भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.8

4.8.1

॥ नारद उवाच ॥ ॥
जन्माष्टमीव्रतं ब्रूहि व्रतानां व्रतमुत्तमम् ॥
फलं जयंतीयोगस्य सामान्येनैव सांप्रतम्

4.8.2

को वा दोषोऽप्यकरणे भोजनो वा महामुने ॥
उपवासफलं किं वा जयंत्यां च सुसंमतम्

4.8.3

व्रतं पूजाविधानं च संयमस्य च सांप्रतम् ॥
उपवासपारणयोः सुविचार्य वद प्रभो

4.8.4

॥ नारायण उवाच ॥ ॥
कृत्वा हविष्यं सप्तम्यां संयतः पारणे तथा ॥
अरुणोदयवेलायां समुत्थाय परेऽहनि

4.8.5

प्रातःकृत्य संविधाय स्नात्वा संकल्पमाचरेत् ॥
व्रतोपवासयोर्ब्रह्मञ्छ्रीकृष्णप्रीतिहेतुकम्

4.8.6

मन्वादिदिवसे प्राप्ते यत्फलं स्नानपूजनैः ॥
फलं भाद्रपदेऽष्टम्यां भवेत्कोटिगुणं द्विज

4.8.7

तस्यां तिथौ वारिमात्रं पितॄणां यः प्रयच्छति ॥
गयाश्राद्धं कृतं तेन शताब्दं नात्र संशयः

4.8.8

स्नात्वा नित्यक्रियां कृत्वा निर्माय सूतिकागृहम् ॥
लोहखंडवह्निजालैर्युक्तं रक्षकसंघकैः॥

4.8.9

तत्र द्रव्यं बहुविधं नाभिच्छेदनकर्तनम् ॥
धात्रीस्वरूपां नारीं च यत्नतः स्थापयेद्बुधः

4.8.4.8.10

पूजाद्रव्याणि चारूणि सोपचाराणि षोडश ॥
फलान्यष्टौ च मिष्टानि द्रव्याण्येव हि नारद

4.8.11

जातीफलं च कंकोलं दाडिमं श्रीफलं तथा ॥
नारिकेरं च जंबीरं कूष्मांडं च सुवाससम्

4.8.12

आसनं वसनं पाद्यं मधुपर्कं तथैव च ॥
अर्घ्यमाचनीयं च स्नानीयं शयनं तथा

4.8.13

गंधं पुष्पं च नैवेद्यं तांबूलमनुलेपनम् ॥
धूपदीपौ भूषणं वै चोपचारांश्च षोडश

4.8.14

पादप्रक्षालनं कृत्वा धृत्वा धौते च वाससी ॥
आचम्य चासने स्थित्वा स्वस्तिवाचनपूर्वकम्

4.8.15

घटस्यारोपणं कृत्वा संपूज्य पंच देवताः ॥
घटे ह्यावाहनं कृत्वा श्रीकृष्णं परमेश्वरम्

4.8.16

वसुदेवं देवकीं च यशोदां नंदमेव च ॥
रोहिणीं बलदेवं च षष्ठीदेवीं वसुंधराम्

4.8.17

रोहिणीं ब्राह्मणीं चैव अष्टमीं स्थानदेवताम् ॥
अश्वत्थाम्ना सह बलिं हनुमंतं विभीषणम्

4.8.16

कृपं परशुरामं च वेदव्यासं मृकंडकम् ॥
सर्वस्यावाहनं कृत्वा ध्यानं कुर्याद्धरेस्तदा

4.8.19

पुष्पकं मस्तके न्यस्य पुनर्ध्यायेद्विचक्षणः ॥
ध्यानं च सामवेदोक्तं शृणु वक्ष्यामि नारद

4.8.4.8.20

ब्रह्मणा कथितं पूर्वं कुमाराय महात्मने

4.8.21

बालं नीलांबुजाभमतिशयरुचिरं स्मेरवक्त्रांबुजं तं
ब्रह्मेशानंतधर्मैः कतिकतिदिवसैः स्तूयमानं परं यत् ॥
ध्यानासाध्यमृषीन्द्रैर्मुनिगणमनुजैः सिद्धसंघैरसाध्यं
योगींद्राणामचिंत्यमतिशयमतुलं साक्षिरूपं भजेऽहम्

4.8.22

ध्यात्वा पुष्पं च दत्त्वा च तत्सर्वं च निवेदयेत् ॥
एवं व्रती व्रतं कुर्याच्छृणु मंत्रक्रमं मुने

4.8.23

आसनं सर्वशोभाढ्यं सद्रत्नमणिनिर्मितम्॥
विचित्रं च विचित्रेण गृह्यतां शोभनं हरे

4.8.24

वसनं वह्निशौचं च निर्मितं विश्वकर्मणा ॥
प्रतप्तस्वर्णखचितं चित्रितं गृह्यतां हरे

4.8.25

पादप्रक्षालनार्थं च स्वर्णपात्रस्थितं जलम् ॥
पवित्रं निर्मलं चारु पाद्यं च गृह्यतां हरे

4.8.26

मधुसर्पिर्दधिक्षीरं शर्करासंयुतं परम् ॥
स्वर्णपात्रस्थितं देयं स्नानार्थं गृह्यतां हरे

4.8.27

दूर्वाक्षतं शुक्लपुष्पं स्वच्छतोयसमन्वितम् ॥
चंदनागुरुकस्तूरीसहितं गृह्यतां हरे

4.8.28

सुस्वादु स्वच्छतोयं च वासितं गंधवस्तुना ॥
शुद्धमाचमनीयं च गृह्यतां परमेश्वर

4.8.29

गंधद्रव्यसमायुक्तं विष्णो तैलं सुवासितम् ॥
आमलक्या द्रवं चैव स्नानीयं गृह्यतां हरे

4.8.4.8.30

सद्रत्नमणिसारेण रचितां सुमनोहराम् ॥
छादितां सूक्ष्मवस्त्रेण शय्यां च गृह्यतां हरे

4.8.31

चूर्णं च वृक्षभेदानां मूलानां द्रवसंयुतम् ॥
कस्तूरीद्रवसंयुक्तं गन्धं च गृह्यतां हरे

4.8.32

पुष्पं सुगंधियुक्तं च संयुक्तं कुंकुमेन च ॥
सुप्रियं सर्वदेवानां सांप्रतं गृह्यतां हरे

4.8.33

गृह्यतां स्वस्तिकोक्तं च मिष्टद्रव्यसमन्वितम् ॥
सुपक्वफलसंयुक्तं नैवेद्यं गृह्यतां हरे

4.8.34

लड्डुकं मोदकं चैव सर्पिः क्षीरं गुडं मधु ॥
नवोद्धृतं दधि तक्रं नैवेद्यं गृह्यतां हरे

4.8.35

शीतलं शर्करायुक्तं क्षीरस्वादुसुपक्वकम् ॥
तांबूलं भोगसारं च कर्पूरादिसमन्वितम्

4.8.36

भक्त्या निवेदितमिदं गृह्यतां परमेश्वर ॥
चन्दनागुरु कस्तूरीकुंकुमद्रवसंयुतम्

4.8.37

अबीरचूर्णं रुचिरं गृह्यतां परमेश्वर ॥
तरुभेदरसोत्कर्षो गंधयुक्तोऽग्निना सह

4.8.38

सुप्रियः सर्वदेवानां धूपोऽयं गृह्यतां हरे ॥
घोरांधकारनाशैकहेतुरेव शुभावहः

4.8.39

सुप्रदीपो दीप्तिकरो दीपोऽयं गृह्यतां हरे ॥
पवित्रं निर्मलं तोयं कर्पूरादिसमायुतम्

4.8.4.8.40

जीवनं सर्वबीजानां पानार्थं गृह्यतां हरे ॥
नानापुष्पसमायुक्तं ग्रथितं सूक्ष्मतंतुना

4.8.41

शरीरभूषणवरं माल्यं च प्रतिगृह्यताम् ॥
दत्त्वा देयानि द्रव्याणि पूजोपयोगितानि च

4.8.42

व्रतस्थानस्थितं द्रव्यं हरये देयमेव च ॥
फलानि तरुबीजानि स्वादूनि सुंदराणि च

4.8.43

वंशवृद्धिकराण्येव गृह्यतां परमेश्वर ॥
आवाहितांश्च देवांश्च प्रत्येकं पूजयेद्व्रती

4.8.44

तान्पूज्य भक्तिभावेन दद्यात्पुष्पांजलित्रयम् ॥
सुनंदनंदकुमुदान्गोपान्गोपीश्च राधिकाम्

4.8.45

गणेशं कार्त्तिकेयं च ब्रह्माणं च शिवं शिवाम् ॥
लक्ष्मीं सरस्वतीं चैव दिक्पालांश्च ग्रहांस्तथा

4.8.46

शेषं सुदर्शनं चैव पार्षदप्रवरांस्तथा॥
सम्पूज्य सर्वदेवांश्च प्रणम्य दंडवद्भुवि ॥
ब्राह्मणेभ्यश्च नैवेद्यं दत्त्वा दद्याच्च दक्षिणाम्

4.8.47

कथां च जन्माध्यायोक्तां शृणुयाद्भक्ति भावतः ॥
तदा कुशासने स्थित्वा कुर्याज्जागरणं व्रती

4.8.48

प्रभाते चाह्निकं कृत्वा संपूज्य श्रीहरिं मुदा ॥
ब्राह्मणान्भोजयित्वा च कारयेद्धरिकीर्तनम्

4.8.49

॥ नारद उवाच ॥ ॥
व्रतकालव्यवस्थां च वेदोक्तां सर्वसंमताम् ॥
वेदार्थं च समालोच्य संहितां च पुरातनीम्

4.8.4.8.50

उपवासे जागरणे व्रते किं वा फलं मुने ॥
किं वा पापं तत्र भुक्त्वा वद वेदविदां वर

4.8.51

॥ श्रीनारायण उवाच ॥ ॥
अष्टमी कर्क्षसंयुक्ता रात्र्यर्थे यदि दृश्यते ॥
स एव मुख्यकालश्च तत्र जातः स्वयं हरिः

4.8.52

जयं पुण्यं च कुरुते जयंती तेन संस्मृता ॥
तत्रोपोष्य व्रतं कृत्वा कुर्याज्जागरणं बुधः

4.8.53

सर्वापवादः कालोऽयं प्रधानः सर्वसंमतः ॥
इति वेदविदां वाणी चेत्युक्ता वेधसा पुरा

4.8.54

तत्र जागरणं कृत्वा यश्चोपोष्य व्रतं चरेत् ॥
कोटिजन्मार्जितात्पापान्मुच्यते नात्र संशयः

4.8.55

वर्जनीया प्रयत्नेन सप्तमीसहिताष्टमी ॥
सा सर्क्षापि न कर्तव्या सप्तमीसहिताष्टमी ॥
अविद्धायां कऋक्षायां जातो देवकिनंदनः

4.8.56

वेदवेदांगगुप्तेतिविशिष्टं मंगलक्षणे ॥
व्यतीते रोहिणीऋक्षे व्रती कुर्याच्च पारणाम्

4.8.57

तिथ्यंते च हरिं स्मृत्वा कृत्वा देवार्चनं व्रती। ॥
पारणं पावनं पुंसां सर्वपापप्रणाशनम्

4.8.58

उपवासांगभूतं च फलदं सिद्धिकारणम् ॥
सर्वेष्वेवोपवासेषु दिवा पारणमिष्यते

4.8.59

अन्यथा फलहानिः स्यात्कृते धारणपारणे॥
न रात्रौ पारणं कुर्यादृते वै रोहिणीव्रतात्

4.8.4.8.60

निशायां पारणं कुर्याद्वर्जयित्वा महानिशाम् ॥
पूर्वाह्णे पारणं शस्तं कृत्वा विप्रसुरार्चनम्

4.8.61

सर्वेषां संमतं कुर्यादृते वै रोहिणी व्रतम् ॥
बुधसोमसमायुक्ता जयंती यदि लभ्यते

4.8.62

न कुर्याद्गर्भवासं च तत्र कृत्वा व्रतं व्रती ॥
उदये चाष्टमी किंचिन्नवमी सकला यदि

4.8.63

भवेद्बुधेंदुसंयुक्ता प्राजापत्यर्क्षसंयुता ॥
अपिवर्षशतेनापि लभ्यते वा न लभ्यते

4.8.64

व्रतं तत्र व्रती कुर्यात्पुंसां कोटिं समुद्धरेत् ॥
नृणां विना व्रतेनापि भक्तानां हीनसंपदाम्

4.8.65

कृतेनैवोपवासेन प्रीतो भवति माधवः ॥
भक्त्या नानोपचारेण रात्रौ जागरणेन च

4.8.66

फलं ददाति दैत्यारिर्जयन्तीव्रतसंभवम् ॥
वित्तशाठ्यमकुर्वाणः सम्यक्फलमवाप्नुयात्

4.8.67

कुर्वाणो वित्तशाठ्यं च लभते सदृशं फलम् ॥
अष्टम्यामथ रोहिण्यां न कुर्यात्पारणं बुधः

4.8.68

हन्यात्पुराकृतं पुण्यं चोपवासार्जितं फलम् ॥
तिथिरष्टगुणं हंति नक्षत्रं च चतुर्गुणम्

4.8.69

तस्मात्प्रयत्नतः कुर्यात्तिथिभांते च पारणम् ॥
महानिशायां प्राप्तायां तिथिभांतं यदा भवेत्

4.8.4.8.70

तृतीयेऽह्नि मुनिश्रेष्ठ पारणं कुरुते बुधः ॥
षण्मुहूर्ते व्यतीते तु रात्रावेव महानिशा

4.8.71

लभते ब्रह्महत्यां च तत्र भुक्त्वा च नारद ॥
गोमांसविण्मूत्रसमं तांबूलं च फलं जलम्

4.8.72

पुंसामभक्ष्यं शुद्धानामोदनस्य च का कथा ॥
त्रियामां रजनी प्राहुस्त्यक्त्वाद्य च चतुष्टयम्

4.8.75

नाडीनां तदुभे सन्ध्ये दिवसाद्यंतसंज्ञिते ॥
जन्माष्टम्यां च शुद्धायां कृत्वा जागरणं व्रतम्

4.8.74

शतजन्मकृतात्पापान्मुच्यते नात्र संशयः ॥
जन्माष्टम्यां च शुद्धायामुपोष्य केवलं नरः

4.8.75

अश्वमेधफलं तस्य व्रतं जागरणं विना ॥
यद्बाल्ये यच्च कौमारे यौवने यच्च वार्धके

4.8.76

सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ॥
श्रीकृष्णजन्मदिवसे यश्च भुक्तं नराधमः

4.8.77

स भवेन्मातृगामी च ब्रह्महत्याशतं लभेत् ॥
कोटिजन्मार्जितं पुण्यं तस्य नश्यति निश्चितम्

4.8.78

अनर्हश्चाशुचिः शश्वद्दैवे पित्र्ये च कर्मणि ॥
अन्ते वसेत्कालसूत्रे यावच्चंद्रदिवाकरौ

4.8.79

कृमिभिः शूलतुल्यैश्च तीक्ष्णदंष्ट्रैश्च भक्षितः ॥
पापी ततः समुत्थाय भारते जन्म चेल्लभेत्

4.8.4.8.80

षष्टिवर्षसहस्राणि विष्ठायां च कृमिर्भवेत् ॥
गृध्रकोटिसहस्राणि शतजन्मानि सूकरः

4.8.81

श्वापदः शतजन्मानि सृगालः सप्त जन्म च ॥
सप्तजन्मसु सर्पश्च काकश्च सप्तजन्मसु

4.8.82

ततो भवेन्नरो मूको गलत्कुष्ठी सदातुरः ॥
ततो भवेत्पशुघ्नश्च व्यालग्राही ततो भवेत्

4.8.83

तदंते च भवेद्दस्युर्धर्महीनश्च गृध्रकः ॥
ततो भेवत्स रजकस्तैलकारस्ततो भवेत्

4.8.84

ततो भवेद्देवलको ब्राह्मणश्च सदाऽशुचिः ॥
उपवासासमर्थश्चेदेकं विप्रं च भोजयेत्

4.8.85

तावद्धनानि वा दद्याद्यद्भुक्तं द्विगुणं भवेत् ॥
सहस्रसंमितां देवीं जपेद्वा प्राणसंयमान् ॥

4.8.86

कुर्याद्द्वादशसंख्याकान्यथार्थं तद्व्रते नरः ॥
इत्येवं कथितं वत्स श्रुतं यद्धर्मवक्त्रतः ॥
व्रतोपवासपूजानां विधानमकृते च यत्

4.8.8

इति श्रीब्रह्मवैवर्ते महापुराणे नारायणनारदसंवादे श्रीकृष्णजन्मखण्डे कृष्णजन्माष्टमीव्रतपूजोपवासनिरूपणं नामा ष्टमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc