बृहस्पतिस्मृति · अध्याय 1.7
धनमूलाः क्रियाः सर्वा यत्नास् तत्साधने मताः ।
वर्धनं रक्षणं भोग इति तस्य विधिक्रमः ॥
तत् पुनस् त्रिविधं ज्ञेयं शुक्लं शबळम् एव च ।
कृष्णं च तत्र विज्ञेयः प्रभेदः सप्तधा पुनः ॥
श्रुतशौर्यतपः कन्या शिष्ययाज्यान्वयागतम् ।
धनं सप्तविधं शुल्कम् उभयो ह्य् अस्य तद्विधः ॥
कुसीदकृषिवाणिज्य शुल्कशिल्पानुवृत्तिभिः ।
कृतोपकाराद् आप्तं च शबळं समुदाहृतम् ॥
पाशकद्यूतदूतार्थ प्रतिरूपकसाहसैः ।
व्याजेनोपार्जितं यच् च तत् कृष्णं समुदाहृतम् ॥
तेन क्रयो विक्रयश् च दानं ग्रहणम् एव च ।
विविधाश् च प्रयुज्यन्ते क्रियासंभोगम् एव च ॥
यथाविधेन द्रव्येण यत् किञ् चित् कुरुते नरः ।
तथाविधम् अवाप्नोति तत्फलं प्रेत्य चेह च ॥
तत् पुनर् द्वादशविधं प्रतिवर्णाश्रयं स्मृतम् ।
साधारणं स्यात् त्रिविधं शेषं नवविधं स्मृतम् ॥
क्रमागतं प्रीतिदायं प्राप्तं च सह भार्यया ।
अविशेषेण सर्वेषां वर्णानां त्रिविधं स्मृतम् ॥
वैशेषिकं धनं ज्ञेयं ब्राह्मणस्य त्रिलक्षणम् ।
प्रतिग्रहणलब्धं यद् याज्यं तच् छिष्यतस् तथा ॥
त्रिविधं क्षत्रियस्यापि प्राहुर् वैशेषिकं धनम् ।
युद्धोपलब्धं करतो दण्डाच् च व्यवहारतः ॥
वैशेषिकं धनं ज्ञेयं वैश्यस्यापि त्रिलक्षणम् ।
कृषिगोरक्षवाणिज्यं शूद्रस्यैषाम् अनुग्रहात् ॥
सर्वेषाम् एव वर्णानाम् एवं धर्म्यो धनागमः ।
विपर्ययाद् अधर्मः स्यान् न चेद् आपद् गरीयसी ॥
आपत्स्व् अनन्तरावृत्तिर् ब्राह्मणस्य विधीयते ।
वैश्यवृत्तिश् च तस्योक्ता न जघन्या कथं चन ॥
कथं चन न कुर्वीत ब्राह्मणः कर्म वार्षलम् ।
वृषलः कर्म न ब्राह्मं पतनीये हि ते तयोः ॥
उत्कृष्टं चापकृष्टं तयोः कर्म न विद्यते ।
मध्यमे कर्मणी हित्वा सर्वसाधारणी हि ते ॥
आपदं ब्राह्मणस् तीर्त्वा क्षत्रवृत्त्या भृते जने ।
उत्सृजेत् क्षेत्रवृत्तिं तां कृत्वा पावनम् आत्मनः ॥
तस्याम् एव तु यो भुक्तौ ब्राह्मणो रमते रसात् ।
काण्डपृष्ठश् च्युतो मार्गाद् अङ्कितो ऽयं प्रकीर्तितः ॥
स्वकुलं पृष्ठतः कृत्वा यो वै परकुलं व्रजेत् ।
तेन दुश्चरितेनासौ काण्डपृष्ठ इति स्मृतः ॥
दिवाकृते कार्यविधौ ग्रामेषु नगरेषु च ।
संभवे साक्षिणां चैव न दिव्या भवति क्रिया ॥
द्वारमार्गक्रियाभोग जलवाहादिके तथा ।
भुक्तिर् एव तु गुर्वो स्यान् न लेख्यं न च साक्षिणः ॥
एतद् विधानम् आख्यातं साक्षिणां लिखितस्य च ।
संप्रति स्थावरप्राप्तेर् भुक्तेश् च विधिर् उच्यते ॥
विद्यया क्रयबन्धेन शौर्यभागान्वयागतम् ।
सपिण्डस्याप्रजस्यांशं स्थावरं स्पतधाप्यते ॥
पित्र्ये लभ्दक्रयाधाने रिक्थशौर्यप्रवेदनात् ।
प्राप्ते सप्तविधे भोगः सागमः सिद्धिम् आप्नुयात् ॥
क्रमागतः शासनिकः क्रयाधानसमन्वितः ।
एवंविधस् तु यो भोगः स तु सिद्धिम् अवाप्नुयात् ॥
संविभागक्रयप्राप्तं पित्र्यं लब्धं च राजतः ।
स्थावरं सिद्धिम् आप्नोति भुक्त्वा हानिम् उपेक्षया ॥
प्राप्तमात्रं येन भुक्तं स्वीकृत्यापरिपन्थितम् ।
तस्य तत्सिद्धिम् आप्नोति हानिं चोपेक्षया यथा ॥
अध्यासनात् समारभ्य भुक्तिर् यस्याविघातिनी ।
त्रिंशद्वर्षाण्य् अविच्छिन्ना तस्य तां न विचालयेत् ॥
न स्त्रीणाम् उपभोगः स्याद् विना लेख्यं कथं चन ।
राजश्रोत्रियवित्ते च जडबालधनेन च ॥
भुक्त्या केवलया नैव भुक्तिः सिद्धिम् अवाप्नुयात् ।
आगमेनापि शुद्धेन द्वाभ्यां सिध्यति नान्यथा ॥
बालश्रोत्रियवित्ते च प्राप्ते च पितृतः क्रमात् ।
नोपभोगे बलं कार्यम् आहर्त्रा तत्सुतेन वा ॥
पशुस्त्रीपुरुषादीनाम् इति धर्मो व्यवस्थितः ।
यद्य् एकशासने ग्राम क्षेत्रारामाश् च लेखिताः ॥
एकदेशोपभोगे ऽपि सर्वे भुक्ता भवन्ति ते ।
आगमो ऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥
अनुमानाद् वरः साक्षी साक्षिभ्यो लिखितं गुरु ।
अव्याहता त्रिपुरुषी भुक्तिर् एभ्यो गरीयसी ॥
अनुमानं वसत्य् अत्र साक्षी चामरणाद् भवेत् ।
अव्याहतं लेखभोगं प्रमाणं तु त्रिपौरुषम् ॥
पितापितामहो यस्य जीवेच् च प्रपितामहः ।
त्रिंशत् समा तु या भुक्ता भूमिर् अव्याहता परैः ॥
भुक्तिः सा पौरुषी ज्ञेया द्विगुणा च द्विपुरुषी ।
त्रिपूरुषी च त्रिगुणा परतः स्याच् चिरन्तना ॥
यत्राहर्ताभियुक्तः स्याल् लेख्यं साक्षी तदा गुरुः ।
तदभावे तु पुत्राणां भुक्तिर् एका गरीयसी ॥
आहर्ता शोधयेद् भुक्तिम् आगमं वापि संसदि ।
तत्पुत्रो भुक्तिम् एवैकां पौत्रादिस् तु न किंचन ॥
रिक्थभिर् वा परैर् द्रव्यं समक्षं यस्य दीयते ।
अन्यस्य भुञ्जतः पश्चान् न स तल् लब्धुम् अर्हति ॥
पश्यन्न् अन्यस्य ददतः क्षितिं यो न निवारयेत् ।
सतापि लेख्येन भुवं न पुनर् ताम् अवाप्नुयात् ॥
ऋक्थिभिर् वापरैर् वापि दत्तं तेनैव तद् भृगुः ॥
भुक्तिस् त्रिपुरुषी सिध्येत् परेषां नात्र संशयः ।
अनिवृत्ते सपिण्डत्वे सकुल्यानां न सिध्यति ॥
अस्वामिना तु यद् भुक्तं गृहक्षेत्रापणादिकम् ।
सुहृद्बन्धुसकुल्यस्य न तद्भोगेन हीयते ॥
धर्मो ऽक्षयः श्रोत्रियस्य अभयं राजपूरुषे ।
स्नेहः सुहृद्बान्धवेषु भुक्तम् एतैर् न हीयते ॥
वैवाह्य श्रोत्रियैर् भुक्तं राज्ञामात्यैस् तथैव च ।
सुदीर्घेनापि कालेन तेषां सिध्यति तन् न तु ॥
अशक्तालसरोगार्त बालभीतप्रवासिनाम् ।
शासनारूढम् अन्येन भुक्तं भुक्त्या न हीयते ॥
छिन्नभोगे गृहे क्षेत्रे संदिग्धं यत्र जायते ।
लेख्येन भोगविद्भिर् वा साक्षिभिः शुद्धिम् आहरेत् ॥
नामघाटागमं संख्यां कालं दिग्भागम् एव च ।
भोगच्छेदनिमित्तं च ये विदुस् तत्र साक्षिणः ॥
उत्पन्नाश् चात्यासन्ना ये ये च देशान्तरस्थिताः ।
मौलास् ते तु समुद्दिष्टाः प्रष्टव्याः कार्यनिर्णये ॥
अदुष्टास् ते तु यद् ब्रूयुः संदिग्धे समदृष्टयः ।
तत्प्रमाणं प्रकर्तव्यम् एवं धर्मो न हीयते ॥
स्थावरेषु तद् आख्यातं लाभभोगप्रसाधनम् ।
प्रमाणहीनवादे तु निर्देश्या दैविकी क्रिया ॥
राजान्तरैस् त्रिभिर् भुक्तं प्रमाणेन विनापि यत् ।
ब्रह्मदेयं न हर्तव्यं राज्ञा तस्य कदा चन ॥
भुक्तिस् त्रैपुरुषी यत्र चतुर्थे संप्रवर्तिता ।
तद्भोगः स्थिरतां याति न पृच्छेद् आगमां क्व चित् ॥
अनिषिद्धेन यद् भुक्तं पुरुषैस् त्रिभिर् एव तु ।
तत्र नैवागमः कार्यो भुक्तिस् तत्र गरीयसी ॥
स्थावरेषु विवादेषु भुक्तिस् त्रिपुरुषी च या ।
स्वतन्त्रैव हि सा ज्ञेया प्रमाणम् साध्यनिर्णये ॥
यस्य त्रिपुरुषा भुक्तिः सम्यग्लेख्यसमन्विता ।
एवंविधा ब्रह्मदेया हर्तुं तस्य न शक्यते ॥
यस्य त्रिपुरुषा भुक्तिः पारंपर्यक्रमागता ।
न सा चालयितुं शक्या पूर्वकाच् छासनाद् ऋते ॥
त्रिपुरुषं भुज्यते येन समक्षं भूरवारिता ।
तस्य सा नापहर्तव्या क्षमालिङ्गं न चेद् वदेत् ॥
भुक्तिर् बलवती शास्त्रे ह्य् अविच्छिन्ना चिरन्तनी ।
विच्छिन्नापि हि स ज्ञेया या तु पूर्वं प्रसाधिता ॥
पित्रा भुक्तं तु यद् द्रव्यं भुक्त्याचारेण धर्मतः ।
तस्मिन् प्रेते ऽपि तत्प्राप्तं भुक्त्या प्राप्तं तु तस्य तत् ॥
त्रिभिर् एव तु या भुक्ता पुरुषैर् भूर् यथाविधि ।
लेख्याभावे तु तां तत्र चतुर्थः समवाप्नुयात् ॥
सनाभिभिर् बान्धवैश् च भुक्तं यत् स्वजनैस् तथा ।
भोगात् तत्र न सिद्धिः स्याद् भोगम् अन्येषु कल्पयेत् ॥
सागमो दीर्घकालश् च निच्छिद्रोपरवो धनम् ।
प्रत्यर्थिसंनिधानं च परिभोगो ऽपि पञ्चधा ॥
चतुष्पाद् धनधान्यादि वर्षाद् धानिम् अवाप्नुयात् ॥
भूमेर् अभुक्तिर् लेख्यस्य यथाकालम् अदर्शनम् ।
साक्ष्यस्यास्मरणं चैव स्वार्थहानिकराणि तु ॥
तस्माद् यत्नेन कर्तव्यं प्रमाणपरिपालनम् ।
तेन कार्याणि सिध्यन्ति स्थावराणि चराणि च ॥
असाक्षिके चिरकृते पृच्छेद् उत्तरसाक्षिणः ।
शपथैर् वानुयुञ्जीत उपधां वा प्रयोजयेत् ॥
देशनाप्रतिघातं च युक्तिलेशस् तथैव च ॥
चोरापहृतं तु सर्वेभ्यो ऽन्विष्य अर्पणीयं ।
अलाभे स्वकोशाद् वा अददच् चोरकिल्बिषी स्यात् ॥
मूल पाठ: Bṛhaspatismṛti (vyavahārakaṇḍa) · Edition: K. V. Rangaswami Aiyangar Bṛhaspatismṛti (Reconstructed) Baroda Oriental Institute Gaekwad Oriental Series 85 · Data entry Yasuke Ikari Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0