भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.10

4.10.1

॥ श्रीनारायण उवाच ॥ ॥
अथ कंसः सभामध्ये स्वर्णसिंहासनस्थितः ॥
शुश्राव वाचं गगने सूनृतामशरीरिणीम्

4.10.2

किं करोषि महामूढ चिंतां स्वश्रेयसः कुरु ॥
जातः कालो धरण्यां ते तिष्ठोपाये नराधिप

4.10.3

नंदाय तनयं दत्त्वा वसुदेवस्तवांतकम् ॥
कन्यामादाय तुभ्यं च दत्त्वा संमायया स्थितः

4.10.4

मायांशा कन्यकेयं च वासुदेवः स्वयं हरिः ॥
तव हंता गोकुले च वर्द्धते नंदमंदिरे

4.10.9

देवक्याः सप्तमो गर्भो वर्द्धते नंदमंदिरे ॥
देवक्याः सप्तमो गर्भो न सुस्रावामृतं सुतम्

4.10.6

स्थापयामास मायो तं रोहिणीजठरे किल ॥
तत्र जातश्च शेषांशो बलदेवो महाबलः

4.10.7

गोकुले तौ च वर्धेते कालौ ते नंदमंदिरे ॥
श्रुत्वेति वचनं राजा बभूवानम्रकंधरः

4.10.8

चिंतामवाप सहसा तत्याजाहारमुन्मनाः ॥
पूतनां च समानीय प्राणेभ्यः प्रेयसीं सतीम्

4.10.9

उवाच भगिनीं राजा सभामध्ये च नीतिवित् ॥
॥कंस उवाच ॥ ॥
पूतने गोकुलं गच्छ कार्यार्थं नंदमंदिरम्

4.10.4.10.10

विषाक्तं च स्तनं कृत्वा शिशवे देहि सत्वरम् ॥
त्वं मनोयायिनी वत्से मायाशास्त्रविशारदा

4.10.11

मायामानुषरूपं च विधाय व्रज योगिनि ॥
दुर्वाससो महामंत्रं प्राप्य सर्वत्रगामिनी

4.10.12

सर्वरूपं विधातुं त्वं शक्तासि सुप्रतिष्ठिते ॥
इत्युक्त्वा तां महाराजस्तस्थौ संसदि नारद

4.10.13

जगाम पूतना कंसं प्रणम्य कामचारिणी ॥
तप्तकांचनवर्णाभा नानालंकारभूषिता

4.10.14

बिभ्रती कबरीभारं मालतीमाल्यसंयुतम् ॥
कस्तूरीबिंदुना युक्तं सिंदूरं दधती मुदा ॥

4.10.15

मंजीररशनाभ्यां च कलशब्दं प्रकुर्वती ॥
संप्राप्य गोष्ठं दुर्दर्शं नंदालयमनोहरम्

4.10.16

परिखाभिर्गभीराभिर्दुर्लंघ्याभिश्च वेष्टितम् ॥
रचितं प्रस्तरैर्दिव्यैर्निर्मितं विश्वकर्मणा

4.10.17

इंद्रनीलैर्मरकतैः पद्मरागैश्च भूषितम् ॥
सुवर्णकलशैर्दिव्यैश्चित्रितैः शेखरोज्ज्वलैः

4.10.18

प्राकारैर्गगनस्पर्शैश्चतुर्द्वारसमन्वितैः ॥
युक्तं लोहकपाटैश्च द्वारपालसमन्वितैः

4.10.19

वेष्टितं सुन्दरं रम्यं सुन्दरीगणवेष्टितम् ॥
मुक्तामाणिक्यपरशैः पूर्णरत्नादिभिर्धनैः

4.10.4.10.20

स्वर्णपात्रवटाकीर्णं गवां कोटिभिरन्वितम्॥
भरणीयैः किंकरैश्च गोपलक्षैः समन्वितम्

4.10.21

दासीनां च सहस्रैश्च कर्मव्यग्रैः समन्वितम् ॥
प्रविवेशाश्रमं साध्वी सस्मिता सुमनोहरा ।

4.10.22

दृष्ट्वा तां प्रविशंतीं च गोप्यो दृष्ट्वानुमेनिरे ॥
किं वा पद्मालया दुर्गा कृष्णं द्रष्टुं समागता

4.10.23

प्रणेमुर्गोपिका गोपाः पप्रच्छुः कुशलं च ताम् ॥
ददौ सिंहासनं पाद्यं वासयामास तत्र वै

4.10.24

पप्रच्छ कुशलं सा च गोपानां बालकस्य च ॥
उवास सस्मिता साध्वी पाद्यं जग्राह सादरम्

4.10.25

तामूचुर्गोपिकाः सर्वाः का त्वमीश्वरि सांप्रतम् ॥
वासस्ते कुत्र किं नाम किं वात्र कर्म नो वद

4.10.26

तासां च वचनं श्रुत्वा साप्युवाच मनोहरम् ॥
मथुरावसिनी गोपी सांप्रतं विप्रकामिनी

4.10.27

श्रुतं वाचिकवक्त्रेण तत्त्वं मंगलसूचकम् ॥
बभूव स्थविरे काले नंदपुत्रो महानिति

4.10.28

श्रुत्वागताहं तं द्रष्टुमाशिषं कर्तुमीप्सिताम् ॥ ।
पुत्रमानय तं दृष्ट्वा यामि कृत्वा तमाशिषम्

4.10.29

ब्राह्मणीवचनं श्रुत्वा यशोदा हृष्टमानसा ॥
प्रणमय्य सुतं क्रोडे ददौ ब्राह्मणयोषितः

4.10.4.10.30

कृत्वा क्रोडे तु तं साध्वी चुचुंब च पुनः पुनः ॥
स्तनं ददौ सुखासीना हरिं पुण्यवती सती ॥

4.10.31

अहोद्भुतोऽयं बालस्त सुन्दरो गोपसुन्दरि ॥
गुणैर्नारायणसमो बालोयमित्युवाच ह

4.10.32

कृष्णो विषस्तनं पीत्वा जहास वक्षसि स्थितः ॥
तस्याः प्राणैः सह पपौ विषक्षीरं सुधामिव

4.10.33

तत्याज बालकं साध्वी प्राणांस्त्यक्त्वा पपात ह ॥
विकृताकारवदना चोत्तानवदना मुने

4.10.34

स्थूलदेहं परित्यज्य सृक्ष्मदेहं विवेश सा ॥
आरुरोह रथं शीघ्रं रत्नसारविनिर्मितम्

4.10.35

पार्षदप्रवरैर्दिव्यैर्वेष्टितं सुमनोहरैः ॥
श्वेतचामरलक्षेण शोभितं लक्षदर्पणैः

4.10.36

वह्निशौचेन वस्त्रेण सूक्ष्मेण भूषितं वरम् ॥
नानाचित्रविचित्रैश्च सद्रत्नकलशैर्युतम्

4.10.37

सुंदरं शतचक्रं च वलितं रत्नतेजसा ॥
पार्षदास्तां रथे कृत्वा जग्मुर्गोलोकमुत्तमम्

4.10.38

दृष्ट्वा तमद्भुतं लोका गोपिकाश्चातिविस्मिताः ॥
कंसः श्रुत्वा च तत्सर्वं विस्मितश्च बभूव ह

4.10.39

यशोदा बालकं नीत्वा क्रोडे कृत्वा स्तनं ददौ ॥
मंगलं कारयामास विप्रद्वारा शिशोर्मुने

4.10.4.10.40

ददाह देहं तस्याश्च नंदः सानंदर्पूवकम् ॥
चंदनागुरुकस्तूरीसमं संप्राप्य सौरभम्

4.10.41

नारद उवाच ॥ ॥
सा वा का राक्षसीरूपा कथं पुण्यवती सती ॥
केन पुण्येन तं दृष्ट्वा जगाम कृष्णमंदिरम्

4.10.42

॥ श्रीनारायण उवाच ॥ ॥
बलियज्ञे वामनस्य दृष्ट्वा रूपं मनोहरम्॥
बलिकन्या रत्नमाला पुत्रस्नेहं चकार तम्

4.10.43

मनसा मानसं चक्रे पुत्रस्य सदृशो मम ॥
पिबेद्यदि स्तनं कृष्णः करोमि तं च वक्षसि

4.10.44

हरिस्तन्मानसं ज्ञात्वा पपौ जन्मांतरे स्तनम् ॥
ददौ मातृगतिं तस्यै कामपूरः कृपानिधिः

4.10.45

दत्त्वा विषस्तनं कृष्णं पूतना राक्षसी मुने ॥
भक्त्या मातृगतिं प्राप कं भजाम विना हरिम्

4.10.46

इत्येवं कथितं विप्र श्रीकृष्ण गुणकीर्तनम् ॥
पदेपदे सुमधुरं प्रवरं कथयामि ते

4.10.10

इति श्रीब्र० म० पु० श्रीकृ०ना०स० पूतनामोक्षो नाम दशमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc