बृहत्कथाश्लोकसंग्रह · अध्याय 11
अथ नागरकाकारस् तदाकारसुहृद्वृतः
संप्रस्थाप्य मनः पूर्वं नृपास्थानम् अगाम् अहम् ॥
तत्र पुष्पकसंस्थान मञ्चस्थानं महीपतिम्
प्रणम्य तदनुज्ञातं मञ्चान्तरम् असेविषि ॥
रङ्गाङ्गणम् अथालोक्य कुशलप्रेक्षकाकुलम्
नृत्याचार्यौ नमस्कृत्य महीपालम् अवोचताम् ॥
राजन्न् उपान्तनेपथ्ये भृत्ये वः समुपागते
द्रष्टुम् इच्छथ यां पूर्वम् आज्ञापयत ताम् इति ॥
सो ऽब्रवीन् नृत्यगीतादि कलाशास्त्रविशारदः
गोमुखः स च याम् आह सा पूर्वं नृत्यताम् इति ॥
ताभ्याम् आगत्य पृष्टश् च का पूर्वं नृत्यताम् इति
स सुयामुनदन्तेति तदुपाध्यायम् आदिशत् ॥
ततस् तस्यां प्रनृत्तायां प्रनृत्ता नृत्यवेदिनः
रङ्गशेषस् तु निश्चेष्टः सुषुप्तावस्थां गतः ॥
प्रत्याहृत्य ततश् चेतो ह्रियमाणं बलात् तया
मनोनेत्राङ्गसंचारैर् अनाहार्यैर् अचिन्तयम् ॥
नानुगन्तुम् अलं रम्भा नृत्तम् अस्याः समेनका
कुत एव पराजेतुम् अबला बालिका प्रिया ॥
राजहंसः पिपासान्धः प्राप्तः पङ्कजिनीं यथा
पङ्काविलजलां पश्येत् तथाध्यासम् अहं प्रियाम् ॥
अवोचं गोमुखं चेदं जीयमानां प्रियाम् अहम्
अशक्तः प्रेक्षितुं तेन रङ्गान् निर्गम्यताम् इति ॥
तेनोक्तम् इच्छया गन्तुम् आगन्तुं वा न लभ्यते
वत्सराजकुलात् तेन मुहूर्तं स्थीयताम् इति ॥
विरतायां ततस् तस्यां पुराणार्करुचाव् इव
जीवलोकम् इव ज्योत्स्ना प्रिया रङ्गम् अरञ्जयत् ॥
अपृच्छं गोमुखं चासां कतमा पद्मदेविका
मुद्रिकालतिका चेति स विहस्येदम् अब्रवीत् ॥
कीर्तिकान्त्योर् इयं मध्ये या लक्ष्मीर् इव राजते
एषा नः स्वामिनी देवी वामतो मुद्रिकालता ॥
न चेयं शक्यते जेतुम् अलं वः शङ्कया यतः
दृष्टा केन शरज्ज्योत्स्ना खद्योतप्रभया जिता ॥
मया विजयमानेयम् अनेकं नर्तकीशतम्
दृष्टा संभावयाम्य् अस्यास् तेन नृत्तगुणान् इति ॥
गोमुखाभिमुखो यावत् सावधानं शृणोम्य् अहम्
तावज् जय जयेत्य् उच्चैर् विमुक्तः प्रेक्षकैर् ध्वनिः ॥
रङ्गाद् दृष्टा च निर्यान्ती बाध्यमानेव सा मया
दैन्यवेपथुवैवर्ण्य विषादैः सहजैर् इव ॥
ततो विसर्जितास्थानं नमस्कृत्य महीपतिम्
स्वम् आवासं व्रजामि स्म कान्ताचिन्तापुरःसरः ॥
गोमुखं चाब्रवं कस्मान् माम् इदानीम् उपेक्षसे
न ह्य् आदेशम् उपेक्षन्ते त्वादृशा मादृशाम् इति ॥
तेनोक्तम् अपरः कश्चित् प्रत्ययार्थं विसर्ज्यताम्
श्रद्धास्यति न मे वाक्यं विप्रलब्धा हि सा मया ॥
एषाम् अन्यतमं याहि गृहीत्वेति मयोदिते
मरुभूतिक एवात्र योग्य इत्य् अयम् उक्तवान् ॥
अयं हरिशिखस् तावन् नीत्या वक्रगतिः कृतः
अपायशतम् आलोक्य कदाचिज् जालम् आलिखेत् ॥
कथं कष्टतमे बालो व्यसनानां चतुष्टये
यत्प्रधानस्त्रियस् तत्र राजपुत्रः प्रवर्त्यते ॥
एवम् अङ्गुलिभङ्गेन विचार्यालीकपण्डितः
विहन्याद् अपि नः कार्यं तस्माद् एष न युज्यते ॥
तपन्तको ऽपि बालत्वान् मूढः शून्यमुखो यतः
तस्माद् एवंविधे कार्ये नियोगं नायम् अर्हति ॥
विक्रमैकरसत्वाच् च समर्थो मरुभूतिकः
अभ्यस्तसाहसस् तस्माद् एष प्रस्थाप्यताम् इति ॥
ततस् तौ सहितौ यातौ चिरात् तु मरुभूतिकम्
प्राप्तं हरिशिखो ऽपृच्छत् किं वृत्तं भवतोर् इति ॥
तेनोक्तम् आवयोस् तावद् वेशमधेन गच्छतोः
आयात्य् अभिमुखी यैव सैव याति पराङ्मुखी ॥
भञ्जन्ती चाङ्गुलीः क्रोधाद् वदत्य् आरक्तलोचना
न स्प्रष्टव्यो न संभाष्यो गोमुखः पापवान् इति ॥
क्रुद्धदौवारिकाक्रान्त हाटकस्तम्भतोरणैः
कक्ष्याद्वारैः प्रविष्टौ स्वः स्थानम् अर्यसुतास्थितम् ॥
तत्रैका दारिकावोचद् दारिकाः पश्यताद्भुतम्
धूर्तेनानेन चातुर्याद् गोमयं पायसीकृतम् ॥
अपराधो ऽयम् एतावत् सर्पः प्राणहरः कृतः
तम् एव पश्यतानेन वाचालेन गुणीकृतम् ॥
वन्दमानो यदा कोपात् स्वामिन्या नाभिनन्दितः
संभ्रान्तश् च विलक्षश् च तदा ताम् आह गोमुखः ॥
मन्ये निष्कारणं कोपं देव्याः को नाम मादृशः
सेवकः परिचित्तज्ञः स्वामिनं कोपयेद् इति ॥
तथान्यतमया कोपात् तालवृन्तभृतोदितम्
कथं निष्कारणो नाम किम् इदं लघु कारणम् ॥
उत्कण्ठादर्शम् इच्छन्ती कस्यापि चिरकाङ्क्षितम्
त्वया नर्तयता कान्ता किम् इयं सुखम् आसिता ॥
अथ वा तद् गतं नाम स्वामी किं करणं त्वया
पश्यन्न् अभिमुखं प्रीत्या स तथा विमुखीकृतः ॥
भवान् पश्यतु वा मा वा त्वद्विधेयो युवा जनः
त्वम् इच्छसि जयं यस्याः किम् असौ न पराजिता ॥
ततो भियावनमितं मुखम् उन्नम्य गोमुखः
उक्तवान् पश्यतानर्थं दोषो भूतो गुणो ऽपि नः ॥
यदि प्राक् स्वामिनी नृत्येत् तया राजा सुतोषितः
कदाचिद् इतरां नैव पश्येद् वृत्तकुतूहलः ॥
तदा च गुणविद्वेषी जनो वक्ता भवेद् यथा
पक्षपातान् नरेन्द्रेण दृष्टा मदनमञ्जुका ॥
इतरा यदि नृत्यन्ती तेन दृष्टा भवेत् तदा
नोर्वशीम् अपि पश्येत् सः कुतो मदनमञ्जुकाम् ॥
प्रीत्या यश् चोन्मुखः पश्यन् कृतः स्वामी पराङ्मुखः
मयोपायः प्रयुक्तो ऽसौ कथम् इत्य् अवधीयताम् ॥
न सुयामुनदन्तायाः शक्यः कर्तुं पराभवः
कृतानुकरणैः साक्षाद् भरतेनापि नृत्यता ॥
अर्यपुत्रे तु विमुखे युष्माभिः सा पराजिता
सहजैर् इव वैवर्ण्य विवादस्वेदवेपनैः ॥
तेन ब्रवीमि सेवापि याति यद्य् अपराधताम्
भक्त्याराधितभर्तारः सेवका हन्त दुःस्थिताः ॥
अथवा सापराधो ऽपि दूतः संमानम् अर्हति
संदेशश्रवणात् तेन संमानयत माम् इति ॥
अथ सात्र परावृत्य प्रसादविशदानना
ईषद्विहसितज्योत्स्ना सलिलस्नपिताधरा ॥
अयि चन्द्रमुखं मा स्म गोमुखं पुरुषं वद
न हि वत्सेश्वरासन्नाः श्रूयन्ते स्त्रीसुहृद्द्रुहः ॥
अनालापेन यच् चासि क्षणम् आयासितो मया
तत् क्षमस्व न हि स्वास्था बाधन्ते त्वादृशाम् इति ॥
ततः सा गोमुखेनोक्ता द्रष्टुम् इच्छति वः प्रियः
संदेहश् चेद् इयं मुद्रा तदीया दृश्यताम् इति ॥
तयोक्तं कुम्भकाराणां कोटिर् वसति वः पुरे
कोटिः किम् इति नानीता न हि ते क्षीणमृत्तिकाः ॥
तेनोक्तं केन वानीता मुद्रा वा मृत्तिकामयी
न ह्य् आरभ्यमहाकार्याः प्रमाद्यन्ति सचेतसः ॥
यौगन्धरायणसुतः प्रियं मित्रं प्रियस्य वः
स्वामिना प्रेषितः प्रीत्या दृश्यतां मरुभूतिकः ॥
अथ देवी नमस्कृत्य प्रीता विज्ञापिता मया
यत् संदिशति नः स्वामी युष्मभ्यं तन् निशाम्यताम् ॥
प्रेरितः त्वाम् अहं द्रष्टुं येन लक्ष्मीम् इवालसः
क्रीडतास्मद्विधैर् एष विलक्षः क्रियताम् इति ॥
प्रस्थितायां ततो देव्याम् आह मां पद्मदेविका
इयं प्रसाध्यते यावत् तावद् आस्तां भवान् इति ॥
देव्या सह प्रविश्यान्तर् मुहूर्ताद् इव सा ततः
आह प्रकृष्टप्रमुदा प्रफुल्लनयनोत्पला ॥
मया कलिङ्गसेनायै तया गत्वा रुमण्वते
तेनापि भूमिपतये वृत्तान्तो ऽयं निवेदितः ॥
तेनोक्तं किम् इहाख्येयं तरुणो ननु दारकः
जीवलोकसुखान्य् एष तस्माद् अनुभवत्व् इति ॥
सेयं राज्ञाभ्यनुज्ञाता गुरुणा मन्मथेन च
इयम् आयाति ते पश्चाद् यातु तावद् भवान् इति ॥
अथ प्रविश्य संभ्रान्ता प्रतीहारी न्यवेदयत्
सयानो गोमुखः प्राह लघु श्रावय माम् इति ॥
मयोक्तं गोमुखस् तावद् एकाकी प्रविशत्व् इति
स प्रविश्योक्तवान् द्वारे देवी किं विधृतेति माम् ॥
अज्ञातप्रमदासङ्गम् आकुलीभूतमानसम्
कुरु नागरकं तावत् त्वं माम् इत्य् अहम् उक्तवान् ॥
तेनोक्तं युद्धवेलायां दम्यन्ते तुरगा इति
यद् एतद् घुष्यते लोके तद् एतत् तथ्यतां गतम् ॥
न नागरकतां प्राप्तुम् उपदेशेन शक्यते
इयं हि मोक्षविद्येव प्रयोगावृत्तिसाधना ॥
संक्षेपतस् तु वक्ष्यामि यद् यद् देवी करिष्यति
तत् तद् एवानुकुर्यास् त्वं दक्षो हि लभते श्रियम् ॥
अनुशिष्य स माम् एवं निर्यायानीय च प्रियाम्
सुखं सुप्यास्तम् इत्य् उक्त्वा यथास्वं ससुहृद्गतः ॥
ततः प्रविश्य दयिता माम् अर्धाक्ष्णा निरैक्षत
कृतं तथैव च मया वन्दितेन च वन्दिता ॥
सर्वथा यद् यद् एवाहम् अनया कारितस् तदा
तद् एवानुकरोमि स्म नर्तनाचार्यशिष्यवत् ॥
अथ बुद्ध्वानुकूलं माम् इयम् अन्वर्थवेदिनम्
स्मित्वा सोत्कम्परोमाञ्चं गाढम् अङ्गम् अपीडयत् ॥
ततो ऽहम् अनपेक्ष्यैव तत्कृतानुकृतक्रमम्
अशरीरस्य कस्यापि गतो भूतस्य वश्यताम् ॥
स्त्रीपुंसताम् आगतयोर् अनभिप्रेतनिद्रयोः
प्रदोष एव क्षणदा क्षीणा क्षणवद् आवयोः ॥
प्रातः प्रवहणेनैव प्रियाम् आदाय गोमुखः
मातुर् एवानयद् गेहं मन्मानसपुरःसराम् ॥
वर्धमानरतेर् एवम् अतियातेषु केषुचित्
दिनेषु मम संप्राप्तः सेनानीर् इदम् अब्रवीत् ॥
अद्याष्टासु प्रयातेषु मुहूर्तेषु प्रवक्ष्यति
मौहूर्तानुमतो राजा रात्रेः शान्तिपुरःसरम् ॥
तारयिष्यामि यमुनाम् अहं यात्रागतं जनम्
युष्माभिर् अपि कर्तव्यं यत् तद् आज्ञाप्यताम् इति ॥
मयोक्तं गोमुखो गत्वा युष्मान् विज्ञापयिष्यति
इति तस्मिन् नते मह्यं गोमुखेन निवेदितम् ॥
अध सकामुकगणः श्वो गन्ता गणिकागणः
तेनैव सहिता यूयं गन्तारः शनकैर् इति ॥
गोमुखेन तु वृत्तान्ते कथिते ऽस्मिन् रुमण्वते
प्रतिष्ठे ससुहृत् प्रातः पृष्ठतो जनसंहतेः ॥
तच् च क्रीडागृहं प्राप्य कल्पितं यमुनातटे
दिवसं गमयामि स्म तं त्रियामामुखोत्सुकः ॥
गोमुखानीतया सार्धम् आसित्वा कान्तया सह
निशायां यातकल्पायाम् अपश्यं रुदतीम् इमाम् ॥
किम् एतद् इति पृष्टा च मया संभ्रान्तचेतसा
यदा नोक्तवती किंचित् तदान्या दारिकाब्रवीत् ॥
अपैति गुणवत्सङ्गाद् दोषो दोषवताम् किल
गणिकाशब्ददोषस् तु नैनाम् अद्यापि मुञ्चति ॥
काशिराजस्य या कन्या वृता तुभ्यं पुरोधसा
तस्याश् चामरधारिण्या भवितव्यं किलानया ॥
सेयम् उत्प्रेक्ष्य तद् दुःखं दारुणं मरणाद् अपि
विषपानकृतोत्साहा हातुम् इच्छत्य् असून् इति ॥
मयोक्तम् अहम् अप्य् अङ्गं त्वद्वियोगरुजातुरम्
नित्योत्क्षपितम् अक्षीबं त्यक्त्वा स्थास्याम्य् अवेदनः ॥
इत्य् अस्मिन्न् एव समये प्राप्ता हरिशिखादयः
वृत्तान्तम् एवम् आकर्ण्य भीषणं सभियो ऽभवन् ॥
ततः संभाष्य सुहृदाव् अवोचन् मरुभूतिकः
वयम् एव व्.इसं पूर्वं पिबामः कल्प्यताम् इति ॥
ततो हरिशिखेनोक्तं क्वासौ संप्रति गोमुखः
यो हि मूलम् अनर्थस्य स तावत् पाय्यताम् इति ॥
तेन गोमुखम् आह्वातुं प्रहितागत्य दारिका
अब्रवीद् गोमुखो वक्ति किं मयातः प्रयोजनम् ॥
दीर्घजीवितनामानम् अध्यायं चिरविस्मृतम्
अहम् अध्येतुम् आरभ्दो वैद्याद् प्राणप्रदाद् इति ॥
ततो हरिशिखेनोक्तः क्रुद्धेन मरुभूतिकः
प्रेर्यमाणं गलाष्ट्राभिः शीघ्रम् आनय तं शठम् ॥
यस् त्वया घटितो ऽनर्थः स्वामिनो जीवितः सुखम्
स्वामिन्या सह संयोगः सो ऽयम् एवं विजृम्भते ॥
सो ऽब्रवीत् सो ऽयम् आयातो वादः संप्रति सत्यताम्
ज्वरिष्यामीति संचिन्त्य मण्डं पिबति मुण्डितः ॥
स कालस् तावद् आयातु स्वामिनी यद् विशङ्किता
तत्रैव विद्याम न्यञ्चो पास्यामस् त्यज्यतां त्वरा ॥
अथ वालं प्रलापेन महीपालं तपन्तकः
विज्ञापयतु तेनास्य दत्तः पूर्वम् अयं वरः ॥
अप्रसङ्गे ऽपि भवता कार्या विज्ञापिना मयि
सिद्धिं यास्यति चावश्यं मा स्म शङ्कां करोद् इति ॥
इतीमाम् अनुकूलाभिर् वाग्भिर् आश्यास्य गोमुखः
मातुर् एवानयन् मूलं प्राविशाम ततः पुरीम् ॥
कुमारवटकास्थेन मयानूक्तस् तपन्तकः
गोमुखेन यद् आख्यातं तत् कार्यं साध्यताम् इति ॥
तपन्तकस् तु सास्फोटम् इदं सिद्धिम् इति ब्रुवन्
गत्वा राजकुलं तस्माद् आगत्येदम् अभाषत ॥
राजपादैर् अहं पृष्टस् तात किं क्रियताम् इति
शालीनेन मयाप्य् उक्तं मोदको दीयताम् इति ॥
एवं मालाफलादीनि निःसाराणि तपन्तकः
याचते स्म प्रहीणत्वाद् गत्वा गत्वा महीपतिम् ॥
इति सशरीरया क्षणम् इव क्षणदाः क्षपयन् सह विशरीरया दयितया विरसान् दिवसान्
दिनरजनीविहारविपरीतम् अहम् चरितै रथचरणाह्वयस्य चरितानि विडम्बितवान् ॥
मूल पाठ: Bṛhatkathāślokasaṃgraha · Edition: the text edited by Felix Lacote (Paris, 1908). It was · Data entry Andreas Bigger · GRETIL (Göttingen) · CC BY-NC-SA 4.0