भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्कथाश्लोकसंग्रह · अध्याय 17

17.1

अथ गन्धर्वदत्तायास् तां गुणाकारसंपदम्
समाकर्ण्यैव कर्णाभ्यां मनो नीतं विधेयताम् ॥

17.2

पृच्छामि स्म च भूयस् तम् अपि शक्या भवेन् मया
द्रष्टुं गन्धर्वदत्तेति तेन चोक्तं न शक्यते ॥

17.3

अगान्धर्वेण सा द्रष्टुं देवेनापि न शक्यते
यदि चेच्छथ तां द्रष्टुं गान्धर्वं शिक्ष्यताम् इति ॥

17.4

मयोक्तं नारदीये ऽपि निवृत्ते किल लभ्यते
गान्धर्वशब्दस् तत् तस्माद् अस्माकं कार्यताम् इति ॥

17.5

ततो व्याहरितस् तेन वीणाचार्यः खरस्वरः
नष्टश्रुतिस्वरज्ञानो भूतिको नाम दुर्भगः ॥

17.6

आसीच् च मम तं दृष्ट्वा विकृतं नरवानरम्
अलं मे नारदीयेन कृतं गन्धर्वदत्तया ॥

17.7

ईदृशः शिष्यतां गत्वा राज्यलाभो ऽपि गर्हति
अन्यायागतम् ऐश्वर्यं निन्दन्त्य् एव हि साधवः ॥

17.8

अभ्युत्थानाभिवादाभ्यां तं वीणादत्तकादयः
अपूजयन् मया चासौ न द्रष्टुम् अपि पारितः ॥

17.9

अथ रुष्टकटाक्षेण लोहिताक्षः स वीक्ष्य माम्
वीणादत्तकदत्तायां पीठिकायाम् उपाविशत् ॥

17.10

अब्रवीद् दत्तकस् तं च यक्षीभर्तुर् द्विजन्मनः
भवान् अस्योपपन्नस्य नारदीयं करोत्व् इति ॥

17.11

तेनोक्तं साभिमानत्वाद् अयं माम् अवमन्यते
न च पारयते दातुं दारिद्र्यात् काकणीम् अपि ॥

17.12

गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा
न चास्मिन्न् एकम् अप्य् अस्ति यद्य् अस्ति प्रतिपद्यताम् ॥

17.13

दत्तकेनोक्तम् आचार्य विरूपं मन्त्रितं त्वया
को यक्षीकामुकं शक्तो दरिद्रम् इति जल्पितुम् ॥

17.14

यस्य दासः सदासो ऽहं त्वं जानास्य् एव मादृशः
स यक्षीकामुकः कस्माद् दरिद्र इति भण्यते ॥

17.15

सुवर्णानां शतं वापि गृह्यतां त्वाद्.शोचितम्
पतिते द्रोणमेघो ऽपि न तिष्ठति जलं स्थले ॥

17.16

नारदादिपरीवारां स चाभ्यर्च्य सरस्वतीम्
दुर्व्यवस्थिततन्त्रीकां वीणां मह्यम् उपानयत् ॥

17.17

मया तु सा विपर्यक्स्था स्थापिताङ्के यदा तदा
भूतिको मां धिग् इत्य् उक्त्वा वीणादत्तकम् उक्तवान् ॥

17.18

न यक्षीकामुको मन्दः शक्यः शिक्षयितुं मया
वीणाग्रहणम् अप्य् एष न जानाति सुखैदितः ॥

17.19

न नाम स्वयम् एतेन यदि वीणा न वादिता
आलेख्यवादकाः के ऽपि न दृष्टा नष्टदृष्टिना ॥

17.20

इति संतक्ष्य मां वाग्भिर् आतोद्यं परिवर्त्य च
स निषादो निषादं मे षड्ज इत्य् उपदिष्टवान् ॥

17.21

अथामर्षपरीतेन दृढं ताडयता मया
चतस्रः पञ्च वा तन्त्र्यश् छिन्नाश् चड् इति विस्वराः ॥

17.22

अथोक्तो दत्तकस् तेन तन्त्रीवर्तकसंग्रहम्
अकृत्वा किं करोत्य् अस्य नारदीयं भवान् इति ॥

17.23

अहं तु विस्मृतच्छद्मा छिन्नतन्त्रीम् अपि क्षणम्
श्रुतिवासितकर्णत्वान् मृदु वीणाम् अवादयम् ॥

17.24

अथ विस्फारितैर् नेत्रैर् उत्कर्णा दत्तकादयः
किम् एतद् इति जल्पन्तो माम् ऐक्षन्त सविस्मयाः ॥

17.25

भूतिकस् तु भयक्रोध लज्जाविस्मयनिष्प्रभः
काकतालीयम् इत्य् उक्त्वा गत एव सदक्षिणः ॥

17.26

एवं च दिवसं नित्वा कृतप्रादोषिकाशनः
आवसं शयनावासं मालाघूपाधिवासितम् ॥

17.27

हंसपक्षांशुकप्राय कोमलास्तरणास्तृतम्
भास्वद्वज्रशिलापादम् आसेवे शयनं ततः ॥

17.28

रूपाकृष्टजगन्नेत्रे युवती सारभूषणे
रूपाजीवे शनैः पादौ समवाहयतां मम ॥

17.29

सहजाहार्यमाधुर्य रमणीयतराक्षरैः
वचोभिः किल ते चित्तं मदीयं हर्तुम् ऐच्छताम् ॥

17.30

वेगवत्या विमुक्तं च प्रतिभान्ति स्म तानि माम्
रासभीर् असितानीव विरसानि स्वकर्णयोः ॥

17.31

तानि चाश्रोतुकामेन निद्राव्याजः कृतो मया
अथ प्रसुप्त एवास्मि निराशे ते च जग्मतुः ॥

17.32

अर्धे याते च यामिन्याः श्वासानुमितचेतने
दृष्टतत्त्व इवाविद्यां निद्राम् अत्यजम् उत्कटाम् ॥

17.33

चित्रपट्टपिधानायां तिष्ठन्त्यां नागदन्तके
वीणादत्तकवीणायां ततो दृष्टिं न्यपातयम् ॥

17.34

मम त्व् असीद् अवश्यं मां नेता श्वस् तत्र दत्तकः
वीणा च वादनीया स्याच् चिरोत्सृष्टा च सा मया ॥

17.35

विद्या चाराध्यमानापि दुःखेन परिचीयते
भक्त्या मातुः सपत्नीव निसर्गकुटिला हि सा ॥

17.36

वीणा संनिहिता चेयं वेला चेयं निराकुला
जिज्ञासे तावद् इत्य् एनां विचार्याहं गृहीतवान् ॥

17.37

उत्कर्षन्न् अपकर्षंश् च काश्चित् काश्चिन् मनाङ् मनाक्
व्यवस्थापयितुं तन्त्रीः करशाखभिर् अस्पृशम् ॥

17.38

अथाशृणवम् आलापान् स्वस्माद् वासगृहाद् बहिः
समुद्रसेन गोदत्त धाव धाव सखे द्रुतम् ॥

17.39

वीणादत्तकभद्रस्य गृहेषु कृतकर्मणः
सरस्वती भगवती वीणां सारयति स्वयम् ॥

17.40

वीणायाः सार्यमाणायाः स्वनस्योदय ईदृशः
समाप्तसारणायास् तु कीदृङ् नाम भविष्यति ॥

17.41

तस्मात् सरस्वतीवीणे दृष्ट्वा श्रुत्वा च संहते
नेत्रश्रोत्राणि नो यान्ति पवित्रकरताम् इति ॥

17.42

अथावलम्ब्यत् तां वीणां त्वरया नागदन्तके
प्रावृत्य सशिरःपादं कायं निद्रां किलागमम् ॥

17.43

नागरास् तु न्यवर्तन्त जल्पन्तो दीनचेतसः
कथं सरस्वती क्षुद्रैर् दृश्यते ऽस्मद्विधैर् इति ॥

17.44

यापितायां तु यामिन्यां कृतपूर्वाह्णिकक्रमम्
माम् अनुल्बणवेषं च वन्दित्वा दत्तको ऽब्रवीत् ॥

17.45

अमी नागरकाः प्राप्ताश् चित्रयानप्रसाधनाः
तद् गन्धर्वसमस्यायै युष्माभिर् अपि गम्यताम् ॥

17.46

आज्ञापयत यानं च करेणुतुरगादिकम्
येन वो रोचते गन्तुं तेन प्रस्थीयताम् इति ॥

17.47

मयोक्तं गच्छतु भवान् वाहनेन यथासुखम्
अहं तु पादचारेण गच्छामि शनकैर् इति ॥

17.48

अथास्मदनुरोधेन मां पुरोधाय दत्तकः
प्रस्थितः पादचारेण सनागरकमण्डलः ॥

17.49

अमन्त्रयन्त यान्तश् च क्रुद्धा नागरका मिथः
यक्षीकामुकरूपो ऽयम् अनर्थो ऽस्मान् उपागतः ॥

17.50

वयम् अस्य प्रसादेन त्यक्तमण्डितवाहनाः
आशादीर्घासु रथ्यासु चरणैः संचरामहे ॥

17.51

मेरोर् द्रोणीर् इवाक्रमन् विशिखा विस्तृतायताः
अपश्यं वेश्मनां मालास् तस्यैव सिरसाम् इव ॥

17.52

प्रासादेषु च जल्पन्तीर् गवाक्षप्रेरितेक्षणाः
कोकिलासुभगालापाः शृणोमि स्म कुलाङ्गनाः ॥

17.53

अयि मागधि वैदेहि मलयावति यावनि
यक्षीकामुकम् आयातुं सख्यः पश्यत धावत ॥

17.54

खलया किल यक्ष्यायम् ईर्ष्यामुषितचेतसा
आकाशात् पातितः प्राप्तो दत्तकेन सुजन्मना ॥

17.55

ध्रुवं सा राक्षसी यक्षी यदि वा मृत्तिकामयी
क्रुद्धया मुग्धया वापि यया स्वार्थो न चेतितः ॥

17.56

अथ वा सर्वम् एवेदम् अलीकं प्रतिभाति माम्
क्व यक्षीकामिकः क्वायं कामः कामी रतेर् इव ॥

17.57

इति निर्दिश्यमानो ऽहम् अङ्गुलीभिर् इतस् ततः
नयनोत्पलमालाभिर् अर्च्यमानश् च यातवान् ॥

17.58

अथ नागरकाः प्रापन् सुधां गृहपतेर् गृहम्
अङ्गं गन्धर्वदत्तायास् तेषाम् इव मनोरथाः ॥

17.59

मणिहाटकदन्ताद्यैर् अङ्गैस् तैर् एव कल्पितम्
स्फुरद्दिव्यप्रभावात् तु न विद्म किंमयैर् इति ॥

17.60

ततः प्रथमकक्षायाम् अपश्यं संनिधापिताम्
आसनानां चतुःषष्टिं महापट्टोर्णवेष्टितम् ॥

17.61

तेषु नागरकः कश्चित् कांश्चिद् आह स्म सस्मितम्
अहो महाखलीकारो यक्षीकामुकम् आगतः ॥

17.62

सानुदासाभ्यनुज्ञाताः सुहृदो दत्तकादयः
समायाताश् चतुःषष्टिस् तावन्त्य् एवासनान्य् अपि ॥

17.63

यक्षीकामुकम् आलोक्य पञ्चषष्टम् अनासनम्
यत् सत्यं लज्जितो ऽस्मीति ततश् चोक्तम् ऋजुर् भवान् ॥

17.64

आयत्तो दत्तको यस्य सपुत्रपशुबान्धवः
तेन गन्धर्वदत्तापि सुलभा किम् उतासनम् ॥

17.65

पञ्चषष्टम् अदृष्ट्वा तु निक्षिप्तं तत्र दत्तकः
दत्तवान् स्वयम् आकृष्य मह्यम् आत्मीयम् आसनम् ॥

17.66

ते ऽपि नागरकाः शेषाः स्थिते तिष्ठति दत्तके
तिष्ठन्ति स्म स्थिता एव भृतका इव भर्तरि ॥

17.67

अथान्यद् आसनं दत्तं दत्तकायोज्ज्वलप्रभम्
स तद् अध्यास्त शेषाश् च यथासनम् उपाविशन् ॥

17.68

ततस् त्रिंशच्छतं तस्माद् गणिकानां विनिर्गतम्
गृहाद् असुरकन्यानां महासुरपुराद् इव ॥

17.69

आत्तशृङ्गारभृङ्गारा काचिद् आवर्जयज् जलम्
तासां प्रत्येकम् एकैका तेषां पादान् अधावत ॥

17.70

मदीयस् तु यया पादः पाणिभ्याम् अवलम्बितः
तया स्वेदजलेनैव धौतः श्लथशरीरया ॥

17.71

आवर्जितवती या च जलं लुलितलोचना
विस्रस्तहस्तया हस्ताद् भृङ्गारः पातितस् तया ॥

17.72

प्रविशन् धौतपादश् च शृणोमि स्म प्रजल्पिताः
प्रांशुप्राकारगर्भस्थाः श्रुतिहारिगिरः स्त्रियः ॥

17.73

अनर्थो ऽयम् उपन्यस्तः सानुदासेन दारुणः
शुल्कं गन्धर्वदत्ताया वीणावादननामकम् ॥

17.74

यदि रूपम् उपन्यस्येच् छुल्कं गृहपतिस् ततः
न यक्षीकामुकाद् अन्यं प्राप्नुयाद् भर्तृदारिका ॥

17.75

वीनायां तु प्रयुक्तायां भग्नो ऽयं नो मनोरथः
ह्यो यस्माद् भूतिकेनास्य नारदीयं कृतं किल ॥

17.76

इदं तावन् महद् दुःखं यद् यक्षीकामुको ऽनया
अयं नासुलभीभूतः शुल्कदोषान् न लभ्यते ॥

17.77

इदं तु दुःसहतरं यद् इमां बकुलावलीम्
अनात्मज्ञो बलात् को ऽपि गले तां लम्बयिष्यति ॥

17.78

वीणावादनशुल्केयं साभियोगाश् च नागराः
प्रजापतिश् च दुर्लग्नः सर्वथा शिवम् अस्त्व् इति ॥

17.79

अथ निष्कम्पकालिन्दी सलिलस्वच्छकुट्टिमाम्
ज्वलन्मणिशिलास्तम्भां विशालां प्राविशं सभाम् ॥

17.80

सभा नागरकैः साभाद् भिन्नप्रभविभूषणैः
उपत्यकास्थली मेरोः फुल्लैः कल्पद्रुमैर् इव ॥

17.81

अथ हंस इवोत्सार्य नलिनीदलमण्डलम्
निर्गतः कञ्चुकी प्रेर्य तिरस्करिणिकाम्बरम् ॥

17.82

स नागरकसंघातम् अवोचद् विनयानतः
विज्ञापयति वः श्रेष्ठी स्वागतं गुणरागिणाम् ॥

17.83

भवद्भिर् वर्णसंपन्नैर् अन्तःसारैर् इदं गृहम्
शातकुम्भमयैः पूतं गङ्गाम्भःकलशैर् इव ॥

17.84

यदि सर्वे समायाता यातो वागमनश्रमः
ततो गन्धर्वदत्तायै निर्देशो दीयताम् इति ॥

17.85

ते परस्परम् आलोक्य विद्राणवदनप्रभाः
ह्रीताः सदिशम् आकाशम् अपश्यन् प्रोषितोत्तराः ॥

17.86

ततः कन्?चुकिना वक्त्रं क्षणाद् दीनतया कृतम्
समरे कातरस्येव सन्नचक्षुःकपोलकम् ॥

17.87

प्रत्येकं च मुखान्य् एषाम् अवलोक्य चिरं चिरम्
स यदा यातुम् आरब्धस् तदाहूय मयोदितः ॥

17.88

समाप्तप्रतिकर्मा वा कल्या वा यदि सा ततः
आगच्छतु किम् अद्यापि दृष्टैर् नागरकैर् इति ॥

17.89

एतावतैव दत्तस्य तत् तादृग्म्लानम् आननम्
जातम् उच्छ्वसितं स्विन्न कपोलस्थलपीवरम् ॥

17.90

अलपत् सानुदासस्य प्रीतः परिजनस् ततः
यक्षीकामुक वन्द्यो ऽसि सर्वथा शोभितं त्वया ॥

17.91

वाङ्मात्रेणापि भवतश् चिराद् उच्छ्वसिता वयम्
अवग्रहे हि जीमूतो विस्फूर्जन्न् अपि शोभते ॥

17.92

तद् एवं यादृशं रूपं यादृशी चातिधीरता
तादृशं यदि विज्ञानं भवेत् किं न भवेद् इति ॥

17.93

एको नागरकश् चैकम् अवोचद् दर्शितस्मितः
उद्दामितमुखा लोके सुखं जीवन्ति निस्त्रपाः ॥

17.94

को हि वेदजडं मुक्त्वा छान्दसं छात्त्रम् अत्रपम्
मध्ये महामनुष्याणाम् एवम् उद्दामयेन् मुखम् ॥

17.95

यक्षीकामुकशब्दो ऽपि शब्द एवास्य केवलम्
क्व च प्रियगुणा यक्षी गुण ऋद्धिः क्व चेदृशः ॥

17.96

यत् किंचिद् अपि बालानां चेतस्तोषाय कल्पते
उत्कटेन हि नाम्नापि प्रायस् तुष्यन्ति डिण्डिकाः ॥

17.97

श्रुत्वेदम् इतरेणोक्तं मा स्म निन्दद् भवान् इमम्
को जानाति मनुष्याणां चरितं गूढचारिणाम् ॥

17.98

यक्षीकान्तः प्रकृष्टेन धार्ष्ट्येनाज्ञापयन्न् अपि
यथा परिचितश्रीकस् तथा मां प्रति शोभते ॥

17.99

ततो जवनिकां प्रेर्य कन्या कञ्चुकिभिर् वृता
देवी गन्धर्वदत्तागाद् अभिभूतसभाप्रभा ॥

17.100

कथयामि कथं रूपं तस्याः संक्षिप्तम् उच्यते
प्रव्रज्याम् आस्थिता नूनम् इदानीम् अप्सरोगणाः ॥

17.101

कल्पितं च सभामध्ये पद्मरागशिलामयम्
चन्द्रलेखेव संध्याभ्रम् अध्यास्त चतुरन्तकम् ॥

17.102

तेजसो ऽभिभवात् तस्याः संकुचन्ति स्म नागराः
बालायाः शशिलेखायाः पुण्डरीकाकरा इव ॥

17.103

साथ प्रज्ञावचःशून्यां रूपमात्रकशालिनीम्
परिभूतवती गोष्ठीं सभास्तम्भावलीम् इव ॥

17.104

अथ दक्षिणम् उत्क्षिप्य करं कञ्चुकिनोदितम्
श्रूयतां श्रेष्ठिनो वाक्यं भो नागरककुञ्जराः ॥

17.105

आस्ते गन्धर्वदत्तेयम् इयं वीणा च सारिता
यो वो वादयितुं शक्तः स किं तिष्ठति ढौकताम् ॥

17.106

अशेषैर् न च कर्तव्या परिपाटिर् अपार्थिका
सा हि युष्माकम् अस्याश् च लज्जाखेदप्रयोजना ॥

17.107

ततः स्वयं भवद्भिश् च यस्मिन् वो भावनाहिता
युष्मान् आत्मानम् एतां च स क्लेशान् मोचयत्व् इति ॥

17.108

अथ नागरकाः सर्वे वीणादत्तकम् अब्रुवन्
त्वं नः पूज्यः प्रवीणश् च तस्माद् उत्थीयताम् इति ॥

17.109

स यदा कम्पितशिरा नेच्छति स्म तदापरः
संभाविततमस् तेषां गत्वा वीणाम् अवादयत् ॥

17.110

तस्मिन् दोषैर् असंकीर्णान् गुणान् मधुरतोत्तरान्
संपादयति शब्दो ऽभूद् उच्चकैः साधु साध्व् इति ॥

17.111

ततो गन्धर्वदत्तायां प्रगीतायाम् अभून् मम
अरे ज्ञातं मयेदानीं तेनैवामी वृथाश्रमाः ॥

17.112

पुरा वामनरूपेण बलिं छलयता किल
त्रिपिष्टपं त्रिभिः क्रान्तं विक्रमैश् चक्रपाणिना ॥

17.113

तं च विश्वावसुर् नाम गन्धर्वगणसेवितः
क्रामन्तं गगनं वेगात् त्रिश् चकार प्रदक्षिणम् ॥

17.114

तेन च स्वयम् उत्पाद्य स्तुवता गरुडध्वजम्
नारायणस्तुतिं नाम गीतं गीतकम् अद्भुतम् ॥

17.115

नारदेन ततः प्राप्तं नारदाद् वृत्रशत्रुणा
अर्जुनेन ततस् तस्माद् विराटसुतया किल ॥

17.116

परीक्षित् प्राप्नुयान् मातुस् ततो ऽपि जनमेजयः
इति क्रमागतं तातस् ताताद् आगमितं मया ॥

17.117

गान्धारग्रामसंबद्धं क्व गान्धारः क्व मानुषाः
स्वर्गान् नान्यत्र गान्धार इत्य् आहुर् नारदादयः ॥

17.118

तेन यो ऽयं न जानाति न चेद् अभ्युपगच्छति
तद् असंपादयन्न् एव जायते दोषवान् असौ ॥

17.119

अहं पुनर् इदं जानन् सद्यः परिणमत्फलम्
पुरो नागरकाणां च यथासामर्थ्यम् उत्सहे ॥

17.120

मयि संकल्पयत्य् एवम् असौ नागरकर्1षभः
स्मयमानो विलक्ष्यत्वात् स्वम् एवाभजतासनम् ॥

17.121

ततः प्रतिहते तस्मिन् सुहृद्मण्डलमण्डने
रङ्गो भङ्गम् अगृह्णात् स निगृह्यज्येष्ठमल्लवत् ॥

17.122

अथ मां जनितोत्साहम् उत्तिष्ठासन्तम् आसनात्
दृष्ट्वा संभाविताज्ञानं लज्जयाग्राहि दत्तकः ॥

17.123

अन्येन च निमित्तेन चलितो ऽहं किलासनात्
तेनोक्तं संकटास्थानाद् अन्यत्र स्थीयताम् इति ॥

17.124

ततस् तम् उक्तवान् अस्मि किम् इदं न त्वया श्रुतम्
पथा सकृत् प्रवृत्तायाः किं करोत्य् अवगुण्ठनम् ॥

17.125

प्रविष्टो ऽहं सुहृद्गोष्ठीं यथैव बटुचापलात्
तथा गन्धर्वदत्तापि धृष्तम् आज्ञापिता मया ॥

17.126

तद् अस्या बटुविद्यायाः प्रान्तम् अप्राप्य मादृशः
हा कष्टं वञ्चितो ऽस्मीति पश्चात् तापेन खेद्यते ॥

17.127

यत्र चामी न लज्जन्ते सलज्जाः सुहृदस् तव
तत्र निर्लज्जताश्लाघी लज्जयैव हि लज्जते ॥

17.128

समर्थयति मय्य् एवं दत्तको ऽपि निरुत्तरः
अहो साहसम् इत्य् उक्त्वा तूष्णींभावम् उपेयिवान् ॥

17.129

अहम् अप्य् आसनं त्यक्त्वा तिर्यक् पश्यति दत्तके
पार्श्वे गन्धर्वदत्ताया दत्तम् आसनम् आस्थितः ॥

17.130

अथ कञ्चुकिनानीतां वीणां दृष्ट्वाहम् उक्तवान्
अपरानीयताम् आर्य नैतां स्पृशति मादृशः ॥

17.131

उदरं दृष्टम् एतस्या लूतातन्तुनिरन्तरम्
जडतां गमिता येन पटुतन्त्रीपरंपरा ॥

17.132

स्मितदर्शितदन्ताग्रैर् अन्यतः क्षिप्तदृष्टिभिः
माम् आलोक्य तथाभूतम् उक्तं नागरकैर् इति ॥

17.133

ब्राह्मणः पूज्यताम् एष निर्लज्जाग्रपताकया
येन साहसम् आरब्धं स्वगुणाख्यापनोपमम् ॥

17.134

तन्त्रीकिणकठोराग्रा विशीर्णकरजातताः
करशाखाश् च नो जाता न च संभावनेदृशी ॥

17.135

अयं तु कोमलाग्रभिस् तन्त्रीर् अङ्गुलिभिः स्पृशन्
कदा वादयिता वीणां वेदवेदाङ्गपारगः ॥

17.136

सर्वथायम् अभिप्रायो मयैतस्योपलक्षितः
प्रीतिम् उत्पादयिष्यामि तावल् लोचनयोर् इति ॥

17.137

यावद् उत्सार्यते वीणा यावच् चानीयते ऽपरा
तावद् गन्धर्वदत्ताया रूपं पश्याम्य् अवारितः ॥

17.138

रथ्याचत्वरयात्रासु वक्ष्यामि जनसंनिधौ
ईदृशी तादृसी दृष्टा रूपिणी युवतिर् मया ॥

17.139

लूतातन्तुततं चायं वीणाकर्परम् आह यत्
किं तत् सत्यं मृषेत्य् एतद् देवैर् विज्ञायताम् इति ॥

17.140

उद्वेष्टिते च तत् तस्मिन् दृष्टं वेष्टनचर्मणि
तन्तुचक्रं भयोद्भ्रान्त लूतामण्डलसंकुलम् ॥

17.141

अथ गन्धर्वदत्ताया जातम् अङ्गं निरीक्ष्य माम्
वेपथुस्वेदरोमाञ्च लज्जाविधुरम् आकुलम् ॥

17.142

अपरापि मया वीणा समास्फाल्य पटुक्वणा
केशदूषिततन्त्रीका प्रथमेव विवर्जिता ॥

17.143

सानुदासस् ततो वीणां सुगन्धिकुसुमार्चिताम्
कच्छपाकारफलकाम् आदाय स्वयम् आगतः ॥

17.144

मां च प्रदक्षिणीकृत्य सविकारतनूरुहः
गन्धर्वदत्ताम् इव ताम् अददात् सुभगस्वनाम् ॥

17.145

मया तु धौतपादेन वीणां कृत्वा प्रदक्षिणाम्
अभुक्ताम्बरसंवीतं पीठपृष्ठम् अधिष्ठितम् ॥

17.146

मनाक् संस्पृष्टमात्राश् च करशाखामुखैः स्वयम्
तन्त्रीबन्धा यथास्थानम् असरन् धैवतादिकम् ॥

17.147

ततस् तन्त्रीषु गान्धारे जृम्भमानासु मन्थरम्
गन्धर्वदत्ताम् अवदं भीरु संगीयताम् इति ॥

17.148

सा प्रगल्भापि गान्धारम् आकर्ण्यामरगोचरम्
तथा च धृष्टम् आदिष्टा बालाशालीनतां गता ॥

17.149

तां च प्रवर्तयन् भीतां त्रपाजनितमूकताम्
तद् एव गीतकं दिव्यम् अहं मन्दम् अवादयम् ॥

17.150

हृते तस्यास् त्रपासेनौ संदर्शितपथा यथा
लोकं पावयितुं पुण्या प्रावर्तत सरस्वती ॥

17.151

वृत्तिभिर् दक्षिणाद्याभिस् तद् गीतं गीतकं तया
उपर्य् उपरि पाण्यन्तैः पाणिभिर् योजितं मया ॥

17.152

आसीद् इदं तमोभूतम् अप्रज्ञातम् अलक्षणम्
तद्गीतमात्रविषय श्रोत्रमात्रजगद् तदा ॥

17.153

सभायां गाढमूर्च्छायां मृदु तद् गीतवादिनम्
पटुभिर् दुन्दुभिध्वानैर् अभिभूतं विमानिनाम् ॥

17.154

पतितासु सरत्नासु दिवः कुसुमवृष्टिषु
कञ्चुकी चेतनाप्राप्तान् अभाषत सभासदः ॥

17.155

भो भो निर्मत्सराः सन्तः सत्यम् आख्यात साधवः
गीतं यद् अनयानेन किं तत् संवादितं न हि ॥

17.156

अथोद्यमितहस्तैस् तैः समस्तैर् उक्तम् उच्चकैः
धर्म्यशुल्कार्जिताम् एष कन्यकां लभताम् इति ॥

17.157

तिरस्करिणिकां नीत्वा ततः कञ्चुकिनान्तरा
बहिष्कृता नागरका नास्तिकास् त्रिदिवाद् इव ॥

17.158

निर्गच्छन्ति हतच्छायास् ते खण्डितमनोरथाः
स्वभ्यस्तगुणवैफल्यं गुणिनः कान् न तापयेत् ॥

17.159

सवीणादत्तको ऽहं तु श्रेष्ठिनाभ्यन्तरीकृतः
परीक्ष्य बहुशो राज्ञा सचिवो गुणवान् इव ॥

17.160

अभाषत च निर्गच्छंस् तेषु नागरकर्षभः
यक्षीकामुक देवस् त्वम् अमानुषपराक्रमः ॥

17.161

वयं गन्धर्वदत्ता च सानुदासश् च सानुगः
कृच्छ्राम् आपदम् आपन्ना लीलयैव त्वयोद्धृताः ॥

17.162

काश्मर्यः खदिराः शाकाश् चम्पकाश् च सवेणवः
आतोद्याङ्गार्थम् उत्खाताः प्ररोहन्तु यथा पुरा ॥

17.163

अग्निहोत्राणि हूयन्तां द्विजाः संध्याम् उपासताम्
कुमार्यः परिणीयन्तां प्रसूयन्तां कुलस्त्रियः ॥

17.164

परिव्राजकनिर्ग्रन्थ भिक्षुपाशुपतादयः
गुरुवक्त्राभिसंक्रान्तान् स्वसिद्धान्तान् अधीयताम् ॥

17.165

शान्तवीनोपसर्गत्वात् सकीरनगराः सुखम्
सचम्पामगधाश् चाङ्गाः स्वस्थाङ्गाः शेरताम् इति ॥

17.166

ततो गृहपतिर् दीनः प्रार्थनाभङ्गशङ्कया
वीणादत्तकम् आलोक्य प्रावोचन् नीचकैस्तराम् ॥

17.167

प्रशस्तं दिनम् अद्यैवं तेनायं पौरुषार्जितः
श्लाघ्यो गन्धर्वदत्तायाः करः संस्क्रीयताम् इति ॥

17.168

अहं तु साभिलाषो ऽपि दर्शितालीकधीरतः
अवोचं स्मितसंकीर्णाम् अनास्थामन्थरां गिरम् ॥

17.169

द्विजो ऽहं मेरुकैलास तुल्यामलकुलोद्भवः
परिणेतुं न मे युक्तम् असवर्णाम् इमाम् इति ॥

17.170

अथोक्तं सानुदासेन विश्रब्धं परिणीयताम्
युष्माकं हि सवर्णेयम् उत्कृष्टा वा भवेद् इति ॥

17.171

आसीच् च मम किं मत्तः किम् उन्मत्तः किम् आर्जवः
अयं यस्माद् असंबद्धम् अबुद्धिर् इव भाषते ॥

17.172

अहं चेयं च यद्य् अस्य ब्राह्मणाव् इति निश्चयः
ततो मत् कथम् उत्कृष्टा ब्राह्मणी ब्राह्मणाद् इयम् ॥

17.173

अथ इमां ब्राह्मणीम् एष मन्यते क्षत्रियं तु माम्
तथा सति कथाप्य् एषा क्रियमाणा विरुध्यते ॥

17.174

किं तु संभाव्यते नायम् असंबद्धं प्रभाषितुम्
येन धर्मार्थशास्त्रार्थ क्षुण्णधीर् इव भाषते ॥

17.175

अग्रजो ऽवरजां भार्यां स्वीकुर्वन् न प्रदुष्यति
ते च स्वा चैव नृपतेर् इत्य् उक्तं मनुना यतः ॥

17.176

प्रत्याख्यानं च नितराम् इयं नार्हति निन्दितम्
यस्माद् अखण्डिताज्ञेन दापिता गुरुणैव मे ॥

17.177

यद् अहं ग्राहितस् तेन विज्ञानम् अतिमानुषम्
दापिता येन तेनैव तेन तेनैव दापिता ॥

17.178

न चावश्यपरिग्राह्या कुमारी चिरम् अर्हति
साभिलाषा विशेषेण प्रत्याख्यानकदर्थनाम् ॥

17.179

तस्माद् अलं ममानेन निर्बन्धेनेति निश्चितम्
अर्थितां सानुदासस्य तथेति सममानयम् ॥

17.180

अथ वैश्रवणस्येव सूनोराखण्डलात्मजः
करं गन्धर्वदत्तायाः ससंस्कारम् उपाददे ॥

17.181

मन्दं पादतलेन तालम् अनया यत् कुट्टयन्त्याचिरं गीतं माम् अभि विस्फुरत्कुहरितं तारैः सुभुग्नभ्रुवा
तेनैव प्रतनूकृताम् अपहरन्न् अस्याः क्रमेण त्रपां निर्वाणान् महतान्तरेण सुभगं संसारम् अज्ञासिषम् ॥

मूल पाठ: Bṛhatkathāślokasaṃgraha · Edition: the text edited by Felix Lacote (Paris, 1908). It was · Data entry Andreas Bigger · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc