बृहस्पतिस्मृति · अध्याय 1.6
साक्षिणाम् एष निर्दिष्टः संख्यालक्षणनिश्चयः ।
लिखितस्याधुना वच्मि विधानम् अनुपूर्वशः ॥
ऋणादिके ऽपि समये भ्रान्तिः संजायते यतः ।
धात्राक्षराणि सृष्टानि पत्रारूढान्य् अतः पुरा ॥
देशाचारहुतं वर्ष मासपक्षादिवृद्धिमत् ।
ऋणिसाक्षिलेखकानं हस्ताङ्कं लेख्यम् उच्यते ॥
राजलेख्यं स्थानकृतं स्वहस्तलिखितं तथा ।
लेख्यं तत् त्रिविधं प्रोक्तं भिन्नं तद् बहुधा पुनः ॥
भागदानक्रयाधिनां संविद्दासऋणादिभिः ।
सप्तधा लौकिकं लेख्यं त्रिविधं राजशासनम् ॥
विभागपत्रम् इत्य् एतद् भागानां निर्णये कृतम् ।
सीमाविवादे निर्णीते सीमापत्रम् इति स्मृतम् ॥
दानलेख्यं भागलेख्यं सीमालेख्यं तथैव च ।
क्रयलेख्यं दासलेख्यम् आधिलेख्यं ततः परम् ॥
संविदुद्दाम्लेख्यं च जयपत्रकम् एव च ।
सन्धिपत्रं तथैवैतत् क्रियाभेदाद् अनेकधा ॥
आध्यर्थम् आधिलेख्यं स्याद् दासार्थं दासपत्रकम् ॥
समीहितार्थसिद्ध्यर्थं ग्रामश्रेणिगणादिभिः ।
शास्त्राविरोधि धर्मार्थे कृतं संवित्तिपत्रकम् ॥
भ्रातरः संविभक्ता ये स्वरुच्या तु परस्परम् ।
विभागपत्रं कुर्वन्ति भागलेख्यं तद् उच्यते ॥
भूमिं दत्त्वा यस् तु पत्रं कुर्याच् चन्द्रार्ककालिकम् ।
अनाच्छेदाम् अनाहार्यं दानलेख्यं तु तद् विधुः ॥
गृहक्षेत्रादिकं क्रीत्वा तुल्यमूल्याक्षरान्वितम् ।
पत्रं कारयते यत् तु क्रयलेख्यं तद् उच्यते ॥
जङ्गमं स्थावरम् बन्धं दत्त्वा लेख्यं करोति यत् ।
गोप्यभोग्यक्रियायुक्तम् आधिलेख्यं तु तत् स्मृतम् ॥
ग्रामो देशश् च यत् कुर्यान् मत्तलेख्यं परस्परम् ।
राजाविरोधि धर्मार्थे संवित्पत्रं वदन्ति तत् ॥
वस्त्रान्नहीनः कान्तारे लिखितं कुरुते तु यत् ।
कर्माहं ते करिष्यामि दासपत्रं तद् इष्यते ॥
धनं वृध्या गृहीत्वा तु स्वयं कुर्याच् च कारयेत् ।
उद्धारपत्रं तत् प्रोक्तम् ऋणलेख्यं मनीषिभिः ॥
पूगश्रेणिगणादीनां या स्थितिः परिकीर्तिता ।
तस्यास्तु साधनं लेख्यं न दिव्यं न च साक्षिणः ॥
पूगश्रेण्यादिकानां तु समयस्य स्थितेः कृतम् ।
स्थितिपत्रं तु तत् प्रोक्तं मन्वादिस्मृतिवेदिभिः ॥
दत्त्वा भ्य्य्म्यादिकं राजा ताम्रपत्रे पटे ऽथ वा ।
शासनं कारयेद् धर्मं स्थानवंशादिसंयुतम् ॥
मातापित्रोर् आत्मनश् च पुण्यायामुकसूनवे ।
दत्तं मयामुकायाद्य दानं सब्रह्मचारिणे ॥
अनाच्छेद्यम् अनाहार्यं सर्वं भाव्यविवर्जितम् ।
चन्द्रार्कसमकालीनं पुत्रपौत्रान्वयानुगम् ॥
दातुः पालयितुः स्वर्गं हर्तुर् नरकम् एव च ।
षष्टिवर्षसहस्राणि दानच्छेदफलं लिखेत् ॥
समुद्रावर्षमासादि धनाध्यक्षाक्षरान्वितम् ।
ज्ञातं मयेति लिखितं सन्धिविग्रहलेखकैः ॥
एवंविधं राजकृतं शासनं तद् उदाहृतम् ।
देशादिकं यस्य राजा लिखितं तु प्रयच्छति ॥
सेवाशौर्यादिना तुष्टः प्रसादलिखितं हि तत् ।
पूर्वोत्तरक्रियावाद निर्णयान्ते यदा नृपः ।
प्रदद्याज् जयिने लेख्यं जयपत्रं तद् उच्यते ॥
यद् वृत्तं व्यवहारे तु पूर्वपक्षोत्तरादिकम् ।
क्रियावदधारणोपेतं जयपत्रो ऽखिलं लिखेत् ॥
साधयेत् साध्यम् अर्थं तु चतुष्पादन्वितं जये ।
राजमुद्रान्वितं चैव जयपत्रकम् इष्यते ॥
अन्यवाद्यादिहीनेभ्य इतरेषाम् प्रदीयते ।
वृत्तानुवादसंसिद्धं तच् च स्याज् जयपत्रकम् ॥
मुमूरुषुहीनलुप्तार्थैर् उन्मातव्यसनातुरैः ।
विषोपधिबलात् कार कृतं लेख्यं न सिध्यति ॥
दूषितो गर्हितः साक्षी यत्रैको विनिवेशितः ।
कूटलेख्यं तु तत् प्राह लेखको वापि तादृशः ॥
यद् उज्वलं चिरकृतं मलिनं स्वल्पकालिकम् ।
भग्नं म्लिष्ताक्षरयुतं लेख्यं कूटत्वम् आप्नुयात् ॥
दर्पणस्थं यथा बिम्बम् असत् सद् इव दृश्यते ।
तथा लेख्यसबिम्ब् आनि कुर्वन्ति कुशला जनाः ॥
तथ्येन हि प्रमाणं तु दोषेणैव तु दूषणम् ।
एवं दुष्टं नृपस्थाने यस्मिंस् तद् धि विचार्यते ॥
विमृश्य ब्राह्मणैः सार्धं वक्तृदोषं निरूपयेत् ॥
येन ते कूटतां यान्ति साक्षिलेखककारकाः ।
तेन दुष्टं भवेल् लेख्यं शुद्धैः शुद्धं विनिर्दिशेत् ॥
दत्तं लेख्ये स्वहस्तं तु ऋणिको यदि निह्नुते ।
पत्रस्थैः साक्षिभिर् वाचा लेखकस्य मतेन च ॥
स्थानभ्रष्टास् त्व् अकान्तिस्थाः संदिग्धा लक्षणच्युताः ।
यत्रैवं स्युः स्थिता वर्णा लेख्यं दुष्टं तदा भृगुः ॥
उद्धरेल् लेख्यम् आहर्ता तत्पुत्रो भुक्तिम् एव तु ।
अभियुक्तः प्रमीतश् चेत् तत्पुत्रस् तत् समुद्धरेत् ॥
ज्ञात्वा कार्यं देशकाल कुशलाः कूटकारकाः ।
कुर्वन्तिसदृशं लेख्यं तद् यत्नेन विचारयेत् ॥
लेख्यम् आलेख्यवत् केचिल् लिखन्ति कुशला जनाः ।
तस्मान् न लेख्यसामर्थ्यात् सिद्धिर् ऐकान्तिकी मता ॥
स्त्रीबालार्तान् लिप्यविज्ञान् वञ्चयन्ति स्वबान्धवाः ।
लेख्यं कृत्वा स्वनामाङ्कं ज्ञेयं युक्त्यागमैस् तु तत् ॥
त्रिविधस्यास्य लेख्यस्य भ्रान्तिः संजायते यदा ।
ऋणिसाक्षिलेखकानां हस्तोक्त्या शोधयेत् ततः ॥
उद्यामम् उदयादानाद् आधानं फलसंग्रहात् ।
प्रतियोगिधनाढ्यत्वाज् ज्ञेयं यत्रोपधिः कृतः ॥
दर्शितं प्रतिकालं यच् छ्रावितं स्मारितं च यत् ।
लेख्यं सिध्यति सर्वत्र मृतेष्व् अपि हि साक्षिषु ॥
वाचकैर् यत्र सामर्थ्यम् अक्षराणां विहन्यते ।
क्रियाणां सर्वनाशः स्याद् अनवस्था च जायते ॥
लेख्यं त्रिंशत् समातीतम् अदृष्टाश्रावितं च यत् ।
न तत्सिद्धिम् अवाप्नोति तिष्ठत्स्व् अपि हि साक्षिषु ॥
प्रयुक्ते शान्तलाभे तु लिखितं यो न दर्शयेत् ।
न याचते च ऋणिकं तत् संदेहम् अवाप्नुयात् ॥
कुलश्रेणिगणादीनां यथाकालं प्रदर्शितम् ।
श्रावयेत् स्मारयेच् चैव तथा स्याद् बलवत्तरम् ॥
यदि लब्धं भवेत् किञ् चित् प्रज्ञप्तिर् वा तथा भवेत् ।
प्रमाणम् एव लिखितं मृता यद्य् अपि साक्षिणः ॥
आढ्यस्य निकटस्थस्य यच् छक्तेन न याचितम् ।
शुद्धर्णाशङ्कया तत्र लेख्यं दुर्बलताम् इयात् ॥
उन्मत्तजडबलानां राजभीतप्रवासिनाम् ।
अप्रगल्भभयार्तानां न लेख्यं हानिम् आप्नुयात् ॥
अथ पञ्चत्वम् आपन्नो लेखकः साक्षिभिः सह ।
तत् स्वहस्तादिभिस् तेषाम् विशुध्यते न संशयः ॥
ऋणिस्वहस्तसंदेहे जीवतो वा मृतस्य वा ।
तत्स्वहस्तकृतैर् अन्यैः पत्रैस् तल्लेख्यनिऋणयः ॥
लेख्ये संशयम् आपन्ने साक्षिलेखककर्तृभिः ।
दुष्टेषु तेषु तद्धस्त कृतपूर्वाक्षरादिभिः ॥
न जातु हीयते लेख्यं साक्षिभिः शपथेन वा ।
अदर्शनाश्राविताभ्यां हानिं प्राप्नोत्य् उपेक्षया ॥
अतः परीक्ष्यम् उभयम् एतद् राज्ञा विशेषतः ।
एकम् एव भवेल् लेख्यम् एकस्यार्थस्य सिद्धये ॥
अनेकेषु तु लेख्येषु दोषम् उत्पादयेद् अपि ।
देशाचारविरुद्धं यत् संदिग्धं क्रमवर्जितम् ।
कृतम् अस्वामिना यच् च साध्यहीनं च दुष्यति ॥
मूल पाठ: Bṛhaspatismṛti (vyavahārakaṇḍa) · Edition: K. V. Rangaswami Aiyangar Bṛhaspatismṛti (Reconstructed) Baroda Oriental Institute Gaekwad Oriental Series 85 · Data entry Yasuke Ikari Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0