न वाक्यानि विमृशन्ति भवादृशाः ॥

1.71

इतीदं पालकः श्रुत्वा स्थित्वा चाधोमुखः क्षणम्
उत्तरं चिन्तयाम् आस नासाग्राहितलोचनः ॥

1.72

कृतकृत्रिमरोषस् तु राजा पालकम् अब्रवीत्
भोः सिंहासनम् आरोह किं तवोत्तरचिन्तया ॥

1.73

किं चोत्तरशतेनापि त्वयाहं सोपपत्तिना
वेगः प्रावृषि शोणस्य चरणेनेव दुर्धरः ॥

1.74

इति द्विजातयः श्रुत्वा पुरोहितपुरःसराः
विषादगद्गदगिरः प्रमृज्याश्रु बभाषिरे ॥

1.75

पालकस् ते नियोज्यत्वाद् आज्ञां मा स्म विचारयत्
त्वन्नियोगान् नियोक्तारः कस्माद् वयम् उदास्महे ॥

1.76

ध्रियमाणे प्रजापाले ज्येष्ठे भ्रातरि पालकः
मृगेन्द्रासनम् आरोहन् खट्वारूढो भवेन् ननु ॥

1.77

राज्याग्निम् आदधद् वापि त्वयि वर्षशतायुषि
परिवेत्तारम् आत्मानम् अयं मन्येत निन्दितम् ॥

1.78

तस्माद् अस्मान् निवर्तस्व संकल्पद् अतिभीषणात्
शोकजान्य् अश्रुवारीणि भवन्त्व् आनन्दजानि नः ॥

1.79

बद्धाञ्जलिर् अथोवाच किंचिन् नमितकंधरः
अलं वः पीडयित्वा मां वचोभिर् इति पार्थिवः ॥

1.80

मयायम् अभ्यनुज्ञातो रक्षणे च क्षमः क्षितेः
खट्वारूढो न भविता निन्दितः शब्दवेदिभिः ॥

1.81

असमर्थे च राज्याग्नेः पालने पतिते मयि
परिवेत्तापि नैवायं भविष्यति नराधिपः ॥

1.82

यच् चापि पिहिताः कर्णा आकर्ण्य पतितध्वनिम्
प्रजाभिस् तच् च न मृषा मया हि निहतः पिता ॥

1.83

तद् इदं पातकं कृत्वा युष्मत्पीडाप्रशान्तये
प्रायश्चित्तं व्रजन् कर्तुं न निवार्यो ऽस्मि केनचित् ॥

1.84

मया चात्यक्तधर्मेण यत् प्रजानां कृते कृतम्
तस्य प्रत्युपकाराय पालकः पाल्यताम् अयम् ॥

1.85

इतीदं प्रकृतीर् उक्त्वा पालकं पुनर् अब्रवीत्
अवन्तिवर्धनं पुत्रं मत्प्रीत्या पालयेर् इति ॥

1.86

विलक्षहसितं कृत्वा गोपालं पालको ऽब्रवीत्
अवन्तिवर्धनो राजा राजन् कस्मान् न जायताम् ॥

1.87

सत्सु भार्तृषु भूपाल गुणवत्स्व् अपि भूभुजः
निक्षिप्तवन्तः श्रूयन्ते पुत्रेष्व् एव गुरुं धुरम् ॥

1.88

गोपालस् तम् अथोवाच भविष्यति युवा यदा
त्वं च वृद्धस् तदा युक्तं स्वयम् एव करिष्यसि ॥

1.89

एवं निरुत्तराः कृत्वा प्रकृतीस् ताः सपालकाः
सर्वतीर्थाम्बुकलशैर् अभ्यषिञ्चत् स पालकम् ॥

1.90

आरोप्य चैनं त्वरितं सिंहासनम् उदङ्मुखः
निर्जगाम पुरात् स्वस्माद् एकरात्रोषितो यथा ॥

1.91

अथ राजनि काननावृते पुरम् आस्पन्दितलोकलोचनाम् ।
निभृतश्वसितामयध्वनिं मृतकल्पां प्रविवेश पालकः ॥

मूल पाठ: Bṛhatkathāślokasaṃgraha · Edition: the text edited by Felix Lacote (Paris, 1908). It was · Data entry Andreas Bigger · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc