बृहत्कथाश्लोकसंग्रह · अध्याय 12
अथ मां कृतकर्तव्यं सुखासीनम् अहर्मुखे
वादी जित इवाच्छायस् त्रपया गोमुखो ऽब्रवीत् ॥
अहम् अर्यसुतां नीत्वा गृहं स्वगृहम् आगतः
ततो ऽपि वन्दितुं देव्यौ नरेन्द्रान्तःपुरं गतः ॥
वन्दिता च विहस्याह देवी पद्मावती यथा
किंकारणं वधूर् अद्य नास्मान् आयाति वन्दितुम् ॥
भ्रात्रा ते किं न मुक्तैव न वाद्यापि विबुध्यते
कोपिता वा भवेद् भर्त्रा शिष्टा दुश्चरितैर् इति ॥
अथागत् हतोरस्का क्रन्दन्ती पद्मदेविका
नास्ति नः स्वामिनीत्य् उक्त्वा देव्योर् निपतिता पुरः ॥
ततो देव्यौ ततः शेषम् अशेषम् अवरोधनम्
राजा च श्रुतवृत्तान्तः सास्थानो धैर्यम् अत्यजत् ॥
ततः प्राप्याचिरात् संज्ञां मागध्या पद्मदेविका
कथं जानासि नास्तीति पृष्टाचष्ट निशाम्यताम् ॥
यथैव गोमुखेनासौ स्वम् आवासं प्रवेशिता
तथैव कगिति घ्रातो गन्धो ऽस्माभिर् अमानुषः ॥
अकस्माच् च क्षणं निद्रां गच्छामः प्रतिबुध्य च
शून्याम् ईक्षामहे शय्याम् अश्रीकां नलिनीम् इव ॥
ततो हा हेति विक्रुष्य समूर्छाः क्षणम् आस्महे
न क्वचिच् च विचिन्वत्यः पश्यामः स्वामिनीम् इति ॥
कलिङ्गसेनया त्व् अत्र शोकगद्गदयोदितम्
इदं तद् आगतं मन्य दुर्विद्याधरचेष्टितम् ॥
बालिकाम् अहम् आदाय पूर्वं मदनमञ्चुकाम्
हर्म्याग्रे क्रीडयामि स्म चन्द्रिकासङ्गशीतले ॥
एहि विद्याधरा एहि गृहाणेमां सुरूपिकाम्
एकाम् एव मया लब्धां सुतां दुर्लभिकाम् इति ॥
ततश् चर्मासिकेयूर हारादिकरभासुरः
अवातरद् दिवः को ऽपि दिव्यगन्धस्रगम्बरः ॥
दूराद् एव च मां भीतां मा भैषीर् इति सान्त्वयन्
गम्भीरध्वनिवित्रस्त तनयाम् इदम् अब्रवीत् ॥
यदि मह्यम् इयं दत्ता सत्येन तनया त्वया
ततो मुञ्च नयाम्य् एनां न्यासभूता हि कन्यका ॥
नाम्ना मानसवेगो ऽहं विद्याधरगणाधिपः
सर्वविज्ञेयविज्ञान मनोज्वलितधीर् इति ॥
अनिच्छन्ती ततस् तस्य संनिधौ चिरम् आसितुम्
प्रयत्नाद् धैर्यम् आधाय प्रगल्भेव तम् अब्रवम् ॥
अर्हत्य् अवश्यम् एवेयम् ईदृशी त्वादृशं पतिम्
न पुनर् दीयते तावद् बालिका शैशवाद् इति ॥
अथ माम् अभिवाद्यासाव् उल्कासंघातभासुरः
दृश्यमानो महावेगः क्षणेनान्तर्हितो ऽभवत् ॥
तेन ब्रवीमि तेनाद्य तत् स्मृत्वा क्षुद्रबुद्धिना
विद्याधराधमेनासौ नीता यदि भवेद् इति ॥
सर्वथा दृश्यते नेह देवी मदनमञ्जुका
यद् अत्रानन्तरं न्याय्यं तद् अनुष्ठीयताम् इति ॥
ततः समुत्पतन्न् एव शोकः क्रोधेन मामकः
प्रेरितः पवनेनेव प्रबलेन बलाहकः ॥
स्त्रीतस्कर दुराचार मूढ मानसवेगक
तिष्ठ तिष्ठ क्व यासीति प्रालपं गगनोन्मुखः ॥
युगपत् क्रोधशोकाभ्यां शोषितो ऽहं क्रमेण च
यथानिलतुषाराभ्यां शिशिरे कमलाकरः ॥
गोमुखस् तु नृपाहुतः प्रत्यागत्येदम् अब्रवीत्
किम् एतद् इति पृष्टेन वृत्तान्तो ऽयं मयोदितः ॥
ततः संभ्रमविस्रस्तम् आकर्षन्न् उत्तराम्बरम्
विषादाकुलितो राजा प्रस्थितो युष्मदन्तिकम् ॥
अन्तरे च रुमण्वन्तम् आह केयं प्रमादिता
सर्वथा ख्यापितं लोकैर् भवतां नीतिकौशलम् ॥
युक्तं तदा यदालोच्य महत् सीदत् प्रयोजनम्
विप्रलब्धो ऽस्मि युष्माभिर् देव्या वासवदत्तया ॥
अधुना ध्रियमाणे ऽपि समर्थसचिवे मयि
अपनीता वधूः कस्माद् बालान् मम सुताद् इति ॥
स तम् आह निवर्तध्वम् अलं तत्र गतेन वः
युष्मान् दृष्ट्वा हि स शिशुः प्राणान् अपि परित्यजेत् ॥
आज्ञापयथ मां यच् च यच् च विज्ञापयामि वः
आसीनान् आसने तेन निवृत्य स्थीयताम् इति ॥
उपविष्टाय चाचष्ट स्फुटं दिव्येन सा हृता
अनाथापि न वः काचित् केनचित् परिभूयते ॥
यावद् अन्तःपुराटव्यौ यावच् च गृहपक्षिणः
नास्त्य् असौ यो न चास्माभिर् ईक्षितश् चारचक्षुषा ॥
आकाशे तु न मे प्रज्ञा क्रमते दिव्यगोचरे
तेन विद्याधरेणासौ हृतेति हृदये मम ॥
अथ वा भवतूद्याने युवराजः परीक्षताम्
कदाचित् कुपिता भर्त्रे तत्रासीत वधूर् इति ॥
कुपितानां हि भर्तृभ्यः श्रूयन्ते कुलयोषिताम्
साधुभिः कथ्यमानानि पञ्च स्थानानि तद् यथा ॥
श्वश्रूभ्रातृननान्दृणां भर्तृमित्रस्य वा गृहम्
दुष्टसंचारशून्यानि मन्दिरोपवनानि वा ॥
अत्रान्तरे कथितवान् आख्यानं मरुभूतिकः
प्रस्तावे यन् मया पूर्वं श्रुतं तद् अवधीयताम् ॥
अष्टावक्रस्य दुहिता सावित्री नाम कन्यका
आसीद् या चरिताकारैः सावित्रीम् अतिरिच्यते ॥
अष्टावक्रम् अयाचिष्ट कदाचिद् ऋषिर् अङ्गिराः
ब्रह्मन्न् अकृतदारो ऽस्मि सुता मे दीयताम् इति ॥
सो ऽब्रवीद् भवतः को ऽन्यस् त्रैलोक्ये ऽपि वरो वरः
किं तु दत्तेयम् अन्यस्मै क्षमतां भगवान् इति ॥
तस्य भ्राता वृषो नाम स चाङ्गिरसम् अब्रवीत्
अमृता नाम दुहिता मम सा गृह्यताम् इति ॥
परिणीय तु तां कन्याम् अमृताम् अमृतोपमाम्
आत्मानम् अङ्गिरा मेने पीतामृतम् इवामृतम् ॥
सा कदाचित् कथंचित् तं कारणे ऽल्पे ऽपि पीडिता
उपालब्धवती नाथम् ऋषिपुत्रस्य वल्लभा ॥
चक्षूरक्तेन भवता सावित्री स्वयम् अर्थिता
अहं त्व् अनिच्छते तुभ्यं पित्रा दत्ता बलाद् इति ॥
नानाविधैः स शपथैर् अमृतां परिसन्त्वयन्
कंचिद् अभ्यनयत् कालम् एकदास्तंगते रवौ ॥
पश्चात् सन्ध्याम् उपासीनम् आसीनं मौनधारिणम्
अपृच्छद् अमृतागत्य किं ध्यायति भवान् इति ॥
तेन वन्दितसंध्येन चिराद् उक्तं ननु प्रिये
देवीं विहाय सावित्रीं किम् अन्यच् चिन्तयाम्य् अहम् ॥
अथ सा श्रुतम् इत्य् उक्त्वा स्वस्मिन्न् आश्रमपादपे
देवताभ्यो नमस्कृत्य शरीरम् उदलम्बयत् ॥
आकृष्टकण्ठपाशा च पुरः प्रैक्षत देवताम्
विद्युत्पिङ्गजटाभारां साक्षमालाकमण्डलुम् ॥
ततो दन्तप्रभाजाल प्रभासिततपोवना
देवतावोचद् अमृताम् अमृतेनेव सिञ्चती ॥
पुत्रि मा स्म त्यज प्राणान् दुस्त्यजान् धर्मसाधनान्
स्त्रैणम् अज्ञानम् आश्रित्य संतुष्टो हि पतिस् त्वया ॥
नाष्टावक्रस्य दुहिता सावित्री तेन चिन्तिता
किं त्व् अहं ब्रह्मरुद्र आदिसप्तलोकनमस्कृता ॥
सर्वथा मत्प्रसादात् ते पुत्रि पुत्रो भविष्यति
बलेन तपसा यस्य न समानो भविष्यति ॥
इति दत्त्वा वरं तस्यै सावित्री दिवम् आश्रयत्
अमृतापि गताशङ्का भर्त्रा सह समेयुषी ॥
तेन ब्रवीमि कुपिता कदाचिद् अमृतेव सा
उद्यानं प्रविशेत्त् तत्र स्वयम् अन्विष्यताम् इति ॥
अथाहं शिबिकारूढः प्रस्थितो वेशम् अस्मृतिः
चक्षुश्चेतोहराकाराः पश्यन् वेश्याः समूहशः ॥
आसीच् च मम देवीभ्यां प्रयोगो ऽयम् अनुष्ठितः
अपि नामास्य कस्यांचित् स्त्रियां भावो भवेद् इति ॥
तदायं मोहसंकल्पो न हि संकल्पजन्मनः
रतेर् अन्यासु संकल्पः प्रमदासु प्रवर्तते ॥
ततः संकल्पयन्न् एवम् अचन्द्रिकम् इवाम्बरम्
कान्तामातुर् गृहं कान्तं कान्ताशून्यम् उपागमम् ॥
प्रकाशान् अप्रकाशांश् च प्रदेशान् बहुशो बहून्
अन्विष्यन्तो भ्रमाम स्म न चापश्याम तत्र ताम् ॥
गोमुखोद्दिष्टमार्गश् च प्रविश्य गृहकाननम्
पृच्छामि स्म प्रियावार्त्तां साक्षिशाखामृगाण्डजान् ॥
केभ्यश्चित् कुपितः शापान् केभ्यश्चिद् वितरन् करान्
विडम्बयन्न् अशास्त्रज्ञम् इत्य् उत्कटरसं नटम् ॥
अथोपगम्य त्वरितः प्रहृष्टो मरुभूतिकः
अर्यपुत्रार्यदुहिता मया दृष्टेत्य् अभाषत ॥
ततस् तस्य परामृज्य पाणिना विकसन्मुखम्
अपि सत्यम् इदं सौम्य स्यात् क्रीडेत्य् अहम् अब्रवम् ॥
सो ऽब्रवीत् सत्यम् अप्य् एतत् क्रीडा यैषातिहर्षजा
असत्ये ह्य् अत्र या क्रीडा तद् उन्मत्तविजृम्भितम् ॥
अथ वालं विमर्शेन महाभ्युदयवैरिणा
त्वरितं गम्यतां यस्मान् नार्तः कालम् उदीक्षते ॥
पश्यामि स्म ततो गच्छन्न् अशोकशिशुम् अग्रतः
रक्तं कुसुमसंघातम् अयम् आभूमिपल्लवम् ॥
अकाले किम् अशोकस्य कुसुमानीति चिन्तयन्
तस्य स्कन्धे ह्रियालीनम् अपश्यं प्राणदायिनीम् ॥
आसीच् च मम किं चित्रं यत् पादस्पर्शदोहदः
सद्यः कुसुमितो ऽशोकः प्राप्य सर्वाङ्गसंगतिम् ॥
इदम् अत्र महत् चित्रं यदालोकितम् एतया
वनदेवतयोद्यानं सकलं न विजृम्भितम् ॥
सर्वथाचेतना वृक्षाः कान्ताया दर्शने सति
सुभगे निर्विकारत्वाद् अङ्गारतुषभस्मवत् ॥
अथालिङ्गितुम् आरब्धः सानुरागम् अहं च ताम्
तया चाङ्गानि संहृत्य मा तावद् इति वारितः ॥
ततः प्रसरभङ्गेन विलक्षम् उपलक्ष्य माम्
साब्रवीद् अपरोधो ऽयम् अर्यपुत्रेण मृष्यताम् ॥
आराधितवती यक्षम् अहं कन्या सती यथा
अर्यपुत्रस्य भूयासं दयिता परिचारिका ॥
तुभ्यं कार्ये च संसिद्धे शमीलाजसुगन्धिना
पानं हस्तेन दास्यामि प्रसीदतु भवान् इति ॥
स च तस्य प्रसादान् मे यातः सिद्धिं मनोरथः
आयाचितं तु यक्षाय न मया प्रतियाचितम् ॥
तेनाहं पानशौण्डेन नीता धनपतेः सभाम्
वृत्तान्तः कथितश् चायम् अथोक्तो धनदेन सः ॥
आयाचितम् इयं तुभ्यम् अचिरेणैव दास्यति
नीत्वा समर्पय क्षिप्रं दारकाय वधूम् इति ॥
तेन चाहम् इहानीता गगनागमनाच् च मे
शरीरं परुषीभूतं वारिता स्थ ततो मया ॥
।
तस्मै यक्षाय युष्माभिः स मे संपाद्यताम् इति ॥
अथास्यै गनिकाध्यक्षो राजादेशं न्यवेदयत्
अद्यारभ्य कुलस्त्रीत्वं भवतीनां भवत्व् इति ॥
तं चाकर्ण्य महामनोरथम् इदं पूर्णं चिरात् काङ्क्षितं नैव प्रीतिविकासिहारिहसितं धत्ते स्म कान्तामुखम्
याच्ञावृत्तिकदर्थितैर् बहुभिर् अप्य् आप्तैर् न हि प्रार्थकाः प्रीतिं यान्ति तथा यथा तनुभिर् अप्य् अर्थैः सुखाभ्यागतैः ॥
मूल पाठ: Bṛhatkathāślokasaṃgraha · Edition: the text edited by Felix Lacote (Paris, 1908). It was · Data entry Andreas Bigger · GRETIL (Göttingen) · CC BY-NC-SA 4.0