भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्कथाश्लोकसंग्रह · अध्याय 18

18.1

गन्धर्वदत्तया सार्धं दिवसान् दत्तकेन च
यथा रतिवसन्ताभ्यां स्मरः सुखम् अयापयम् ॥

18.2

अथ गन्धर्वदत्तायां गतायां वन्दितुं गुरून्
सानुदासो नमस्कृत्य वदति स्म कृतासनः ॥

18.3

युष्माकं हि सवर्णेयम् उत्कृष्ता वेति यन् मया
यूयं विज्ञापिताः पूर्वं तद् एतद् अवधीयताम् ॥

18.4

आसीद् इहैव चम्पायां मित्रवर्मेति वाणिजः
नामित्रो नापि मध्यस्थः साधोर् यस्याभवद् भुवि ॥

18.5

तस्य मित्रवती नाम नाम्ना सुसदृशी प्रिया
भार्या मैत्रीव साधोर् या शत्रोर् अपि हितैषिणी ॥

18.6

तयोर् गुणवतोः पुत्रं गुणवन्तम् अविन्दतोः
अपुत्रान् आत्मनः पौराः सपुत्रान् अपि मेनिरे ॥

18.7

एकदा पिण्डपाताय सानुर् नाम दिगम्बरः
त्रिरात्रक्षपणक्षमो वर्धमान इवागतः ॥

18.8

दंपतिभ्याम् असौ ताभ्यां क्रीताभ्यां प्रीणितस् तथा
अपृष्टो ऽपि यथाचष्ट धर्मान् ऋषभभाषितान् ॥

18.9

प्रश्नादिग्रन्थसारज्ञश् चित्तं बुद्ध्वा तयोर् असौ
आदिदेश स्फुटदेशो भाविनं गुणिनं सुतम् ॥

18.10

यश् च पुत्रस् तयोर् जातस् तस्य नामाकरोत् पिता
आदिष्टः सानुना यत् तत् सानुदासो भवत्व् इति ॥

18.11

एकपुत्रो ऽप्य् असौ पित्रा दुर्लभत्वाच् च वल्लभः
विद्याः शिक्षयता नीतो बाललीलानभिज्ञाताम् ॥

18.12

उपाध्यायै.श् च सोत्साहैर् विनीतः स तथा यथा
स्वदारान् एव सव्रीडः परदारान् अमन्यत ॥

18.13

तेनातिविनयेनास्य लोकबाह्येन पार्थिवः
पितरौ सुहृदो दारा न कश्चिन् नाकुलीकृतः ॥

18.14

आदिष्टः सानुना यो ऽसौ तयोः पुत्रः सुवृत्तयोः
अहम् एव स वो दासः सानुदासस् तथागुणः ॥

18.15

मम तु ध्रुवको नाम ध्रुवमैत्रीसुखः सखा
स च माम् अब्रवीन् मित्र क्रियतां तद् ब्रवीमि यत् ॥

18.16

उद्याननलिनीकूले सदाराः सुहृदस् तव
अनुभूतजलक्रीडाः खादन्ति च पिबन्ति च ॥

18.17

भवतापि सदारेण तत्र गत्वा मया सह
साफल्यं क्रियताम् अद्य रूपयौवनजन्मनाम् ॥

18.18

धर्मार्थयोः फलं येन सुखम् एव निराकृतम्
विफलीकृतधर्मार्थात् पापकर्मा कुतस् ततः ॥

18.19

जन्मान्तरसुखप्राप्त्यै यश् च धर्मं निषेवते
त्यक्तदृष्टसुखः सो ऽपि वद को नाम पण्डितः ॥

18.20

न चापि स्वार्थसिद्ध्यर्थं मया त्वं विप्रलभ्यसे
तथा हि भीमसेनस्य वाक्यम् आकर्ण्यतां यथा ॥

18.21

प्रत्युपस्थितकालस्य सुखस्य परिवर्जनम्
अनागतसुखाशा च नैष बुद्धिमतां नयः ॥

18.22

मया तु स विहस्योक्तस् तुच्छए एव प्रयोजने
इदं संरम्भगाम्भीर्यं शङ्काम् इव करोति सः ॥

18.23

यदि पीतं न वा पीतं स्वदारसहितैर् मधु
लाभः कस् तत्र हानिर् वा रागो ऽयम् अभिवासितः ॥

18.24

रागाग्निः प्राणिनां प्रायः प्रकृत्यैव प्रदीप्यते
तम् इन्धयति यन् मित्र तत्र किं नाम पौरुषम् ॥

18.25

यस् तं विषयसंकल्प सर्पिरिन्धनम् उद्धतम्
वैराग्यवचनाम्भोभिर् निर्वापयति स क्षमः ॥

18.26

फलं यदि च धर्मस्य सुखम् ईदृशम् इष्यते
धर्मस्याभवनिर्भूयात् तत्फलस्य सुखस्य च ॥

18.27

यां यथासुखम् आसीनाम् अश्नन्तीं च स्त्रियं प्रति
नेक्ष्यते प्रतिषेधात् सा कथम् एवं विडम्ब्यते ॥

18.28

गोष्ठीमण्डलमध्यस्था मदोपहतचेतना
विषमूर्च्छापरीतेव भर्तुर् भार्या विडम्बना ॥

18.29

अथ वा गच्छतु भवान् यथासुखम् अहं पुनः
न यास्यामि न धास्यामि दारैः सह सभाम् इति ॥

18.30

स ततः स्थिरसंकल्पं मां दृष्ट्वा प्रत्यवस्थितम्
हस्ते सस्मितम् आलम्ब्य सविषाद इवावदत् ॥

18.31

सुहृदाम् अग्रतः कृत्वा प्रतिज्ञाम् अहम् आगतः
सानुदासो ऽयम् आनीतः सदारो दृश्यताम् इति ॥

18.32

तेनोपहसितस्योच्चैः सुहृद्भिर् वदनं मम
प्रतिज्ञाखण्डनम्लानं कथं शक्ष्यसि वीक्षितुम् ॥

18.33

तत् प्रसीदासतां नाम दारा यदि विरुध्यते
त्वयैकेन प्रतिज्ञायाः साफल्यम् उपपाद्यताम् ॥

18.34

सदोषं यदि पानं च स्वयं मा स्म पिबस् ततः
सुहृदः पिबतः पश्य सदारतनयान् इति ॥

18.35

ततस् तत्सहितो गत्वा पुरोपवनपद्मिनीम्
तां तदा दृष्टवान् अस्मि सकलत्रां सुहृत्सभाम् ॥

18.36

निन्दितेन्द्रायुधच्छायैः कुसुमाभरणाम्बरैः
क्षिप्ताम्भःपद्मिनीच्छायां स्थलीकमलिनीम् इव ॥

18.37

ततः समञ्जरीजालैर् माधवीचूतपल्लवैः
कल्पितं ध्रुवको मह्यम् उच्चम् आहरद् आसनम् ॥

18.38

अपश्यं तत्र चासीनः सुहृदः पायितप्रियान्
पिबतश् च मधु प्रीत प्रियाकरतलार्पितम् ॥

18.39

क्वचिद् वसन्तरागं च वेणुतन्त्रीरुतान्वितम्
गीयमानं शृणोमि स्म रुदन्ताश् चालिकोकिलाः ॥

18.40

हित्वा कुरबकाग्राणि वर्णसंस्थानचारुषु
पतिताः कर्णिकारेषु लूननासा इवालिनः ॥

18.41

आमूलशिखरं फुल्लास् तिलकाशोककिंशुकाः
असारस्य हि जायन्ते नटस्यात्युत्कटा रसाः ॥

18.42

अथ कर्दमदिग्धाङ्गः शैवलाविलशाटकः
उत्थितः पुरुषः को ऽपि सरसः सरसस् ततः ॥

18.43

आदाय नलिनीपत्र पुटं केनापि पूरितम्
भोः पुष्करमधु प्राप्तं मयेति च मुदावदत् ॥

18.44

प्रतिषिद्धः स चैकेन मूर्ख मा चण्डम् आरटीः
न पुष्करमधु प्राप्तं त्वयानर्थो ऽयम् अर्जितः ॥

18.45

यदि तावद् इदं सर्वे पिबन्ति सुहृदस् ततः
परमाणुप्रमाणो ऽपि बिन्दुर् अंशो न जायते ॥

18.46

दीयते यदि वा राज्ञे दुर्लभं पार्थिवैर् अपि
अपरं सो ऽपि याचेत रत्नगृद्धा हि पार्थिवाः ॥

18.47

तं च कर्णेजपाः केचिद् वक्ष्यन्ति प्रियवादिनः
राजन्न् अपरम् अप्य् अस्ति तत्र प्राप्तम् इदं यतः ॥

18.48

एतावद् एव तत्रासीन् नातिरिक्तम् इति ब्रुवन्
अभावम् अतिरिक्तस्य केनोपायेन साधयेत् ॥

18.49

इति प्रोत्साहितः पापैर् लब्धास्वादश् च पार्थिवः
हरेत् सर्वस्वम् अस्माकं तस्मात् तस्मै न दीयते ॥

18.50

किं तु रस्यतरास्वादं न च मद्यं यतस् ततः
इदं पुष्करमध्व् एष सानुदासः पिबत्व् इति ॥

18.51

दुर्लभत्वात् ततस् तस्य सुहृदभ्यर्थनेन च
न च मद्यम् इति श्रुत्वा पीतवान् अस्मि तन् मधु ॥

18.52

आसीच् च मम को नाम षण्णाम् एष रसो भवेत्
लक्ष्यते न हि सादृश्यम् एतस्य मधुरादिभिः ॥

18.53

न चाहं षड्भिर् आरब्धः संहत्य मधुरादिभिः
सर्वज्ञैर् अपि दुर्ज्ञाना येनास्मिन्न् एकशो रसाः ॥

18.54

तेन मन्यतए एवायं सप्तमः सुरसो रसः
रसिते ऽमृतम् अप्य् अस्मिन् गच्छेद् विरसताम् इति ॥

18.55

ततस् तद्रसगन्धेन तृषा च गमितत्रपः
बाधते मां पिपासेति शनैर् ध्रुवकम् अब्रुवम् ॥

18.56

तेन दत्तं तु तत् पीत्वा स्वभावापोढमानसः
तत् पुरोपवनं वेगाच् चक्रवद् भ्रमद् अभ्रमम् ॥

18.57

ततश् च तारमधुरं दीर्घवेणोर् इवोषसि
दीनमन्थरम् अश्रौषं प्रमदाक्रन्दितध्वनिम् ॥

18.58

अथ गत्वा तम् उद्देशम् अपश्यं माधवीगृहे
स्त्रियं साक्षाद् इवासीनां माधवीवनदेवताम् ॥

18.59

आख्यायिकाकथाकाव्य नाटकेष्व् अपि तादृशी
वर्ण्यमानापि नास्माभिः कदाचित् प्रमदा श्रुता ॥

18.60

ततस् ताम् अब्रवं साम्ना भद्रे यदि न दुष्यति
दुःखस्यास्य ततो हेतुर् मह्यम् आख्यायताम् इति ॥

18.61

ततो रुदितसंभिन्नं नीचकैर् उदितं तया
दुःसहस्यास्य दुःखस्य ननु हेतुर् भवान् इति ॥

18.62

लज्जाप्रह्वशिरस्केन ततो नीचैर् मयोदितम्
यदीदं मत्कृतं दुःखं भीरु मा त्वं रुदस् ततः ॥

18.63

यद् अनन्तम् अनन्तार्घं तन् मन्ये द्रविणं तृणम्
शरीरकम् अपीदं मे क्वचिद् व्यापार्यताम् इति ॥

18.64

अथावोचद् असौ स्मित्वा हर्षाश्रुकलुषेक्षणा
अनेनैव त्वदीयेन शरीरेणाहम् अर्थिनी ॥

18.65

अहं हि गङ्गदत्तेति यक्षकन्या नभश्चरी
संकल्पजन्मनानल्पं संकल्पं कारिता त्वयि ॥

18.66

तद् एहि गृहम् अस्माकं सत्यं मन्त्रयसे यदि
शरीरस्यास्य ते तत्र विनियोगो भवत्व् इति ॥

18.67

कृष्यमाणस् तया चाहं पाणाव् आदाय मन्थरम्
असुरान्तःपुराकारं प्राविशं भवनेश्वरम् ॥

18.68

तत्रापश्यं स्त्रियं गौरीं सितासितशिरोरुहाम्
स्थूलोदरवलीलेखां शुद्धसूक्ष्माम्बरावृताम् ॥

18.69

सा माम् अर्घ्येण संभाव्य मूर्द्ध्नि चाघ्राय सादरम्
अब्रवीद् अध्वखिन्नो ऽसि पुत्र विश्रम्यताम् इति ॥

18.70

आदृता चादिशत् प्रेष्याः सानुदासः पिपासितः
तत् पुष्करमधु स्वादु शीघ्रम् आनीयताम् इति ॥

18.71

मम त्व् आसीद् ध्रुवं यक्षी गङ्गदत्तान्यथा कुतः
गृहे पुष्करमध्व् अस्या दुष्प्रापं मानुषैर् इति ॥

18.72

गन्धेन पुष्करमधु प्रभवेणाधिवासितम्
वसन्तकुसुमाकीर्णं प्राविशं वासमन्दिरम् ॥

18.73

पीत्वा च पुष्करमधु प्रीतया सहितस् तया
अस्यै पूर्वप्रतिज्ञातं स्वशरीरम् उपाहरम् ॥

18.74

स्वशरीरप्रदानेन मह्यं पूर्वोपकारिणे
सापि प्रत्युपकाराय स्वशरीरं न्यवेदयत् ॥

18.75

आसीन् मे यन् मया दत्त्वा शरीरं पुण्यम् अर्जितम्
तस्य कन्याशरीराप्त्या सद्यः परिणतं फलम् ॥

18.76

इति तत्र चिरं स्थित्वा पृच्छामि स्म प्रियां प्रिये
किम् इदानीं सुहृद्गोष्ठी करीतीत्य् अथ साब्रवीत् ॥

18.77

यदि ते द्रष्टुम् इच्छास्ति मयैव सहितस् ततः
गत्वा पश्य सुहृद्गोष्ठीं मदातिशयविह्वलाम् ॥

18.78

मयालम्बितहस्तं त्वां न कश्चिद् अपि पश्यति
तेनादृष्टः सुहृद्गोष्ठ्या विश्रब्धः पश्यताम् इति ॥

18.79

गत्वा ततस् तद् उद्यानं गङ्गदत्तावलम्बितः
पश्यामि स्म सुहृद्गोष्ठीं स्मितव्यावर्तिताननाम् ॥

18.80

अथ स्वाभाविकमुखः सुहृत् कश्चिद् अभाषत
न दृश्यते सानुदासः क्व नु यातो भवेद् इति ॥

18.81

अपरेणोक्तम् आश्चर्यम् अदृष्टं किं न पश्यसि
सानुदासेन दुःसाध्या साधिता यक्षकन्यका ॥

18.82

यक्ष्यावलम्बितः पाणाव् अदृश्यो दृश्यताम् अयम्
सानुदासः सुहृन्मध्ये विचरन् पुण्यवान् इति ॥

18.83

गङ्गदत्ताम् अथावोचम् अदृश्यो यद्य् अहं ततः
भद्रे कथम् अनेनोक्तम् अदृश्यो दृश्यताम् इति ॥

18.84

ततः संरुध्यमानो ऽपि यत्नेन जनसंसदा
प्रवृत्तः सहसा हासः सलिलौघ इवोल्बणः ॥

18.85

तेषाम् अन्यतमो नृत्यन् सतालहसितध्वनिः
माम् अवोचद् अदृश्याय यक्षीभर्त्रे नमो ऽस्तु ते ॥

18.86

क्व पुष्करमधु क्वात्र दुर्लभा यक्षकन्यका
द्राक्षामधु त्वया पीतं साधिता च विलासिनी ॥

18.87

सर्वथा दुश्चिकित्सो ऽयं भवतो विनयामयः
सुहृद्वैद्यगणेनाद्य कुशलेन चिकित्सितः ॥

18.88

स भवान् गङ्गदत्ताया गृहं यातु निरामयः
सुहृदो ऽपि कृतस्वार्थाः सर्वे यान्तु यथायथम् ॥

18.89

अहं तु पुष्करमधु च्छद्मना छलितो ऽपि तैः
ज्ञातकान्तासवस्वादो न तेभ्यः कुपितो ऽभवम् ॥

18.90

आसीच् च मम ते धीरा ये स्वभ्यस्तमधुप्रियाः
विदूषितमधुस्पर्शाः प्रव्रजन्ति मुमुक्षवः ॥

18.91

अहं तु सकृद् आस्वाद्य प्रमदामदिरारसम्
न प्राणिमि विना तस्माद् धिङ् निकृष्टं च माम् इति ॥

18.92

अथ गच्छति स्म रविर् अस्तभूधरं वसितद्रुमान् अधि शकुन्तपङ्क्तयः
मदमन्दम् आत्मभवनानि नागराः प्रियया सहाहम् अपि तन्निवेशनम् ॥

18.93

तत्र प्रसन्नया कालं प्रियया च प्रसन्नया
प्रसन्नो ध्रुवकादीनां सुहृदाम् अत्यवाहयम् ॥

18.94

दशभिर् दशभिर् याति सहस्रैर् दिवसव्यये
धनराशिः परिक्षीणः कालेन महता महान् ॥

18.95

कदाचिच् चाहम् आहूय नीतो दारिकया गृहम्
दुःश्रवं श्रावितो मात्रा पितुः स्वर्गाधिरोहणम् ॥

18.96

गुरुणा गुरुशोकेन पीड्यमानं च मां नृपः
समाह्वाय्यावदत् पुत्र मित्रवर्माहम् एव ते ॥

18.97

कुलपुत्रकवृत्तेन स्थातव्यम् अधुना त्वया
स हीह परलोके च सुखाय प्राणिनाम् इति ॥

18.98

अलंकृताय स च मे भूषणाम्बरचन्दनैः
पित्र्यं श्रेष्ठिपदं कृत्वा गृहं याहीत्य् अभाषत ॥

18.99

कालस्तोके प्रयाते च सदैन्यो ध्रुवको ऽब्रवीत्
सशोका गङ्गदत्तापि सा समाश्वस्यताम् इति ॥

18.100

मया तूक्तम् इदानीं मे बालकालश् चलो गतः
अन्य एवायम् आयातः कुटुम्बभरदारुणम् ॥

18.101

क्व वेशवनितासक्तिः क्व कुटुम्बपरिग्रहः
न हि वानरशावस्य युक्ता स्यन्दनधुर्यता ॥

18.102

अधुना गङ्गदत्ताया बालता लोलतां गता
मार्गम् आसेवतां सापि मातृमातामहीगतम् ॥

18.103

दुराचारैव सा वेश्या चिरं यस्याः सतीव्रतम्
न हि वेदम् अधीयानः शूद्रः सद्भिः प्रशस्यते ॥

18.104

सदोषम् अपि न त्याज्यं सहजं कर्म साधुभिः
इतीदं वचनं विष्णोः सापि संमानयत्व् इति ॥

18.105

तेनोक्तं गणिकासक्तिः प्रतिषिद्धा कुटुम्बिनाम्
न तु शोकोपतप्ताया गणिकायाः सभाजनम् ॥

18.106

तद् ब्रवीमि समाश्वस्य गङ्गदत्तां समातृकाम्
अयम् आगत एवासि त्यज निष्ठुरताम् इति ॥

18.107

तस्याम् उद्भूतरागत्वाद् ध्रुवकाभ्यर्थितेन च
दोषम् उत्प्रेक्षमाणो ऽपि गत एवास्मि तद्गृहम् ॥

18.108

अथ सा मद्वियोगेन मद्दुःखेन च कर्शिता
क्रन्दत्परिजना कृच्छ्रात् परिसंस्थापिता मया ॥

18.109

मयैव च सह स्नाता निरुप्तसलिलाञ्जलिः
शरावं मदिरापूर्णं न्यस्यति स्म गृहाङ्गणे ॥

18.110

माता तु गङ्गदत्ताया गृहीतचषकावदत्
पुत्र दुःखविनोदार्थं तर्पणं क्रियताम् इति ॥

18.111

मम त्व् आसीत् प्रपञ्चो ऽयं विषमः प्रस्तुतो ऽनया
नूनम् अस्मान् इयं वृद्धा मुग्धान् आकृष्टुम् इच्छति ॥

18.112

ईदृशी च वचोदक्षा सदाक्षिण्यश् च मादृशः
निर्दाक्षिण्या च देवी श्रीर् इति जातो ऽस्मि शङ्कितः ॥

18.113

अवश्यं च मदीया श्रीर् गङ्गदत्तां गमिष्यति
प्रायः समानशीलेषु सख्यं बध्नन्ति जन्तवः ॥

18.114

अथ वा गङ्गदत्तैव क्षेत्रं दानस्य पूजितम्
दानं हि तत्र दातव्यं यत्र चित्तं प्रसीदति ॥

18.115

इति चेति च निश्चित्य त्रासास्वादितचेतसा
त्रिफलाविरसास्वादं पानम् आसेवितं मया ॥

18.116

न वर्तते सकृत् पातुम् अतस् त्रिः पीयताम् इति
गणिकामातुर् आदेशम् ओम् इति प्रत्यपूजयम् ॥

18.117

यथा यथा च मां मन्दम् आरोहन् मदिरामदः
पितृशोको ऽपि बलवान् अवारोहत् तथा तथा ॥

18.118

अतः परं मदादेशान् मदीयाः परिचारिकाः
मदिरामन्दिरान् मद्यम् आहरन्ति स्म संततम् ॥

18.119

तदीयाश् च मदीयाश् च गतशोकम् अवेक्ष्य माम्
गायन्ति स्म हसन्ति स्म केचित् तत्रारुदन्न् अपि ॥

18.120

इति विस्मारितस् ताभिः पितृशोकम् अहं तदा
दिवसान् गमयामि स्म सुरास्मरपरायणः ॥

18.121

एकदा गणिकामात्रा प्रेषिता गणिकावदत्
श्वश्रूस् त्वाम् आह रूक्षो ऽसि गात्रम् अभ्यज्यतां तव ॥

18.122

गङ्गदत्तापि परुषा जाता स्नेहविवर्जनात्
तस्माद् इयम् अपि स्नेहम् अङ्गेषु निदधात्व् इति ॥

18.123

शाटकं चाहरन् मह्यं स्थूलं तैलमलीमसम्
स्कन्धः कटुकतैलेन म्रक्षितश् च तया मम ॥

18.124

उक्तश् चास्मि पुनर् यावद् दारिकाया मुहूर्तकम्
अभ्यङ्गः क्रियते तावद् भवान् अवतरत्व् इति ॥

18.125

अथोपरिपुरात् षष्ठम् अनन्तरम् अवातरम्
शिल्पिनस् तत्र चापश्यं रत्नसंस्कारकारकान् ॥

18.126

ससंभ्रमैश् च तैर् उक्तः कृताञ्जलिपुतैर् अहम्
श्रेष्ठिपुत्र प्रवीणो ऽसि त्वत्तो लज्जामहे वयम् ॥

18.127

सर्वविद्याकलाशिल्प कोविदस्य पुरस् तव
सर्वज्ञानाम् अपि त्रासात् प्रसरन्ति न पाणयः ॥

18.128

तस्माद् अवतरत्व् अस्माद् दीर्घायुः पञ्चमं पुरम्
अलंकरणकर्मेदम् आशु निष्ठां व्रजत्व् इति ॥

18.129

एवं च परिशेषेभ्यः क्रमाच् चित्रकरादिभिः
पञ्चेभ्यो ऽपि पुरेभ्यो ऽहम् उपायैर् अवतारितः ॥

18.130

सान्तःकर्मारिकाभिश् च घटदासीभिर् अङ्गणात्
सिच्यसे गोमयाम्भोभिर् इति निर्धारितो बहिः ॥

18.131

श्रूयते स्म च तस्यैव प्रासादस्योपरि ध्वनिः
बन्दिनः पठतः श्लोकम् उच्चकैर् उच्चरन्न् इति ॥

18.132

जय राजसिंह परदन्तिमण्डलं विजितैव वादिमृगसंहतिस् त्वया
परिमण्डलग्रहपतिप्रभाप्रभैर् गुणकेसरांशुविसरश् च राजसे ॥

18.133

चिन्तितं च मया मन्ये प्रविष्टः को ऽप्ययं विटः
रण्डापुत्रस्य यस्यैते श्रूयन्ते बन्दिभिर् गुणाः ॥

18.134

कुतो ऽस्य गुणगन्धो ऽपि येन लज्जैव खादिता
वेशनारीग्रहस्थेन स्वयं ख्यापयता गुणान् ॥

18.135

इत्य् असूयन्न् अहं तस्मै लज्जावर्जितकंधरः
स्वगृहाभिमुखं प्रायां पौरधिक्कारकारितः ॥

18.136

य एव मां सुहृत् कश्चिद् अपश्यत् संमुखागतम्
स एवामीलयद् दृष्टिं हा किं दृष्टम् इति ब्रुवन् ॥

18.137

येनाङ्गणेन यामि स्म संस्तुतस्यैतरस्य वा
तत्र गोमयपानीयं पातयन्ति स्म नागराः ॥

18.138

एवंप्रायप्रपञ्चाभिर् जनताभिर् जुगुप्सितः
अपूर्वपुरुषाक्रान्तं स्वगृहद्वारम् आगमम् ॥

18.139

तेन च प्रविशन्न् एव पूर्वाभ्यासाद् अशङ्कितः
तिष्ठ तिष्ठेति रुष्टेन द्वारपालेन वारितः ॥

18.140

ततस् तं पृष्टवान् अस्मि शङ्कामन्दीकृतत्रपः
भद्र सर्वं न जानामि तत् त्वम् आख्यायताम् इति ॥

18.141

तेनोक्तम् ईदृशं तत्त्वं न त्वं परगृहं पुनः
तिष्ठद्दौवारिकद्वारम् अशङ्कः प्रविशेर् इति ॥

18.142

मयोक्तम् अथ सासूयं किं च मित्रवती मृता
तेनोक्तं कच्चिद् आयुष्मान् सानुदासो भवान् इति ॥

18.143

अहं तु कटुकालापस् तस्मान् मधुरभाषिणः
लज्जमानः स्थितस् तूष्णीम् अथ तेनोदितं पुनः ॥

18.144

जीवत्य् एव मृता तात माता मित्रवती तव
स्पृहयत्य् अनपत्याभ्यो या स्त्रीभ्यः पुत्रवत्य् अपि ॥

18.145

एकेनैव प्रवृद्धेन कामेनागन्तुना तव
संहताव् अपि धर्मार्थाव् उच्छिन्नौ स्वकुलोचितौ ॥

18.146

गृहं विक्रीय निःसारम् अनाथा जननी तव
सह पौत्रेण वध्वा च कुत्राप्य् अन्यत्र तिष्ठति ॥

18.147

यो ऽयं प्रथमकक्षायां कुरुते कर्म वर्धकिः
आस्ते मित्रवती यत्र तद् अयं पृच्छ्यताम् इति ॥

18.148

स च गत्वा मया दृष्टः प्रत्यभिज्ञाय मां चिरात्
हा कष्टम् इति कृत्वोच्चैर् दुःखस्खलितम् अब्रवीत् ॥

18.149

हृतार्थजनदारिद्र्यात् त्वत्प्रसादात् सह स्नुषा
दरिद्रवाटके तात जननी तव तिष्ठति ॥

18.150

दरिद्रवाटकं पृष्टः कुत्रेति स मया पुनः
चण्डालवाटकादूरं दक्षिणेनेत्य् अभाषत ॥

18.151

शनैः संचरमाणश् च दरिद्रग्रामरथ्यया
दरिद्रान् दृष्टवान् अस्मि क्षयक्षीणान् मृताकृतीन् ॥

18.152

अथ निम्बतरोर् मूले दत्तकं नाम पुत्रकम्
दृष्टवान् अस्मि बहुभिर् बालकैः परिवारितम् ॥

18.153

बालकानाम् अयं राजा ते ऽन्ये मन्त्र्यादयः किल
ददाति स्म ततस् तेभ्यः स्वाः स कुल्माषपिण्डिकाः ॥

18.154

यस् तु तेषां प्रतीहारः स राजांशं प्रकल्पिताम्
कुल्माषपिण्डिकां हृत्वा क्षुधितत्वाद् अभक्षयत् ॥

18.155

दत्तको ऽपि हृतस्वांशस् तारं मातरम् आह्वयन्
अगच्छत् कुटिकाम् एकां संकारस्थगिताजिराम् ॥

18.156

कटैः कृतपरिक्षेपां जरद्विरलवीरणैः
अनन्तपटलच्छिद्र प्रविष्टातपचन्द्रिकाम् ॥

18.157

पृष्टतो दत्तकस्याहं गतस् तत् कुटिकाङ्गणम्
दास्या च प्रत्यभिज्ञाय मित्रवत्यै निवेदितम् ॥

18.158

सा तु निष्क्रम्य संभ्रान्ता माम् आलिङ्ग्य तथाविधम्
गाढनिद्राप्रसुप्तेव नाकम्पत न चाश्वसीत् ॥

18.159

सद्यः पुत्रेण संयुक्ता स्वामिना च विनाकृता
अनुष्णाशीतसंस्पर्शैर् माम् अस्नापयद् अश्रुभिः ॥

18.160

निलीनां च कुटीकोणे पश्यामि स्म कुटुम्बिनीम्
अलं वा विस्तरं कृत्वा मूर्ताम् इव दरिद्रताम् ॥

18.161

सतुषैः कोद्रवकणैर् अपनीतं ममाङ्गतः
तद्दुष्टचेटिकादत्तम् आदरात् स्वयम् अम्बया ॥

18.162

लाक्षावृतबहुच्छिद्रा खण्डौष्ठी शीर्णतालुका
आनीतोष्णोदकं दातुम् आलुका परगेहतः ॥

18.163

स्नपयन्त्या च मां भग्ना कर्मकर्या प्रमत्तया
अथास्याः स्वामिनी चण्डम् आक्रन्दत् तडितोदरी ॥

18.164

अयि त्वयि विपन्नायाम् आलुकादेवि गोमिनि
शून्यम् अद्य जगज्जातम् अद्य माता मृता मम ॥

18.165

मम मातुर् विवाहे त्वं लब्धा ज्ञातिकुलात् किल
तेन त्वाम् अनुशोचामि द्वितीयां जननीम् इव ॥

18.166

विलपत्यै तथा दीनं करुणार्द्रीकृताशयः
शाटकं पाटयित्वाहम् अर्धं तस्यै वितीर्णवान् ॥

18.167

पुष्करिण्यां ततः स्नात्वा पिबन्तीव विषाणकाः
काञ्जिकव्यञ्जनं कृच्छ्राद् भुञ्जे कोद्रवौदनम् ॥

18.168

अथ वालम् इदं श्रुत्वा दरिद्रचरितं चिरम्
श्रूयमाणम् अपि ह्य् एतद् दुःखायैव भवादृशाम् ॥

18.169

सो ऽहं कथम् अपि क्षिप्त्वा वर्षलक्षायतां क्षपाम्
जातदुर्वारवैराग्यः प्रातर् मातरम् अब्रवम् ॥

18.170

ततः प्रक्षपिताद् द्रव्याद् उपादाय चतुर्गुणम्
गृहम् मया प्रवेष्टव्यं न प्रवेष्टव्यम् अन्यथा ॥

18.171

तस्माद् अजातपुत्रेव मातर् मृतसुतेव वा
दुःखकर्मविनोदेन गमयेर् दिवसान् इति ॥

18.172

तयोक्तं मा गमः पुत्र त्वां सदारं सदारकम्
जीवयामि सुखासीनं कर्मभिर् गर्हितैर् इति ॥

18.173

मयोक्तं वृद्धया मात्रा जीव्यते दुःखकर्मभिः
यः शक्तः पुरुषस् तस्य श्लाघ्यम् एकस्य जीवितम् ॥

18.174

तेनालम् अवलम्ब्येमाम् अम्ब कातरतां तव
ननु तातस्य दाराः स्थ सुमेरुगुरुचेतसः ॥

18.175

इत्य् अवस्थितनिर्बन्धः प्रणम्य जननीम् अहम्
दरिद्रवाटकाद् घोरान् निरयां निरयाद् इव ॥

18.176

अम्बा दूरम् अनुव्रज्य हितं मह्यम् उपादिशत्
ताम्रलिप्तीं व्रजे पुत्र यत्रास्ते मातुलस् तव ॥

18.177

नराणां हि विपन्नानां शरणं मातृबान्धवाः
त्याज्यास् तु निजशत्रुत्वात् प्राज्ञेन पितृबान्धवाः ॥

18.178

एवमादि समादिश्य दत्त्वा चौदनमल्लकम्
सा निवृत्ता प्रवृत्तो ऽहं पथा प्राग्देशगामिना ॥

18.179

पश्यामि स्म च वैदेशाञ् जर्जरच्छत्त्रपादुकान्
स्कन्धासक्तजरच्चर्म स्थगिकापचनालिकान् ॥

18.180

एवमादिप्रकारास् ते तत् प्रकारं निरीक्ष्य माम्
करुणागोचरीभूतम् अभाषन्त परस्परम् ॥

18.181

अहो कष्टम् इदं दृष्टम् अस्माभिश् चेष्टितं विधेः
क्व साधुः सानुदासो ऽयं क्वेयम् एतादृशी दशा ॥

18.182

अथ वा नैव शोच्यो ऽयम् अविपन्नमहाधनः
अविपन्नगुणानां हि किं विपन्नं महात्मनाम् ॥

18.183

मां चावोचन् वयं सर्वे भवतः परिचारकाः
एतस्माद् असहायत्वान् मा स्म शङ्कां करोर् इति ॥

18.184

अथ मां रमयन्तस् ते रमणीयकथाः पथि
अगच्छन् कंचिद् अध्वानम् अचेतितपथक्लमम् ॥

18.185

संकोचितजगच्छाये प्रतापेन विसारिणा
सर्वोपरि स्थिते भानौ संप्रापं सुमहत्सरः ॥

18.186

वञ्चयित्वा तु तद्दृष्टिं दूरे स्नात्वामृतोपमम्
तत् कोद्रवान्नम् अस्नेह लवणं भुक्तवान् अहम् ॥

18.187

ते ऽपि प्लुतैर् उदात्तैश् च व्याहारैः परितो दिशम्
सानुदासा क्व यासीति व्याहरन् मां ससंभ्रमाः ॥

18.188

उक्तवन्तश् च मां दृष्ट्वा निवृत्तस्नानभोजनम्
धिक् प्रमादहतान् अस्मान् भवता छलिता वयम् ॥

18.189

अस्माभिः कारितं कन्दौ खादितव्यम् अनेकधा
भवता च न संभुक्तम् एतद् अस्माद् अनर्थकम् ॥

18.190

इदानीम् अपि यत् किंचित् त्वया तत्रोपयुज्यताम्
अन्यथास्माभिर् अप्य् अद्य स्थातव्यं क्षुधितैर् इति ॥

18.191

ततस् तदर्थितः किंचिद् भक्षयित्वा सहैव तैः
सायाह्ने प्रस्थितो ग्रामम् अगच्छं सिद्धकच्छपम् ॥

18.192

तत्र मां रथ्ययायान्तं कश्चिद् दृष्ट्वा कुटुम्बिकः
प्रणिपत्याब्रवीद् एहि स्वगृहं गम्यताम् इति ॥

18.193

अनुज्ञातस्य पथिकैः प्रविष्टस्य गृहं मम
स्वयं प्रक्षालयत् पादौ वारितो ऽपि कुटुम्बिकः ॥

18.194

अभ्यङ्गोच्छादनस्नान गमिताङ्गश्रमाय मे
धातुरक्तम् अदात् स्थूलं प्रक्षालं पटशाटकम् ॥

18.195

ततः क्षीरौदनप्रायं भुक्त्वा नवतकाज्झके
शयनीये निषण्णं माम् अवोचत् स कुटुम्बिकः ॥

18.196

त्वदीयस् तात वृत्तान्तः सर्वः संविदितो मम
भानोः स्वर्भानुना ग्रासः कस्य नेक्षणगोचरः ॥

18.197

मेरुसागरसारस्य प्रसादान् मित्रवर्मनः
सहस्राणि समृद्धानि मादृशाम् अनुजीविनाम् ॥

18.198

अहं सिद्धार्थको नाम वणिग्भृत्यः पितुस् तव
तेन त्वदीयम् एवेदं यत् किंचिद् द्रविणं मम ॥

18.199

मूलम् एतद् उपादाय वर्धन्तां ते विभूतयः
बहुसत्त्वोपकारिण्यः शाखा इव वनस्पतेः ॥

18.200

दिनस्तोकेषु यातेषु सार्थेन सहितो मया
ताम्रलिप्तीं प्रयातासि तावद् विश्रम्यताम् इति ॥

18.201

अथोपपन्नम् आहेति विचार्य सह चेतसा
प्रातिष्ठे सह सार्थेन तेन सिद्धर्थकेन च ॥

18.202

ततो विचित्रशस्त्राणां हर्षेण स्फुटताम् इव
शृणोमि स्म प्रचण्डानां डिण्डिकानां विकत्थिताम् ॥

18.203

श्रूयतां धातकीभङ्ग प्रतिज्ञापर्वतस्थिराः
खण्डचर्मेति मे नाम मुण्डाः पाशुपता वयम् ॥

18.204

सहस्रम् अपि चौराणां शूराणां युद्धमूर्धनि
न नयेयं यदि स्वर्गं गच्छेयं निरयं ततः ॥

18.205

तस्करान् यदि पश्यामस् ततस् त्वां देवि चण्डिके
प्रत्यग्रैस् तर्पयिष्यामो महिषच्छागशोणितैः ॥

18.206

इति गत्वाटवीमध्ये नदीं गम्भीरकन्दराम्
आवसाम कृतापुण्याश् चण्डां वैतरणीम् इव ॥

18.207

कृष्णपक्षक्षपाकाली प्रणादपरिहारिणी
कालरात्रिर् इवासह्या पुलिन्दपृतनापतत् ॥

18.208

तथा कथितवन्तस् ते ताम् आलोक्यैव डिण्डिकाः
अपाक्रामन् परित्यक्त शस्त्रलज्जायशोधनाः ॥

18.209

लुण्ठ्यमानात् त्व् अहं सार्थात् प्राणत्राणपरायणः
संभ्रमभ्रान्तदिग्भागः कान्दिशीकः पलायितः ॥

18.210

तस्करो ऽयम् इति भ्रष्टः सार्थिकाद् अपि धावतः
गहनान्तं दिनान्तेन वनान्तग्रामम् आसदम् ॥

18.211

तस्य मधेन गच्छन्तं मां परिष्वज्य वृद्धिका
इति रोदितुम् आरब्धा वृद्धताघर्घरध्वनिः ॥

18.212

पुत्र निष्ठुरचित्तो ऽसि यो माम् उत्सन्नबान्धवाम्
वृद्धां दुःखितकाम् अस्वां त्यक्त्वा देशान्तरं गतः ॥

18.213

मादृशीं मातरं दीनां त्यक्त्वा यद् उपचीयते
तत् प्रयागगतेनापि न पापम् अपचीयते ॥

18.214

तीर्थयात्राकृतं पापम् अतः क्षपयता त्वया
माम् आराधयमानेन स्वगृहे स्थीयताम् इति ॥

18.215

मम त्व् आसीद् अहो कष्टम् अपरो ऽयम् उपद्रवः
मन्ये मूर्तिमती कापि विपत्तिर् इयम् आगता ॥

18.216

मादृशां हि प्रमत्तानाम् अप्रमत्ता विपत्तयः
संतताः संनिधीयन्ते प्राज्ञानाम् इव संपदः ॥

18.217

अथ मां चिरम् ईक्षित्वा तयोक्तं लज्जमानया
पुत्र स्वपुत्रसादृश्यात् त्वं मयेत्थं कदर्थितः ॥

18.218

अथ वा पुत्र एवासि ममेत्य् उक्त्वानयद् गृहम्
तत्राकरोद् अखेदं मां अङ्गाभ्यङ्गाशनादिभिः ॥

18.219

प्रभाते प्रस्थितश् चैनाम् अभिवाद्याहम् अब्रवम्
चम्पायां सानुदासस्य गृहम् अम्ब व्रजेर् इति ॥

18.220

श्रान्तश्रान्तश् च विश्रान्तः पृष्ट्वा पन्थानम् अन्तरे
ताम्रलिप्तीं व्रजामि स्म परिभूतामरावतीम् ॥

18.221

भोः साधो गङ्गसत्तस्य गृहम् आख्यायताम् इति
यं यम् एव स्म पृच्छामि स स एवैवम् अब्रवीत् ॥

18.222

ताम्रलिप्त्यां पुरे भ्रान्तस् त्वत्तो धूर्ततरो जनः
दुर्विदग्धजनालापो ग्राम्यनागरको भवान् ॥

18.223

इति संपृच्छमानाय यदा मह्यं न कश् च न
आचष्टे स्म तदा खिन्नः सन्न् उपाविशम् आपणे ॥

18.224

तत्र मां पृष्टवान् एको वणिक् पाण्डरमस्तकः
उद्विग्न इव विच्छायः किं निमित्तं भवान् इति ॥

18.225

मयापि कथितं तस्मै सानुकम्पाय पृच्छते
उद्वेगस्य निमित्तं तत् तेनापि हसितोदितम् ॥

18.226

त्वाम् अमी कुटिलालापं मन्यन्ते ताम्रलिप्तिकाः
गृहं हि गङ्गदत्तस्य न पृच्छन्ति यथास्थिताः ॥

18.227

पौर्णमासीशशाङ्कस्य यो न जानाति मण्डलम्
न स जानाति धूर्तो वा गङ्गदत्तस्य मन्दिरम् ॥

18.228

अथ वा धर्मकामार्थान् कूटस्थान् अत्र पश्यसि
प्रवृद्धांश् च विशुद्धा:म्शु गङ्गदत्तस्य तद् गृहम् ॥

18.229

अथ वा गच्छ मुग्धेति माम् उक्त्वा स्वयम् एव सः
गङ्गदत्तगृहद्वारम् अनयत् प्रीतयाचकम् ॥

18.230

तस्मान् माम् आगतं श्रुत्वा दौवारिकपरंपरा
अन्तःकक्षान्तरस्थाय मातुलाय न्यवेदयत् ॥

18.231

गङ्गौघस्येव पततस् तुषारगिरिगह्वरे
अथान्तस्तारगम्भीरः प्रवृत्तः क्रन्दितध्वनिः ॥

18.232

ततः सदारभृत्येन तस्मान् निर्याय मन्दिरात्
गङ्गायां गङ्गदत्तेन पित्रे दत्तं जलं मम ॥

18.233

तत्राहम् उपभुञ्जानः सान्तर्दुःखं महत्सुखम्
कालस्तोकं नयामि स्म विषभिन्नम् इवामृतम् ॥

18.234

एकदा लब्धविश्रमं माम् अभाषत मातुलः
भागिनेयार्थये यत् त्वां तद् अनुष्ठातुम् अर्हसि ॥

18.235

यद् अनन्तम् अकुप्यं च द्रविणं मम पश्यसि
गुणद्रविणराशेस् तद् उत्पन्नं मित्रवर्मणः ॥

18.236

स्वस्मात् स्वस्मात् तद् आदाय प्रतिज्ञाताच् चतुर्गुणम्
द्रष्टुं त्वद्विरहम्लानां मातरं परिगम्यताम् ॥

18.237

तस्मिंश् च क्षीणए एवान्या गन्त्री ते द्रव्यसंहतिः
अक्षयप्रभवो ह्य् अस्या गङ्गाया हिमवान् इव ॥

18.238

स्वे स्वस्मिन् सति चानन्ते लिप्सान्यस्मिन् विगर्हिता
विज्ञातसाङ्गवेदार्थः कः पठेन् मातृकाम् इति ॥

18.239

अनुशासतम् इत्यादि गङ्गदत्तम् अथावदम्
सारे ऽर्थे दृढनिर्बन्धं मा मां व्याहत मातुल ॥

18.240

प्रवर्त्यो गुरुभिः कार्ये यत्र बालो बलाद् अपि
स्वयम् एव प्रवृत्तस् तैर् निवर्त्येत कथं ततः ॥

18.241

यच् चोक्तं मामकैर् अर्थैः कुटुम्बं जीव्यताम् इति
एतत् सहस्तपादाय मादृशे नोपदिश्यते ॥

18.242

मातुलाद् धनम् आदाय यो जीवति समातृकः
ननु मातुलमात्रैव क्लीबसत्त्वः स जीव्यते ॥

18.243

स्थिरसत्त्वं स बुद्ध्वा माम् आलापैर् एवमादिभिः
आप्तैर् अकारयद् भृत्यैश् चक्षूरक्षितम् आदृतैः ॥

18.244

पलायमानं कः शक्तो म्रियमाणं च रक्षितुम्
इति लोकाद् इदं श्रुत्वा पलाय्नपरो ऽभवम् ॥

18.245

अथ सांयात्रिकं कंचिद् गमिष्यन्तं महोदधिम्
अदृष्टः केनचिद् गत्वा विनयेनाभ्यवादयम् ॥

18.246

तस्मै च कथयामि स्म प्रकृष्टान् आत्मनो गुणान्
तृष्णादासीविधेया हि किं न कुर्वन्ति पातकम् ॥

18.247

अहं चम्पानिवेशस्य तनयो मित्रवर्मणः
सर्वरत्नपरीक्षादि कलाकुलविशारदः ॥

18.248

युष्माभिश् च सनाथत्वम् अहम् इच्छामि साधुभिः
त्वादृङ्नाथो ह्य् अनथो ऽपि मुख्यो नाथवताम् इति ॥

18.249

स मित्रवर्मणो नाम श्रुत्वैवानन्दविह्वलः
श्रद्दधाति स्म दुःसाध्यां मयि सर्वज्ञताम् अपि ॥

18.250

अवोचच् च पुराभूम सनाथा मित्रवर्मणा
अधुना भवता तात ततः प्रस्थीयताम् इति ॥

18.251

अथ देवद्विजगुरून् अर्चित्वा मङ्गलोज्ज्वले
प्रशस्ते तिथिनक्षत्रे बोहित्थम् अमुचद् वणिक् ॥

18.252

तरङ्गजलदालयं मकरनक्रचक्रग्रहं पिनाकधरकंधरप्रभम् अनन्तम् अप्रक्षयम्
महार्णवनभस्तलं लवणसिन्धुनौछद्मना वियत्पथरथेन तेन वणिजस् ततः प्रस्थिताः ॥

18.253

कथं वा न विमानं तद् येन मानसरंहसा
लोचनोन्मेषमात्रेन योजनानां शतं गतम् ॥

18.254

ततो जलगजेन्द्रेण जलाद् उन्मज्जताहतः
विशीर्णबन्धनः पोतः पट्टशः स्फुतति स्म सः ॥

18.255

यस्य केशेषु जीमूता इति गीताम् अनुस्मरन्
दैवात् फलकम् आलम्ब्य प्रापं तोयनिधेस् तटम् ॥

18.256

क्षणं विश्रम्य तत्राहं हा किं वृत्तम् इति ब्रुवन्
उद्भ्रान्तोद्भ्रान्तदिक्कत्वाद् भ्रान्तवान् सिन्धुरोधसि ॥

18.257

चन्दनागरुकर्पूर लवङ्गलवलीवनैः
यत्राक्रान्ताः सरित्वन्तः शैलोपान्ताः समन्ततः ॥

18.258

कदलीनारिकेरादि फलिनद्रुमसंकटाः
आरण्यकैर् अरण्यान्यो भज्यन्ते यत्र कुञ्जरैः ॥

18.259

शिलापिहितपूर्वार्धे दरीद्वारे ततः क्वचित्
शिलापिहितपूर्वाङ्गीम् अङ्गनाम् अस्मि दृष्टवान् ॥

18.260

ततो यथाप्रमाणेन निर्निमेष्.एण चक्षुषा
ऋजुतानिर्विकारत्वान् माम् असौ त्रस्तम् ऐक्षत ॥

18.261

आसीच् च मम काप्य् एषा दानवी देवतापि वा
न हि रूपं मया दृष्टं नार्याः कस्याश्चिद् ईदृशम् ॥

18.262

अथ वा क्षुधिता कापि देवतारूपकञ्चुका
माम् इहैकाकिनं दृष्ट्वा प्राप्ता नक्तंचराङ्गना ॥

18.263

राक्षस्यो ह्य् अप्सरोरूपा मादृशेषु प्रमादिषु
रन्ध्रेषु प्रहरन्तीति यत् तन् माम् इदम् आगतम् ॥

18.264

तस्माद् अस्माद् अहं देशात् पलाये सभयाद् इति
प्रस्थितश् चिन्तयित्वा च सा च माम् इत्य् अभाषत ॥

18.265

भोः साधो मा भवत् ते भीर् नाहं नक्तंचराङ्गना
बोहित्थव्यसनभ्रष्टां विद्धि मां मानुषीम् इति ॥

18.266

अथ श्रुत्वेदम् उत्कृष्टात् साध्वासाद् ऊर्ध्वमूर्धजः
त्रातारौ जगतो वन्दे पार्वतीपरमेश्वरौ ॥

18.267

आसीच् च मम दिव्येयम् इति संप्रति निश्चितम्
निर्निमेषा यतो यच् च परिचित्तज्ञमानसा ॥

18.268

यद्य् एषा राक्षसी तस्मात् क्व गतः स्यां पलायितः
निश्चित्येति परावृत्य बिभ्यन्तीम् इदम् अब्रवम् ॥

18.269

यदि त्वं मानुषी सत्यं दरीद्वाराद् इतस् ततः
निर्गत्यात्मानम् आचक्ष्व दिव्या चेत् पाहि माम् इति ॥

18.270

अथ ह्रीतेव सा किंचिन् नेत्रे संमील्य् साश्रुणी
शिलानुष्ठितवस्त्रार्धे पूर्वकाये न्यपातयत् ॥

18.271

ततः संमीलिते दृष्ट्वा तया नेत्रे ममाभवत्
ननु मानुषयोषैव वराक्य् एषा निरम्बरा ॥

18.272

ततः पराङ्मुखीभूय स्वशातकम् अपाटयम्
इदं वस्स्वेति ताम् उक्त्वा तस्यै तस्यार्धम् अक्षिपम् ॥

18.273

छादितच्छादनीयाङ्गी बाहुवस्त्रार्धमूर्धजैः
ततः स्वजघनस्फीताम् अध्यशेत शिलाम् असौ ॥

18.274

अथ नातिसमीपस्थः परित्रस्तः परस्त्रियाः
भद्रे कस्यासि का वेति ताम् अपृच्छम् अवाङ्मुखः ॥

18.275

मानुषी मानुषं दृष्ट्वा देशे दुर्लभमानुषे
लब्धबन्धुर् इवारण्ये विश्रब्धारब्ध भाषितुम् ॥

18.276

साधुधर्मार्थसर्वार्थः सार्थवाहो ऽस्ति सागरः
राजराजगृहाकार गृहे राजगृहे पुरे ॥

18.277

यावनीनामिका यस्य जाया यवनदेशजा
या प्रकृष्टे ऽपि सौभाग्ये पतिं देवम् इवार्चति ॥

18.278

तयोः सागरदिन्नाख्यः पुत्रः पित्रोर् गुणैः समः
ज्येष्ठः समुद्रदिन्नश् च तत्सनामा च कन्यका ॥

18.279

चम्पाभूषणभूतस्य सत्पतेर् मित्रवर्मणः
सुताय सानुदासाय सा च पित्रा प्रतिश्रुता ॥

18.280

सानुदासश् च रूपेण स्मरेण सदृशः किल
सकलं च कलाजालं वेदेति जगति श्रुतिः ॥

18.281

अथ वा न कलाजालं जालं वेद स केवलम्
को हि नाम कलाशाली कर्म तादृशम् आचरेत् ॥

18.282

स हि वेश्याहृताशेष गुणद्रविणसंचयः
समब्राह्मणचण्डालैश् चौरैः सार्थवधे हतः ॥

18.283

तच् च वैशसम् आकर्ण्य सानुदासस्य दुःश्रवम्
सागरस्य कुटुम्बं तत् प्रस्थितं यवनीं प्रति ॥

18.284

यानपात्रविपत्तौ च विपन्नं लवणाम्भसि
मेदिनीमण्डलध्वंसे जन्तूनाम् इव मण्डलम् ॥

18.285

यासौ समुद्रदिन्नेति कन्या निन्दितलक्षणा
न तस्यै निर्दयेनापि सिन्धुना दत्तम् अन्तरम् ॥

18.286

सागरेण च या कन्या सानुदासाय कल्पिता
सागरेण निरस्ता च मन्दभाग्याहम् एव सा ॥

18.287

किं कर्तव्यं क्व गन्तव्यं किं वृत्तं किं नु वर्तते
इति चिन्ताविनोदाहम् इहासे प्रियजीविता ॥

18.288

शुक्तीनां तटभिन्नानां मांसैर् दावाग्निसाधितैः
प्रज्ञातैः फलमूलैश् च पुष्णामि विफलां तनुम् ॥

18.289

लुब्धत्वाच् च वणिग्जातेर् आहृत्याहृत्य सैकतात्
मौक्तिकस्य गुहाकोणे राशिः प्रांशुर् मया कृतः ॥

18.290

मम तावद् इयं वार्त्ता त्वदीयाख्यायताम् इति
इति पृष्टस्य मे चित्तम् इति चित्तम् अभूत् तया ॥

18.291

सादुदासो ऽहम् एवेति यद्य् अस्यै कथयाम्य् अहम्
अन्यद् एव किम् अप्य् एषा मयि संभावयिष्यति ॥

18.292

संभावयतु नामेयम् अहं पुनर् इमां कथम्
विपन्मग्नाम् उपेक्षेयं पुरुषः सन् स्त्रियम् सतीम् ॥

18.293

अपि चेदं स्मराम्य् एव तातपादैर् यथा वृता
पित्रा चेयं प्रतिज्ञाता तेन व्यर्था विचारणा ॥

18.294

अथेत्थं कथयामि स्म चम्पायाम् अभवद् वणिक्
मित्रवर्मेति यः स्वस्थो यशसाद्यापि तिष्ठति ॥

18.295

यस्य मित्रवती जाया सानुदासः सुतस् तयोः
स ताभ्याम् एकपुत्रत्वाज् ज्ञापितः सकलाः कलाः ॥

18.296

असौ चालीकपाण्डित्याल् लोकवृत्तपराङ्मुखः
सुहृद्भिर् धूर्तचित्तज्ञैर् दास्या संगमितः सह ॥

18.297

सानुदासः स एवाहं सर्वस्वं मे तया हृतम्
साथ मानर्थकं ज्ञात्वा निर्वासयितुम् ऐहत ॥

18.298

अथास्मिन्न् अन्तरे सा मां भाषमाणम् अभाषत
किंचित् पृच्छामि यत् तन् मे यूयम् आख्यातुम् अर्हथ ॥

18.299

स्नानशाटकम् आनीय स्थूलं तैलमलीमसम्
प्रासादाग्रे यद् उक्ताः स्थ दास्या तत् कथ्यताम् इति ॥

18.300

मया तूक्तं तयोक्तो ऽहं दारिकाया मुहूर्तकम्
अभ्यङ्गः क्रियते तस्माद् भवान् अवतरत्व् इति ॥

18.301

साथापृच्छत् पुरे षष्ठे रत्नसंस्कारकारकैः
किम् उक्ताः शिल्पिभिर् यूयम् इति प्रत्यब्रुवं ततः ॥

18.302

तैर् उक्तो ऽहं प्रवीनो ऽसि त्वत्तो लज्जामहे वयम्
तस्माद् अस्मात् पुरात् षष्ठत् पञ्चमं गम्यताम् इति ॥

18.303

इत्यादि यत् तया पृष्टं वृत्तं वृत्तं मयाखिलम्
सार्थध्वंसावसानान्तं प्रत्युक्तं सकलं मया ॥

18.304

अथ कूर्माङ्गनेवाङ्गैर् अङ्गे ऽलीनापि लज्जया
माम् आलिङ्गद् अपाङ्गेन सानङ्गाभ्यङ्गचारुणा ॥

18.305

ततस् तां पृष्टवान् अस्मि भीरु किं क्रियताम् इति
साथ प्रसारयत् स्विन्नं स्फुरन्तं दक्षिणं करम् ॥

18.306

गम्भीरं ध्वनति ततः समुद्रतूर्ये गायत्सु श्रुतिमधुरं शिलीमुखेषु
नृत्यत्सु स्फुटरटितेषु नीलकण्ठेष्व् आलम्बे करम् इभतालुताम्रम् अस्याः ॥

18.307

ततस् तत् तादृशं दुःखं पोतभङ्गादिहेतुकम्
सर्वम् एकपदे नष्टं साधाव् अपकृतं यथा ॥

18.308

पाषण्डिनो गृहस्थांश् च मोक्षस्वर्गाभिकाङ्क्षिणः
चिन्तितांस् तान् हसामि स्म प्रत्युत्पन्नमहासुखः ॥

18.309

मीनकूर्मकुलीरादि वृष्यवारिचरामिषैः
नारिकेलादिभिश् चाङ्गम् अपुषावोपबृम्हिभिः ॥

18.310

पुलिनैः सिन्धुराजस्य मुक्ताविद्रुमसंकटैः
राजहंसाव् इवोत्कण्ठौ प्रीतौ समचरावहि ॥

18.311

कदाचित् कुञ्जशिखरैर् अचलानां सनिर्झरैः
सफलद्रुमसंनाहैः करेणुकलभाव् इव ॥

18.312

लवङ्गपूगकर्पूर ताम्बूलाद्यैर् अदुर्लभैः
नित्यम् अङ्गम् अनङ्गाङ्गैः समस्कुर्व सचन्दनैः ॥

18.313

गुहालतागृहावासौ वसितद्रुमवल्कलौ
देवम् आत्मभुवं ध्यान्तौ जातौ स्वः कामयोगिनौ ॥

18.314

ततः समुद्रदिन्ना माम् इत्य् अवोचत् कदाचन
भिन्नपोतवणिग्वृत्तम् अर्यपुत्र समाचर ॥

18.315

दिवा प्रांशोस् तरोर् अग्रे प्रांशुर् उच्छ्रीयतां ध्वजः
ज्वलनो ज्याल्यतां रात्रौ तुङ्गे सागररोधसि ॥

18.316

कदाचिन् नाविकः कश्चिद् आलोक्यावान्तरं द्वयोः
स्वदेशम् आनयेद् आवां धर्मो ऽयं वणिजाम् इति ॥

18.317

युक्तम् आहेति निर्धार्य तथैव कृतवान् अहम्
आप्तानाम् उपदेशो हि प्रमाणं योषिताम् अपि ॥

18.318

ततस् तुङ्गेषु रंहन्ती भङ्गशृङ्ग्षु भङ्गिषु
मद्गुपङ्क्तिर् इवागच्छद् उपनौकारुणोदये ॥

18.319

तां द्विनिर्यामकारूढाम् आरूढः पटुरंहसम्
प्राग्वातालीम् इवाम्भोदः प्रातिष्ठं दूरम् अन्तरम् ॥

18.320

पश्यामि स्म ततः सिन्धौ बोहित्थं स्थिरम् अस्थिरे
कातराणाम् इव व्राते स्थिरसत्त्वम् अवस्थितम् ॥

18.321

तत्र वाणिजम् अद्राक्षं महाद्रविणभाजनम्
कैलासए इव शुभाग्रं महापद्ममहानिधिम् ॥

18.322

अभिवादयमानं च मां दृष्ट्वा तेन सस्पृहम्
बाष्पवद्दृष्टिकण्ठेन भाषितं प्रस्खलद्गिरा ॥

18.323

किं जातिः कस्य पुत्रो ऽसि किं वा मातेति सर्वथा
किं त्वया तात पृष्टेन मित्रवर्मसुतो भवान् ॥

18.324

कथं पुनर् अमुं देशम् आगतो ऽसीति पृच्छते
विस्तरेण मया तस्मै सर्वपूर्वं निवेदितम् ॥

18.325

तेनोक्तम् असि दीर्घायुर् जामाता तनयश् च मे
आत्मा सागरदत्तश् च मित्रवर्मा च मे यतः ॥

18.326

गच्छ सागरदत्तस्य तनयां तच् च मौक्तिकम्
बहुनाविकया नावा तटाद् आनीयताम् इह ॥

18.327

अन्यच् चासिद्धरात्रो ऽहं किं च पोतं न पश्यसि
अवग्रहहृताम्भस्कं तडागम् इव रिक्तकम् ॥

18.328

ममेदं वहनं रिक्तं वोढव्यं सारवत् तव
नष्टाश्वदग्धरथवद् योगः श्लाघ्यो ऽयम् आवयोः ॥

18.329

मूल्यं तस्य च यत् तन् नौ समभागं भविष्यति
पूर्वं संमन्त्रितार्घस् त्वं धर्मो ऽयं वणिजाम् इति ॥

18.330

तच् च मौक्तिकम् आनीय पोतस् तेन प्रपूरितः
समुद्रदिन्नया पादौ वाणिजस्य च वन्दितौ ॥

18.331

तस्यै दशसहस्राणि वस्त्राण्य् आभरणानि च
तेन दत्तानि वदता वधूस् त्वं मे सुतेति च ॥

18.332

कृतं चातिप्रसङ्गेन संक्षेपः श्रूयताम् अयम्
प्रेरितं यानपात्रं च तद् विपन्नं च पूर्ववत् ॥

18.333

जीविते ऽपि निराशेन यानपात्रे निमज्जति
निगृहीताः शिखामध्ये मुक्ताः कतिपया मया ॥

18.334

ताश् च विज्ञापयामि स्म परस्मिन् मम जन्मनि
भगवत्यः सदा भक्तम् उपतिष्ठत माम् इति ॥

18.335

एवंप्राये च वृत्तान्ते तरंगान्तरतारणी
पट्टश्लिष्टा मया दृष्टा संनिकृष्टागता प्रिया ॥

18.336

माम् उपाहूयमानैव सा प्रसारितपाणिका
चपलेन तरंगेण बलाद् अपहृताबला ॥

18.337

तस्मै क्रुद्धस् तरंगाय महामोहम् अहं गतः
चेतये यावद् आत्मानं लोटन्तम् उदधेस् तटे ॥

18.338

कान्तां मुक्त्वा विमुक्तत्वात् प्रिवाविश्लेषविक्लवः
प्रक्रामन् विलपामि स्म निर्जने निरवग्रहः ॥

18.339

नमस् ते भगवन् मोह निर्वाणप्रीतिदायिने
कालाकालविदाशून्यं चेतनां धिग् अचेतनाम् ॥

18.340

मौक्तिकं गृह्यतां नाम तत् ते स्वं स्वं महोदधे
साधो साध्वी विपद्बन्धुः प्रिया मे मुच्यताम् इति ॥

18.341

याश् च ताः शिरसि न्यस्ता मुक्ताः पोते निमज्जति
सिरः कण्डूयमानेन ताः स्पृष्टाः पाणिना मया ॥

18.342

ताः परीक्षितवान् अस्मि तन्मात्रद्रविणस् तदा
तत् किं परीक्षितं तासां या न दृष्टाः परीक्षकैः ॥

18.343

स शोकस् तासु दृष्टासु यत् सत्यम् अभवत् तनुः
यद् एतद् द्रविणं नाम प्राणा ह्य् एते बहिश्चराः ॥

18.344

शाटकान्ते च ता बुद्ध्वा दृढया ग्रन्थिमालया
वेलाकुलेन यामि स्म धीरधीर् द्रविणोष्मणा ॥

18.345

कदलीफलचिक्खल्ल प्रस्खलच्चरणः क्वचित्
नारिकेलजलोच्छिन्न पिपासावेदनः क्वचित् ॥

18.346

एलामरिचताम्बूल वल्लीवेल्लितपल्लवैः
पनसक्रमूकारामैर् नीतदृक् फलबन्धुरैः ॥

18.347

गोलाङ्गूलादिविक्रान्त विशीर्णकुसुस्मेषु च
क्वचिच् चम्पकषण्डेषु गमयन् गमनश्रमम् ॥

18.348

दिनान्तकपिशाङ्गे च दिवसान्तदिवाकरे
धावद्धेनुधनोद्धूत धूलीकं ग्रामम् आसदम् ॥

18.349

ततस् तत्र वसत्य् अर्थं यं यं याचे स्म कंचन
धन्निनुं चोल्लिदिति च ब्रवीति स्म हसन् स सः ॥

18.350

अथैकेन द्विभाषेण गृहं नीत्वा कुटुम्बिना
जामातेव चिरात् प्राप्तः प्रियः प्रीत्यास्मि सत्कृतः ॥

18.351

तं च स्वशयनासन्नम् अपृच्छं रजनीमुखे
देशो ऽयं कतमः साधो कतमद् वात्र पत्तनम् ॥

18.352

तेनोक्तं पाण्ड्यदेशो ऽयम् अनुदक्षिणसागरम्
महापद्मनिधिप्राप्ति रम्यं यत्रार्थिदर्शनम् ॥

18.353

इतश् च पाण्ड्यमथुरा ग्रामान् मृदुनि योजने
विश्रम्य रजनीम् अत्र प्रातर् गन्तासि ताम् इति ॥

18.354

सुप्तेन प्रियया सार्धम् असुप्तेनार्थचिन्तया
संक्षिप्ता च निरस्ता च यापिता यामिनी मया ॥

18.355

प्रातः क्रोशद्वयातीतः कदलीषण्डसंवृतम्
पान्थसंहातसंबाधम् अपश्यं सत्त्रमण्डपम् ॥

18.356

पश्यामि स्म च वैदेशान् क्रियमाणक्षुरक्रियान्
अभ्यङ्गोच्छादनाच्छाद भोजनाद्यैश् च सत्कृतान् ॥

18.357

कृतक्षौरादिकर्मा तु लब्धवस्त्रोत्तमाशनः
पृष्टो ऽस्मि सत्त्रपतिना शय्यास्थः शर्वरीमुखे ॥

18.358

क्वचित् कश्चित् त्वया दृष्टः प्राज्ञो वाणिजदारकः
सानुदास इति प्रांशुः श्यामस् ताम्रान्तलोचनः ॥

18.359

ततस् तं पृष्टवान् अस्मि सानुदासेन किं तव
कस्य वा सानुदासो ऽसाव् इति तेनोदितं ततः ॥

18.360

गङ्गदत्ताभिधानस्य ताम्रलिप्तीविभूषणः
गुणवान् भागिनेयो ऽसौ गतः पोतेन सागरम् ॥

18.361

स च पोतः किलाम्भोधौ प्रभञ्जनपराहतः
प्रविशीर्णः पयःपूर्णः पयोधर इवाम्बरे ॥

18.362

वार्त्ता चेयं प्रसर्पन्ती मूर्छातिशयदायिनी
क्रूराशीविषयोषेव गङ्गद्दत्तम् अमूर्छयत् ॥

18.363

तेनापि सर्वदेशेषु कान्तारेषु तरेषु च
प्रवर्तितानि सत्त्राणि वेलातटपुरेषु च ॥

18.364

कदाचित् सानुदासस्य पोतापेतस्य जीवतः
पान्थः कश्चित् क्वचित् सत्रे प्रवृत्तिं कथयेद् इति ॥

18.365

तत् ते यदि स दीर्घायुर् आयुष्मन्दर्शनं गतः
आचक्ष्व नस् ततो दीना जनता जीव्यताम् इति ॥

18.366

मम त्व् आसीत् प्रतिज्ञायाः कियत्संपादितं मया
अस्मै यद् अहम् आत्मानम् आचक्षे ऽपहतत्रपः ॥

18.367

तस्माद् इति ब्रवीमीति विनिश्चित्येदम् अब्रवम्
सानुदासः पुनः पोतम् आरुह्य गतवान् इति ॥

18.368

प्रातश् च पाण्ड्यमथुराम् आश्चर्यशतशालिनीम्
प्रायं पूरितसर्वेच्छां चिन्तामणिशिलाम् इव ॥

18.369

तस्याम् अध्यासि भिन्नाभ रत्नपञ्जरसंकुलम्
अगस्त्यपीतपानीय सागराकारम् आपणम् ॥

18.370

तत्रालंकारम् आदाय द्वाव् उपागमतां नरौ
तस्य चैक्तरः क्रेता विक्रेतान्यतरस् तयोः ॥

18.371

तौ तं वाणिजम् अब्रूतां रत्नतत्त्वविदा त्वया
उचितं भूषणस्यास्य मूल्यम् आख्यायताम् इति ॥

18.372

तेनापि तच् चिरं दृष्ट्वा न जानामीति भाषिते
तौ मां निश्चलया दृष्ट्या दृष्टवन्तम् अपृच्छताम् ॥

18.373

निश्चलस्निग्धया दृष्ट्या सुष्ठु दृष्टम् इदं त्वया
मन्यावहे विजानाति मूल्यम् अस्य भवान् इति ॥

18.374

अनास्थोत्तानहस्तेन ततः स्मित्वा मयोदितम्
नैवेदम् अतिदुर्ज्ञानं किं मुधेवाकुलौ युवाम् ॥

18.375

कोटिर् अस्य समं मूल्यं रत्नतत्त्वविदो विदुः
तस्माद् अधिकम् ऊनं वा क्रेतृविक्रायकेच्छया ॥

18.376

अथ विक्रायकस् तोषान् मुक्ताश्रुर् माम् अवोचत
यदीयं मूल्यम् एतस्य धनं धन्यास् ततो वयम् ॥

18.377

अपि भूषणम् एतन् मे कोटिमूल्यं भवेद् इति
सदैव मे मनस्य् आसीद् अयम् एव मनोरथः ॥

18.378

अथेति क्रायकेणोक्तं ममाप्य् आसीन् मनोरथः
अपि नाम लभेयाहम् इदं कोट्येति चेतसि ॥

18.379

ततस् ताव् अस्तुवातां मां नमस् ते विश्वकर्मणे
को हि मानुषदुर्बोधम् इदं बुध्यते मानुषः ॥

18.380

क्रयविक्रयकामाभ्याम् आवाभ्यां बहुशः पुरी
द्रव्यस्यास्य परीक्षार्थं परिक्रान्ता समन्ततः ॥

18.381

पृथिवी मूल्यम् अस्येति कश्चिद् आह परीक्षकः
अजानन् काकिनीत्य् अन्यो न किंचिद् इति चापरः ॥

18.382

त्वत्कृतेन तु मूल्येन जनितं नौ महत्सुखम्
एतद् एकार्थयोर् आसीद् अभीष्टम् उभयोर् अपि ॥

18.383

इत्यादि तौ प्रशस्ताय प्रादिषातां ससंमदौ
अयुतं मे सुवर्णानां ससाराभरणाम्बरम् ॥

18.384

अथ वार्त्ताम् इमां श्रुत्वा नृपेणाहूय सादरम्
परीक्षितो ऽस्मि रत्नानि वर्जितानि परीक्षकैः ॥

18.385

बहुभृत्यं बहुधनं बहुवृत्तान्तनिष्कुटम्
विशालं बहुशालं च प्रीतः प्रादात् स मे गृहम् ॥

18.386

अतः परम् अहं तस्याम् आसं पुरि परीक्षकः
धर्मेणैव च मां कश्चिन् न परीक्षाम् अकारयत् ॥

18.387

एवं च वसतस् तत्र ममेयम् अभवन् मतिः
केन नामाल्पमूल्येन महालाभो भवेद् इति ॥

18.388

उपलभ्यस् ततो लोकात् कर्पासो गुणवान् इति
तस्य कैलासकूटाभान् सप्त कूटान् अकारयम् ॥

18.389

धिक् कर्पासकथं तुच्छां सर्वथा मूषकेण ते
प्रदीपशिखया कूटा गमिता भस्मकूटताम् ॥

18.390

मथुरायां च मर्यादा गृहं यस्य प्रदीप्यते
प्रक्षिप्यते स तत्रैव सकुटुम्बो रटन्न् इति ॥

18.391

अथ हस्तद्वितीयो ऽहम् इयं दिग् इति संभ्रमन्
उदीचीं दिशम् उद्दिश्य कान्दिशीकः पलायितः ॥

18.392

धावित्वा च त्रियामार्धम् अहरर्धं च रंहसा
दुर्गाद् उत्क्रम्य सुप्तो ऽहं वटमुले महाश्रमः ॥

18.393

अथांशुमति शीतांशौ प्रशान्तप्रबलश्रमः
जनताध्वनिम् अश्रौषम् अभितो वटम् उत्कटम् ॥

18.394

आसीच् च मम हा कष्टं हन्त नष्टो ऽस्मि संप्रति
ज्वलति ज्वलने क्षिप्तो निर्घृनैर् द्रविडैर् इति ॥

18.395

अथ कन्थाजरच्छत्त्र पादुकादिपरिच्छदान्
अद्राक्षं पथिकाकल्पाञ् जल्पतो गौडभाषया ॥

18.396

हा मातर् जीवितो ऽस्मीति तान् आलोक्याश्वसं ततः
रक्षोमुक्तो हि नाश्वस्यात् को वा दृष्ट्वा नरान् नरः ॥

18.397

आस्तीर्णपर्णशय्यास् ते ततो न्यस्तपरिच्छदाः
परितो माम् उपासीनाः समपृच्छन्त विश्रमाः ॥

18.398

आगच्छति कुतो देशान् नगराद् वा भवान् इति
मयापि कथितं तेभ्यः पाण्ड्यदेशपुराद् इति ॥

18.399

अथ तैः सस्पृहैः पृष्टं मथुरायां त्वया यदि
सानुदासो वणिग्दृष्टस् ततो नः कथ्यताम् इति ॥

18.400

मयोक्तं सानुदासाख्यो वणिक् तत्र न विद्यते
भवन्तः कतमत् तत्र पृच्छन्तीत्य् उच्यताम् इति ॥

18.401

ततस् ते कथयन्ति स्म ताम्रलिप्त्यां वणिक्पतिः
गङ्गदत्तो गुणान् यस्य न न वेद भवान् अपि ॥

18.402

ये गुणान् न विदुस् तस्य सद्वीपात् प्राङ्महोदधेः
व्यापिन्या कीर्तितान् कीर्त्या न जातास् ते ऽथ वा मृताः ॥

18.403

स्वस्रीयः सानुदासो ऽस्य पोतभङ्गात् किल च्युतः
अध्यास्ते पाण्ड्यमथुरां कृतकर्पाससंग्रहः ॥

18.404

गङ्गदत्तस् तु पान्थेभ्यः प्रवृत्तिम् उपलभ्य ताम्
आहूयाह स्म सुहृदः प्रीतांश् च परिचारकान् ॥

18.405

ये मे शोणितम् आयान्ति गृहीत्वा दक्षिणापथात्
तान् अहं सुहृदः स्फीतैस् तोषयामि धनैर् इति ॥

18.406

तद् वयं गङ्गदत्तेन तम् आनेतुं विसर्जिताः
यदि चासौ त्वया दृष्टस् तद् आचष्टां भवान् इति ॥

18.407

मम त्व् आसीद् वरं क्षिप्तस् तत्रैवाहं विभावसौ
न त्व् अपूर्णप्रतिज्ञेन मातुर् आननम् ईक्षितुम् ॥

18.408

अथेत्थं कथयामि स्म सानुदासस् तपस्विकः
कर्पासे ज्वलति क्षिप्तः पाण्ड्यैर् निष्करुणैर् इति ॥

18.409

ततस् ताडितवक्षस्कास् तारम् आरट्य ते चिरम्
इति संमन्त्रयन्ते स्म विषादक्षामवाचकाः ॥

18.410

गङ्गदत्तार्थिता यूयं सानुदासार्थम् आगताः
तस्मै तन्मृत्युवृत्तान्तं कथं शक्ष्यथ शंसितुम् ॥

18.411

वार्त्तां चेमाम् उपश्रुत्य वैवस्वतहसाशिवाम्
चम्पायां ताम्रलिप्त्यां च जीवितव्यं न केनचित् ॥

18.412

तद् आत्मानं परित्यज्य स्वामिनो भवतानृणाः
गङ्गदत्तो ऽपि तद्वार्त्ताम् अन्यतो लभताम् इति ॥

18.413

ते काष्ठस्कन्धम् आदीप्य प्रवेष्टुमनसस् ततः
स्तुवन्तो देवताः स्वाः स्वाः पर्यक्रामन् प्रदक्षिणम् ॥

18.414

मम त्व् आसीद् अहो कष्टं बद्धो ऽहं नरशम्बरः
सोत्साहैर् अपि दुर्लङ्घ्यं जालं जाल्मैः प्रसारितम् ॥

18.415

अथोच्चैर् आरटामि स्म भो भो त्यजत साहसम्
सानुदासः स एवाहं विधेयो भवताम् इति ॥

18.416

विषादेन ततस् तेषाम् असवो निर्यियासवः
अस्मत्संप्राप्तिहर्षेण जाताः कण्ठोपकण्ठगाः ॥

18.417

शेषत्वाद् आयुषस् ते ऽपि विनिवृत्तप्रियासवः
हर्षार्द्राः समकूर्दन्त तालक्षोभितकाननाः ॥

18.418

ते स्तुवन्तस् ततो हृष्टाः सुगतं सौगता इव
बहुकृत्वः परिक्रम्य माम् अवन्दत मूर्धिभिः ॥

18.419

ते ऽथ मां शिबिकारूढं नातिदीर्घैः प्रयानकैः
निधिलाभाद् इव प्रीतास् ताम्रलिप्तीम् अनेषत ॥

18.420

अथ क्षितिपतेः पुत्रं परिणेतुम् इवागतम्
हृष्टः प्रत्युदगच्छन् मां मातुलः स्फीतडम्बरः ॥

18.421

व्यासेनापि न शक्यो ऽसौ व्यासेनाख्यातुम् उत्सवः
समासेन तवाख्यामि वाक्कुण्ठानाम् अयं विधिः ॥

18.422

तिष्ठन्तु तावद् अकलङ्ककुटुम्बिदाराः शीतांशुभास्वदनिलैर् अपि ये न दृष्टाः
सिन्दूरपाटलितखण्डनटैर् नटद्भिर् नग्नाटकैर् अपि नरेन्द्रपथेषु गीतम् ॥

18.423

विद्यावृत्तैस् ततो विप्रैर् गङ्गदत्तः स्वयं च माम्
मधुरैर् उपपन्नैश् च वचनैर् इत्य् अबोधयत् ॥

18.424

पिता मे ध्रियते भर्ता भृत्यान् आत्तेन किं मम
आत्मनायासितेनेति प्राग् अभूस् त्वम् उपेक्षकः ॥

18.425

अधुना जननीजाया प्रजागुरुजनादिभिः
अवश्यभरणीयैश् च रक्ष्यैश् च परवान् भवान् ॥

18.426

तद् भवद्भर्तृके तत्र वर्गे प्रोषितभर्तृके
असारथाव् इव रथे ध्रुवं यन् न ब्रवीमि तत् ॥

18.427

तस्माद् उत्कण्ठयोत्कण्ठं त्वयि तात दिदृक्षया
स्वकुटुम्बम् अनुकण्ठं कुरु याहि गृहान् इति ॥

18.428

एकदा क्.अम्चिद् अद्राक्षम् आचेरं नाम वाणिजम्
सुवर्णभूमये यान्तम् अनन्तैः सह वाणिजैः ॥

18.429

तैर् गत्वा सह पोतेन कंचिद् अध्वानम् अम्बुधेः
तटे बोहित्थम् उज्झित्वा प्रातिष्ठामहि रोधसा ॥

18.430

अथाभ्रंलिहशृङ्गस्य पादं पादपसंकटम्
आवसाम नगेन्द्रस्य लोहितायति भास्वति ॥

18.431

ततस् तत्राहृताहारान् निषण्णान् पर्णसंस्तरे
इत्य् अस्मान् अनुशास्ति स्म सार्थवाहः क्षपाक्षये ॥

18.432

त्रिधा पृष्ठेषु बध्नीत पाथेयस्थगिका दृढम्
ग्रीवासु तैलकुतुपान् समासजत वाणिजाः ॥

18.433

एताश् च कोमलाः स्थूलाः शोषदोषादिवर्जिताः
हस्तैर् वेत्रलता गाढम् आलम्ब्यारोहताचलम् ॥

18.434

लताम् अनीदृशीं मोहाद् यः कश्चिद् अवलम्बते
प्रमीतो हिमवत्य् अस्मिन् स प्रयाति परां गतिम् ॥

18.435

एष वेत्रपथो नाम सर्वोत्साहविघातकृत्
सुवर्णाशाप्रवृत्तानां महान् इव विनायकः ॥

18.436

एवमादि ततः श्रुत्वा विषण्णैर् अस्मदादिभिः
हेमगर्धग्रहग्रस्तैस् तथैव तद् अनुष्ठितम् ॥

18.437

अथैको दूरम् आरूढश् छिन्नवेत्रलताशिखः
क्षुरप्रक्षुरितज्याकः क्षोणीं शूर इवागमत् ॥

18.438

वयम् एवाचलाग्रं तद् आरुह्य परिदेव्य च
निरुप्य च जलं तस्मै तत्रैवानेष्महि क्षपाम् ॥

18.439

प्रातर् महान्तम् अध्वानं गत्वापश्याम निम्नगाम्
गवाश्वाजैडकाकार पाषाणकुलसंकुलाम् ॥

18.440

अथाचेरः पुरःस्थित्वा पान्थान् उच्चैर् अवारयत्
मा मा स्पृक्षत वार्य् एतद् भो भो तिष्ठत तिष्ठत ॥

18.441

मूढैः स्पृष्टम् इदं यैर् यैस् ते ते पाषाणतां गताः
अथ वा स्वयम् एवैनां सुहृदः किं न पश्यथ ॥

18.442

वंशान् पश्यथ यान् अस्याः परस्मिन् सरितस् तटे
अर्वाक्कूलं नुदत्य् एनान् पटुः परतटानिलः ॥

18.443

कार्श्यकौमलसंकोथ शोषदोषाविदूषितम्
एषाम् अन्यतमं गाढं गृह्णीध्वं मस्करं करैः ॥

18.444

वाते मन्थरतां याते मस्करात् तुङ्गतां गतात्
परस्मिन्न् आपगपारे शनकैर् अवरोहत ॥

18.445

कोथशोषादिदोषं तु यो ऽवलम्बेत मस्करम्
स ततः पतितो गच्छेच् छैलस्थिरशरीरताम् ॥

18.446

एष वेणुपथो नाम महापथविभीषणः
कुशलैः कुशलेनाशु निर्विषादैश् च लङ्घ्यते ॥

18.447

यथासुरबिलं बालः शासनान् मन्त्रवादिनः
प्रविवेशाविचार्यैव तथास्मभिस् तद् ईहितम् ॥

18.448

तेषाम् एकं कृशाद् वंशाद् विशीर्णाद् अपतत् ततः
शिलाभूतां तनुं त्यक्त्वा गतिं माहेश्वरीम् अगात् ॥

18.449

अवतीर्य तु वंशेभ्यस् तक्त्वा दूरेण तां नदीम्
तस्मै सलिलम् अन्यस्य अमदाम न्यवसाम च ॥

18.450

वाहयित्वा च पन्थानं योजनद्वयसं प्रगे
भुजंगस्यातिसंक्षिप्ताम् अद्राक्षं पदवीं ततः ॥

18.451

तस्याश् चोभयतो भीमम् अदृष्टान्तं रसातलम्
अन्धान्धकारसंघात वित्रासिततमोनुदम् ॥

18.452

अथाचेरो ऽवदत् पान्थान् दारुपर्णतृणादिभिः
आर्द्रशुष्कैर् अरण्यानी सधूमा क्रियताम् इयम् ॥

18.453

एतां दृष्ट्वा सपर्याणाञ् छार्दूलाजिनकङ्कटान्
छागान् विक्रेतुम् आयान्ति किराताः परितो दिशः ॥

18.454

तान् क्रीणीयात कौसुम्भ नैलशाकलिकाम्बरैः
खण्डतण्डुलसिन्दूर लवणस्नेहनैर् अपि ॥

18.455

छागपृष्ठानि चारुह्य गृहीतायतवेणवः
अतिगाहत चाध्वानं कालभ्रूदण्डभङ्गुरम् ॥

18.456

आदाय यदि चान्ये ऽपि काञ्चनं काञ्चनाकरात्
अनेनैव निवर्तेरन् पथा पान्थाः कदाचन ॥

18.457

ततस् तैर् अस्मदीयैश् च संमुखीनैर् इहान्तरे
रसातलं प्रवेष्टव्यं ससुवर्णमनोरथैः ॥

18.458

न महासंकटाद् अस्मान् मार्गाद् उत्क्रम्य विद्यते
छागपङ्क्तेर् अवस्थानं न निवर्तितुम् अन्तरम् ॥

18.459

तस्माद् अभ्यस्तकुन्तेन वीरेण प्रतिभावता
अनुभूतसमीकेन पङ्क्तेः प्रस्थीयतां पुरः ॥

18.460

समर्थस् तादृग् एको ऽपि हन्तुं परपरंपराम्
न पराभाव्यते यावद् अपरेण परेण सः ॥

18.461

अयं चाजपथो नाम श्रूयमाणो विभीषणः
दृश्यमानो विशेषेण भृगुः पातार्थिनाम् इव ॥

18.462

इत्य् आचेरे ब्रुवत्य् एवं प्रांशुकोदण्डमण्डला
आगच्छन् म्लेच्छपृतना छागपूगपुरःसरा ॥

18.463

तेषु तु प्रतियातेषु निष्कार्य क्रयविक्रयौ
स्नात्वावन्दन्त क्रदन्तः पान्थाः शंकरकेशवौ ॥

18.464

अथ पान्थास्थिता दीर्घा प्रस्थिता छागसंततिः
रंहसिन्य् अपि निष्कम्पा निवाते नौर् इवाम्भसि ॥

18.465

तस्याश् च पथिकश्रेण्याः सप्तमः पश्चिमाद् अहम्
आचेरश् चाभवत् षष्ठः पृष्ठतो ऽनन्तरो मम ॥

18.466

एवंप्राये च वृत्तान्ते दूराद् आश्रूयतोच्चकैः
वंशानां ताड्यमानानां पुरः ष्ठा ष्ठोदितस्वनः ॥

18.467

छागानां पुरुषाणां च धीराणाम् अपि सादकः
मज्जतां ध्वान्तजम्बाले मे मे हा हेति च ध्वनिः ॥

18.468

सर्वथा क्षणमात्रेण प्रक्षीणा परवाहिनी
एकशेषास्मदीया या सप्तमप्रमुखा स्थिता ॥

18.469

अथ माम् अवशास्ति स्म ग्रामणीः किम् उदास्यते
एककः पुरुषश् चायं परः स्वर् नीयताम् इति ॥

18.470

परस् तु वंशम् उज्झित्वा बद्ध्वा मूर्धनि चाञ्जलिम्
हतस्वपान्थसार्थत्वाद् अनाथो माम् अनाथत ॥

18.471

एकशाखावशेषस्य मद्वंशस्यावसीदतः
शाखाच्छेदेन नोच्छेदम् अत्यन्तं कर्तुम् अर्हसि ॥

18.472

एक एव प्रियः पुत्रः पित्रोर् अहम् अचक्षुषोः
अन्धयष्ठिस् तयोस् तस्माद् भ्रातर् मां मा वधीर् इति ॥

18.473

आसीच् च मम धिक् प्राणान् पापपांसुविधूसरान्
धिग् धिग् एव सुवर्णं तत् प्राप्यं प्राणिवधेन यत् ॥

18.474

तस्मान् निहन्तु माम् एष वराकः प्रियजीवितः
प्राणा यस्योपयुज्यन्ते पित्रोर् दुश्चक्षुषोर् इति ॥

18.475

अथ रोषविस्.आदाभ्याम् आचेरस् ताम्रनिष्प्रभः
अम्बूकृतम् अचोवन् मां वाचा निष्ठुरमन्दया ॥

18.476

अरे बालबलीवर्द कालाकालाविचक्षणः
क्व कृपाणोचितः कालः क्व कृपा कृपणोचिता ॥

18.477

अहो कारुणिकत्वं ते सिद्धं सिद्धान्तवेदिनः
एकस्य क्षुद्रकस्यार्थे यः षोडश जिघांसति ॥

18.478

सच्छागे निहते ह्यस्मिञ् जीविताः स्युश् चतुर्दश
अहते तु सहानेन भवता च हता वयम् ॥

18.479

न चापि रक्षितुं क्षुद्रम् आत्मानं दुस्त्यजं त्यजेत्
आत्मा तु सततं रक्ष्यो दारैर् अपि धनैर् अपि ॥

18.480

इत्यादि भगवद्गीता मात्रं दण्डकम् ईरयन्
स पार्थम् इव मां विष्णुः कर्म क्रूरम् अकारयत् ॥

18.481

अथाहं प्रबलव्रीडो गर्हमाणश् च कर्मवत्
चरणेषु परच्छागं सुकुमारम् अताडयम् ॥

18.482

छागपोते ततस् तस्मिन् ध्वान्तसिन्धौ निमज्जति
पान्थसांयात्रिको मग्नः सहैव धनतृष्णया ॥

18.483

वयं तु दुर्गमान् मार्गात् प्रक्षीणस्वल्पसैनिकाः
भारताद् इव संग्रामात् सप्तशेषा हतोद्यमाः ॥

18.484

तं च देशं परिक्रम्य प्राप्य विष्णुपदीतटम्
अश्रुमिश्रां प्रमीतेभ्यः प्रादाम सलिलाञ्जलिम् ॥

18.485

ततस् तत् तादृशं दुःखं बाधितं नो बुभुक्षया
शरीरवेदना नास्ति देहिनां हि क्षुधासमा ॥

18.486

अथासंपादिताहारान् पर्णशय्याधिशायिनः
मन्दनिद्राकुलाक्षान् नः प्रबोध्याह स्म नायकः ॥

18.487

अमी छागाः प्रमाप्यन्तां ततस् तन्मांसम् अद्यताम्
सीव्यन्ताम् अजिनैर् भस्त्रास् तेषां विपरिवर्तितैः ॥

18.488

तथा च परिधीयन्तां मुक्त्वा विघ्नकृतं घृणाम्
यथा तासाम् असृक्क्लिन्नं यद् अन्तस् तद् बहिर् भवेत् ॥

18.489

पक्षवन्त इवाहार्या दरीदारितचञ्चवः
हेमभूमेर् इमां भूमिम् आगच्छन्ति विहंगमाः ॥

18.490

मांसपिण्डधिया ते ऽस्मान् नभसादाय चञ्चुभिः
सुवर्णभूमये यान्ति तत् तत् संपाद्यताम् इति ॥

18.491

अथाहम् अब्रवं ब्रूते जनता यत् तथैव तत्
त्यज्यतां तत् सुवर्णं यच् छिनत्ति श्रवणे इति ॥

18.492

येनाहं दुर्गमान् मार्गाद् धर्मेणैव तु दुर्गतेः
तारितश् छागनागेन हन्यां तं निर्घृणः कथम् ॥

18.493

तस्माद् अलं सुवर्णेन प्राणैर् एवाथ वा कृतम्
येन तेनैव दत्तेभ्यस् तेभ्यो हन्यां सुहृत्तमम् ॥

18.494

अथाचेरो ऽवदत् पान्थान् अजः स्वः स्वः प्रमाप्यताम्
अयं तु सानुदासीयः सुदूरे मुच्यताम् इति ॥

18.495

तेषाम् एकतमः पान्थस् तम् अजं क्वापि नीतवान्
दण्डालम्बितकृत्तिश् च प्रतागत्येदम् उक्तवान् ॥

18.496

छागेन सानुदासस्य मयान्यः परिवर्तितः
तदीयं चेदम् आनीतम् अजिनं दृश्यताम् इति ॥

18.497

मया तु प्रत्यभिज्ञाय तस्यैवाजस्य चर्म तत्
उक्तं नासौ त्वया मुक्तः प्राणैर् मुक्तः प्रियैर् इति ॥

18.498

अथाप्तवचनाद् भीमं समुद्रतरणाद् अपि
युक्तिहीनं तद् अस्माभिर् नभोगमनम् इङ्गितम् ॥

18.499

ततो दुर्भगनिह्रादैः पाण्डुच्छविभिर् अण्डजैः
शारदैर् इव जीमूतैः साशम् आकाशम् आवृतम् ॥

18.500

तत्पक्षतिमरुत्पिष्ट गुरुस्कन्धनगो नगः
शक्रशस्त्रशिखाकृत्त पत्त्रचक्र इवाभवत् ॥

18.501

अथ कण्ठगतप्राणान् अस्मान् आदाय खं खगाः
आक्रामन् सप्त सप्तापि गरुत्मन्त इवोरगान् ॥

18.502

परिशिष्टो ऽपरस् तेषां स च मद्ग्राहिणो बलात्
निरंशत्वान् निरांशसो माम् एवाच्छेतुम् ऐहत ॥

18.503

अथ रौद्रम् अभूद् युद्धं गृध्रयोः स्वार्थगृद्धयोः
यथाम्बरचरत्रासि दशकण्ठजटायुषोः ॥

18.504

पर्यायेणाहम् आकृष्टश् चञ्चोश् चञ्चौ पतत्रिणोः
कच्चिच् च स्खलितस् तस्याः खस्तः शंकरम् अस्मरम् ॥

18.505

वज्रकोटिकठोराभिश् चञ्चूचरणकोटिभिः
कुट्टितं तत् तयोश् चर्म जातं तित:उजर्जरम् ॥

18.506

ततो निष्कुषितश् चाहं कुट्टिताच् चर्मकञ्चुकात्
पतितः सरसि क्वापि शोभाविस्मितमानसे ॥

18.507

तत्र शोणितशोणानि घृष्ट्वा गात्राणि पङ्कजैः
स्नातस् तर्पितदेवश् च पश्चाद् अमृतम् आहरम् ॥

18.508

तत्तटे क्षणम् आसित्वा निषद्य च गतश्रमः
अपूर्वबहुवृत्तान्तं दृष्टवान् अस्मि तद् वनम् ॥

18.509

यत्र विस्मृतवान् अस्मि दुःखं भारुण्डयुद्धजम्
असिपत्त्रवनापेतः संचरन्न् इव नन्दने ॥

18.510

शीर्णदुर्वणपर्णो वा विद्युद्दाहहतो ऽपि वा
अपुष्पः फलहीनो वा यत्रैको ऽपि न पादपः ॥

18.511

कदम्बमालतीकुन्द माधवीमल्लिकादयः
भृङ्गानीकैः सदा यत्र कृष्णकल्माषपल्लवाः ॥

18.512

चतुरङ्गुलतुङ्गैश् च नीलकण्ठगलासितैः
शशोर्णसुकुमारैश् च तृणैर् भूषितभूतलम् ॥

18.513

यत्र केसरिशार्दूल शिखण्डिभुजगादयः
व्रतयन्ति दयावन्तः पर्णपुष्पजलानिलान् ॥

18.514

अनिवृत्तदिदृक्षश् च काननं परितो भ्रमन्
कस्यापि चरणैः क्षुण्णाम् अद्राक्षं पदवीम् इव ॥

18.515

तया संचरमाणश् च मन्थरं दूरम् अन्तरम्
वामनोभयरोधस्काम् अगम्भीराम्भसं नदीम् ॥

18.516

तां च काञ्चनगाहादि रत्नकाञ्चनवालुकाम्
उत्तीर्याचर्य च स्नानम् आर्चिषं देवतागुरून् ॥

18.517

सरित्तटोपकण्ठे च कदलीकाननावृतम्
तपःकाननम् अद्राक्षं बद्धपर्यङ्कवानरम् ॥

18.518

तत्राचिरद्युतिपिशङ्गजटं मुनीन्द्रम् ऐक्षे निखर्वकुशविष्टरपृष्ठभाजम्
आज्याहुतिस्तिमितनीरसदारुयोनि कुण्डोदराहितम् इवाहवनीयम् अग्निम् ॥

18.519

तं वन्दितुम् उपासर्पम् उत्सर्पत्सौम्यचन्द्रिकम्
सान्तसंतापकस्पर्शम् उष्णांशुम् इव हैमनम् ॥

18.520

अथासौ संमदास्रार्द्र कपोलो माम् अभाषत
कुशलं सानुदासाय श्रेष्ठिने भवताम् इति ॥

18.521

मम त्व् आसीत् ततो नाम दिव्यं चक्षुस् तपस्विनाम्
सर्वं पश्यति येनार्थं मांसचक्षुर् अगोचरम् ॥

18.522

यन् मे यादृच्छिकं नाम यच् च व्यापारहेतुकम्
तत् कीर्तितम् अनेनाद्य न कदाचिद् अपि श्रुतम् ॥

18.523

इति विचिन्तितवन्तं माम् आस्थितादिष्टविष्टरम्
व्रीडामन्थरम् आह स्म स्मित्वेति मुनिपुंगवः ॥

18.524

त्वया यच् चिन्तितं तात ततः प्रति तथैव तत्
नाममात्रकथा नाति चित्रं हि तपसः फलम् ॥

18.525

ध्रुवकाद्यैर् यथा मद्यम् उपायैः पायितो भवान्
यथा वधुकयोद्याने संगतो गङ्गदत्तया ॥

18.526

यावद् भारुण्डसंग्रामाद् यमद्रंष्ट्रान्तराद् इव
विमुक्तस् त्वम् इह प्राप्तः सर्वं तद् विदितं मम ॥

18.527

अनुभूता त्वया तात यानपात्रविपत्तयः
लङ्घिताश् च सुदुर्लङ्घ्याः शैलकान्तारनिम्नगाः ॥

18.528

यद् अर्थं चायम् आयासः प्राप्तः कृच्छ्रतमस् त्वया
मित्रवत्य् एव तत् सर्वं माता ते कथयिष्यति ॥

18.529

सकलश् चायम् आरम्भः सुवर्णप्राप्तये तव
तच् च संप्राप्तदेशीयम् अतो मा विषदद् भवान् ॥

18.530

त्वादृशः स्थिरसत्त्वस्य मादृशादेशकारिणः
सुप्रापं प्राज्ञसोत्साहैः सुवर्णं क्व गमिष्यति ॥

18.531

पर्णशालाशयेनातः पादपावयवाशिना
अहःकतिपयान्य् अस्मिन्न् आश्रमे स्थीयताम् इति ॥

18.532

अथाभिलषितास्वादं मृजौजःपुष्टिवर्धनम्
वानेयम् आहरन्न् अन्नं कृष्टपच्यम् अहं द्विषन् ॥

18.533

पर्णशालान्तरास्तीर्णे शयानः पर्णसंस्तरे
तुङ्गपर्यङ्कम् अद्वेषं गङ्गदत्तानिवेशनम् ॥

18.534

इति विस्मृतदुःखो ऽपि सुखास्वादैर् अमानुषैः
दरिद्रवाटकस्थायाः सततं मातुर् अध्यगाम् ॥

18.535

आकाशपथयानान्ताः प्रशंसामि स्म चापदः
सुवर्णप्राप्तये प्राप्ता या विपत् संपद् एव सा ॥

18.536

एकदा तं महात्मानम् अभितः प्राप्तम् अम्बरात्
मूर्तं पुण्यम् इवाद्राक्षं विमानं मेरुभास्वरम् ॥

18.537

कन्यास् तस्मान् निरक्रामन् द्युतिद्योतितकाननाः
सेन्द्रचापाद् इवाम्भोदात् क्रान्तात् सौदामनीलता ॥

18.538

ततस् ताः संपरिक्रम्य प्रणम्य च यतिप्रभुम्
विहायस्तलम् आक्रामन्न् इन्दोर् इव मरीचयः ॥

18.539

एका तु न गता तासाम् अङ्कम् आरोप्य तां मुनिः
प्रमोदगद्गदालापः प्रमृष्टाक्षीम् अभाषत ॥

18.540

पुत्रि गन्धर्वदत्ते ऽयं सानुदासः पिता त्वया
अस्मान् अपि तिरस्कृत्य श्रद्धयाराध्यताम् इति ॥

18.541

तं चाहम् अतिसत्कारम् अमन्ये ऽतिविडम्बनाम्
वन्द्यमानो महागौर्या क्रीडया प्रमथो यथा ॥

18.542

सा कदाचिन् मया पृष्टा को ऽयं का वा त्वम् इत्य् अथ
श्रूयताम् इति भाषित्वा तयोर् वृत्तम् अवर्तयत् ॥

18.543

भरद्वाजसगोत्रो ऽयम् उपधानं तपस्विनाम्
विद्याधरभरद्वाजो यद् विद्यासाधनोद्यतः ॥

18.544

महतस् तपसश् चास्य व्यथमानः पुरंदरः
आसनेनाचलाभेन चलता चलितः किल ॥

18.545

शच्यालिङ्गनकाले ऽपि ध्यात्वा कंचित् तपस्विनम्
विषादाकुलचेतस्को दुःखं जीवति वासवः ॥

18.546

नारदात् तु भरद्वाजम् उपलभ्य तपस्विनम्
हरिणा सुप्रभादिष्टा गन्धर्वाधिपतेः सुता ॥

18.547

रूपयौवनसौभाग्यैर् गर्विताम् उर्वशीम् अपि
अतिशेषे त्वम् इत्य् एषा प्रतीतिः पिष्टपत्रये ॥

18.548

भरद्वाजम् अतो गत्वा त्वम् आराधय सुन्दरि
तथा ते रूपसौभाग्ये सफलीभवताम् इति ॥

18.549

सुप्रभाथ मुनेर् अस्य वचःप्रेक्षितचेष्टितैः
शृङ्गारैर् ऐच्छद् आक्रष्टुं सतत्त्वालमबनं मनः ॥

18.550

यदा नाशकद् आक्रष्टुम् अब्दैर् बहुतिथैर् अपि
तदा कर्मकरीकर्म निर्वेदाद् अकरोद् असौ ॥

18.551

पुष्पोच्चयजलाहार कुटीसंमार्जनादिभिः
तोषितो ऽयम् अवोचत् तां वरः कस् ते भवत्व् इति ॥

18.552

तयोक्तं स्पृहयन्ति स्म यस्मै त्रिदशयोषितः
तन् मे भगवता धैर्यात् सौभाग्यं दुर्भगीकृतम् ॥

18.553

निष्प्रयोजनचारुत्व भूषणस्रग्विलेपनम्
सौभाग्यमात्रकं स्त्रैणं कामकामेषु भर्तृषु ॥

18.554

तेन विज्ञापयाम्य् एतत् प्रीतश् चेद् दयसे वरम्
जगतो ऽपि वरस् तस्माद् भवान् एवास्तु नो वरः ॥

18.555

तरुणीनां हि कन्यानां चेतोजक्षुण्णचेतसाम्
चेतश्चक्षुप्रियात् पुंसः कीदृशो ऽन्यो वराद् वरः ॥

18.556

तस्माद् अप्रियरागो ऽपि भगवान् अनुकम्पया
वशित्वाद् रागम् आलम्ब्य सौभाग्यं मे ददात्व् इति ॥

18.557

अनुरोधाच् च तेनास्याम् एकैव जनिता सुता
चिरम् आराधितो भक्त्या विरक्तो ऽपि हि रज्यते ॥

18.558

सा तु सुप्रभया नीत्वा पित्र्यं विश्वावसोः पुरम्
वर्धिता च विनीता च विद्यासु च कलासु च ॥

18.559

अथ गन्धर्वराजस् ताम् आनीय दुहितुः सुताम्
अभाषत भरद्वाजं नामास्याः क्रियताम् इति ॥

18.560

अस्तु गधर्वदत्तेयं मह्यं दत्ता यतस् त्वया
इति तस्याः कृतं नाम भरद्वाजेन सार्थकम् ॥

18.561

सुप्रभायां तु या कन्या भरद्वाजाद् अजायत
नाम्ना गन्धर्वदत्तेति वित्त माम् एव ताम् इति ॥

18.562

एकदा कृष्णशर्वर्यां पश्यामि स्म शिलोच्चयम्
जातरूपशिलाजाल ज्योतिर् उज्ज्वलितद्रुमम् ॥

18.563

मम त्व् आसीद् अयं शैलो हिरण्मयशिलः स्फुटम्
कल्याणं काञ्चनं चास्मिन्न् अस्मत्कल्याणकारणम् ॥

18.564

निर्धार्येति सुवर्णाशा पाशयन्त्रितचेतसा
विशाला पर्णशालासौ शिलाभिः पूरिता मया ॥

18.565

तास् तु प्रातः शिला दृष्ट्वा पृष्टो गन्धर्वदत्तया
किम् एतद् इति तस्यै च यथावृत्तं न्यवेदयम् ॥

18.566

तया तु कथितं पित्रे माम् आहूय स चावदत्
आयुष्मन् न हिरण्मय्यः शिला एव हि ताः शिलाः ॥

18.567

ओषधीनाम् इदं ज्योतिर् ध्वान्ते हाटकसप्रभम्
भास्वद्भासाभिभाविन्या मुक्तं रात्रौ विजृम्भते ॥

18.568

दृष्टवान् असि सौवर्णास् तत्संपर्काद् इमाः शिलाः
पश्यन्ते च दिशः पीतास् तृष्णातिमिरमीलिताः ॥

18.569

अहम् एव सुवर्णं च चम्पां प्रतिगमं च ते
अचिरात् संविधास्यामि तत् त्यजाकुलताम् इति ॥

18.570

याश् च तास् तुष्टतुष्टेन मुहूर्तेनाहृताः शिलाः
ता मया दुःखदुःखेन सर्वाह्णेन निराकृताः ॥

18.571

एकदा कच्छपीं वीणां मह्यं दत्त्वावदत् मुनिः
यद् ब्रवीमि तद् आकर्ण्य त्वम् अनुष्ठातुम् अर्हसि ॥

18.572

गन्धर्वदत्तया यस् ते मद्वृत्तान्तो निवेदितः
स तथैव यतस् तस्माद् अस्माकम् इयम् आत्मजा ॥

18.573

विद्याधरपतेश् चेयं भाविनो भागिनी प्रिया
न हि सागरजन्मा श्रीः श्रीपतेर् अन्यम् अर्हति ॥

18.574

तेन चम्पाम् इयं नीत्वा देया ते चक्रवर्तिने
चिह्नैर् यैश् च स विज्ञेयः क्रियन्तां तानि चेतसि ॥

18.575

षष्ठे षष्ठे भवान् मासे गन्धर्वान् संनिपातयेत्
पुरस् तेषाम् इयं गायाद् गेयं नारायणस्तुतिम् ॥

18.576

यस् तु संवादयेत् कश्चिद् गन्धर्वस् तेषु वीणया
वादयेत् तच् च यस् तस्मै दद्याः स्वतनयाम् इति ॥

18.577

सर्वथा भवतां यद् यद् वृत्तं गन्धर्वसंसदि
वीणावादनपर्यन्तं तत् तत् तेन निवेदितम् ॥

18.578

अथावां मुनिर् आह स्म खिन्नौ स्थः पुत्रकौ चिरम्
खेदोच्छेदाय तच् चम्पां प्रतिष्ठेथां युवाम् इति ॥

18.579

ततस् तं प्रणिपत्याहं चलितः प्रचलो मुदा
यामत्रयं त्रियामाया यापयित्वा प्रसुप्तवान् ॥

18.580

अथामानुषम् अश्रौषं दारवीमात्रवीणयोः
सवेणुनिस्वनं स्वानं मनःश्रवणवल्लभम् ॥

18.581

सताम्रशिखरासानि तारं मङ्गलवादिनाम्
निद्रात्याजनदक्षाणि बन्दिनां वन्दितानि च ॥

18.582

आत्मानम् अथ निर्निद्रो जातरूपाङ्गपञ्जरम्
पर्यङ्कम् अधितिष्ठन्तम् अद्राक्षं रत्नपिञ्जरम् ॥

18.583

चित्रचीनांशुकास्तीर्णम् अम्बरं स्वच्छकुट्टिमे
मृष्टहाटकदण्डाली तटिते पटमण्डपे ॥

18.584

नीलरत्नशिलोत्सङ्गे वितानावृतभास्करे
वीणापरिचयव्यग्राम् आसीनां सुप्रभासुताम् ॥

18.585

विचित्रोज्ज्वलवर्णं च सुवेषाकारभर्तृकम्
गोणीभिर् हेमपूर्णाभिः पूर्णं पटकुटीकुलम् ॥

18.586

क्रीणतो मणिहेमादि विक्रीणानांश् च वाणिजान्
समाहितैश् च सीमान्तान् संकटान् औष्ट्रकौक्षकैः ॥

18.587

सर्वथा दुष्करं मन्दैर् अलं कृत्वातिविस्तरम्
स्वप्ने ऽपि न नरैर् दृष्टा समृद्धिः कैश्चिद् अप्य् असौ ॥

18.588

भारद्वाजीम् अथापृच्छं मातः किम् इदम् अद्भुतम्
गन्धर्वनगरं माया स्वप्नो वायं भवेद् इति ॥

18.589

भरद्वाजार्जितस्येदं तपःकल्पतरोः फलम्
अप्रमेयप्रभावं हि सद्भिः सुचरितं तपः ॥

18.590

तस्माद् इदम् अनन्तत्वाद् धनम् इच्छाव्ययक्षमम्
भूमेर् अन्यत्र सर्वत्र सत्पात्रादौ निधीयताम् ॥

18.591

आयचिन्तां परित्यज्य व्ययचिन्तापरो भव
आयस्थानं हि ते ऽस्त्य् एव मुनिकाञ्चनपर्वतः ॥

18.592

कदा पश्यामि जननीम् इति चाकुलतां त्यज
सार्थस्थानाद् इतश् चम्पा ननु क्रोशेषु पञ्चसु ॥

18.593

स च मे स्वप्नम् आयादि विषयः संशयस् तया
निश्चयात्मिकया सद्यः प्रज्ञयेव निवर्तितः ॥

18.594

अथ ध्रुवकम् अद्राक्षं वैलक्ष्यान् नमिताननम्
धूर्तं तादृग्विधैर् एव सुहृद्भिः परिवारितम् ॥

18.595

तम् उत्थायाथ पर्यङ्कात् परिरभ्य च सादरम्
अध्यस्थापयम् आत्मीयां शय्यां गतविलक्षतम् ॥

18.596

संभाषणपरिष्वङ्ग शातकुम्भासनादिभिः
सुहृद्गणम् अनुज्येष्ठम् उदारैः पर्यतोषयम् ॥

18.597

अतः परमशेषैव नटन्नटपुरःसरा
प्रवृद्धप्रमदोन्मादा चम्पा तं सार्थम् आवृणोत् ॥

18.598

प्रहर्षोत्कर्षविच्छिन्न निश्वासानिलसंततिः
अमृतैव जनः कश्चिच् चिरात् कश्चिद् उदश्वसत् ॥

18.599

सुस्वादेनान्नपातेन रत्नवासःस्रगादिभिः
स्फीतैर् हेमातिसर्गैश् च पौरश्रेणिम् अवर्धयम् ॥

18.600

यैश् च गोमयपानीयं क्षिप्तं मम पुरःसराः
उद्धृतास् ते विशेषेण दारिद्र्यनिरयान् मया ॥

18.601

अथ ध्रुवकम् आभाषे भद्र रौद्रतराकृतेः
दरिद्रवाटकाद् अम्बा स्वम् एवानीयतां गृहम् ॥

18.602

यावन् मात्रेण विक्रीतं द्रविणेन तद् अम्बया
ततः शतगुणेनापि क्रेतुर् निष्क्रेतुम् अर्हसि ॥

18.603

तादृशीम् ईश्वराम् अम्बां दरिद्रकुटिकागताम्
द्रष्टुं शक्नोति यस् तस्य क्षुद्रकान् धिग् असून् इति ॥

18.604

ततस् तेन विहस्योक्तं क्व देवी क्व दरिद्रता
केन भागीरथी दृष्टा विच्छिन्नजलसंहतिः ॥

18.605

तद् एव भवनं देव्याः समृद्धिः सैव चाचला
उज्ज्वला तु त्वयेदानीं कुमुद्वत्या इवेन्दुना ॥

18.606

इति तत् क्षणसंक्षिप्तं क्षिप्त्वा सक्षणदं दिनम्
सुप्रातः प्राविशं चम्पां धनाधिप इवालकाम् ॥

18.607

रथ्याभिर् विशिखाभिश् च श्रेणिश्रेणिपुरःसरः
गत्वा नरेन्द्रम् अद्राक्षं सुरेन्द्रम् इव भास्वरम् ॥

18.608

वन्दनाय ततो दूराद् धरणीम् अहम् आश्लिषम्
असाव् अपि मुदाहूय माम् आश्लिषद् अकैतवम् ॥

18.609

सारवद्भिर् अनन्तैश् च माम् असौ भूषणाम्बरैः
सत्कृत्याज्ञापयत् पुत्र जननी दृश्यताम् इति ॥

18.610

ततः सुमेरुसारेण रत्नकाञ्चनराशिना
दुष्पूरं पूरयामि स्म राज्ञस् तृष्णारसातलम् ॥

18.611

नरेन्द्रपरिवारेण प्रतीतेनावृतस् ततः
पठद्भिश् च ततो विप्रैर् आत्मीयम् अगमं गृहम् ॥

18.612

मन्दध्वनिमृदङ्गादौ तस्मिन्न् उद्दामताण्डवे
पौरैर् हर्षकृतोत्साहैर् न क्षुण्णः कथम् अप्य् अहम् ॥

18.613

अम्बाम् अथार्घजलपात्रभृतं निरीक्ष्य दूराद् अपासरद् असौ जनता विहस्ता
पूर्णाद् इवान्धतमसानि तुषारकान्तेर् आर्यात् पृथग् जनशतानि हि संभ्रमन्ति ॥

18.614

लब्धान्तरस् ततः पादौ शिरसा मातुर् अस्पृशम्
सापि सार्धपयःपात्रा पतति स्म ममोपरि ॥

18.615

चिराच् च लब्धनिश्वासा माम् उदस्थापयत् ततः
अनयत् पाणिनाकृष्य गृहाभ्यन्तरमण्डपम् ॥

18.616

देवद्विजगुरूंस् तत्र सदुर्गतवनीपकान्
स्फीतैः परिजनं च स्वं विभवैः समयोजयम् ॥

18.617

ततो निवर्तिताहार पर्यन्तकरणस्थितिः
प्राविशं मातुर् आदेशाद् आवासं गुरुचारुतम् ॥

18.618

तत्रासीनश् च पर्यङ्के महीतलसमासनाम्
अपश्यं प्रथमां जायां करशाखावृताननाम् ॥

18.619

तस्याः करुणया नेत्रे मार्जता संतताश्रुणी
गङ्गदत्ता मया दृष्टा श्लिष्टभित्तिः पराङ्मुखी ॥

18.620

वाङ्मात्रेणापि यत् सत्यं न सा संमानिता मया
स्मरन्ति हि तिरस्कारान् मुनयो ऽपि गरीयसः ॥

18.621

तच् चावासगृहं दृष्ट्वा कुसुमस्थगितक्षिति
सिन्धुरोधः स्मरामि स्म फुल्लनानालतागृहम् ॥

18.622

समुद्रदिन्नया सार्धम् अनुभूतं च तत्र यत्
स्थितप्रस्थितगीतादि विश्रब्धाचरितं मया ॥

18.623

मम त्व् आसीद् वरं दुःखम् अनुभूतं महन् मया
हृदयाद् व्यावृताद् येन क्वापि प्रियतमा गता ॥

18.624

दुःखशून्यं तु तद् दृष्ट्वा रन्ध्रान् वेषणतत्परा
अधुना निरनुक्रोशा सा प्रविष्टानिवारिता ॥

18.625

प्रविष्टा हृदयं सा मे यथावासगृहं तथा
प्रविशेद् अपि नामेयं दुर्घटो ऽयं मनोरथः ॥

18.626

सा हि हि माम् आह्वयत्य् एव परित्रायस्व माम् इति
तरंगपाणिनाकृष्य हृता पापेन सिन्धुना ॥

18.627

इति चिन्तातुरं सा मां हर्षत्याजितधीरता
प्रविश्य त्वरयालिङ्गद् अङ्गैस् तुङ्गतनूरुहम् ॥

18.628

अत्यन्तानुपपन्नं तु दृष्ट्वा तस्याः समागमम्
ताम् एव ध्यातवान् अस्मि सिन्धुभङ्गाग्रतारणीम् ॥

18.629

विस्मृतापरवृत्तान्तस् तदासक्तमनस्तया
ताम् एवाश्वासयामि स्म मा स्म भीरुर् भवेर् इति ॥

18.630

अथ भीतेव सावोचत् स्वगृहे वर्तते भवान्
विपन्नवहनः कष्टे न तु क्षाराम्भुधाव् इति ॥

18.631

ततः क्षाराम्बुधेर् भीमात् प्रत्याहृतमनास् तया
गृहं तत् परितः पश्यन्न् अपश्यं वनिताद्वयम् ॥

18.632

स्मरता च सदाचारं सपत्नीजनसंनिधौ
वक्षःस्थापि सती नासौ दोर्भ्याम् आलिङ्गिता मया ॥

18.633

अथावस्थान्तरे तस्मिन् दारसंनिधिसंकटे
अस्राविता ममागच्छद् अम्बात्रासाकुलेक्षणा ॥

18.634

समुद्रदिन्नया सार्धम् उच्छ्रिते संभ्रमान् मयि
अम्बा शयनम् अध्यास्ते शेषास् त्व् आसत भूतले ॥

18.635

ततः किंचिद् इवाम्बायै यत् सत्यं कुपितो ऽभवम्
अकालज्ञा हि मातापि पुत्रेण परिभूयते ॥

18.636

अथाम्बया विहस्योक्तम् अकालज्ञेति मा ग्रहीः
ननु सर्वज्ञकल्पस्य भार्याहं मित्रवर्मणः ॥

18.637

त्वद्भार्यासंनिधाव् अस्मिन्न् आगमिष्यम् अहं यदि
व्यनशिष्यन् महत् कार्यं तच् चेदम् अवधीयताम् ॥

18.638

आयाचितशतैर् जातः पुत्रः पुत्रत्वम् आवयोः
वर्धितः शिक्षितश् चासि पित्रा विद्याचतुष्टयम् ॥

18.639

परिव्राच्छक्यनिर्ग्रन्थ ग्रन्थाभ्यासाच् च सर्वदा
कुटुम्बपालनालापस् तव जातो ऽतिदुर्भगः ॥

18.640

ततः समन्त्रिना राज्ञा संमन्त्र्य गुरुभिश् च ते
सुहृद्भिर् ध्रुवकाद्यैस् त्वम् उद्याने मधु पायितः ॥

18.641

गङ्गदत्ता च तैर् एव योजिता भवता सह
तया तथा कृतश् चासि यथा वेत्थ त्वम् एव तत् ॥

18.642

प्रकारेण च येन त्वं गृहं निवासितस् तया
जनन्यै गङ्गदत्तायाः कथितो भूभृतैव सः ॥

18.643

दरिद्रवाटके यच् च रात्रिंदिवम् असि स्थितः
तद् एवैकम् असौ राज्ञा कल्पितश् चारणादिभिः ॥

18.644

जानात्य् एव च दीर्घायुः क्व चम्पा क्व दरिद्रता
पौर्णमासी क्षपा केन दृष्टा ध्वान्तमलीमसा ॥

18.645

सर्वदैव हि चम्पायाम् अस्मिन् बलिनि पालके
बलाव् इव महीपाले बलिराज्यं न दुर्लभम् ॥

18.646

यां च रात्रिं भवान् सुप्तस् तस्मिन् दुर्गतवाटके
मम खट्वातले तस्मिञ् छयितं गङ्गदत्तया ॥

18.647

तस्याः प्रभृति भीमाया यावद् अद्यतनीं निशाम्
अत्रान्तरे निषण्णेयं मत्खट्वातलभूतले ॥

18.648

यच् च तद् धनम् एतस्यै त्वया दत्तं तद् एतया
भाण्डागारे तव न्यस्तम् अशेषं कृतलेखकम् ॥

18.649

तद् इयं सानुरागत्वाद् भवद्दर्शनकाङ्क्षिणी
स्मृत्वा मिथ्यातिरस्कारं न तिरस्कारम् अर्हति ॥

18.650

भवता परिभूता च सपत्नीजनसंनिधौ
कातरा प्रमदाभावात् प्राणान् अपि परित्यजेत् ॥

18.651

एतन् मनसि कृत्वार्थम् अकाले ऽप्य् अहम् आगता
सीदद् गुरुतरार्थानां कः कालो नाम कार्यिणाम् ॥

18.652

एष ते गङ्गदत्ताया वृत्तान्तः कथितो ऽधुना
वधूः समुद्रदिन्नापि यथायाता तथा शृणु ॥

18.653

दरिद्रवाटकाद्यैस् त्वं पथिकैः सह निर्गतः
प्रयुक्तास् ते नृपेणैव स च सिद्धार्थको वणिक् ॥

18.654

अन्तरे यच् च ते वृत्तं सार्थध्वंसादि भीषणम्
ताम्रलिप्तीप्रवेशान्तं शिष्टं सिद्धार्थकेन तत् ॥

18.655

भ्रष्टेन वहनभ्रंशाद् भ्राम्यता जलधेस् तटे
यथा समुद्रदिन्नायाः पाणिर् आलम्बितस् त्वया ॥

18.656

पुनश् च भिन्नपोतश् च पाण्ड्यपुर्यां च यत् तव
वृत्तं कर्पासदाहान्तं ताम्रलिप्त्यागमश् च यः ॥

18.657

गङ्गदत्तेन तन् मह्यं संततैर् लेखहारिभिः
ख्यापितं यावद् आचेरो भवन्तं क्वापि नीतवान् ॥

18.658

अतः परं भवद्वार्त्तां विच्छिन्नत्वाद् अविन्दती
नैराश्यकृतनिर्वेदात् परलोकोत्सुकाभवम् ॥

18.659

एवंप्राये च वृत्तान्ते दौवारिकनिवेदितौ
समुद्रदिन्नया सार्धं स्यालौ प्राविशतां ततः ॥

18.660

प्रयुक्तार्घ्यादिसत्कारौ क्षणं तौ गमितश्रमौ
विलक्ष्यावीक्षमाणौ माम् आभाष्येसम् अवोचताम् ॥

18.661

तव पुत्राय पित्रा नस् तनयेयं प्रतिश्रुता
स च यौवनमूढत्वात् स्वीकृतो गङ्गदत्तया ॥

18.662

तया च स्वीकृतस्वस्य गच्छतो मातुलालयम्
न शक्यते यद् आख्यातुं पुलिन्दैः किल तत् कृतम् ॥

18.663

वैशसं दुःश्रवं श्रुत्वा तत् सूनोर् मित्रवर्मणः
निष्प्रत्याशं कुटुम्बं नः प्रस्थितं यवनान् प्रति ॥

18.664

अथ बोहित्थम् आस्थाय पूजितद्विजदेवताः
संभाव्यव्यसनध्वंसं समगाहाम सागरम् ॥

18.665

ततः प्रजविनं पोतं तं प्रचण्डः प्रभञ्जनः
मृगेन्द्र इव नागेन्द्रं प्रस्फुरन्तं प्रभिन्नवान् ॥

18.666

वयं तु कर्मसामर्थ्यात् तरंगैः शरगत्वरैः
आरूढाः पट्टपृष्ठानि प्रापिता जलधेस् तटम् ॥

18.667

वधूस् त्व् एकार्णवाम्भोधौ लोलकल्लोलसंकुले
भ्रान्तमेघ इवोद्भ्रान्ता व्योम्नि सारसकन्यका ॥

18.668

मुक्त्वा समुद्रदिन्नाशाम् अर्थाशां च महाश्रुभिः
यवनस्थम् अगच्छाम मातामहगृहं ततः ॥

18.669

तत्रास्माकं कुटुम्बं तद् दूराद् उत्सुकम् आगतम्
समृद्धे सरसीवासीत् तृप्तं हंसकदम्बकम् ॥

18.670

एथ याते क्वचित् काले पिता वाम् इत्थम् आदिशत्
आसाते किम् उदासीनौ भवन्तौ स्थविराव् इव ॥

18.671

तरुणौ सकलौ स्वस्थौ वार्त्ताविद्याविशारदौ
स्वजनान्नेन जीवन्तौ कुम् उच्येथे जनैर् युवाम् ॥

18.672

तस्मान् मुक्ताप्रवालादि सारं सागरसंभवम्
गृहीत्वा यानपात्रेण सिन्धुर् उत्तार्यताम् इति ॥

18.673

तथेति च प्रतिज्ञाय तथैवावाम् अकुर्वहि
श्लिष्टपट्टाम् अथाद्राक्ष्व तरन्तीं रुदतीं स्त्रियम् ॥

18.674

अस्पृशन्तः करैर् एनां परस्त्रीम् उपनौकया
आरोपयत बोहित्थम् इत्य् अवोचाव वाहकान् ॥

18.675

तां चारूढाम् अपृच्छाम परस्त्रीति पराङ्मुखौ
मातः कस्यासि का वेति सा च नीचैर् अवोचत ॥

18.676

वाचा प्रत्यभिजानामि चिरम् अभ्यस्तया युवाम्
कच्चित् सागरदत्तस्य भवन्तौ तनयाव् इति ॥

18.677

ततस् तस्याश् चिराभ्यस्तं प्रत्यभिज्ञाय तद् वचः
कच्चित् समुद्रदिन्नासि सुन्दरीत्य् अवदाव ताम् ॥

18.678

आक्रन्दन्ती ततस् तारम् आवयोर् वामदक्षिणे
सापराङ्मुखयोर् जङ्घे बाहुभ्यां गाढम् आश्लिषत् ॥

18.679

अभाषत च हा तात हा ममाम्बा प्रियात्मजा
धिक्कारः सागरं पापं येन तौ क्वापि यापितौ ॥

18.680

हार्यपुत्र क्व यातो ऽसि हतस्नेह विहाय माम्
आपन्नप्रियदाराणां नैष धर्मः सताम् इति ॥

18.681

अथार्यपुत्रशब्देन भयसंशयहेतुना
निःस्नेहीकृतचेतस्काव् अभाषावहि ताम् इति ॥

18.682

अलं सुन्दरि क्रन्दित्वा जीवतः पितरौ तव
आर्यपुत्रः पुनर् यस् ते स नौ निश्चीयताम् इति ॥

18.683

ततः श्रुतपितृक्षेमा सा शोकोज्झितमानसा
आवां मा भैष्टम् इत्य् उक्त्वा स्वं वृत्तं वृत्तम् अब्रवीत् ॥

18.684

अस्त्य् अहं वहनाद् भ्रष्टा भ्राम्यन्ती जलधेस् तटे
यस्मै दत्तास्मि युष्माभिस् तम् अद्राक्षं विपद्गतम् ॥

18.685

संवादितस्ववृत्तेन गृहीतस् तेन मे करः
जायन्ते हि सुपुण्यानाम् उत्सवा व्यसनेष्व् अपि ॥

18.686

स माम् अलालयद् बाल नारीलालनपेशलः
तथा यथा प्रियतमौ नास्मरं पितराव् अपि ॥

18.687

अथाद्य पोतम् आरुह्य समायतं यदृच्छया
प्रस्थितौ स्वः स्वदेशाय विपन्नः स च पूर्ववत् ॥

18.688

स च वां भागिनीभर्ता साक्रन्दायाः पुरो मम
संप्रत्य् एव तरंगेण गमितः क्वापि वैरिणा ॥

18.689

नभस्वज्जवनैर् भङ्गैर् भङ्गुरैर् आवृतः स च
अकस्माज् जातशत्रुभ्यां भवद्भ्यां चाहम् उद्धृता ॥

18.690

सत्वथा तद्वियोगाग्नि तप्तान्य् अङ्गानि सागरे
शीते शीतलयिष्यामि मुञ्चतं मां युवाम् इति ॥

18.691

उपपन्नैर् अथालापैर् जनितप्रत्ययौ तया
उत्पन्नपरमानन्दाव् आलिङ्गाम परस्परम् ॥

18.692

विपन्नपोतयोर् आसीद् युवयोः संगमो यथा
भविष्यति तथा भूयश् चित्रं हि चरितं विधेः ॥

18.693

एवमादिभिर् आलापैश् चेतोविक्षेपहेतुभिः
परिसंस्थापयन्तौ ताम् अतराव महोदधिम् ॥

18.694

तच् च मुक्ताप्रवालादि गुरुमूल्यं यद् आहृतम्
सहस्रगुणलाभं तद् आवाभ्यां परिवर्तितम् ॥

18.695

वधूः समुद्रदिन्ना ते गुरुसारं च तद्धनम्
सर्वम् अर्पितम् आवाभ्यां तुभ्यं तत् परिगृह्यताम् ॥

18.696

वहनध्वंसमुक्तानां समेतानां च बन्धुभिः
एवं समुद्रदिन्ना च त्वत्पुत्रस्य निदर्शनम् ॥

18.697

पूर्ववत् सानुदसो ऽपि मुक्तः पोतविपत्तितः
आगमिष्यति तद् देवि मुञ्च कातरताम् इति ॥

18.698

इत्य् उक्त्वा सधनस्कन्धां निक्षिप्य भागिनीं मयि
सुसत्कारप्रयुक्तौ तौ यथागतम् अगच्छताम् ॥

18.699

एवं समुद्रदिन्नेयम् आगता भवतो गृहम्
दैवपौरुषयुक्तस्य श्रीर् इव श्लाघ्यजन्मनः ॥

18.700

तद् एतान् भवतो दारान् धर्मचारित्ररक्षितान्
रक्षन्त्या गुरुमानिन्या चरिते चरितं मया ॥

18.701

व्रीडितद्रविणेशस्य समृद्ध्या दिव्ययानया
पित्रा तुल्यो भवत्व् एष शापो नाशंसितस् तव ॥

18.702

तस्माद् धनम् इदं भुञ्जन् भुञ्जानश् च यथागमम्
देवतानां पितॄणां च यात्व् आनृण्यं भवान् इति ॥

मूल पाठ: Bṛhatkathāślokasaṃgraha · Edition: the text edited by Felix Lacote (Paris, 1908). It was · Data entry Andreas Bigger · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc