बृहत्कथाश्लोकसंग्रह · अध्याय 16
अथासौ माम् अवन्दित्वा निस्त्रिंशकरकङ्कटः
आरोहद् अम्बरं काले मन्देन्दुग्रहचन्द्रिके ॥
तं चोत्पतन्तम् आकाशं शरं वालम्बितत्वरम्
न पृच्छामि स्म पन्थानं देशं नगरम् एव वा ॥
गाहमानश् च वल्मीक स्थाणुकण्टकसंकटाम्
अटवीं सिंहमातङ्ग पुण्डरीकाकुलाम् अगाम् ॥
अथामितगतिक्रोध वह्निभासेव भासिताम्
अपश्यं लोहितायन्तीं प्राचीम् अरुणशोचिषा ॥
कंचिच् चाध्वानम् आक्रम्य देशे नातिघनद्रुमे
विवादिध्वनिघण्टानाम् अपश्यं मण्डलं गवाम् ॥
अनुमाय ततस् तेन वसन्तं देशम् अन्तिके
जाताश्वासमतिर् गच्छन् क्षणेनारण्यम् अत्यजम् ॥
तुषारसमयारम्भ भीयेव कमलाकरान्
अपश्यं धूसरच्छायान् गच्छन् दिनकरोदये ॥
अथालिकुलनीलाग्र विलसत्कुन्दकाननम्
आलवालपरिक्षिप्त मूलम् उद्यानम् आसदम् ॥
तत्र संमार्जनव्यग्रम् उद्यानपरिचारकम्
पृष्टवान् अस्मि कस्येदम् उद्यानम् इति सो ऽब्रवीत् ॥
किं च देवकुमारो ऽपि दिव्यज्ञानामलाशयः
अस्मदादीन् अबोधान्धान् संदिहन्न् इव पृच्छति ॥
अथ वा किं न एतेन महात्मनो हि मादृशैः
क्रीडन्ति तेन देवेन स्वयं विज्ञायताम् इति ॥
अथ द्वितीयम् उद्यानं रमणीयतरं ततः
प्रविश्यापश्यम् उद्यान मन्दिरं तुङ्गतोरणम् ॥
प्रविशामि स्म तत्राहम् एको दौवारिकश् च माम्
अन्तरे वेत्रम् आधाय तिष्ठेति द्वार्य् अधारयत् ॥
अथावोचद् द्वितीयस् तं धिक् त्वां निर्बुद्धचक्षुषम्
निवारयसि यो मोहाद् एनम् अम्बरचारिणम् ॥
किं कदाचित् त्वया दृष्टः श्रुतो वा कश्चिद् ईदृशः
एवं वा प्रविशन् धीरं धरणीधीरधीर् इति ॥
तेनोक्तम् अननुज्ञातं भर्त्रा नारदम् अप्य् अहम्
विशन्तं नानुजानामि किं पुनः सौम्यम् ईदृशम् ॥
अयं तु ध्रियमाणो ऽपि दिग्दन्तिगतिधीरतः
प्रविशत्य् एव पारुष्य मात्रसारा हि मादृशाः ॥
अथ निष्कारणोत्कण्ठा करम् उद्यानमन्दिरम्
प्राविशं निस्वनद्वीनं विनीताण्डजवानरम् ॥
तत्रासीनं शिलापट्टे चित्रपट्टोपधानके
अपश्यम् अमराकारं नरं नागरकेश्वरम् ॥
उपसृत्य तम् आभाष्य भोः साधो सुखम् आस्यते
कच्चिद् वा प्रत्यवेक्ष्यन्ते बहुकृत्वः कला इति ॥
वीणाव्यासक्तचित्तत्वात् पश्यति स्म न माम् असौ
अवक्षिप्तं हि दृश्यानि मनः पश्यति नेक्षणे ॥
मया तु चलिता वीणा गृहीत्वाग्रे यदा तदा
वीणातश् चक्षुर् आक्षिप्य मयि निक्षिप्तवान् असौ ॥
ततः संभ्रान्तम् उत्थाय स्रंसमानोत्तराम्बरः
माम् उपावेशयत् प्रीतस् तस्मिन्न् एव शिलासने ॥
पादचारपरिश्रान्तम् अङ्गं संवाह्य मामकम्
प्रक्षाल्य च स्वयं पादौ दत्तार्घः समुपाविशत् ॥
अनुयुक्तश् च स मया को ऽयं जनपदस् त्वया
भूषितः कतमच् चेदं पुरं सच्चरितैर् इति ॥
अथ तेन विहस्योक्तं संभाव्या नभसा गतिः
त्वादृशां देवपुत्राणाम् अज्ञानं तु न युज्यते ॥
यो हि देशान्तरं याति मुग्धो ऽपि धरणीचरः
अग्रतो भावितं देशं नाबुद्ध्वा संप्रपद्यते ॥
देशश् चन्द्रप्रकाशो ऽयं चन्द्रिकाप्रकटा पुरी
न ज्ञाता पथिकेनेति दुःश्लिष्टम् इव दृश्यते ॥
तेनामरकुमारस् त्वम् अवतीर्णो विहायसः
अज्ञानच्छद्मना छन्नः क्रीडितुं मद्विधैर् इति ॥
अथाहं चिन्तयित्वेदम् उत्तराभासम् उक्तवान्
द्विजो ऽहं वत्सविषये वसतः पितरौ मम ॥
सो ऽहं कर्णसुखाचारः कदाचिन् मन्त्रवादिनाम्
श्रुत्वा दारैर् असंतुष्टो यक्षीं कांचिद् असाधयम् ॥
सा चाहं च ततः प्रीतौ शैले शैले वने वने
यद् वा यद् रुचितं तस्यै तत्र तत्रारमावहि ॥
चिन्तितं च मया रात्रौ न मे यक्ष्या प्रयोजनम्
पातालमन्त्रम् आराध्य रमयाम्य् असुरीम् इति ॥
अथेर्ष्यादूषितधिया तयाहं यक्षकन्यया
आनीय नभसा न्यस्तः पुरे ऽस्मिन् भवताम् इति ॥
तेनोक्तं न न संभाव्या यक्षरक्षःसु चण्डता
पश्चात् तापगृहीता तु न सा युस्ंआन् विमोक्ष्यति ॥
को ऽयं जनपदः स्यात् का पुरीति च यद् उच्यते
अङ्गा जनपदः स्फीतश् चम्पा चेयं महापुरी ॥
अहं च दत्तको नाम वणिक् पौरपुरस्कृतः
प्रसिद्धः प्रियवीणत्वाद् वीणादत्तकनामकः ॥
अथाहूयाब्रवीद् एकं स कर्णे परिचारकम्
गाढं परिकरं बध्नन् धावमानः स चागमत् ॥
क्षणेन च परावृत्य श्वसितस्पन्दितोदरः
स्वामिप्रवहणं प्राप्तम् इति दत्तकम् अब्रवीत् ॥
अथावतार्य मुदितः स्वाङ्गुलेर् अङ्गुलीयकम्
दत्तवान् दत्तकस् तस्मै शीघ्रप्रेषणकारिणे ॥
कृताञ्जलिर् अथोवाच यक्षीकामुक धाव्यताम्
पावनैर् दासभवनं पादनिक्षेपणैर् इति ॥
अथारुह्य प्रवहणं वीणादत्तकवाहकम्
गृहीतचारुसंचारं चम्पाम् अभिमुखो ऽगमम् ॥
शृणोमि स्म च पौराणां जल्पताम् इतरेतरम्
चिरंजीवद्भिर् आश्चर्यं पृथिव्यां किं न दृश्यते ॥
क्व नागरकसेनानीर् दत्तकस् तुङ्गमस्तकः
क्व च कस्यापि पान्थस्य रज्जुभागे व्यवस्थितः ॥
अथापरेण तत्रोक्तम् अत एवायुमत्तमः
येन लोकोत्तमस्यास्य रज्जुभागे व्यवस्थितः ॥
आकारानुमितं चैतद् गुणसंभारभारिणः
ननु चास्य वसन्तो ऽपि सारथ्येन विकथ्यते ॥
दृष्टवान् परितश् चाहं क्वचिद् उत्सृष्टलाङ्गलान्
हालिकान् हलमूलेषु वीणावादनतत्परान् ॥
क्वचिद् उद्दामगोवर्गं वटे गोपालमण्डलम्
वितन्त्रीस् ताडयद्वीणाः कर्णशूलप्रदायिनीः ॥
आसन्नश् च पुरद्वारं विक्रयाय प्रसारिताम्
वीणावयवसंपूर्णाम् अपश्यं शकटावलीम् ॥
विजर्जरितकर्णश् च वितन्त्रीध्वनिमुद्गरैः
व्यस्तपद्मनिधानाभं प्राप्नोमि स्म वणिक्पथम् ॥
कुङ्कुमं क्रेतुम् आयातः कश्चिद् वाणिजम् अब्रवीत्
वीणाविक्षिप्तचेतस्को वीणा मे दीयताम् इति ॥
चिराद् आकर्ण्य तद् वाक्यं कुपितः स तम् अब्रवीत्
वणिजो ऽन्ये किम् उत्सन्ना येन खादसि माम् इति ॥
एवं वर्धकिकर्मार कुलालवरुडादयः
निकृष्टजन्मकर्माणः सक्ता वीणाम् अवादयन् ॥
अथ प्रायं चिरं द्वारं वीणादत्तकवेश्मनः
शातकुम्भमयैः कुम्भैर् अम्भोगर्भैः समङ्गलम् ॥
तत्र यानाद् अवप्रुत्य प्राविशं गृहम् ऋद्धिमत्
उत्थास्नुर् इव मेधावी विशालं हृदयं श्रियः ॥
दत्तकस् तु पुरो ऽस्माकं दासीदासम् अभाषत
अद्यारभ्यास्य युष्माभिर् आज्ञा संपाद्यताम् इति ॥
अथ व्यज्ञापयन् प्रह्वाः सूपकाराः समेत्य माम्
आज्ञापयत युष्मकां कः पाकः साध्यताम् इति ॥
मम त्व् आसीन् मया तावद् ब्राह्मणत्वं प्रकाशितम्
ब्राह्मणाश् च घृतक्षीर गुडादिमधुरप्रियाः ॥
तद् इदं युक्तम् इत्य् एतच् चिन्तयित्वेदम् उक्तवान्
ननु हस्तपुटग्राह्यं पायसं साध्यताम् इति ॥
अथ हस्तं विधूयोक्तं सूपकारेण गच्छता
अन्नसंस्कारशास्त्रज्ञाः कां दिशं यान्तु संप्रति ॥
भीमसेनादिभिर् यानि सूदशास्त्राणि चक्रिरे
कर्मकर्यो ऽपि तान्य् अस्मिन् गृहे प्रायेण जानते ॥
यक्षीकामुकम् आसाद्य प्रभुं भोजनकोविदम्
अनर्थकानि जातानि चरितार्थानि पायसे ॥
अहो नागरकः स्वामी स्वयं प्रवहणेन यः
आलेख्ययक्षम् आदाय यक्षीकामुकम् आगतः ॥
सर्वथा धिग् अकार्यज्ञम् ऐश्वर्यजनितं मदम्
गमितः प्रेष्यतां येन मादृशो ऽपीदृशाम् इति ॥
अथ मर्दनशास्त्रज्ञस् तरुणः परिचारकः
ममाङ्गं गन्धतैलेन मृद्नाति स्म यथासुखम् ॥
पश्चाद् उद्वर्तनं स्नानम् अहताम्बरधारणम्
कृत्वा देवप्रणामं च प्रायं भोजनमण्डपम् ॥
तत्र भोजनभूमिष्ठं मां नमस्कृत्य दत्तकः
सभ्रातृभागिनेयादि पङ्क्तिमध्यए उपाविशत् ॥
कुलालचक्रपात्री च पात्री मम हिरण्मयी
पायसेनेन्दुवर्णेन सूपकारेण पूरिता ॥
पार्श्वे पायसपात्र्याश् च तेजस्विमणिभाजने
महासारमुसारस्थे स्थापिते मधुसर्पिषी ॥
चिन्तितं च मया जातो महानयम् उपद्रवः
मधुमांसोचितः क्वाहं क्व चेदं घृतपायसम् ॥
केन नाम प्रकारेण त्यजेयम् इदम् इत्य् अहम्
विचार्य पायसग्रासं दग्धो ऽस्मीति निरस्तवान् ॥
तेषां संप्रत्ययार्थं च हरन् दाहरुजं किल
शीतपानीयगण्डूषैर् मुखं मुहुर् अशीतयम् ॥
बल्लवस् तु पुरः स्थित्वा वीणादत्तकम् उक्तवान्
नायं विप्रः कथं विप्रः प्रद्विष्याद् घृतपायसम् ॥
आचष्ट मर्दकश् चेदम् आसवामोदवासितः
निश्वासो ऽस्य मया घ्रातः शनकैर् निश्चरन्न् इति ॥
दत्तको ऽपि कराग्रेण पिधाय मुखम् आत्मनः
कम्पयित्वोत्तमाङ्गं च तं ब्रुवन्तं न्यवारयत् ॥
अब्रवीच् च पयःपानं यूयं पिबत पानकम्
पानकस्यापि पानेन गोष्ठी संमान्यताम् इति ॥
मया तु जाततर्षेण पाने परिणतिं गते
तत् पीतं पानसादृश्यात् पानबुद्ध्यैव पानकम् ॥
खण्डमांसप्रकाराद्यं नानाधिष्ठानसंकुलम्
सेवित्वाहारम् अग्राम्यम् उदतिष्ठं सदत्तकः ॥
संमृष्टभोजनस्थाने पुष्पच्छुरितकुट्टिमे
कान्तम् अध्यासि पर्यङ्कं न्यस्तं तत्रैव मण्डपे ॥
कर्पूरत्रिफलानाभि लवङ्गैलासुगन्धिना
मुखस्य गन्धरागौ च ताम्बुलेनोदपादयम् ॥
एवं च सुखम् आसीनो वीणादत्तकम् अब्रवम्
वीनोन्मत्तिर् इयं कस्माच् चम्पायां कथ्यताम् इति ॥
तेनोक्तम् इह चम्पायां सानुदासो वणिक्पतिः
तस्य गन्धर्वदत्तेति सुता त्रैलोक्यसुन्दरी ॥
स च तां ध्रियमाणो ऽपि वरैर् वरगुणाकरैः
अभिप्रायेण केनापि न कस्मैचित् प्रयच्छति ॥
प्रत्याख्यातुम् अशक्तेन याचितेन क्षणे क्षणे
तेन शुल्कम् उपन्यस्तं दुःसंपादं सुरैर् अपि ॥
अपूर्वं किल गायन्त्यास् तस्याः किम् अपि गीतकम्
यो ऽनुवादयिता वीणां परिणेता स ताम् इति ॥
मयेयं परिणेतव्या मयेयम् इति निस्त्रपः
न कश्चिद् यो न चम्पायां वीणयोन्मत्तकः किल ॥
पुरो नागरकाणां च चतुःषष्टेस् तदर्थिनाम्
षष्ठे षष्ठे गते मासे सा तद् गायति गीतकम् ॥
अनेन च प्रकारेण यातः कालो महान् अयम्
न चापि वीणया कश्चिद् अनुगच्छति ताम् इति ॥
एतत्कथावसाने च पुरुषौ श्रोत्रियाकृती
वीणादत्तकम् अब्रूतां स्थविरौ वेत्रधारिणौ ॥
श्रेष्ठिना प्रेषिताव् आवां संदेशेन त्वदन्तिकम्
यदि सज्जा सुहृद्गोष्ठी समस्या क्रियताम् इति ॥
तेनोक्तं सुहृदः सज्जा यदि वः सुस्थिता गृहाः
कल्या गन्धर्वदत्ता वा स्व एव क्रियताम् इति ॥
ततस् तं पृष्टवान् अस्मि महोत्साहेन चेतसा
रूपं गन्धर्वदत्ताया कीदृग् इत्य् अथ सो ऽब्रवीत् ॥
तस्याः स्वकान्तिपरिवेषपटापिधानं नेत्रप्रभाप्रकरसारितहर्म्यगर्भम्
उत्कृष्टविस्मयविमोहितमानसेन रूपं निरूपयितुम् एव मया न शक्यम् ॥
मूल पाठ: Bṛhatkathāślokasaṃgraha · Edition: the text edited by Felix Lacote (Paris, 1908). It was · Data entry Andreas Bigger · GRETIL (Göttingen) · CC BY-NC-SA 4.0