भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्कथाश्लोकसंग्रह · अध्याय 14

14.1

ततस् ताम् अब्रवं भीरु त्वम् एव हि मम प्रिया
तथापि तु विनोदेन तिष्ठामः कथ्यताम् इति ॥

14.2

ग्रहीतव्यानि नामानि गुरुदेवद्विजन्मनाम्
यस्मात् तेन विशुद्ध्यर्थं स्वानम् आचरितं तया ॥

14.3

अस्ति मेरुगिरिप्रांशुर् आषाढो नाम पर्वतः
शूरपण्डितवित्ताढ्य विद्याधरकुलालयः ॥

14.4

तत्र विद्याधरस्वामी वेदवान् वेगवान् इति
यः कुबेराधिकस्वो ऽपि निःस्व एव दिनात्यये ॥

14.5

तस्यापि पृथिवी नाम महिषी प्रांशुवंशजा
तृणाय मन्यते स्थैर्याद् या देवीं पृथिवीम् अपि ॥

14.6

तौ च पुत्रम् अविन्दन्तौ चिरं दुःखम् अतिष्ठताम्
प्रौढाया इव कन्यायाः पितरौ सदृशं वरम् ॥

14.7

तौ मनःपुत्रिका नाम कुलविद्यां सुतार्थिनौ
आराधयितुम् आरब्धौ तया चोक्तं प्रसन्नया ॥

14.8

सर्वविद्याधरोत्कृष्ट विद्याधरपराक्रमः
भविता भवतोः पुत्रः पुत्रकौ दुःखम् उज्झतम् ॥

14.9

एका च दुहिता यस्याः कलाशाली भविष्यति
शूरः साङ्ग इवानङ्गो विद्याधरपतिः पतिः ॥

14.10

काले क्वचिद् अतीते च प्रसूता पृथिवी सुतम्
त्रिवर्गम् अक्षतं देवी पृथिवीव सुरक्षिता ॥

14.11

मनःपुत्रिकया दत्तः स यस्मात् कुलविद्यया
तस्मान् मानसवेगाख्यः पुत्रः पित्रा प्रसाधितः ॥

14.12

संवत्सरत्रये ऽतीते जाताया दुहितुः कृतम्
नाम वेगवतात्मीयम् असौ वेगवती ततः ॥

14.13

लब्धेष्टतनयौ तौ च मोदमानाव् अहर्निशम्
नीतवन्तौ चिरं कालम् एकाहर्निशसंमितम् ॥

14.14

वेगवान् एकदा स्नातः प्रीणिताग्निसुरद्विजः
भद्रासनस्थम् आत्मानं ददर्श आदर्शमण्डले ॥

14.15

अथ हंसम् इवासीनम् अञ्जनाचलमूर्धनि
मृणालधवलं केशं दृष्टवान् आत्ममूर्धनि ॥

14.16

ततो भद्रासनं त्यक्त्वा वसुधास्थण्डिले स्थितः
पृष्टो मानसवेगेन किम् एतद् इति वेगवान् ॥

14.17

तेनोक्तं पलितं दृष्ट्वा मनःपुत्रिकवंशजाः
तपांसि वा निषेवन्ते वेदान्तविहितानि वा ॥

14.18

तत् प्रजाः पालयेः पुत्र प्रजास् त्वां पालयन्तु च
पालितैर् हि मृगेन्द्रो ऽपि काननैर् एव पाल्यते ॥

14.19

अथ मानसवेगेन क्रोशन्तीषु प्रजासु च
राजा मन्दसुखोत्कण्ठः प्रतियातस् तपोवनम् ॥

14.20

भर्त्रा निवर्त्यमानापि वचोभिः सोपपत्तिभिः
न निवृत्ता यदा देवी तदोपायं प्रयुक्तवान् ॥

14.21

अद्यैवाहं च्युतो राज्याद् अद्यैवेयं पतिव्रता
न मे संपादयत्य् आज्ञाम् अहो धर्मः सताम् इति ॥

14.22

ततो ह्रीता च भीता च साश्रुश्रेणिः सवेपथुः
पादयोः पतिता पत्युर् व्यज्ञापयद् असौ शनैः ॥

14.23

यदा तर्हि मया यूयं पावयन्तस् तपोवनम्
उपास्याः पावनतमं स कालः कथ्यताम् इति ॥

14.24

सो ऽब्रवीद् दुर्लभं पुत्रं स्थिरसिंहासनास्थितम्
भर्तारं वेगवत्याश् च दृष्ट्वा द्रष्टासि माम् इति ॥

14.25

एवं चैव च कल्याणि पिता विज्ञाप्यताम् इति
उक्ता वेगवती मात्रा पितरं प्रणताब्रवीत् ॥

14.26

तात त्वयि वनं याते को मे दास्यति मोदकान्
कल्पवृक्षप्रसूतानि फलानि कुसुमानि वा ॥

14.27

तेनोक्तं येन येनार्थो दुर्लभेनापि केनचित्
तत् तन् मानसवेगस् ते भ्राता दातास्यताम् इति ॥

14.28

इति राज्यकलत्रमित्रपुत्रान् गृहधामं च तृणाय मन्यमानः
गुरुसत्त्वरजस्तमःकलङ्कां प्रकृतिं हातुम् अगाद् वनं नरेन्द्रः ॥

14.29

श्रियं मानसवेगो ऽपि कदलीदलचञ्चलाम्
शक्तित्रयप्रयोगज्ञः कृतवान् अचलाचलाम् ॥

14.30

अथ याते क्वचित् काले मातङ्गाधिपतेः सुता
आषाढं वायुमुक्तेति सखीपरिवृतागमत् ॥

14.31

सा स्म वेगवतीम् आह राजपुत्रि किम् आस्यते
उत्तिष्ठाकाशमार्गेण गच्छामो मलयाचलम् ॥

14.32

शृङ्गकुञ्जनितम्बेषु तस्य रम्येषु रम्यताम्
नेत्रापिधानिकाख्यान पुत्रिकाकन्दुकैर् इति ॥

14.33

तयोक्तं नास्ति मे शक्तिर् गन्तुम् आकाशवर्त्मना
अलब्धकुलविद्यायाः सखि तन् मृष्यताम् इति ॥

14.34

उपहस्य ततस् तास् ताम् उच्चैस् ताडितपाणयः
आधताम्बरपक्षाः खं हंसकन्या इवास्थिताः ॥

14.35

भ्रातुर् अन्तिकम् आयाता सावेगा वेगवत्य् अपि
तेन चोक्ताङ्कम् आरोप्य मातः किं दीयताम् इति ॥

14.36

तयोक्तं देहि मे विद्यां महाराज ससाधनाम्
सिद्धविद्याभिर् अद्याहं सखीभिर् हासिता यतः ॥

14.37

अचिरेणैव दास्यामि मातर् इत्य् अभिधाय सा
भ्राता विसर्जितासार बालालङ्कारवञ्चिता ॥

14.38

एकदा गौरिमुण्डस्य भगिनी गौरिमद्यशाः
गता वेगवतीं द्रष्टुम् आषाढं ससखी सखीम् ॥

14.39

उपहस्य च तां सापि विपक्षाम् इव सारसीम्
सपक्षा राजहंसीव गता प्रति हिमाचलम् ॥

14.40

वेगवत्य् अपि सास्थानं गत्वा भ्रातरम् अब्रवीत्
किम् अयं क्षिप्यते कालो विद्या मे दीयताम् इति ॥

14.41

तेनोक्तम् अपि दास्यामि त्वरसे किम् अकारणम्
गुरुकार्यक्रियाव्यग्रं किं न पश्यसि माम् इति ॥

14.42

सा गत्वा मन्युभारेण स्फुरन्तीव त्वरावती
अपतन् मातुर् उत्सङ्गे संतप्तेव वशा ह्रदे ॥

14.43

पृथिवी तु समाहूय सचिवौ भर्तुर् अब्रवीत्
अचिरेण पितुर् मूलं दारिकां नयतं युवाम् ॥

14.44

अन्तरङ्गो हि संबन्धः पुत्रैः पित्रोर् अकृत्रिमः
भ्रातरस् तु द्विषन्त्य् एव भ्रातॄन् एकोदरान् अपि ॥

14.45

तौ ताम् आकाशमार्गेण नीतवन्तौ तपोवनम्
मार्गायतनमार्गेषु साम्भःसु गमितश्रमाम् ॥

14.46

अथास्थिमयकायानां तडिद्बभ्रुजटाबृताम्
ते ऽपश्यंस् तत्र वृन्दानि तापसानां तपस्यताम् ॥

14.47

पृच्छन्ति स्म च तत्रैकम् अभिवाद्य तपस्विनम्
ब्रह्मन् ब्रूहि तम् उद्देशं यत्रास्ते वेगवान् इति ॥

14.48

सो ऽब्रवीत् पर्वताग्रे ऽसाव् अङ्गुष्ठाग्रेण तिष्ठति
अनुगच्छति गच्छन्तम् अंशुमन्तं च चक्षुषा ॥

14.49

पर्णशाला च तस्येयं यस्याः सिंहमतङ्गजौ
अङ्गणे क्रीडतः प्रीताव् इमौ च शिखिपन्नगौ ॥

14.50

आसन्नागमनश् चासौ दग्धं हि कठिनैः करैः
तस्याह्लादयितुं चक्षुर् एष मन्दायते रविः ॥

14.51

तपस्तान्तं ततः कायं सकायम् इव वेगवान्
कायक्लेशं वहन्न् आगाद् वैखानसमृगावृतः ॥

14.52

अथ वेगवती दृष्ट्वा वेगवन्तं तथाविधम्
अब्रवीन् मन्त्रिणौ नायं मम तातः स वेगवान् ॥

14.53

तस्य चन्द्रप्रभच्छत्त्र प्रभाः समुकुटप्रभाः
प्रभासयन्ति धावन्तीं पुरः सामन्तसन्ततिम् ॥

14.54

अयं तु सिंहमातङ्ग शार्दूलमृगतापसैः
त्यक्तवैरैः सहायाति नूनं को ऽपीन्द्रजालिकः ॥

14.55

ताभ्याम् उक्तं स एवायं तथा चेत्थं च दृश्यते
तादृशा एव दृश्यन्ते तथा चेत्थं च साधवः ॥

14.56

वन्द्यतां च पितेत्य् उक्ता वन्दमानार्द्रचक्षुषा
अङ्कम् आरोपिता पित्रा रूढदर्भाङ्कुरव्रणम् ॥

14.57

मन्त्रिणाव् अपि भर्तारम् उचितान्तरवर्तिनौ
शिरोवाग्भिर् अवन्देताम् अथ वेगवतोदितौ ॥

14.58

आगच्छ तं ममाभ्याशम् अलं स्थित्वातिदूरतः
जनरञ्जनमात्रं हि गतं तद् राज्यनाटकम् ॥

14.59

आसन्नस्थण्डिलस्थौ तौ पृष्टवान् अथ वेगवान्
राज्ञो मानसवेगस्य राज्यं नो वर्ण्यताम् इति ॥

14.60

ताभ्याम् उक्तम् अशक्यं तद् गुणाढ्येनापि शंसितुम्
तम् अपेक्ष्य तु राजानः शेषाश् छत्त्रविडम्बकाः ॥

14.61

इयं माणविका कस्माद् आनीतेति च पृच्छते
विद्यालाभार्थम् इत्य् उक्तं तस्मै ताभ्यां सविस्तरम् ॥

14.62

तेनोक्तम् अचिराद् एषा लब्धविद्या गमिष्यति
युवाभ्यां नीतिपन्नाभ्यां स बालः पाल्यताम् इति ॥

14.63

वगवत्य् अपि सोत्साहा करोति स्म महत् तपः
कल्पिताहारकर्तव्या फलमूलजलानिलैः ॥

14.64

जलाहरणसंमार्ग कुसुमप्रचयादिभिः
आराधयद् दुराराधान् असौ वैखानसान् अपि ॥

14.65

उच्चिन्वन्ती कदाचित् सा फुल्लां काननमल्लिकाम्
हा सर्पेणास्मि दष्टेति साक्रन्दागमद् आश्रमम् ॥

14.66

यथासंनिहितैस् तत्र वैखानसकुमारकैः
मा राजदारिके भैषीर् इत्य् उक्त्वा परिवारिता ॥

14.67

क्वासौ क्वासौ खलः सर्प इति पृष्टा कुमारकैः
अमुष्मिन् मल्लिकागुल्मए इति तेभ्यो न्यवेदयत् ॥

14.68

ते त्व् आलोक्य तम् उद्देशम् अवोचन्न् उच्चकैस् तराम्
राजपुत्रि न सर्पो ऽयम् अयं सर्पान्तकः शिखी ॥

14.69

दृष्ट्वा प्रसारितां ग्रीवाम् उत्फणाशीविषोपमाम्
त्वया सर्प इति ज्ञातं तस्माद् आश्वस्यताम् इति ॥

14.70

उटजाङ्गणम् आनीतः स मयूरः कुमारकैः
विचित्रैर् नर्तितो मार्गैस् तया कुट्टिततालया ॥

14.71

प्रेक्षणीयं च तद् द्रष्टुम् अदृष्टं वनवासिभिः
मिलिताः सर्वए एवास्थुस् तपोवननिवासिनः ॥

14.72

एतस्मिन्न् एव वृत्तान्ते वेगवन्तम् उपागतम्
विश्रान्तम् उपगम्येदम् अवोचंस् तं तपस्विनः ॥

14.73

राजदारिकया राजंस् तपस् तप्तं सुदुस्तपम्
वयम् आराधिताः प्रीतास् तद् विद्यां लभताम् इति ॥

14.74

तेनोक्तं यदि च प्रीता नो भवन्तो ऽनुजानते
ततो गृह्णात्व् इयं विद्याः पञ्चाङ्गपरिवारिताः ॥

14.75

अनया यत् तपस् तप्तम् अस्माभिश् चेदम् ईदृशम्
तद् अस्याः कुलविद्यानाम् अलं भवतु सिद्धये ॥

14.76

यच् च मानसवेगस्य विद्यासिद्धिप्रभावितम्
बलं चतुर्गुणं तस्माद् बालेयं प्रतिपद्यताम् ॥

14.77

यश् चास्याः को ऽपि दीर्घायुर् ग्रहीष्यति वरः करम्
राज्यस्य दशमं भागं स मदीयस्य भोक्ष्यति ॥

14.78

एवम् उक्त्वा ततस् तस्यास् तत् सर्वं कृतवान् पिता
सापि लब्धाभ्यनुज्ञाना वेगेनोदपतन् नभः ॥

14.79

ततः कनकलेखेव भासा कषशिलाम् असौ
पिशङ्गभवती यान्ती श्यामलाम् अम्बरस्थलीम् ॥

14.80

दृष्टा मानसवेगेन संभ्रमभ्रान्तचक्षुषा
अवातरत् तदास्थाने हंसीवाम्भोजकानने ॥

14.81

कथंचित् प्रत्यभिज्ञाय लज्जितेनेव तेन सा
आलिङ्ग्योत्सङ्गम् आरोप्य गमिता मातुर् अन्तिकम् ॥

14.82

मातापि दुहितृस्नेहम् अनादृत्यैव सत्वरा
अपृच्छद् अपि कल्याणि कुशली वेगवान् इति ॥

14.83

किं वाफलप्रलापेन सारम् एवावधीयताम्
यासौ वेगवती साहं तस्य वेगवतः सुता ॥

14.84

अतीते तु क्वचित् काले सशरीरेव चारुता
नीता मानसवेगेन कापि भूमौ वराङ्गना ॥

14.85

सा च तद्गुणभूयिष्ठां दृढं द्वेष्टि कथाम् अपि
क्षीणदोषगुणा साध्वी कामस्तुतिकथाम् इव ॥

14.86

स कदाचित् क्वचित् काचिद् दृष्ट्वा तापसकन्यकाम्
बलाद् भोक्तुम् उपक्रान्तस् तया चोक्तं स्फुरद् रुषा ॥

14.87

युक्तं शापाग्निना दग्धुं त्वादृशं पापचेतसम्
किं तु वेगवतः साधोः पुत्रत्वं तेन मुच्यसे ॥

14.88

सर्वथा शापनामानं प्रतीच्छतु वरं भवान्
अधीरहृदयाः प्रायस् त्रासगम्या भवादृशाः ॥

14.89

बलात् कामयमानस्य निःकामां काञ्चिद् अङ्गनाम्
भवतः शतधा मूर्धा दग्धबुद्धेः स्फुटेद् इति ॥

14.90

ततस् त्रस्तस् ततः शापाद् अकामां कामिनीम् असौ
अपि नोत्सहते द्रष्टुं कुत एव निषेवितुम् ॥

14.91

स तु माम् अब्रवीन् मातस् तथा मदनमञ्जुका
प्रोत्साह्यतां यथा क्षिप्रम् उपसर्पति माम् इति ॥

14.92

अथ बालस्वभावेन सकुतूहलया मया
अशोकवनिकामध्ये दृष्टा मदनमञ्जुका ॥

14.93

संक्षिप्तम् अधितिष्ठन्ती रूढपर्णलतोटजम्
म्लानचम्पकमालेव पुराणकदलीपुटम् ॥

14.94

पर्णशय्याशिरोभागे निहितः संपिधानकः
उटजाभ्यन्तरे न्यस्तः सजलः कलशस् तया ॥

14.95

अथ लम्भितविश्रम्भां मञ्जुकाम् अहम् अब्रवम्
कस् ते मानुषकेणार्थः कुरु विद्याधरं पतिं ॥

14.96

मुग्धे मानुषकास् तावद् बहुरोगाद्युपद्रवाः
विद्याधरास् तु विद्यानां प्रभावान् निरुपद्रवाः ॥

14.97

राजा मानसवेगस् तु भर्ता ते वर्ण्यतां कथम्
यो विद्याधरराजानां राजा स्फीतश्रियाम् इति ॥

14.98

दोषान् अपि मनुष्याणां गृह्णामि स्म यथा यथा
तथा तथाभवत् तस्याः प्रीतिस्फीताक्षम् आननम् ॥

14.99

गुणान् विद्याधराणां तु गृह्णामि स्म यथा यथा
तथा तथाभवत् तस्याः क्रोधजिह्माक्षम् आननम् ॥

14.100

आगन्तुकौ यदा चैनां प्रीतिक्रोधाव् अमुञ्चताम्
गृह्णाति स्म तदा शोकः सनिश्वासास्रवेपथुः ॥

14.101

अथास्याः परिमृज्यास्रम् अशीतस्पर्शम् अब्रवम्
अलं भगिनि संतप्य जीवितं रक्ष्यताम् इति ॥

14.102

तया तूक्तं मया नेदम् आत्मदुःखेन रुद्यते
अशक्यं तु भयं भीमम् आहृतं मन्दया मया ॥

14.103

सर्वविद्याकलाभिज्ञः सर्वरूपवतां तुला
कुलविद्याधनैर् यश् च तुङ्गैर् अपि न माद्यति ॥

14.104

स मद्वृत्तान्तम् अज्ञात्वा दशां यास्यति काम् अपि
ततः सान्तःपुरामात्य राष्ट्रः सोमान्वयो नृपः ॥

14.105

किं तु प्रत्याशया प्राणान् एकया धारयाम्य् अहम्
यद् आदिष्टः स्फुटादेशैर् असौ विद्याधरादिभिः ॥

14.106

विद्यालवविषाध्मातान् विद्याधरभुजङ्गकान्
विद्याधरनरेन्द्रो ऽयं कर्ता वान्तविषान् इति ॥

14.107

ततः श्रुत्वेति यत् सत्यं जाताहं जातसंशया
विद्याधरनरेन्द्रः स्याद् उत न स्याद् असाव् इति ॥

14.108

किं काचिद् दूतिका यातु साप्य् असक्ता परीक्षितुम्
दूतिका मत्समा नास्ति स्वयम् एव व्रजाम्य् अतः ॥

14.109

ततः स्वार्थाहितोत्साहा पृच्छामि स्म तव प्रियाम्
तव प्रियाय किं वार्ता त्वदीया दीयताम् इति ॥

14.110

अथ क्षणम् इव ध्यात्वा तयोक्तं स्मयमानया
तुल्यम् एवावयोः कार्यं शक्तौ सत्यां किम् आस्यते ॥

14.111

इदं हि गुरु कर्तव्यं क्षिप्तकालं च सीदति
ईदृशं त्वादृशी कर्म कार्यते कथम् अन्यथा ॥

14.112

इयं मण्डलिता वेणी मया सखि तवाग्रतः
दष्टुकामेव चपला भीषणाशीविषाङ्गना ॥

14.113

दाह्या वा दहनेनेयं मोच्या वा गृध्रजम्बुकैः
अर्यपुत्रेण वा दग्ध दारुणा गतिदारुणा ॥

14.114

गत्वा चागच्छ दोलेव न स्थातव्यं क्वचिच् चिरम्
असङ्गा हि गतिः सख्याः कान्तं यान्त्याः स्मृतेर् इव ॥

14.115

इत्य् उक्ताज्जुकया क्षिप्रं नभसाहम् इहागता
अपश्यम् अर्यपुत्रं च हा क्वासीति प्रवादिनम् ॥

14.116

अनिन्दितम् उपायं च विचिन्त्यात्मसमर्पणे
अज्जुकारूपया तुभ्यम् आत्मा संदर्शितो मया ॥

14.117

निवारिताश् च यद् यूयं तदालिङ्गनलालसाः
स दोषः कन्यकात्वस्य विशुद्धकुलजन्मनः ॥

14.118

यच् चायाचितदानाय विवाहः कारितो मया
स च संस्कर्तुम् आत्मानं क्वात्र यक्षः क्व चाज्जुका ॥

14.119

यच् च पातुम् अनिच्छन्तः पायिताः स्थ बलान् मधु
तत्र यत् कारणं तच् च प्रायः प्रत्यक्षम् एव च ॥

14.120

न द्रष्टव्यास्मि सुप्तेति प्रतिषिद्धाः स्थ यन् मया
तत् कुतूहलवृद्ध्यर्थं वामशीला हि बालता ॥

14.121

सर्वथा विस्तरेणालम् अज्जुका मदमञ्जुका
नीता मानसवेगेन लक्ष्मीर् इव दुरात्मना ॥

14.122

तद् आज्ञापय मां क्षिप्रम् इमां मदनमञ्जुकाम्
आनयामि परैर् नीतां शुद्धा नीतिर् इव श्रियम् ॥

14.123

आसीच् च मम न न्याय्यं प्रैषणीयजनोचितम्
भर्तुः कारयितुं कर्म भार्यां तुङ्गकुलोद्भवाम् ॥

14.124

अथैनाम् अब्रुवं चण्डि श्रुतम् एहि शयावहै
न हि ताम्रशिखण्डानाम् अद्यापि स्फुरति ध्वनिः ॥

14.125

अहम् अपि धवलेन्दुवंशजन्मा कुलिशकठोरकनिष्ठिकाप्रकोष्ठः
प्रियसमरपरावरोधरुद्धान् अहतरिपुः कथम् आहरेय दारान् ॥

मूल पाठ: Bṛhatkathāślokasaṃgraha · Edition: the text edited by Felix Lacote (Paris, 1908). It was · Data entry Andreas Bigger · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc