ब्रह्मवैवर्त पुराण · अध्याय 4.9
नारद उवाच ॥
संस्थाप्य गोकुले कृष्णं यशोदामंदिरं वसुः ॥
जगाम स्वगृहं नन्दः किं चकार महां प्रभुः
किञ्चकार हरिस्तत्र कतिवर्षस्थितिः प्रभोः ॥
बालक्रीडनकं तस्य वर्णय क्रमशो मुने
पुरा कृता या प्रतिज्ञा गोलोके राधया सह ॥
तत्कृतं केन विधिना प्रतिज्ञापालनं हरेः
कीदृग्वृन्दावनं नाम मण्डलं किंविधं वद ॥
रासक्रीडां जलक्रीडां संव्यस्य वर्णय प्रभो
नन्दस्तपः किञ्चकार यशोदा चाथ रोहिणी ॥
हरेः पूर्वं च हलिनः कुत्र जन्म बभूव ह ॥
पीयूषखंडमाख्यानमपूर्वं श्रीहरेः स्मृतम् ॥
विशेषतः कविमुखान्नव्यं नूनं पदे पदे
स्वरासमण्डलक्रीडां वर्णय स्वयमेव च ॥
परोक्षवर्णनात्काव्यं प्रशस्तं नव्यवर्णनम्
श्रीकृष्णांशो भवान्साक्षाद्योगींद्राणां गुरोर्गुरुः ॥
यो यस्यांशः स च जनस्तस्यैव सुखतः सुखी
त्वयैव वर्णितौ पादौ विलीनौ तु युवां हरेः ॥
साक्षाद्गोलोकनाथांशस्त्वमेव तत्समो महान्
॥ नारायण उवाच ॥ ॥
ब्रह्मेशशेषविघ्नेशाः कूर्मो धर्मोऽहमेव च ॥
नरश्च कार्त्तिकेयश्च श्रीकृष्णांशा वयं नव
अहो गोलोकनाथस्य महिमा केन वर्ण्यते ॥
यं स्वयं नो विजानीमो न वेदाः किं विपश्चितः
सूकरो वामनः कल्किर्बौद्धः कपिलमीनकौ ॥
एते चांशाः कलाश्चान्ये संत्येव कतिधा मुने
कूर्मो नृसिंहो रामश्च श्वेतद्वीपविराड्विभुः ॥
परिपूर्णतमः कृष्णो वैकुण्ठे गोकुले स्वयम् ॥
वैकुण्ठे कमलाकांतो रूपभेदाच्चतुर्भुजः ॥
गोलोके गोकुले राधाकांतोऽयं द्विभुजः स्वयम्
अस्यैव तेजो नित्यं च चित्ते कुर्वंति योगिनः ॥
भक्ताः पादाम्बुजं तेजः कुतस्तेजस्विनं विना
शृणु विप्र वर्णयामि यशोदानन्दयोस्तपः ॥
रोहिण्याश्च यतो हेतोर्ददृशुस्ते हरेर्मुखम्
वसूनां प्रवरो नन्दो नाम्ना द्रोणस्तपोधनः ॥
तस्य पत्नी धरा साध्वी यशोदा सा तपस्विनी
रोहिणी सर्पमाता च कद्रूश्च सर्पकारिणी ॥
एतेषां जन्मचरितं निबोध कथयामि ते
एकदा च धरा द्रोणौ पर्वते गन्धमादने ॥
पुण्यदे भारते वर्षे गौतमाश्रमसन्निधौ
चक्रतुश्च तपस्तत्र वर्षाणामयुतं मुने ॥
श्रीकृष्णदर्शनार्थं च निर्जने सुप्रभातटे
न ददर्श हरिं द्रोणो धरा चैव तपस्विनी ॥
कृत्वाग्निकुंडं वैराग्यात्प्रवेष्टुं समुपस्थितौ
तौ मर्तुकामौ दृष्ट्वा च वाग्बभूवाशरीरिणी ॥
द्रक्ष्यथः श्रीहरिं पृथ्व्यां गोकुले पुत्ररूपिणम्
जन्मांतरे वसुश्रेष्ठ दुर्दर्शं योगिनां विभुम्॥
ध्यानासाध्यं च विदुषां ब्रह्मादीनां च वंदितम्
श्रुत्वैवं तद्धराद्रोणौ जग्मतुः स्वालयं सुखात् ॥
लब्ध्वा तु भारते जन्म दृष्टं ताभ्यां हरेर्मुखम्
यशोदानंदयोरेवं कथितं चरितं तव ॥
सुगोप्यं त्रिदशानां च रोहिणीचरितं शृणु
एकदा देवमाता च पुष्पोत्सवदिने सती ॥
विज्ञापनं चरद्वारा चकार कश्यपं मुने
सुस्नाता सुंदरी देवी रत्नालंकार भूषिता ॥
चकार वेषं विविधं ददर्श दर्पणे मुखम्
कस्तूरीबिंदुना सार्द्धं सिंदूरबिंदुसंयुतम् ॥
रत्नकुंडलशोभाढ्यं पत्राभरणभूषितम्
गजमौक्तिकसंयुक्तं नासाग्रं सुमनोहरम् ॥
शरत्पार्वणचंद्रास्यं शरत्पंकजलोचनम्
वक्रभ्रूभंगिना युक्तं विचित्रकज्जलोज्ज्वलम् ॥
पक्वदाडिमबीजाभदंतपंक्तिविराजितम्
पक्वबिंबाधरौष्ठं च सस्मितं सुंदरं सदा ॥
अतीव कमनीयं च मुनींद्रचित्तमोहनम्
एवंभूतं मुखं दृष्ट्वा सुंदरी स्वगृहे स्थिता ॥
पश्यंती पतिमार्गं च कामबाणप्रपीडिता
शुश्राव वार्तामदितिः कश्यपं कद्रुसंयुतम् ॥
रत्नसारसमारंभे तस्या वक्षस्थले स्थितम्
श्रुत्वा चुकोप साध्वी सा हताशा रतिकातरा ॥
न शशाप पतिं प्रेम्णा शशाप सर्पमातरम्
न देवालययोग्या सा धर्मिष्ठा धर्मनाशिनी ॥
दूरं गच्छतु स्वर्लोकादात्मयोनिं च मानवीम्
श्रुत्वैवं सा चरद्वारा शशाप देवमातरम् ॥
सा चैवं मानवीं योनिं यातु मर्त्ये जरायुताम्
कश्यपो बोधयामास कद्रुं च सर्पमातरम् ॥
काले यास्यसि मर्त्यं च मया सह शुचिस्मिते
त्यज भीतिं लभ सुखं द्रक्ष्यसि श्रीहरेर्मुखम्॥
एवमुक्त्वा कश्यपश्च जगाम चादितेर्गृहम्
वांछां पूर्णां च तस्याश्च चकार भगवान्विभुः ॥
ऋतौ तत्र महेंद्रश्च बभूव च सुरर्षभः
अदितिर्देवकी चैव सर्पमाता च रोहिणी ॥
कश्यपो वसुदेवश्च श्रीकृष्णजनको महान्
रहस्यं गोपनीयं च सर्वं निगदितं मुने ॥
अधुना बलदेवस्य जन्माख्यानं मुने शृणु
अनंतस्याप्रमेयस्य सहस्रशिरसः प्रभोः ॥
रोहिणी वसुदेवस्य भार्यारत्नं च प्रेयसी
जगाम गोकुलं साध्वी वसुदेवाज्ञया मुने ॥
संकर्षणस्य रक्षार्थं कंसभीता पलायिता
देवक्याः सप्तमं गर्भं माया कृष्णाज्ञया तदा ॥
रोहिण्या जठरे तत्र स्थापयामास गोकुले
संस्थाप्य च तदा गर्भं कैलासं सा जगाम ह ॥
दिनांतरे कतिपये रोहिणी नंदमंदिरे
सुषाव पुत्रं कृष्णांशं तप्तरौप्याभमीश्वरम् ॥
ईषद्धास्यं प्रसन्नास्यं ज्वलंतं ब्रह्मतेजसा
तस्यैव जन्ममात्रेण देवा मुमुदिरे तदा ॥
स्वर्गे दुंदुभयो नेदुरानका मुरजादयः
जयशब्दं शंखशब्दं चक्रुर्देवा मुदान्विताः ॥
नंदो हृष्टो ब्राह्मणेभ्यो धनं बहुविधं ददौ
चिच्छेद नाडीं धात्री च स्नापयामास बालकम् ॥
जयशब्दं जगुर्गोप्यः सर्वाभ रणभूषिताः
परपुत्रोत्सवं नंदश्चकार परमादरात् ॥
तदा यशोदा गोपीभ्यो ब्राह्मणेभ्यो ददौ मुदा
धनानि नानावस्तूनि तैलं सिंदूरमेव च ॥
इत्येवं कथितं वत्स यशोदानंदयोस्तपः
जन्माख्यानं च हलिनो रोहिणीचरितं तथा ॥
अधुना ते वांछनीयं नंदपुत्रोत्सवं शृणु
सुखदं मोक्षदं सारं जन्ममृत्युजरापहम् ॥
मंगलं कृष्णचरितं वैष्णवानां च जीवनम्
सर्वाशुभविनाशं च भक्तिदास्यप्रदं हरेः ॥
श्रीकृष्णं वसुदेवश्च संस्थाप्य नंदमंदिरे
गृहीत्वा बालिकां हृष्टो जगाम निजमंदिरम् ॥
कथितं चरितं तस्याः श्रुतं संमुखतो मुने
अधुना गोकुले कृष्णचरितं शृणु मंगलम् ॥
वसुदेवे गृहं याते यशोदा नंद एव च
मंगले सूतिकागारे जयागारे जयान्विते ॥
ददर्श पुत्रं भूमिस्थं नवीननीरदप्रभम्
अतीव सुंदरं नग्नं पश्यंतं गृहशेखरम् ॥
शरत्पार्वणचंद्रास्यं नीलेंदीवरलोचनम्
रुदंतं च हसंतं च् वेणुसंसक्तविग्रहम् ॥
हस्तद्वयं सुविन्यस्तं प्रेमवंतं पदांबुजम्
दृष्ट्वा नंदः स्त्रिया सार्द्धं हरिं हृष्टो बभूव ह ॥
धात्री तं स्नापयामास शीततोयेन बालकम्
चिच्छेद नाडीं बालस्य हर्षाद्गोप्यो जयं ददुः ॥
आजग्मुर्गोपिकाः सर्वा बृहच्छ्रोण्यश्चलत्कुचाः
बालिकाश्च वयस्यश्च विप्रपत्न्याश्च सूतिकाम् ॥
आशिषं युयुजुः सर्वा ददृशुर्बालकं मुदा
क्रोडे चक्रुः प्रशंसंत्य ऊषुस्तत्र च काश्चन ॥
नंदः सचैलः स्नातश्च धृत्वा धौते च वाससी
पारंपर्यविधिं तत्र चकार हृष्टमानसः ॥
ब्राह्मणान्भोजयामास कारयामास मंगलम्
वाद्यानि वादयामास बंदिभ्यश्च ददौ धनम् ॥
ततो नंदश्च सानंदं ब्राह्मणेभ्यो ददौ धनम्
सद्रत्नानि प्रवालानि हीरकाणि च सादरम् ॥
तिलानां पर्वतान्सप्त सुवर्णशतकं मुने
रौप्यं धान्याचलं वस्त्रं गोसहस्रं मनोहरम् ॥
दधि दुग्धं शर्करां च नवनीतं घृतं मधु
मिष्टान्नं सल्लड्डुकौघं स्वादूनि मोदकानि च ॥
भूमिं च सर्वसस्याढ्यां वायुवेगांस्तुरंगमान्
तांबूलानि च तैलानि दत्त्वा हृष्टो बभूव ह ॥
रक्षितुं सूतिकागारं योजयामास ब्राह्मणान्
तत्र मंत्रज्ञमनुजान्स्थविरान्गोपिकागणान् ॥
वेदांश्च पाठयामास हरेर्नामैकमंगलम्
भक्त्या च ब्राह्मणद्वारा पूजयामास देवताः ॥
गोपालिकाश्च वृद्धाश्च रत्नालंकारभूषिताः
सस्मिता शीघ्रगामिन्य आजग्मुर्नंदमंदिरम् ॥
नानाविधाश्च गणका ज्योतिःशास्त्रविशारदाः
वाक्सिद्धाः पुस्तककरा आजग्मुर्नंदमंदिरम् ॥
सस्मिता विप्रपत्न्यश्च वयस्याः स्थविरा वराः
बालिका बालकयुता आजग्मुर्नंदमंदिरम् ॥
तेभ्योऽपि प्रददौ रत्नं धनानि विविधानि च
वरवस्त्राणि रौप्याणि गोसहस्राणि सादरम् ॥
नंदस्तेभ्यो नमस्कृत्य चकार विनयं मुदा
आशिषं युयुजुः सर्वे ददृशुर्बालकं परम् ॥
एवं संभृतसंभारो बभूव व्रजपुंगवः
गणकैः कारयामास यद्भविष्यं शुभाशुभम् ॥
एवं ववर्ध बालश्च शुक्लपक्षे यथा शशी
नंदालये हली चैव भुक्त मातुः पयोधरम् ॥
तदा च रोहिणी हृष्टा तत्र पुत्रोत्सवे मुदा
तैलसिंदूरतांबूलं धनं ताभ्यो ददौ मुने ॥
दत्त्वाशिषश्च शिरसि ताश्च ते स्वालयं ययुः
यशोदारोहिणीनंदास्तस्थुर्गेहे मुदान्विताः
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृ ष्णजन्मखंडे नारायणनारदसंवादे नंदपुत्रोत्सवो नाम नवमोऽध्यायः
मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0