बृहत्कथाश्लोकसंग्रह · अध्याय 15
परिपाट्या ततः प्राप्तास् त्रयो हरिशिखादयः
प्रभाते माम् अवन्दन्त न तु वेगवतः सुताम् ॥
गोमुखस् त्व् अचिरात् प्राप्तः प्रथमं माम् अवन्दत
अस्मदासन्नम् आसीनां भक्त्या वेगवतीं ततः ॥
असौ हरिशिखेनोक्तः सुष्ठु खल्व् असि पण्डितः
वन्द्यावन्द्यविचारे हि पण्डिताः समदर्शिनः ॥
अथोक्तं तेन मत्तो ऽस्ति भवान् एवातिपण्डितः
वन्द्यलक्षणयुक्तां यो वन्द्याम् अपि न वन्दते ॥
भण केन न पूज्येयं या नः पूज्येन पूजिता
ननु मन्दमते लोकः पूज्यपूजितपूजकः ॥
स्वामिनी स्वामिसंबन्धात् स्वामीवार्हति वन्दनाम्
चन्द्रासन्नैर् हि नक्षत्रैर् लोकः कार्याणि कार्यते ॥
इत्यादि वदतस् तस्य पक्षम् उत्कर्षयन्न् इव
अहं वेगवतीवृत्तं तद्वर्णितम् अवर्णयम् ॥
विद्याधरकुमारीणां प्रवृत्तावर्तनीति ते
वन्दतो मुदिता गत्वा सेनाभर्त्रे न्यवेदयन् ॥
तेनापि तातपादेभ्यस् तैर् अम्बाभ्यां निवेदितम्
हर्षदुन्दुभिवृन्दैस् तु नदद्भिर् वृत्रशत्रवे ॥
गम्भीरोत्पातजीमूत संपातह्रादभीषणे
प्रमोदध्वनिते यातं तन्यमाने दिवानिशम् ॥
अथ सेनापतिः प्राप्तः प्रातर् माम् इदम् अब्रवीत्
इदानीम् एव देवीभ्यां देवो विज्ञापितो यथा ॥
द्वितीयया वधुकया गृहीतो दारकः स्वयम्
कस्याश्चिद् अपि नास्मभिर् दृष्टः परिणयोत्सवे ॥
तेन प्रसादो यद्य् अस्ति वेगवत्या ततः सह
नरवाहनदत्तस्य विवाहः कार्यताम् इति ॥
देवेन तु विहस्योक्तम् एवम् अस्तु किम् आस्यते
ममापि हि मनस्य् आसीद् अयम् एव मनोरथः ॥
किं तु माता वरस्यात्र देवी भवतु मागधी
पिताहं वरपक्षे ऽस्य समस्तम् अवरोधनम् ॥
अस्तु वासवदत्तायाः सुता वेगवतः सुता
रुमण्वदादयः पक्षे तस्या एवं भवन्त्व् इति ॥
अथान्तःपुरम् अम्बायाः पद्मावत्याः सुहृद्वृतः
नीतो ऽहं चित्रविन्यास रत्नमङ्गलमण्डलम् ॥
सभर्तृबहुपुत्राभिर् नारीभिर् वेगवत्य् अपि
ज्येष्ठाम्बाभवनं नीता केलिकोलाहलाकुलम् ॥
तपन्तकस् तु मागध्या प्रेषितः प्रेक्षितुं वधूम्
मषीकालमुखोरस्कः कारितो ज्येष्ठयाम्बया ॥
कम्पमानश् च कोपेन ततः प्रत्यागतो ऽब्रवीत्
अर्यपुत्र खलीकारं पश्यतेमं ममेदृशम् ॥
श्वश्रूस् ते मां खलीकृत्य सान्तर्हासम् अवोचत
क्व यासि जाल्म लब्धो ऽसि प्रेषितस् त्वं चरः किल ॥
एकैव मम बालेयम् आयाचितशतार्जिता
अस्याः सौभाग्यम् उत्पाद्यम् अवश्यं कार्मणैर् मया ॥
माता जामातृकस्यैव महाकार्मणकारिका
यया हस्ततले भर्ता गुरुधैर्यो ऽपि नर्तितः ॥
वर्धयन्त्याश् चिरं पुत्रं तस्याः कार्मणमालया
किं मया प्रेषितः कश्चिद् भवान् इव चरस् तया ॥
इत्य् उक्त्वालम्भितो भीमाम् अर्धचन्द्रपरंपराम्
देव्याः निष्क्रमितः स्वस्माद् अहम् अन्तःपुराद् इति ॥
तपन्तकेन या प्राप्ता तत्र गत्वा विडम्बना
ताम् अनेकगुणां प्रापञ् ज्येष्ठाम्बाप्रेषिताश् चराः ॥
इति प्रवृत्तवृत्तान्ते मत्ते ऽन्तःपुरसागरे
मया वेगवतीपाणिर् गृहीतो मन्त्रसंस्कृतः ॥
अथ गत्वा स्वम् आवासं वासावासं प्रविश्य च
अन्यादृशप्रपञ्चेव दृष्टा वेगवती मया ॥
व्याहृता वचनं नादाद् अगाद् आलम्बितांशुका
शयनं च नवोढेव सेवते स्म पराङ्मुखी ॥
उपसृत्य शनैश् चैनां ब्रवीमि स्म विलक्षकः
व्रीडाक्रीडाकृता पीडा दुर्भगा त्यज्यताम् इति ॥
तया तु कथम् अप्य् उक्तं स्फुटितस्मितचन्द्रिकम्
अर्यपुत्र कुतः क्रीडा गुर्वाज्ञेयं गरीयसी ॥
मया हि श्वशुरादेशाद् अस्मिन् विवाहनाटके
दुष्करा क्षिप्तवेलापि वधूकाभूमिका कृता ॥
तथा नाटयितव्येयम् उज्ज्वला जायते यथा
तस्माद् गुरुनियोगो ऽयम् अलङ्घ्यः क्षम्यताम् इति ॥
तया सह विसर्पन्त्या विवाहकथयानया
अनयं क्षणसंक्षिप्ताम् आयाताम् अपि यामिनीम् ॥
गते तु नातिसंक्षिप्ते काले चटुलसम्भ्रमः
त्वरावान् स्खलदालापो माम् अवोचत् तपन्तकः ॥
अर्यपुत्र मया दृष्टाश् चतस्रः पुरदेवताः
भ्राम्यता नगरोद्याने दैन्यम्लानाननेन्दवः ॥
नृपस्यानिष्टम् आशङ्क्य मन्ये किम् अपि दारुणम्
अन्यद् उच्चलिताः स्थानं विहायेमां पुरीम् इति ॥
मया वेगवती पृष्टा कास् ता इति तयोदितम्
क्रोधान् मानसवेगेन मम सख्यो विवासिताः ॥
मम प्रसादः क्रियतां स्वयम् आदाय ताः सखीः
नयनोन्मेषमात्रेण पश्य माम् आगताम् इति ॥
उत्पतन्ती मया दृष्टा वेगाद् वेगवती नभः
आसीना चासने स्वस्मिन् सखीभिः परिवारिता ॥
तदागमनवार्त्ता च व्यापज्झगिति मेदिनीम्
सद्यः स्वर्भानुमुक्तस्य ताराभर्तुर् इव प्रभा ॥
सेनापतिर् अथागत्य प्रवीणैर् ब्राह्मणैः सह
प्रीतिस्निग्धविशालाक्षः सप्रणामम् अभाषत ॥
राजा वेगवतीम् आह प्रत्यासन्नकरग्रहाः
चतस्रः किल तिष्ठन्ति भगिन्यः कन्यकास् तव ॥
ममाप्य् अकृतवीवाहा युवानो रम्यदर्शनाः
पुत्रास् तिष्ठन्ति चत्वारः शस्त्रशास्त्रकलाविदः ॥
यदि संबन्धयोग्यान् नो मन्यते राजदारिका
ततस् ता दारिकास् तेभ्यः पुत्रेभ्यो मे ददात्व् इति ॥
तयोक्तं धीरगणिका वक्त्रसंक्रान्तवाक्यया
देवेनानुगृहीतास्मि प्रसादैः फलितैर् इति ॥
अभूच् च दारिकापक्षे तदा देवी कनीयसी
अहं च वरपक्षे तु तातः सान्तःपुरो ऽभवत् ॥
या समृद्धिस् तदा दृष्टा वत्सराजकुले मया
ताम् अद्यापि न पश्यामि प्राप्यापि श्रियम् ईदृशम् ॥
विद्याधरकुमारीणां ततो हरिशिखादयः
अग्रहीषत सस्वेदान् अम्भोरुहरुचः करान् ॥
निवर्तितविवाहास् तु राजराजसुता इव
राजराजगृहाणीव गताः पितृगृहाणि ते ॥
प्रभाते तान् अहं प्राप्तान् सव्रीडान् इव पृष्टवान्
याता यस्य यथा रात्रिः स तथा वर्णयत्व् इति ॥
गोमुखेन ततः प्रोक्तम् उच्चैस् ताडितपाणिना
तथैतेषां गता रात्रिर् मा स्म गच्छद् यथा पुनः ॥
अयं हरिशिखस् तावत् कन्याराधनकोविदः
अवेहि मन्त्रिपुत्रेति भार्यया भर्त्सितः स्पृशन् ॥
ततः शय्यां समालिङ्ग्य कूर्मसंकोचपिण्डितः
दारुणाम् अनयद् रात्रिं निद्रयापि निराकृतः ॥
अयं तु घट्ट्यमानो ऽपि भार्ययाम् मरुभूतिकः
शूरो ऽहम् इति भार्यायाः पादस्थानं न मुक्तवान् ॥
तपन्तकः पुनः शय्यां त्यक्त्वा सुप्तो महीतले
प्रक्षालनाद् धि पङ्कस्य दूराद् अस्पर्शनं वरम् ॥
तद् एवं दुर्भगान् एतान् कान्तासङ्गमकातरान्
प्रगल्भा रमयिष्यन्ति कथं विद्याधराङ्गनाः ॥
ततो हरिशिखेनोक्तम् अहो नागरको भवान्
भार्यया यो ऽतिसौभाग्याद् गृहाद् अपि निराकृतः ॥
यो हि वासगृहे सुप्तः प्रीतया सह कान्तया
स कथं परवृत्तान्तैः क्षपां क्षपितवान् इति ॥
तथोपहसताम् एषाम् आलापैर् अपयन्त्रणैः
रममाणः क्षणं स्थित्वा ससुहृत् पानम् आचरम् ॥
अथापरस्मिन् दिवसे वेगवत्या निमन्त्रिताः
सभार्याः सुहृदस् ते ऽपि ताभिर् एव सहागताः ॥
मयोक्तं यस्य यस्याश् च पानं सह न दुष्यति
स तया सा च तेनैव पानम् आसेवताम् इति ॥
भार्यां हरिशिखस्यापि पाणाव् आकृष्य गोमुखः
शोभाजितमृणालिन्यां पानभूमाव् उपाविशत् ॥
भार्यया गोमुखस्योक्तं यदि लभ्यः स्वयंग्रहः
गृहीतस् तर्हि निःशङ्कं मया हरिशिखः स्वयम् ॥
आसीनायां ततस् तस्यां तेन सार्धम् अनन्तरम्
तपन्तकस्य गृहिणीम् अगृह्णान् मरुभूतिकः ॥
मरुभूतिकभार्या तु समुपेत्य तपन्तकम्
अब्रवीत् परिशेषो ऽयं किम् अन्यत् क्रियताम् इति ॥
एवं सह सुहृद्दारैः सुहृदः शुद्धबुद्धयः
वयं च सहिता दारैः क्रीडन्तः सुखम् आस्महि ॥
कदाचित् कुपिता मह्यं येन केनापि हेतुना
मयानुनीयमानापि सुप्ता वेगवती पृथक् ॥
जागरित्वा चिरं सुप्तस् ततो ऽहं गाढनिद्रया
सहसा प्रतिबुद्धश् च स्फुरल्लोचनतारकः ॥
उन्मील्य च चिरान् नेत्रे बालनिद्राकषायिते
केनाप्य् अपश्यम् आत्मानं नीयमानं विहायसा ॥
अमरासुरगन्धर्व पिशाचप्रेतराक्षसाम्
को नु मा नयतीत्य् आसं संदेहाधीनमानसः ॥
देवादीनाम् अयं स्पर्शो लक्षणैर् न हि विद्यते
तस्माद् विद्याधरेणाहं गृहीतो दुष्टबुद्धिना ॥
शत्रुहस्ते गतस्यापि क्षत्रियस्य न शोभते
हस्तपादास्त्रमित्रस्य पङ्गोर् इव मुधा वधः ॥
तस्माद् अहं यथाशक्ति व्यायम्य द्विषता सह
मरिष्यामीति निर्धार्य तं ताडयितुम् उद्यतः ॥
अथ तेन विहस्योक्तं साधु क्षत्रियकुञ्जर
स्वस्याः सुसदृशं जातेः कर्म व्यवसितं त्वया ॥
वन्ध्यस् तु तव संकल्पः फूत्कारो वासुकेर् इव
मन्त्रयन्त्रितवीर्यस्य तस्माच् चिन्तय देवताम् ॥
प्रीतश् चास्मि तवानेन शौर्यशौण्डेन चेतसा
तस्माद् ददामि ते ऽभीष्टं द्वयोर् अन्यतरं वरम् ॥
ब्रूहि किं म्रियसे दृष्ट्वा प्रियां मदनमञ्जुकाम्
किं महासागराधारैः पाट्यसे मकरैर् इति ॥
मम त्व् आसीन् मृणालीव चिक्खलात् कलुषाद् इयम्
अरातेर् अपि निर्याता भारती स्वच्छकोमला ॥
यदि नाम प्रियां दृष्ट्वा न्यसेयं कायशृङ्खलाम्
ततो मे शत्रुमित्रेण भवेद् उपकृतं महत् ॥
यं यम् एव स्मरन् भावं त्यजत्य् अन्ते कडेवरम्
तं तम् एव किलाप्नोति तदा तद्भावभावितः ॥
यस् तु पश्यन् पुरः प्रीत्या प्रियां प्राणैर् वियुज्यते
तयानन्तरम् एवासौ सुकृती संप्रयुज्यते ॥
इति संकल्पयन्न् एव रणन्तीं किङ्किणीम् अधः
शृणोमि स्म प्रभातेन्दोः पश्यामि स्म तनुप्रभाम् ॥
तां दिशं प्रहिताक्षेण दृष्टा वेगवती मया
निवारबाणनिस्त्रिंस प्रभादलितचन्द्रिका ॥
पीवरक्रोधसंजात प्रज्वलज्ज्वलनद्युतिः
लोकान् इव दिधक्षन्ती प्रलयानलसंततिः ॥
सान्द्रं मद्दर्शनाद् एव प्रीतिनिश्वसितानिलैः
क्रोधानलम् अविच्छिन्नैः स्थूलैश् च निरवापयत् ॥
अथांसयोः समासज्य नतयोर् असिचर्मणी
मूर्ध्नि चाञ्जलिम् आधाय लज्जादीनम् अभाषत ॥
वत्सराजसुतं दान्तम् आकारेण तम् ईदृशम्
युवराजं महाराज मा वधीर् भगिनीपतिम् ॥
यथाहं तव मातुश् च तथायं मम वल्लभः
स्वदारसहितस् तस्माद् अक्षतो मुच्यताम् इति ॥
ततः सप्रबलाक्षेपो दष्टदन्तच्छेदः स्फुरन्
स्वसारम् अब्रवीद् वाचा सिंहफूत्कारघोरया ॥
स्वयंगृहीतनिर्वार्य धरागोचरभर्तृकाम्
धिक् त्वां शारदचन्द्राभ मनःपुत्रिकपांसनीम् ॥
तस्याः पुरो निहत्यैनं यासौ माम् अवमन्यते
तां च त्वां च ततस् तस्य गमयिष्यामि पृष्ठतः ॥
इदानीं निहतो ऽसीति सा भ्रातरम् अभाषत
तेनापि त्वरितेनाहम् अभ्रमध्ये निपातितः ॥
अथ वेगवती ध्यात्वा कुलविद्याम् अभाषत
भगवत्यार्यपुत्रो ऽयं स्वपुत्र इव रक्ष्यताम् ॥
वातमण्डलिकोत्क्षिप्तं यथा पत्त्रं भ्रमद् भ्रमत्
शनैः शनैर् महीं यायात् तथायं नीयताम् इति ॥
अथ निस्त्रिंशम् उद्गूर्य निर्धर्माकरुणः खलः
हन्तुं वेगवतीम् एव प्रवृत्तः प्रार्थितस् तया ॥
स्त्रीषु स्वसृषु बालासु लालितास्व् अङ्कवक्षसि
निपतन्ति न निस्त्रिंशाः शूराणां त्वादृशाम् इति ॥
स तु वेगवतीमध्ये दुकूलस्पर्शभीलुके
वज्रस्थम्भच्छिदादक्षाम् असिधारां न्यपातयत् ॥
अथ वेगवतीर् अष्टौ प्रचण्डायुधमण्डलाः
अपश्यं युद्धसंनद्धाश् चण्डिकागणिका इव ॥
एकमानसवेगस्य मध्यं कुलिशकर्कशम्
रम्भास्थम्भम् इवासारम् अलुनाद् असिधारया ॥
ततो मानसवेगौ द्वौ विकरालासिभासुरौ
उत्पन्नौ सकलाव् एव शरीरशकलद्वयात् ॥
एका वेगवती कृत्ता भवन्त्य् अष्टौ तथाविधाः
तथा मानसवेगौ द्वौ प्रागल्भेताम् इतस् ततः ॥
एवं मानसवेगानां वृन्दैर् अम्बरम् आवृतम्
क्षणाद् वेगवतीनां च युध्यमानैश् चतुर्गुणैः ॥
अहं तु तन्महायुद्धं पश्यन्न् एव शनैः शनैः
प्रोषिताम्भसि गम्भीरे पतितः कूपसागरे ॥
ततस् तीव्रविषादो ऽपि विहस्य स्मृतवान् इदम्
संजयस्य वचः कष्टे वर्तमानस्य संकटे ॥
धृष्टद्युम्नाद् अहं मुक्तः कथंचित् क्रान्तवाहनः
पतितः सात्यकानीके दुष्कृती नरके यथा ॥
कथं दुरुत्तराद् अस्मान् ममोत्तारो भवेद् इति
उपायं चिन्तयन्न् एव स्मरामि स्म कथाम् इमाम् ॥
बभूवुर् भ्रातरः केचित् त्रयो ब्राह्मणदारकाः
एकतः पूर्वजस् तेषां मध्यमान्त्यौ द्वितत्रितौ ॥
तैश् चाधीतत्रयीविद्यैर् गुरुर् विज्ञापितः किल
गुरवे दातुम् इच्छामः काङ्क्षितां दक्षिणाम् इति ॥
तेनोक्तं स्वगृहान् गत्वा कृत्वा दारपरिग्रहम्
उत्पाद्यताम् अपत्यं च क्रतुभिश् चेज्यताम् इति ॥
तैर् उक्तम् अपरा काचिद् दक्षिणा मृग्यताम् इति
तेनोक्तम् अलम् एतेन ग्रहेण भवताम् इति ॥
तस्मान् नैवातिनिर्बन्धान् निवर्तन्ते स्म ते यदा
तदा क्रुद्धेन गुरुणा याचिता दक्षिणाम् इमाम् ॥
एकतः श्वेतकर्णानां गवां कोकिलवर्चसाम्
कुम्भोध्नीनां सहस्रं मे दत्त स्थात च मा चिरम् ॥
ते तु भ्रांत्वा महीं कृत्स्नाम् आरूढास् तुहिनाचलम्
ज्ञाताः किल कुवेरेण कौवेरीं प्रस्थिता दिशम् ॥
कुवेरस्यापि किं नास्ति तेन ते गुरुदक्षिणाम्
दत्त्वा प्रस्थापिताः प्रीतास् तुहिनाद्रेर् अवातरन् ॥
संचरन्तो बहून् देशांश् चारयन्तश् च गाः शनैः
प्राप्ताश् चण्डेश्वरासन्नाश् चण्डार्ककिरणाः स्थलीः ॥
कदाचिद् एकतेनोक्तौ गाः संप्रेक्ष्य द्वितत्रितौ
लोभनीयम् इदं द्रव्यं न परित्यागम् अर्हति ॥
साधुकारश्रुतेर् लुब्धः कश्चिद् उन्मत्तको यथा
अग्निप्रवेशं कुर्वीत तथेदं नश् चिकीर्षितम् ॥
तेनेदम् उपपन्नं च गुरुणा च मयोदितम्
रमणीयविपाकं च वाक्यं नः क्रियताम् इति ॥
अथोवाच द्वितः प्रीतो युक्तम् आर्येण चिन्तितम्
न हि स्वार्थेषु मुह्यन्ति बुद्धयस् त्वादृशाम् इति ॥
एकतस् तु त्रितं दृष्ट्वा तूष्णीम् आसीनम् उक्तवान्
यद् अत्र युक्तं तद् ब्रूतां किम् उदास्ते भवान् इति ॥
तेनोक्तं निन्दितं कुर्वन् न कश्चिन् न निवार्यते
पितापि हि विषं खादन् नैव पुत्रैर् उपेक्ष्यते ॥
तेन विज्ञापयामि त्वां क्रियतां च वचो मम
बुद्धिवृद्धेन हि ग्राह्यं बालाद् अपि सुभाषितम् ॥
अनार्यप्रियम् आर्येण न कार्यं कार्यम् ईदृशम्
कार्यं चेन् मह्यम् आत्मीयम् अंशम् आर्यः प्रयच्छतु ॥
तम् अहं गुरवे दत्त्वा दक्षिणायोपकारिणे
प्रतिज्ञाभारविक्षेपाद् यास्यामि लघुताम् इति ॥
ततः क्रुद्धौ च लुब्धौ च कनिष्ठं ज्येष्ठमध्यमौ
दुग्धगर्धान्धबुद्धित्वात् प्रमापयितुम् इच्छतः ॥
तैः कदाचित् पिपासान्धैः पान्थसंहातसंकुलम्
अदृश्यमानपानीयं दृष्टं कूपरसातलम् ॥
जलम् अत्रास्ति नास्तीति संदेहविनिवृत्तये
तेषाम् अन्यतमः पान्थः कूपे लोष्टुम् अपातयत् ॥
ततः ष्वाद् इति कृत्वा तज् जर्जरं घटकर्परम्
बभञ्ज स च संदेहः पथिकानां न्यवर्तत ॥
अवतीर्य ततः कूपं त्रितः करुणयावृतः
पान्थैर् उत्तारयाम् आस रज्जुभिर् भाण्डमण्डलम् ॥
तेन गावश् च पान्थाश् च भ्रातरौ च महात्मना
उत्तार्योत्तार्य पानीयं कृताः स्नापितपायिताः ॥
पथिकेषु तु यातेषु कृतार्थाव् एकतद्वितौ
कूपए एव त्रितं त्यक्त्वा सगोयुथौ पलायितौ ॥
त्रितस् तु घटम् आलोक्य रज्ज्वैव सह पातितम्
निराशिश् चिन्तयाम् आस क्षणम् उत्तारकारणम् ॥
आं स्मृतं लब्धम् इत्य् उक्त्वा वेदवृत्तान्तपेशलः
माहेन्द्रीम् अकरोद् इष्टिं मनसैव महामनाः ॥
अथानन्तरम् उन्नम्य निशीथध्वान्तकर्बुराः
धनुष्मन्तस् तडित्वन्तो घना जलम् अपातयन् ॥
शनकैः शनकैः कूपात् पूर्यमाणान् नवाम्बुभिः
प्रतरन् प्रतरन् धीरं गोलेह्याद् उत्थितस् त्रितः ॥
गत्वा च स्तोकम् अध्वानं गोखुरालीं निरूपयन्
अपवर्गम् इवाद्राक्षीन् मूर्तिमन्तं त्रिदण्डिनम् ॥
अभिवाद्य तम् अप्राक्षीन् मार्गे भगवता क्वचित्
न दृष्टाव् एवमाकारौ सगोयूथौ द्विजाव् इति ॥
तेनोक्तं न मया दृष्टौ तौ महापापकारिणौ
यौ त्वां पातालगम्भिरे कूपे भ्रातरम् औज्झताम् ॥
प्रष्टव्याव् अपि न क्षुद्रौ द्रष्टव्याव् अपि न त्वया
याव् एवं निन्दिताचारौ प्रष्टव्यौ कुत एव तौ ॥
तम् उवाच त्रितः क्रोधाद् धूर्तं कलुषमानसम्
दुष्टमस्करिणं धिक् त्वां साधुनिन्दाविशारदम् ॥
ज्ञानेन्दुकिरणव्यस्त संमोहध्वान्तसंचयाः
तादृशा एव जानन्ति साधवं न भवादृशाः ॥
ततस् तस्य परिव्राजः शुचिताम्रघटारुणम्
जातं विकसितज्योतिः किरीटाभरणं शिरः ॥
शरीरं च सहस्राक्षं करं च कुलिशाकुलम्
कृतैवमादिकाकारः स जातः सर्वथा हरिः ॥
वरं ब्रूहीति तेनोक्तस् त्रितस् तुष्टस् तम् अब्रवीत्
भ्रातरौ मे सपापौ चेद् अपापौ भवताम् इति ॥
पुनर् ब्रूहीति तेनोक्तः पुनर् अप्य् अब्रवीत् त्रितः
गुरू मे गुरवे गास् ताः प्रीतौ वितरताम् इति ॥
पुनः प्रीततमेनोक्तं हरिणा याच्यताम् इति
पर्याप्तम् इति तेनोक्ते प्रीतः शक्रो दिवं ययौ ॥
एवं महेन्द्रदैवत्याम् इष्टिं निर्वर्त्य मानसीम्
तस्मात् पातालगम्भीराद् अवटाद् उत्तिथस् त्रितः ॥
तथाहम् अपि ताम् इष्टिं किं न कुर्यां मनोमयीम्
याजकैस् तु विना यज्ञं क्षत्रियस्य विरुध्यते ॥
तस्माद् अस्माद् उपायेन केनोत्तिष्ठेयम् इत्य् अहम्
इति चेति च निर्धार्य स्मृत्यामितगतिं गतः ॥
शङ्कुबन्धनमुक्तेन तेनाहं याचितस् तदा
कष्टाम् आपदम् आपन्नो विधये मां स्मरेर् इति ॥
असोढप्रार्थनादुःखं वरं त्यक्तं शरीरकम्
न तु प्रत्युपकाराशा रुजाजर्जरितं धृतम् ॥
एवं च चिन्तयन्न् एव कूपे कूपतरोस् तले
अपश्यम् अहम् आत्मानं तं चामितगतिं पुरः ॥
मां चावोचत् स वन्दित्वा हर्षघर्घरया गिरा
युष्मत्स्मरणपूतो ऽयं जनः किं कुरुताम् इति ॥
खे संग्रामयमाणायाः सह भ्रात्रा बलीयसा
वेगवत्याः सहायत्वम् आचरेति तम् आदिशम् ॥
तेनोक्तम् अर्यदुहितुर् वेगवत्याः सहायताम्
कर्तुम् इच्छति यो मोहान् महागौरिं स रक्षति ॥
आज्ञा तु प्रथमं दत्ता कर्तव्यैवानुजीविना
आज्ञासंपत्तिमात्रेण भृत्याद् भर्ता हि भिद्यते ॥
तावत् सरोजजलजध्वजवज्रलक्ष्म्या त्वत्पादपङ्कजयुगं न नमामि यावत्
शत्रोर् गलद्गलसिरारुधिरेण मूर्ध्ना नाभ्यर्चितं मदसिलूनशिरोधरेण ॥
मूल पाठ: Bṛhatkathāślokasaṃgraha · Edition: the text edited by Felix Lacote (Paris, 1908). It was · Data entry Andreas Bigger · GRETIL (Göttingen) · CC BY-NC-SA 4.0