भाषा

ENहिગુ
ग्रंथ पाठ

बृहस्पतिस्मृति · अध्याय 1.8

1.8.1

स्थावरस्य तथाख्यातं लाभभोगप्रसाधनम् ।
प्रमाणहीने वादे तु निर्दोषा दैविकी क्रिया ॥

1.8.2

प्रदुष्टेष्व् अनुमानेषु दिव्यैः कार्यं विशोधयेत् ।
धटाद्या धर्मजान्ता च दैवी नवविधा स्मृता ॥

1.8.3

धटो ऽग्निर् उदकं चैव विषं कोशश् च पञ्चमम् ।
षष्ठं च तण्डुलाः प्रोक्तं सप्तमं तप्तमाषकः ॥

1.8.4

अष्टमं कालम् इत्य् उक्तं नवमं धर्मकं तथा ।
दिव्येनायाति सर्वाणि निर्दिष्टानि स्वयम्भुवा ॥

1.8.5

यस्माद् देवैः प्रयुक्तानि दुष्करार्थे महात्मभिः ।
अहम् उद्देशतां वच्मि संदिग्धार्थविशुद्धये ।
देशकालार्थसंख्याभिः प्रयुक्तान्य् अनुपूर्वशः ॥

1.8.6

अपराधानुपूर्व्येण साध्वसाधुविवक्षया ।
शास्त्रोदितेन विधिना प्रदातव्यानि नान्यथा ॥

1.8.7

ऋणादिकेषु कार्येषु विसंवादे परस्परम् ।
द्रव्यसंख्यान्विता देया पुरुषापेक्षया तथा ॥

1.8.8

लोके संव्यवहारार्थं संज्ञेयं कथिता भुवि ।
ताम्रकर्षकृता मुद्रा विज्ञेयः कार्षिकः पणः ॥

1.8.9

निष्कं सुवर्णाश् चत्वारः कार्षिकस् ताम्रिकः पणः ।
ताम्रकर्षकृता मुद्रा विज्ञेयः कार्षिकः पणः ॥

1.8.10

स एव चान्द्रिका प्रोक्ता ताश् चतस्रस् तु धानकाः ।
ता द्वादश सुवर्णस् तु दीनाराख्यः स एव तु ॥

1.8.11

कार्षापणसहस्रं तु दण्ड उत्तमसाहसः ।
तदर्धं मध्यमः प्रोक्तस् तदर्धम् अधमः स्मृतः ॥

1.8.12

ब्राह्मणस्य धटो देयः क्षत्रियस्य हुताशनः ।
वैश्यस्य सलिलं देयं शूद्रस्य विषम् एव तु ॥

1.8.13

साधारणः समस्तानाम् कोशः प्रोक्तो मनीषिभिः ॥

1.8.14

स्नेहात् क्रोधाल् लोभतो वा भेदम् आयान्ति साक्षिणः ।
विधिदत्तस्य दिव्यस्य न भेदो जायते क्वचित् ॥

1.8.15

यथोक्तविधिना देयं दिव्यं दिव्यविशारदैः ।
अयथोक्तं प्रदत्तं चेन् न दत्तं साध्यसाधने ॥

1.8.16

अदेशकालदत्तानि बहिर्वादिकृतानि च ।
व्यभिचारं सदार्थेषु कुर्वन्तीह न संशयः ॥

1.8.17

अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ।
रुच्या चान्यतरः कुर्याद् इतरो वर्तयेच् छिरः ॥

1.8.18

विनापि शीर्षकं कुर्यान् नृपद्रोहे च पातके ।
दिव्यप्रदानम् उदितम् अन्यत्र नृपशासनात् ।
न कश् चिद् अभियोक्तारं दिव्येष्व् एवं नियोजयेत् ॥

1.8.19

धरोद्ध्रुवस् तथा सोम आपश् चैवानिलो ऽनलः ।
प्रत्यूषश् च प्रभासश् च वसवो ऽष्टौ प्रकीर्तिताः ॥

1.8.20

देवेशेशानयोर् मध्य आदित्यानां तथायनम् ।
धातार्यमा च मित्रश् च वरुणो ऽंशो भगस् तथा ॥

1.8.21

इन्द्रो विवस्वान् पूषा च पर्जन्यो दशमः स्मृतः ।
ततस् त्वष्टा ततो विष्णुर् अजघन्यो जघन्यजः ॥

1.8.22

इत्य् एते द्वादशादित्या नामभिः परिकीर्तिताः ।
अग्नेः पश्चिमभागे तु रुद्राणाम् अयनं विदुः ।
वीरभद्रश् च शम्भुश् च गिरीशश् च महायशाः ॥

1.8.23

अजेकपाद् अजैकपाद् अहिर्बुध्न्या पिनाकी चाप्राजितः ॥

1.8.24

भुवनाधिश्वराश् चैव कपाली च विशांपतिः ।
स्थाणुर् भगश् च भगवान् रुद्राश् चैकादश स्मृताः ॥

1.8.25

प्रेतेशरक्शसोर् मध्ये मातृस्थानम् प्रकल्पयेत् ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥

1.8.26

वाराही चैव माहेन्द्री चामुण्डा गणसंयुता ।
निरृतेर् उत्तरे भागे गणेशायतनं विदुः ॥

1.8.27

वरुणस्योत्तरे भागे मरुतां स्थानम् उच्यते ।
श्वसनः स्पर्शनो वायुर् अनिलो मारुतस् तथा ॥

1.8.28

संख्या रश्मिर् अजोमूला मनुना समुदाहृता ।
कार्षापणान्ता सा दिव्ये नियोज्या विनयेत् तथा ॥

1.8.29

विषम् सहस्रे ऽपहृते पादोने च हुताशनः ।
त्रिपादोने च सलिलम् अर्धे देयो धटः सदा ॥

1.8.30

चतुःशताभियोगे च दातव्यस् तप्तमाषकः ।
त्रिशते तण्डुला देयाः कोशश् चैव तदर्धके ॥

1.8.31

शते हृते ऽपहृते च दातव्यं धर्मशोधनम् ।
गोचौरस्य प्रदातव्यं सभ्यैः फालः प्रयत्नतः ॥

1.8.32

यवार्धिकस्य वा नाशे तदर्धस्य च तण्डुलाः ।
ततो ऽर्धार्धार्धनाशे च लौकिकी च क्रिया मता ॥

1.8.33

सतां वाहनशस्त्राणि गोबीजकनकानि च ।
देवब्राह्मणपादाश् च पुत्रदारशिरांसि च ॥

1.8.34

एते च शपथाः प्रोक्ताः अल्पार्थे सुकराः सदा ।
साहसेष्व् अभिशापेषु दिव्यान्य् आहुर् विशोधनम् ॥

1.8.35

ब्रूहीति ब्राह्मणं ब्रूयात् सत्यं ब्रूहीति पार्थिवम् ।
गोबीजकाञ्चनैर् वैश्यं शूद्रं सर्वैश् च पातकैः ॥

1.8.36

सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः ।
गोरक्षकान् वाणिजकांस् तथाकारुकुशीलवान् ।
प्रेष्यान् वार्धुषिकांश् चैव विप्राञ् शूद्रवद् आचरेत् ॥

1.8.37

ये ऽप्य् अपेताः स्वधर्मेभ्यः परपिण्डोपजीविनः ।
द्विजत्वम् अभिकाङ्क्षन्ते तांश् च शूद्रवद् आचरेत् ॥

1.8.38

वर्णानुरूपैः शपथैः शपनीयं पृथक् पृथक् ॥

1.8.39

कामिनीषु विवाहेषु गवां भुक्ते तथेन्धने ।
ब्राह्मणाभ्यवपत्तौ च शपथे नास्ति पातक्ः ॥

1.8.40

सभान्तर्स्थैर् वक्तव्यं साक्स्यं नान्यत्र साक्षिभिः ।
सर्वसाक्ष्येष्व् अयं धर्मो ह्य् अन्यत्र स्थावरेषु च ॥

1.8.41

वधे चेत् प्राणिनाम् साक्स्यं वादयेच् छवसंनिधौ ।
तदभावे तु चिह्नस्य नान्यथैव विवादयेत् ॥

1.8.42

नापृष्टैर् अनियुक्तैर् वा समं सत्यं प्रयत्नतः ।
वक्तव्यं साक्षिभिः साक्ष्यं विवादस्थानम् आगतैः ॥

1.8.43

स्वभावोक्तं वचस् तेषां ग्राह्यं यद् दोषवर्जितम् ।
उक्ते तु साक्षिणो राज्ञा न पृष्टव्याः पुनः पुनः ॥

1.8.44

साक्षिसभ्यावसन्नानां नैव पौनर्भावो विधिः ॥

1.8.45

सप्तर्षयस् तथेन्द्राद्याः पुष्करर्थे तपोधनाः ।
शेपुः शपथम् अव्यग्राः परस्परविशुद्धये ॥

1.8.46

सप्ताहे वा द्विसप्ताहे न विपद्राजदैविकी ।
बान्ध्ववेषु सपिण्डेषु धनेषु शपथैः शुचिः ॥

1.8.47

अशेषमानुषाभावे दिव्येनैव विनिर्णयः ।
संभवे साक्षिणां प्राज्ञो दैविकीं तु विवर्जयेत् ॥

1.8.48

एवम् संख्या निकृष्टानाम् मध्यानां द्विगुणा स्मृता ।
चतुर्गुणोत्तमानां तु कल्पनीया परीक्षकैः ॥

1.8.49

धटे ऽभियुक्तस् तुलितो हीनश् चेद् धानि आप्नुयात् ।
तत्समस् तु पुनस् तुल्यो वर्धितो विजयी भवेत् ॥

1.8.50

शिक्यच्छेदे ऽक्षभङ्गे वा दयाच् छिक्यं पुनर् नृपः ।
साक्षिणो ब्राह्मणाः श्रेष्ठा यथादृष्टार्थवादिनः ॥

1.8.51

ज्ञातिनः शुचयो लुब्धाः नियोक्तव्या नृपेण तु ।
तेषां वचनतो गम्यः शुध्यशुद्धिविनिर्णयः ॥

1.8.52

कक्षच्छेदे तुलाभङ्गे धटकर्कटयोस् तथा ।
रज्जुच्छेदे ऽक्षभङ्गे वा तथैवाशुद्धिम् आप्नुयात् ॥

1.8.53

अग्नेर् विधिं प्रवक्ष्यामि यथावद् विधिचोदितम् ।
कारयेन् मण्डलान्य् अष्टौ पुरस्तान् नवमे तथा ॥

1.8.54

आग्नेयं मण्डलं त्व् आद्यं द्वितीयं वारुणं स्मृतम् ।
तृतीयं वायुदैवत्यं चतुर्थं यमदैवतम् ॥

1.8.55

पञ्चमं त्व् इन्द्रदैवत्यं षष्ठं कौबेरम् उच्यते ।
सप्तमं सोमदैवत्यम् अस्टमं सर्वसूर्यदैवतम् ॥

1.8.56

पुरस्तान् नवमं यत् तु तन् महत् पार्थिवम् विदुः ।
गोमयेन कृतानि स्युर् अद्भिः पर्युषितानि च ॥

1.8.57

द्वात्रिंशद् अङ्गुलान्य् आहुर् मण्डलान् मण्डलान्तरम् ।
कर्तुः समपदं कार्यं मण्डलं तु प्रमाणतः ॥

1.8.58

शरप्रक्षेपणस्थानाद् युवा जवसमन्वितः ।
गच्छेत् परमया शक्त्या यत्रासौ मध्यमः शरः ॥

1.8.59

मध्यमं शरम् आदाय पुरुषो ऽन्यस् तथाविधः ।
प्रत्यागच्छेत् तु वेगेन यतः स पुरुषो गतः ॥

1.8.60

आगन्तस् तु शरग्राही न पश्यति यदा जले ।
अन्तर्जलगतं सम्यक् तदा शुद्धिम् विनिर्दिशेत् ॥

1.8.61

आनीते मध्यमे बाणे मग्नाङ्गः शुचिताम् इयात् ।
अन्यथा न विशुद्धः स्याद् एकाङ्गस्यापि दर्शनात् ।
स्थानाद् वान्यत्र गमनाद् यस्मिन् पूर्वं निवेशयेत् ॥

1.8.62

अप्सु प्रवेश्य पुरुसं प्रेषयेत् सायकत्रयम् ।
इषूउन् न निक्षिपेद् विद्वान् मारुते वाति वै भृशम् ॥

1.8.63

विषमे भूप्रदेशे च वृक्षस्थाणुसमाकुले ।
तृणगुल्मलतावल्ली पङ्कपाषाणसंयुते ॥

1.8.64

विधिदत्तं विषं येन जीर्णं मन्त्रौषधं विना ।
स शुद्धः स्याद् अन्यथा तु दण्ड्यो दाप्यश् च तद्धनम् ॥

1.8.65

सप्ताहाद् वा द्विसप्ताहाद् यस्य हानिर् न जायते ।
पुत्रदारधनानां च स शुद्धः स्यान् न संशयः ॥

1.8.66

यद् भक्तः सो ऽभियुक्तः स्यात् तद् एवायुधमण्डलम् ।
प्रक्षाल्य पाययेत् तस्माज् जलात् तु प्रसृतित्रयम् ॥

1.8.67

त्रिरात्रं पञ्चरात्रम् वा पुरुषैः स्वैर् अधिष्थितम् ।
निरुद्धं चारयेत् तत्र कुहकाशङ्कया नृपः ॥

1.8.68

महाभियोगे निर्धर्मे कृतघ्ने क्लीबकुत्सिते ।
नास्तिके दृष्टदोषे च कोशपानं विसर्जयेत् ॥

1.8.69

दिव्यानि वर्जयेन् नित्यम् आर्तानां तु गदैर् नृणाम् ।
तण्डुलैर् नाभियुञ्जीत प्रजानां मुखरोगिणाम् ॥

1.8.70

सोपवासः सूर्यग्रहे तण्डुलान् भक्षयेच् छुचिः ।
शुद्धः स्याच् छुक्लनिष्ट्ःईवे विपरीते तु दोषभाक् ॥

1.8.71

शोणितं दृश्यते यत्र हनुस् तालु च शीर्यतः ।
गात्रं च कम्पते यस्य तम् अशुद्धम् विनिर्दिशेत् ॥

1.8.72

समुद्धरेत् तैल्घृतात् सुतप्तात् तप्तमाषकम् ।
अङ्गुष्ठाङ्गुलियोगेन सत्यम् आमन्त्र्य वीतभीः ॥

1.8.73

सौवर्णे राजते ताम्रे आयसे मृण्मये ऽपि वा ।
गव्यं घृतम् उपादाय तद् अग्नौ तापयेच् छुचिः ॥

1.8.74

सौवर्णीं राज्तीं ताम्रीम् आयसीं वा सुशोभनाम् ।
सलिलेन सकृद्धौतां प्रक्षिपेत् तत्र मुद्रिकाम् ॥

1.8.75

भ्रमद्वीरीतरङ्गाढ्ये ह्य् अनखस्पर्शगोचरे ।
परीक्षेद् आर्द्रपर्णेन चरुकारं सघोषकम् ॥

1.8.76

ततश् चानेन मन्त्रेण सकृत् तद् अभिमन्त्रयेत् ।
परं पवित्रम् अमृतं घृत त्वं यज्ञकर्मसु ॥

1.8.77

दह पावक पापं त्वं हिमशीतोतः शुचौ भव ।
उपोषितं ततः स्नातम् आर्द्रवाससम् आगतम् ।
ग्राहयेन् मुद्रिकां तां तु घृतमध्यगतां तथा ॥

1.8.78

प्रदेशिनीं च तस्याथ परीक्षेयुः परीक्षकाः ।
कराग्रं यो नु धुनुयात् विस्फोटो वा न जायते ।
शुद्धो भवति धर्मेण पितामहवचो यथा ॥

1.8.79

आयसं द्वादशपलं घटितं फालम् उच्यते ।
अदग्धश् चेच् छुद्धिम् इयाद् अन्यथा त्व् अपहीयते ॥

1.8.80

अष्टाङ्गुलं भवेद् दीर्घं चतुरङ्गुलविस्तृतम् ।
अग्निवर्णं तु तच् चोरो जिह्वया लेलिहेत् सकृत् ।
न दग्धश् चेच् छुद्धिम् इयाद् अन्यथा तु स हीयते ॥

1.8.81

गोचरस्य प्रदातव्यं सभ्यैः फालं प्रयत्नतः ।
महाभियोगेष्व् एतानि शीर्सकस्थे ऽभियोक्तरि ॥

1.8.82

पत्त्रद्वये लेखनीयौ धर्माधर्मौ सितासितौ ।
जीवदानादिभिर् मन्त्रैः गायत्र्याद्यैश् च सामभिः ॥

1.8.83

आमन्त्र्य पूजयेद् गन्धैः कुसुमैश् च सितासितैः ।
अभ्युक्ष्य पञ्चगव्येन मृत्पिण्डान्तरितौ ततः ॥

1.8.84

समौ कृत्वा तु तौ कुम्भे स्थाप्यौ चानुपलक्षितौ ।
ततः कुम्भात् पिण्डम् एकं प्रगृह्णीताविलम्बितः ॥

1.8.85

धर्मे गृहीते शुद्धः स्यात् स पूज्यश् च परीक्षकैः ।
अधर्मे संगृहीते तु दण्ड्यो निर्वास्य एव वा ॥

1.8.86

लिखेद् भूर्जपटे वापि धर्माधर्मौ सितासितौ ।
अभ्युक्ष्य पञ्चगव्येन गन्धमाल्यैः समर्चयेत् ॥

1.8.87

सितपुष्पस् तु धर्मः स्याद् अधर्मो ऽसितपुष्पधृत् ।
एवं विधायोपलिप्य पिण्डयोस् तानि धापयेत् ॥

1.8.88

गोमयेन मृदा वापि पिण्डौ कार्यौ समौ ततः ।
मृद्भाणके ऽनुपहते स्थाप्यौ चानुपलक्षितौ ॥

1.8.89

उपलिप्ते शुचौ देशे देवब्राह्मणसंनिधौ ।
समर्चयेत् ततो देवान् लोकपालांश् च पूर्ववत् ॥

1.8.90

धर्मावाहनपूर्वं तु प्रतिज्ञापत्त्रकं लिखेत् ।
यदि पापविमुक्तो ऽहं धर्मश् चायातु मे करे ॥

1.8.91

अभिशस्तस् तयोश् चैकं प्रगृह्णीताविलम्बितः ।
धर्मे गृहीते शुद्धिः स्याद् अधर्मे तु स हीयते ॥

1.8.92

एवं विचारयन् राजा धर्मार्थाभ्यां न हीयते ॥

मूल पाठ: Bṛhaspatismṛti (vyavahārakaṇḍa) · Edition: K. V. Rangaswami Aiyangar Bṛhaspatismṛti (Reconstructed) Baroda Oriental Institute Gaekwad Oriental Series 85 · Data entry Yasuke Ikari Akihiko Akamatsu · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc