भाषा

ENहिગુ
ग्रंथ पाठ

बृहत्कथाश्लोकसंग्रह · अध्याय 13

13.1

ततो दिवसम् आसित्वा कान्तामातुर् अहं गृहे
प्रियां नववधूवेषां प्रदोषे परिणीतवान् ॥

13.2

प्रसादाद् अर्यपादानां कुलस्त्रीत्वम् उपागताम्
ताम् आदाय स्वम् आवासं प्रवृत्तोत्सवम् आगमम् ॥

13.3

तत्र सा सधनाध्यक्षं तं यक्षं कुसुमादिभिः
अभ्यर्च्य पानदानेन सुदुष्तोषम् अतोषयत् ॥

13.4

पद्मरागमयीं शुक्तिं पद्मरागद्रवत्विषः
आदाय मधुनः पूर्णां ततो माम् अब्रवीत् प्रिया ॥

13.5

मङ्गलानां प्रधानत्वात् कार्यसंसिद्धिदायिनी
एषा धनपतेः शेषा स्वादुर् आस्वाद्यताम् इति ॥

13.6

मयोक्तम् अननुज्ञातस् तातपादैर् गुणान् अपि
नाहं सेवितुम् इच्छामि किं पुनर् व्यसनं महत् ॥

13.7

ततः सा दृढसंरम्भा शपथैर् अव्यतिक्रमैः
चिरान् निरुत्तरीकृत्य माम् अनिच्छुम् अपाययत् ॥

13.8

पीतैकमधुशुक्तिं च मां सापृच्छत् कृतस्मिता
किम् आस्वादम् इदं पानम् इति प्रत्यब्रवं ततः ॥

13.9

आपाने मधुरास्वादम् अनुस्वादे तु तिक्तकम्
क्षये कषायकटुकम् अवच्छेदे मनाग् इति ॥

13.10

साब्रवीद् व्यक्तम् अद्यापि न जानीथ रसं पुनः
पीयताम् इति पीतं च पुनस् तद्वचनाद् मया ॥

13.11

इदं कीदृशम् इत्य् अस्यै पृच्छत्यै कथितं मया
किम् अर्थम् अपि मे चित्तं गतम् अस्वस्थताम् इति ॥

13.12

तयोक्तम् अपराप्य् एका शुक्तिर् आस्वाद्यतां ततः
गमिष्यत्य् अचिराद् एव चित्तं ते स्वस्थताम् इति ॥

13.13

तस्याम् अपि च पीतायाम् अपश्यं वेगवद्भ्रमान्
तरुप्रासादशैलादीन् स्थावरान् अपि जङ्गमान् ॥

13.14

यथा चाहं तयोपायैर् अग्राम्यैः शपथादिभिः
अनिच्छन् पायितः पानं तथा ताम् अप्य् अपाययम् ॥

13.15

बलवद्भ्याम् अथाक्रम्य मदेन मदनेन च
यद् एव रुचितम् ताभ्यां तत् तैवास्मि प्रवर्तितः ॥

13.16

यः संतोषयितुं यक्षं विवाहः कृत्रिमः कृतः
तेन कृत्रिमम् एवासौ कन्यात्वं प्रतिपादिता ॥

13.17

ततः प्रातर् उपागम्य मधुगन्धाधिवासितम्
घ्रात्वा हरिशिखो वेश्म संभ्रान्तमतिर् उक्तवान् ॥

13.18

अपूर्व इव गन्धो ऽयम् अर्यपुत्र विभाव्यते
मन्ये ऽर्यपुत्रया यूयम् अनिच्छाः पायिता इति ॥

13.19

स मयोक्तः सखे सख्या तवाहं पायितो बलात्
भवतापि रुचौ सत्यां स्थीयतां पीयताम् इति ॥

13.20

सो ऽब्रवीद् व्यसनग्राम ग्रामण्यं भवताम् अपि
पानं साधु न पश्यामि किं पुनर् मन्त्रिणाम् इति ॥

13.21

मयोक्तम् अर्यपादेषु समित्रेषु समाशतम्
पालयत्सु किम् अस्माकम् आत्मभिर् वञ्चितैर् इति ॥

13.22

तेनोक्तं मन्त्रिसचिवैर् विज्ञाप्यं कार्यम् आगतम्
अनुष्ठाने पुनस् तस्य स्वातन्त्र्यं स्वामिनाम् इति ॥

13.23

तं पिबन्तं सहावाभ्याम् आलोक्य मरुभूतिकः
निःशङ्कः पातुम् आरब्धस् तं च दृष्ट्वा तपन्तकः ॥

13.24

राजमानस् ततो रक्तैर् अङ्गरागस्रगम्बरैः
पुनर् उक्तप्रियालापो माम् अवन्दत गोमुखः ॥

13.25

तम् अत्यासन्नम् आसीनम् अतिमात्रप्रियंवदम्
पादौ संवाहयन्तं मे क्रुद्धो हरिशिखो ऽब्रवीत् ॥

13.26

उन्मत्त किम् असंबद्धं भाषमाणः पुरः प्रभोः
उद्वेजयसि भर्तारम् अपसृत्यास्यताम् इति ॥

13.27

तेनोक्तं मूर्ख नैवेदं मदसामर्थ्यजृम्भितम्
स्वामिनो निःसपत्नौ तु पादाव् इच्छामि सेवितुम् ॥

13.28

यदा तूभयवैतर्द्ध भर्तृमूर्धभिर् अर्चितौ
भविष्यतस् तदास्माकं ससपत्नौ भविष्यतः ॥

13.29

वैतर्द्धनामग्रहणात् ततो मदनमञ्जुका
स्मितसंदर्शितप्रीतिर् अब्रवीत् साश्रुलोचना ॥

13.30

अहो चातुर्यमाधुर्य प्रधानगुणभूषणाः
आलापा निर्गताः सौम्याद् गोमुखस्य मुखाद् इति ॥

13.31

मयोक्तं भण पश्यामस् त्वया कस्माच् चिरं स्थितम्
को वा तवेदम् आकारम् उज्ज्वलं कृतवान् इति ॥

13.32

तेनोक्तं वयम् आहूय मागध्या राजसंनिधौ
आज्ञापितास् तव भ्रात्रा पानम् आसेवितं निशि ॥

13.33

तेन पानगृहात् पानं स्वाद्यमानं स्वदेत यत्
स्वयम् आस्वाद्य तद् भ्रात्रे त्वया प्रस्थाप्यताम् इति ॥

13.34

सो ऽहं देवीद्वयेनापि मण्डयित्वा स्वपाणिभिः
पानागाराय गमितः पानाध्यक्षपुरःसरः ॥

13.35

तत्र चास्वादयन्न् एव तत् तत् पानं मनाङ् मनाक्
मत्तो ऽहं प्रेषयामि स्म युष्मभ्यम् अपि संततम् ॥

13.36

तस्मात् पिबत निःशङ्काः कापिशायनम् आसवम्
अनुज्नाताः सहामात्यैर् गुरुभिर् मुदितैर् इति ॥

13.37

सेवमानस् ततः पानं सकान्तामित्रमण्डलः
दिवसान् गमयामि स्म प्रहृष्टपरिचारकः ॥

13.38

कदाचिद् एकपर्यङ्क स्थिता मदनमञ्जुका
युष्माभिः सुखसुप्ताहं न द्रष्टव्येत्य् अभाषत ॥

13.39

मम त्व् आसीत् किम् इत्य् एषा निवारयति माम् इति
यत् सत्यं सुतरां चेतः कुतूहलतरङ्गितम् ॥

13.40

कदाचिद् अर्धरात्रे ऽहं स्थावराकारजङ्गमे
पाने परिणतिं याति प्रतिबुद्धः पिपासितः ॥

13.41

ततः परिजनं दृष्ट्वा प्रसुप्तम् अभवन् मम
न युक्तं सुखसुप्तस्य शत्रोर् अपि निबोधनम् ॥

13.42

भार्या पुनः शरीरार्धम् अतो मदनमञ्जुकाम्
प्रतिबोध्य जलं याचे तद् धि मे न विरूप्यते ॥

13.43

इति निर्धार्य तस्यां च मया दृष्टिर् निपातिता
यावद् अन्यैव सा कापि नारीरूपैव चन्द्रिका ॥

13.44

आसीच् च मम किं यक्षी किं गन्धर्वी किम् अप्सराः
मानुषी स्यात् कुलस्त्री स्याद् गणिका स्याद् इयं न हि ॥

13.45

यस्माद् अन्यतमाप्य् आसां लक्षणैर् नोपपद्यते
तस्माद् विद्याधरी प्राप्ता कापि केनापि हेतुना ॥

13.46

इति निर्णीय निपुणं करिणीतालुकोमलौ
गाढं संवाहयामि स्म तस्याश् चरणपल्लवौ ॥

13.47

सा तु संत्यीजता निद्रां सद्यश् चरणपीडया
माम् आलोक्य तथाभूतं भीता भूमाव् उपाविशत् ॥

13.48

अब्रवीच् च न कर्तव्यम् अर्यपुत्रेण साहसम्
त्वादृशाम् अनुकम्प्यो हि बलिनां प्रमदाजनः ॥

13.49

ततः श्रूत्वेति यत् सत्यम् आत्मन्य् एवास्मि लज्जितः
एवं कारिणम् अप्य् एषा संभावयति माम् इति ॥

13.50

सा मां लज्जितम् आलोक्य जानुसंनिहिताननम्
लज्जाम् अपहरन्तीव त्वरितेदम् अभाषत ॥

13.51

श्रूयतां चाप्रियं सा ते प्रिया मदनमञ्जुका
त्वद्गुणस्मरणव्यग्रा नयते दिवसान् इति ॥

13.52

आसीन् मे मनसि हृता न सा मृता सा या दृष्टेर् व्रजति न गोचरं प्रिया मे
ज्योत्स्ना हि स्फुटधवलापि कौमुदीन्दोर् अन्धानां बहलतमोमलीमसैव ॥

मूल पाठ: Bṛhatkathāślokasaṃgraha · Edition: the text edited by Felix Lacote (Paris, 1908). It was · Data entry Andreas Bigger · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc