ब्रह्मवैवर्त पुराण · अध्याय 4.6
श्रीनारायण उवाच ॥ ॥
ध्यात्वा स्तुत्वा च तिष्ठंतो देवास्ते तेजसः पुरः ॥
ददृशुस्तेजसो मध्ये शरीरं कमनीयकम्
सजलांभोदवर्णाभं सस्मितं सुमनोहरम् ॥
परमाह्लादकं रूपं त्रैलोक्यचित्तमोहनम्
गंडस्थलकपोलाभ्यां ज्वलन्मकर कुण्डलम् ॥
सद्रत्ननूपुराभ्यां च चरणांभोजराजितम्
वह्निशुद्धहरिद्राभामूल्यवस्त्रविराजितम् ॥
मणिरत्नेंद्रसाराणां स्वेच्छा कौतुकनिर्मितैः
भूषितं भूषणै रम्यैस्तद्रूपेणैव भूषितैः ॥
विनोदमुरलीयुक्तबिंबाधरमनोहरम्
प्रसन्नेक्षणपश्यंतं भक्तानुग्रहकातरम् ॥
सद्रत्नगुटिकायुक्तकवचोरःस्थलोज्ज्वलम्
कौस्तुभासक्तसद्रत्नप्रदीप्ततेजसोज्ज्वलम् ॥
तत्र तेजसि चार्वंगीं ददृशू राधिकाभिधाम्
पश्यंतं सस्मितं कांतं पश्यंतीं वक्रचक्षुषा ॥
मुक्तापंक्तिविनिंद्यैकदंतपंक्तिविराजिताम् ॥
ईषद्धास्यप्रसन्नास्यां शरत्पंकजलोचनाम् ॥
शरत्पार्वणचन्द्राभाविनिंदास्यमनोहराम्
बंधुजीवप्रभामुष्टाधरौष्ठरु चिराननाम् ॥
रणन्मंजीरयुग्मेन पादांबुजविराजिताम्
मणींद्राणां प्रभामोषनखराजिविराजिताम् ॥
कुङकुमाभासमाच्छाद्य पदाधोरागभूषिताम्
अमूल्यरत्नसाराणां रशनाश्रोणिभूषिताम् ॥
हुताशनविशुद्धांशुकामूल्यज्वलितोज्ज्वलाम्
महामणींद्रसाराणां किङ्किणीमध्यसंयुताम् ॥
सद्रत्नहारकेयूरकरकंकणभूषिताम्
रत्नेंद्रसाररचितकपोलोज्ज्वलकुण्डलाम् ॥
कर्णोपरि मणीन्द्राणां कर्णभूषणभूषिताम्
खगेंद्रचंचुनासाग्र गजेंद्रमौक्तिकान्विताम् ॥
मालतीमालया वक्रकबरीभारशोभि ताम्
मालया कौस्तुभेंद्राणां वक्षःस्थलसुशोभिताम्॥
पारिजातप्रसूनानां मालाजालोज्ज्वलांबराम्
रत्नांगुलीय निकरैः करांगुलिविभूषिताम् ॥
दिव्यशंखविकारैश्च चित्ररागविभूषितैः
सूक्ष्मसूत्राकृतै रम्यैर्भूषिता शंखभूषणैः ॥
सद्रत्नसारगुटिकाराजिसूत्रसुशोभिताम्
प्रतप्तस्वर्णवर्णाभामाच्छाद्य चारुविग्रहाम् ॥
नितम्बश्रोणिललितां पीनस्तननतांबराम्
भूषितां भूषणैः सर्वैः सौंदर्येण विभूषितैः ॥
विस्मितास्त्रिदशाः सर्वे दृष्ट्वा तामीश्वरीं वराम्॥
तुष्टुवुस्ते सुराः सर्वे पूर्णसर्वमनोरथाः
॥ ब्रह्मोवाच ॥
तव चरणसरोजे मन्मनश्चंचरीको भ्रमतु सततमीश प्रेमभक्त्या सरोजे ॥
भुवनविभवभोगात्तापशांत्यौषधायसुदृढसु परिपक्वादेहिभक्ति चदास्यम्
॥ शंकर उवाच ॥ ॥
भवजलनिधिमग्नम्बित्तमीनो मदीयो भ्रमति सततमस्मिन्घोरसंसार कूपे ॥
विषयमतिविनिंद्यं सृष्टिसंहाररूपमपनय तव भक्तिं देहि पादारविंदे
॥ धर्म उवाच ॥
तव निजजनसार्द्धं संगमो मे मदीश भवतु विषयबंधच्छेदने तीक्ष्णखङ्गः।
तव चरणसरोजे स्थानदानैकहेतुर्जनुषि जनुषि भक्तिं देहि पादारविन्दे
इत्येवं स्तवनं कृत्वा परिपूर्णैकसानसाः ॥
कामपूरस्य पुरतस्तिष्ठतो राधिकापतेः
सुराणां स्तवनं श्रुत्वा तानु वाच कृपानिधिः ॥
हितं तथ्यं च वचनं स्मेराननसरोरुहः
॥ श्रीकृष्ण उवाच ॥ ॥
तिष्ठतागच्छत सुरा मदीया नात्र संशयः ॥
शिवाश्रयाणां कुशलं प्रष्टुं युक्तं न सांप्रतम्
निश्चिंता भवतात्रैव का चिंता वो मयि स्थिते॥
स्थितोऽहं सर्वजीवेषु प्रत्यक्षोऽहं स्तवेन वै
युष्माकं यमभिप्रायं सर्वं जानामि निश्चितम् ॥
शुभाशुभं च यत्कर्म काले खलु भविष्यति
महत्क्षुद्रं च यत्कर्म सर्वं कालकृतं सुराः ॥
स्वे स्वे काले च तरवः फलिताः पुष्पिणः सदा
परिपक्वफलाः काले काले पक्वफलान्विताः ॥
सुखं दुःखं विपत्संपच्छोकचिंताशुभाशुभम्
स्वकर्मफलनिष्ठं च सर्वकालेऽप्युपस्थितम् ॥
न हि कस्य प्रियः को वा विप्रियो वा जगत्त्रये
काले कार्यवशात्सर्वे भवंत्येवाप्रियाः प्रियाः ॥
राजानो मनवः पृथ्व्यां दृष्टा युष्माभिरत्र वै
स्वकर्मफलपाकेन सर्वे कालवशं गताः ॥
युष्माकमधुना चैव गोलोके यत्क्षणं गतम्
पृथिव्यां तत्क्षणेनैव सप्तमन्वतरं गतम् ॥
इंद्राः सप्त गतास्तत्र देवेंद्र श्चाष्टमोऽधुना
कालचक्रं भ्रमत्येव मदीयं च दिवानिशम् ॥
इन्द्राश्च मानवा भूपाः सर्वे कालवशं गताः
कीर्तिः पृथ्व्यां पुण्यमद्य कथामात्रावशेषितम् ॥
अधुनाऽपि च राजानो दुष्टाश्च हरिनिंदकाः
बभूवुर्बहवो भूमौ महाबल पराक्रमाः ॥
सर्वे यास्यंति राजानः कालांतरवशं धुवम्
उपस्थितोऽपि कालोऽयं वातो वाति निरंतरम् ॥
वह्निर्दहति सूर्यश्च तपत्येव ममाज्ञया
व्याधयः संति देहेषु मृत्युश्चरति जंतुषु ॥
वर्षंत्येते जलधराः सर्वे देवा ममाज्ञया
ब्राह्मण्यनिष्ठा विप्राश्च तपोनिष्ठास्तपोधनाः ॥ ब्र
ह्मर्षयो ब्रह्मनिष्ठा योगनिष्ठाश्च योगिनः
ते सर्वे मद्भयाद्भीताः स्वकर्मधर्मतत्पराः ॥
मद्भक्ताश्चैव निःशंकाः कर्मनिर्मूलकारकाः
देवाः कालस्य कालोऽहं विधाता धातुरेव च ॥
संहारकर्तुः संहर्ता पातुः पाता परात्परः
ममाज्ञयाऽयं संहर्ता नाम्रा तेन हरः स्मृतः ॥
त्वं विश्वसृट् सृष्टिहेतोः पाता धर्मस्य रक्षणात्
ब्रह्मादितृणपर्यन्तं सर्वेषामहमीश्वरः ॥
स्वकर्मफलदाताऽहं कर्मनिर्मूलकारकः
अहं यान्संहरिष्यामि कस्तेषामपि रक्षिता ॥
यानहं पालयिष्यामि तेषां हंता न कोऽपि वा
सर्वेषामपि संहर्ता स्रष्टा पाताऽहमेव च ॥
नाहं शक्तश्च भक्तानां संहारे नित्यदेहिनाम्
भक्ता ममानुगा नित्यं मत्पादार्चनतत्पराः ॥
अहं भक्तांतिके शश्वत्तेषां रक्षणहेतव
सर्वे नश्यंति ब्रह्माण्डे प्रभवंति पुनःपुनः ॥
न मे भक्ताः प्रणश्यन्ति निःशंकाश्च निरापदः
अतो विपश्चितः सर्वे दास्यं वांछंति नो वरम् ॥
ये मां दास्यं प्रयाचंते धन्यास्तेऽन्ये च वंचिताः
जन्ममृत्युजराव्याधि भयं च यमयातना ॥
अन्येषां कर्मिणामस्ति न भक्तानां च कर्हिचित्
भक्ता न लिप्ताः पापेषु पुण्येषु सर्वक र्मिणः ॥
अहं धुनोमि तेषां च कर्मभोगान्सुनिश्चितम्
अहं प्राणश्च भक्तानां भक्ताः प्राणा ममापि च ॥
ध्यायंते ते च मां नित्यं तान्स्मरामि दिवानिशम्
चक्रं सुदर्शनं नाम षोडशारं सुतीक्ष्णकम् ॥
यत्तेजः षोडशांशोऽपि नास्ति सर्वेषु जीविषु
भक्तान्तिके तु तच्चक्रं दत्त्वा रक्षार्थमीप्सितम् ॥
न स्वास्थ्यं न च प्रीतिर्मे यामि तेषां च सन्निधिम्
न मे स्वास्थ्यं च वैकुंठे गोलोके राधिकांतिके ॥
यत्र तिष्ठंति भक्तास्ते तत्र तिष्ठाम्यहर्निशम्
प्राणेभ्यः प्रेयसी राधा स्थितोरसि दिवानिशम् ॥
यूयं प्राणाधिका लक्ष्मीर्न मे भक्तात्परा प्रिया
भक्तदत्तं च यद्द्रव्यं भक्त्या ऽश्नामि सुरेश्वराः ॥
अभक्तदत्तं नाश्नामि ध्रुवं भुंक्ते बलिं स्वयम्
स्त्रीपुत्रस्वजनांस्त्यक्त्वा ध्यायंते मामहर्निशम् ॥
युष्मान्विहाय तान्नित्यं स्मराम्यहमहर्निशम्
दुष्टा यदा मे भक्तानां ब्राह्मणानां गवामपि ॥
क्रतूनां देवतानां च हिंसां कुर्वंति निश्चितम्
तथाऽचिरं ते नश्यंति यथा वह्नौ तृणानि च ॥
न कोऽपि रक्षिता तेषां मयि हंतर्युपस्थिते
यास्यामि पृथिवीं देवा यात यूयं स्वमालयम् ॥
यूयं चैवांशरूपेण शीघ्रं गच्छत भूतलम्
इत्युक्त्वा जगतां नाथो गोपाना हूय गोपिकाः ॥
उवाच मधुरं वाक्यं सत्यं यत्समयोचितम्
गोपा गोप्यश्च शृणुत यात नंदव्रजं परम् ॥
वृषभानुगृहे क्षिप्रं गच्छ त्वमपि राधिके
वृषभानुप्रिया साध्वी नंदगोपकलावती ॥
सुबलस्य सुता सा च कमलांशसमुद्भवा ॥
पितॄणां मानसी कन्या धन्या मान्या च योषिताम् ॥
पुरा दुर्वाससः शापाज्जन्म तस्या व्रजे गृहे
तस्या गृहे जन्म लभ शीघ्रं नंदव्रजं व्रज ॥
त्वामहं बालरूपेण गृह्णामि कमलानने
त्वं मे प्राणाधिका राधे तव प्राणाधिकोऽप्यहम्॥
न किंचिदावयोर्भिन्नमेकांगं सर्वदैव हि
श्रुत्वैवं राधिका तत्र रुरोद प्रेमविह्वला ॥
पपौ चक्षुश्चकोराभ्यां मुखचंद्रं हरेर्मुने
जनुर्लभत गोपाश्च गोप्यश्च पृथिवीतले ॥
गोपानामुत्तमानां च मंदिरे मंदिरे शुभे
एतस्मिन्नंतरे सर्वे ददृशू रथमुत्तमम् ॥
मणिरत्नेंद्रसारेण हीरकेण विभूषितम्
श्वेतचामरलक्षेण शोभितं दर्पणायुतैः ॥
सूक्ष्मकाषायवस्त्रेण वह्निशुद्धेन भूषितम् ॥
सद्रत्नकलशानां च सहस्रेण सुशोभितम् ॥
पारिजातप्रसूनानां मालाजालैर्विराजितम्
पार्षदप्रवरैयुक्तं शात कुंभमयं शुभम् ॥
तेजःस्वरूपमतुलं शतसूर्यसमप्रभम्
तत्रस्थं पुरुषं श्यामं सुन्दरं कमनीयकम् ॥
शंखचक्रगदापद्मधरं पीतांबरं वरम्
किरीटिनं कुण्डलिनं वनमालाविभूषितम् ॥
चंदनागुरुकस्तूरीकुङ्कुमद्रवचर्चितम्
चतुर्भुजं स्मेरवक्त्रं भक्तानुग्रहकातरम् ॥
मणिरत्नेंद्रसाराणां सारभूषणभूषितम्
देवीं तद्वामतो रम्यां शुक्लवर्णां मनोहराम् ॥
रत्नालंकारशोभाढ्यां शोभितां पीतवाससा
शरत्पार्वणचंद्रास्यां शरत्पंकजलोचनाम् ॥
पक्वबिंबाधरोष्ठीं च स्मेरयु क्तां मनोहराम्
वेणुवीणाग्रंथहस्तां भक्तानुग्रहकातराम् ॥
विद्याधिष्ठातृदेवीं च ज्ञानरूपां सरस्वतीम्
अपरां दक्षिणे रम्यां शतचंद्रसमप्रभाम् ॥
प्रतप्तस्वर्णवर्णाभां सस्मितां सुमनोहराम्
सद्रत्नकुण्डलाभ्यां च सुकपोलविराजि ताम् ॥
अमूल्यरत्नखचितामूल्यवस्त्रेण भूषिताम्
अमूल्यरत्नकेयूरकरकंकणशोभिताम् ॥
सद्रत्नसारमंजीरकलशब्दस मन्विताम्
मणींद्रकिंकिणीयुक्तमध्यदेशसमन्विताम् ॥
पारिजातप्रसूनानां मालावक्षः स्थलोज्ज्वलाम्
प्रफुल्ल मालतीमालासंयुक्तकबरीयुताम् ॥
शरच्चंद्रप्रभामुष्णन्मुखचारुविभूषिताम्
कस्तूरीबिंदुसंयुक्तसिन्दुरतिलकान्विताम् ॥
सुचारुकज्जलासक्तशरत्पंकजलोचनाम्
सहस्रदलसंसक्तलीलाकमलसंयुताम् ॥
नारायणं च पश्यंतं पश्यंती वक्रच क्षुषा
अवरुह्य रथात्तूर्ण सस्त्रीकः सहपार्षदः ॥
जगाम च सभां रम्यां गोपगोपीसमन्विताम्
देवा गोप्यश्च गोपाश्च तस्थुः प्रांजलयो मुदा ॥
सामवेदोक्तस्तोत्रेण कृतेन च सुरर्षिभिः
गत्वा नारायणो देवो विलीनः कृष्णविग्रहे ॥
दृष्ट्वा च परमाश्चर्यं ते सर्वे विस्मयं ययुः
एतस्मिन्नन्तरे तत्र शातकुंभमयाद्रथात् ॥
अवरुह्य स्वयं विष्णुः पाता च जग तां पतिः
आजगाम चतुर्बाहुर्वनमालाविभूषितः ॥
पीतांबरधरः श्रीमान्सस्मितः सुमनोहरः
सर्वालंकारशोभा ढ्यः सूर्यकोटिसमप्रभः ॥
उत्तस्थुस्ते च तं दृष्ट्वा तुष्टुवुः प्रणता मुने
स चापि लीनस्तत्रैव राधिकेशस्य विग्रहे ॥
ते दृष्ट्वा महदाश्चर्यं विस्मयं परमं ययुः
संविलीने हरेरंगे श्वेतद्वीपनिवासिनि ॥
एतस्मिन्नंतरे तूर्णमाजगाम त्वरान्वितः
शुद्धस्फटिकसंकाशो नाम्ना संकर्षणः स्मृतः ॥
सहस्रशीर्षा पुरुषः शतसूर्यसमप्रभः
आगतं तुष्टुवुः सर्वे दृष्ट्वा तं विष्णुवि ग्रहम् ॥
स चागत्य नतस्कधस्तुष्टाव राधिकेश्वरम्
सहस्रमूर्धा भक्त्या च प्रणनाम च नारद ॥
आवां च धर्मपुत्रौ द्वौ नर नारायणाभिधौ
लीनोऽहं कृष्णपादाब्जे बभूव फाल्गुनोऽवरः॥
ब्रह्मेशशेषधर्माश्च तस्थुरेकत्र तत्र वै
एतस्मिन्नंतरे देवा ददृशू रथमुत्तमम् ॥
स्वर्णसारविकारं च नानासनपरिच्छदम्
मणींद्रसारसंयुक्तं वह्निशुद्धांशुकान्वितम् ॥
श्वेतचामर संयुक्तं भूषितं दर्पणान्वितैः
सद्रत्नसारकलशसमूहेन विराजितम् ॥
पारिजातप्रसूनानां मालाजालैः सुशोभितम्
सहस्रचक्रसंयुक्तं मनोयायि मनोहरम् ॥
ग्रीष्ममध्याह्नमार्तंडप्रभामोषकरं वरम्
मुक्तामाणिक्यवज्राणां समूहेन समुज्ज्वलम् ॥
चित्रपुत्तलिकापुष्पसरः काननचित्रितम्
देवानां दानवानां च रथानां प्रवरं मुने ॥
यत्नेन शंकरप्रीत्या निर्मितं विश्वकर्मणा
पंचाशद्योजनोर्ध्वं च चतुर्योजनविस्तृतम् ॥
रतितुल्यवधूयुक्तैः शोभितं रतिमं दिरैः
तत्रस्थां ददृशुर्देवीं रत्नालंकारभूषिताम् ॥
प्रदग्धस्वर्णसाराणां प्रभामोषकरद्युतिम्
तेजःस्वरूपा मतुलां मूलप्रकृतिमीश्वरीम् ॥
सहस्रभुजसंयुक्तां नानायुधसमन्विताम्
ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकातराम् ॥
गंडस्थलकपोलस्थसद्रत्नकुंडलोज्ज्वलाम्
रत्नेन्द्रसाररचितक्वणन्मञ्जीररंजिताम् ॥
मणींद्रमेखलायुक्तमध्य देशसुशोभिताम्
सद्रत्नसारकेयूरकरकंकणभूषिताम् ॥
मंदारपुष्पमालाभिरुरःस्थलसमुज्ज्वलाम्
नितंबकठिनश्रोणीं पीनोन्नतकुचानताम् ॥
शरत्सुधाकराभासविनिंदास्यमनोहराम्
कज्जलोज्जलरेखाक्तशरत्पंकजलोच नाम् ॥
चंदनागुरुकस्तूरीचित्रपत्रविभूषिताम्
मुक्तापंक्तिप्रभामुष्टदंतराजिविराजिताम् ॥
प्रफुल्लमालतीमालासंसक्तकबरीं वराम्
पक्षींद्रचंचुनासाग्रगजेंद्रमौक्तिकान्विताम् ॥
वह्निशुद्धांशुकेनातिज्वलितेन समुज्ज्वलाम्
सिंहपृष्ठसमारूढां सुताभ्यां सहितां मुदा ॥
अवरुह्य रथात्तूर्ण श्रीकृष्णं प्रणनाम च
सुताभ्यां सहिता देवी समुवा स वराननाः ॥
गणेशः कार्त्तिकेयश्च नत्वा कृष्ण परात्परम्
ननाम शंकरं धर्ममनंतं कमलोद्भवम् ॥
उत्तस्थुरारात्ते देवा दृष्ट्वा तौ त्रिदशेश्वरौ
आशिषं च ददुर्देवा वासयामासुरंतिके ॥
ताभ्यां सह सदालापं चक्रुर्देवा मुदाऽन्विताः
तस्थुर्देवाः सभामध्ये देवस्य पुरतो हरेः ॥
गोपा गोप्यश्च बहुशो बभूवुर्विस्मयाकुलाः
उवाच कमलां कृष्णः स्मेराननसरोरुहः ॥
त्वं गच्छ भीष्मकगृहं नानारत्नसमन्वितम्
वैदर्भ्या उदरे जन्म लभ देवि सना तनि ॥
तव पाणिं ग्रहीष्यामि गत्वाऽहं कुंडिनं सति
ता देव्यः पार्वतीं दृष्ट्वा समुत्थाय त्वरान्विताः ॥
रत्नसिंहासने रम्ये वासयामासुरीश्वरीम्
विप्रेंद्र पार्वतीलक्ष्मीवागधिष्ठातृदेवताः ॥
तस्थुरेकासने तत्र संभाष्य च यथोचि तम्
ताश्च संभाषयामासुः संप्रीत्या गोपकन्यकाः ॥
ऊचुर्गोपालिकाः काश्चिन्मुदा तासां च संनिधौ
श्रीकृष्णः पार्वतीं तत्र समुवाच जगत्पतिः ॥
देवि त्वमंशरूपेण जन नंदव्रजे शुभे
उदरे च यशोदायाः कल्याणी नंदरेतसा ॥
लभ जन्म महामाये सृष्टिसंहारकारिणि
ग्रामे ग्रामे च पूजां ते कारयिष्यामि भूतले ॥
कृत्स्ने महीतले भक्त्या नगरेषु वनेषु च
तत्राधिष्ठातृदेवीं त्वां पूजयिष्यंति मानवाः ॥
द्रव्यैर्नानाविधैर्दिव्यैर्बलिभिश्च मुदाऽन्विताः
त्वद्भूमिस्पर्शमात्रेण सूतिकामंदिरे शिवे ॥
पिता मां तत्र संस्थाप्य त्वामादाय गमिष्यति
कंसदर्शन मात्रेण गमिष्यसि शिवांतिकम् ॥
भारावतरणं कृत्वा गमिष्यामि स्वमाश्रमम्
इत्युक्त्वा श्रीहरिस्तूर्णमुवाच च षडाननम् ॥
अंशरूपेण वत्स त्वं गमिष्यसि महीतलम्
जांबवत्याश्च गर्भे च लभ जन्म सुरेश्वर ॥
अंशेन देवताः सर्वा गच्छंतु धरणीतलम्
भारहारं करिष्यामि वसुधायाश्च निश्चितम् ॥
इत्युक्त्वा राधिकानाथस्तस्थौ सिंहासने वरे
तस्थुर्देवाश्च देव्यश्च गोपा गोप्यश्च नारद ॥
एतस्मिन्नंतरे ब्रह्मा समुत्तस्थौ हरेः पुरः ॥
पुटांजलिर्जगत्कांतमुवाच विन यान्वितः
॥ ब्रह्मोवाच ॥ ॥
अवधानं कुरु विभो किंकरस्य निवेदनम्
आज्ञां कुरु महाभाग कस्य कुत्र स्थलं भुवि ॥
भर्ता पातोद्धारकर्ता सेवकानां प्रभुः सदा
स भृत्यः सर्वदा भक्त ईश्वराज्ञां करोति यः ॥
के देवाः केन रूपेण देव्यश्च कलया कया
कुत्र कस्याभिदेयं च विषयं च महीतले ॥
ब्रह्मणो वचनं श्रुत्वा प्रत्युवाच जगत्पतिः
यत्र यस्यावकाशं च कथयामि विधानतः ॥
श्रीकृष्ण उवाच ॥ ॥
कामदेवो रौक्मिणेयो रतिर्मायावती सती
शंबरस्य गृहे या च छायारूपेण संस्थिता ॥
त्वं तस्य पुत्रो भविता नाम्नाऽनिरुद्ध एव च
भारती शोणितपुरे बाणपुत्री भविष्यति ॥
अनंतो देवकीगर्भाद्रौहिणेयो जगत्पतिः
मायया गर्भसंकर्षान्नाम्ना संकर्षणः प्रभुः ॥
कालिंदी सूर्यतनया गंगांशेन महीतले
अर्द्धांशेनैव तुलसी लक्ष्मणा राज कन्यका ॥
सावित्री वेदमाता च नाम्ना नाग्नजिती सती
वसुंधरा सत्यभामा शैब्या देवी सरस्वती ॥
रोहिणी मित्रविंदा च भविता राजकन्यका
सूर्यपत्नी रत्नमाला कलया च जगत्प्रभोः ॥
स्वाहांशेन सुशीला च रुक्मिण्याद्याः स्त्रियो नव
दुर्गांशार्द्धाज्जांबवती महिषीणां दश स्मृताः ॥
अर्द्धांशेन शैलपुत्री यातु जांबवतो गृहम्
कैलासे शंकराज्ञा च बभूव पार्वतीं पुरा ॥
कैलासगामिनं विष्णुं श्वेतद्वीपनिवासिनम् ॥
आलिंगनं देहि कांते नास्ति दोषो ममा ज्ञया
॥ ब्रह्मोवाच ॥
कथं शिवाज्ञा तां देवीं बभूव राधिकापते ॥
विष्णोः संभाषणे पूर्वं श्वेतद्वीपनिवासिनः
॥ श्रीभगवानुवाच ॥ ॥
पुरा गणेशं द्रष्टुं च प्रजग्मुः सर्वदेवताः ॥
श्वेतद्वीपात्स्वयं विष्णुर्जगाम शंकरालये
दृष्ट्वा गणेशं मुदितः समुवास सुखासने ॥
सुखेन ददृशुः सर्वे त्रैलोक्यमोहनं वपुः
किरीटिनं कुंडलिनं पीतांबरधरं वरम् ॥
सुंदरं श्याम रूपं च नवयौवनसंयुतम्
चंदनागुरुकस्तूरीकुंकुमद्रवसंयुतम् ॥
रत्नालंकारशोभाढयं स्मेराननसरोरुहम्
रत्न सिंहासनस्थं च पार्षदैः परिवेष्टितम् ॥
वंदितं च सुरैः सर्वैः शिवेन पूजितं स्तुतम्
तं दृष्ट्वा पार्वती विष्णुं प्रसन्नवदनेक्षणा ॥
मुखमाच्छादितं चक्रे वाससा व्रीडया सती
अतीव सुन्दरं रूपं दर्शंदर्शं पुनःपुनः ॥
ददर्श मुखमाच्छाद्य निमेषरहिता सती
परमाद्भुतवेषं च सस्मिता वक्रचक्षुषा ॥
सुखसागरसम्मग्ना बभूव पुलकांचिता
क्षणं ददर्श पञ्चास्यं शुभ्रवर्णं त्रिलोचनम् ॥
त्रिशूलपरिघधरं कन्दर्पकोटिसुन्दरम्
क्षणं ददर्श श्यामं तमेकास्यं च द्विलोचनम् ॥
चतुर्भुजं पीतवस्त्रं वनमालाविभूषितम्
एकं बह्म मूर्तिभेदमभेदं वा निरूपितम् ॥
दृष्ट्वा बभूव सा माया सकामा विष्णु मायया
मदंशाश्च त्रयो देवा ब्रह्मविष्णुमहेश्वराः ॥
ताभ्यामौत्कर्षपाताच्च श्रेष्ठः सत्त्वगुणात्मकः
दृष्ट्वा तं पार्वती भक्त्या पुलकांचितविग्रहा॥
मनसा पूजयामास परमात्मानमीश्वरम्
दुर्गांतराभिप्रायं च बुबुधे शंकरः स्वयम् ॥
सर्वांतरात्मा भगवानंतर्यामी जगत्पतिः
दुर्गां निर्जनमाहूय तामुवाच हरः स्वयम् ॥
बोधयामास विविधं हितं तथ्यमखंडितम्
॥ श्रीशंकर उवाच ॥ ॥
निवेदनं मदीयं च निबोधं शैलकन्यके ॥
शृंगारं देहि भद्रं ते हरये परमात्मने
अहं ब्रह्मा च विष्णुश्च ब्रह्मैकं च सनातनम् ॥
वदैको वेदरहितो विषयान्मूर्तिभेदकः
एका प्रकृतिः सर्वेषां माता त्वं सर्वरूपिणी ॥
स्वयंभूरसि वाणी त्व लक्ष्मीर्नारायणोरसि
मम वक्षसि दुर्गा त्वं निबोधाध्यात्मकं सति ॥
शिवस्य वचनं श्रुत्वा तमुवाच सुरेश्वरी
॥ पार्वत्युवाच ॥ ॥
दीनबंधो कृपासिंधो तव मामकृपा कथम्॥
सुचिरं तपसा लब्धो नाथस्त्वं जगतां मया
मादृशीं किंकरी नाथ न परित्यक्तुमर्हसि ॥
अयोग्यमीदृशं वाक्यं मा मा वद महेश्वर
तव वाक्यं महादेव करिष्याम्येव पालनम् ॥
देहांतरे जन्म लब्ध्वा भजिष्यामि हरिं हर
इत्येवं वचनं श्रुत्वा विरराम महेश्वरः ॥
उच्चैर्जहासाभयदः पार्वत्यै चाभयं ददौ
तत्प्रतिज्ञापालनाय पार्वती जांबवद्गृहे ॥
लभिष्यति जनुर्धातर्नाम्ना जांबवती सती
॥ ब्रह्मोवाच ॥ ॥
भूमौ कतिविधे भूपे संस्थिते पार्वती कथम् ॥
ललाभ भारते जन्म निंदिते भाल्लुके गृहे
॥ श्रीकृष्ण उवाच ॥ ॥
रामावतारे त्रेतायां देवांशाश्च ययुर्महीम् ॥
हिमालयांशो भल्लूको जांबवान्नाम किंकरः
रामस्य वरदानेन चिरंजीवी श्रिया युतः ॥
कोटिसिंहबलाधानं विधत्ते च महाबलः
पितुरंशगृहे दुर्गा जगामांशेन भूतलम् ॥
पूर्वं पूर्वस्य वृत्तांतं कथितं शृणु मन्मुखात्
सर्वेषां च सुराणां वै वंशा गच्छंतु भूतलम् ॥
नृपपुत्रा मत्सहाया भविष्यंति रणे विधे
कमलाकलया सर्वा भवंतु नृपकन्यकाः ॥
मन्महिष्यो भविष्यंति सहस्राणां च षोडश
धर्मोऽयमंशरूपेण पांडुपुत्रो युधिष्ठिरः ॥
वायोरंशाद्भीमसेनः स वज्री ह्यर्जुनः स्वयम्
नकुलः सहदेवश्च स्वर्वैद्यांशसमुद्भवौ ।
सृर्यांशः कर्णवीरश्च विदुरः स यमः स्वयम्
दुर्योधनः कलेरंशः समुद्रांशश्च शंतनुः ॥
अश्वत्थामा शंकरांशो द्रोणो वह्न्यंशसंभवः
हुताशनांशो भगवान्धृष्टद्युम्नो महाबलः ॥
चंद्रांशोऽप्यभिमन्युश्च भीष्मश्चैव वसूद्भवः
वसुदेवः कश्यपांशोऽप्यदित्यंशा च देवकी ॥
वस्वंशो नंदगोपश्च यशोदा वसुका मिनी
द्रौपदी कमलांशा च यज्ञकुंडसमुद्भवा ॥
सुभद्रा शतरूपांशा देवकीगर्भसंभवा
देवा गच्छंतु पृथिवीमंशेन भारहारकाः ॥
कलया देवपत्न्यश्च गच्छंतु पृथिवीतलम्
इत्येवमुक्त्वा भगवान्विरराम च नारद ॥
सर्वं विवरणं श्रुत्वा तत्रोवास प्रजापतिः
कृष्णस्य वामे वाग्देवी दक्षिणे कमलालया ॥
पुरतो देवताः सर्वाः पार्वती चापि नारद
गोप्यो गोपाश्च परितो राधा वक्षःस्थलस्थिता ॥
एतस्मिन्नंतरे सा च तमुवाच व्रजेश्वरी
॥ राधिकोवाच ॥
शृणु नाथ प्रवक्ष्यामि किंकरीवचनं प्रभो ॥
प्राणा दहंति सततमांदोलयति मे मनः
चक्षुर्निमीलनं कर्तुमशक्ता तव दर्शने ॥
त्वया विना कथं नाथ यास्यामि धरणीतलम्
कियत्कालांतरेणैव मेलनं मे त्वया सह ॥
प्राणेश्वर ब्रूहि सत्यं भविष्यत्येव गोकुले
निमेषं च युगशतं भविता मे त्वया विना ॥
कं द्रक्ष्यामि क्व यास्यामि को वा मां पालयिष्यति
मातरं पितरं बंधुं भ्रातरं भगिनीं सुतम् ॥
त्वया विनाऽहं प्राणेश चिंतयामि न कश्चन
करोषि मायया छन्ना मां चेन्मायेश भूतले ॥
विस्मृतां विभवं दत्त्वा मे सत्यं शपथं कुरु
अनुक्षणं मम मनोमधुपो मधुसूदन ॥
करोतु भ्रमणं नित्यं समाध्वीके पदांबुजे
यत्रयत्र च यस्यां वा योनौ जन्म भवत्विदम् ॥
त्वं स्वस्य स्मरणं दास्यं मह्यं दास्यसि वांछितम्
कृष्णस्त्वं राधिकाऽहं च प्रेमसौभाग्यमावयोः ॥
न विस्मरामि भूमौ च देहि मह्यं वरं परम्
यथा तन्वा सह प्राणाः शरीरं छायया सह ॥
तथाऽऽवयोर्जन्म यातु देहि मह्यं वरं विभो
चक्षुर्निमेषविच्छेदो भविता नावयोर्भुवि ॥
तत्रागत्यापि कुत्रापि देहि मह्यं वरं प्रभो
मम प्राणैस्तव तनुः केन वा करुणा हरे ॥
आत्मना मुरलीपादौ मनसा वा विनिर्मितौ
स्त्रियः कतिविधाः संति पुरुषा वा पुरुष्टुत ॥
नास्ति कुत्रापि कांता वा कांत्या शक्त्या च मादृशी
तव देहार्धभागेन केन वाऽहं विनिर्मिता ॥
अयमेवावयोर्भेदो नास्त्यतस्त्वयि मे मनः
ममात्मा मानसं प्राणास्त्वयि संस्थापिता यथा ॥
तवात्ममानसप्राणा मयि वा संस्थितास्तथा
अतो निमेषविरहादात्मनोर्विक्लवं मनः ॥
प्रदग्धं सन्ततं प्राणा दहंति विरहश्रुतौ
इत्येवमुक्त्वा सा देवी तत्रैव सुरसंसदि॥
भूयोभूयो रुरोदोच्चैर्धृत्वा तच्चरणांबुजम्
क्रोडे कृत्वा तु तां कृष्णो मुखं संमृज्य वाससा ॥
बोधयामास विविधं सत्यं तथ्यं हितं वचः
श्रीकृष्ण उवाच ॥
आध्यात्मिकं परं योगं शोकच्छेदनकारकम् ॥
शृणु देवि प्रवक्ष्यामि योगींद्राणां च दुर्लभम्
आधाराधेययोः सर्वं ब्रह्मांडं पश्य सुन्दरि ॥
आधारव्यतिरेकेण नास्त्याधेयस्य संभवः ॥
फलाधारं च पुष्पं च पुष्पाधारं च पल्लवम् ॥
स्कन्धश्च पल्लवाधारः स्कन्धाधारस्तरुः स्वयम्
वृक्षाधारो ऽप्यंकुरश्च जीवशक्तिसमन्वितः ॥
अष्टिरेकांकुराधारश्चाष्ट्याधारो वसुन्धरा
शेषो वसुन्धराधारः शेषाधारो हि कच्छपः॥
वायुश्च कच्छपाधारो वाय्वाधारोऽहमेव च
ममाधारस्वरूपा त्वं त्वयि तिष्ठामि सांप्रतम् ॥
त्वं च शक्तिसमूहा च मूलप्रकृ तिरीश्वरी
त्वं शरीरस्वरूपाऽसि त्रिगुणाऽऽधाररूपिणी ॥
तवात्माऽहं निरीहश्च चेष्टावांश्च त्वया सह
पुरुषाद्वीर्यमुत्पन्नं वीर्यात्सन्ततिरेव च ॥
तयोराधाररूपा च कामिनी प्रकृतेः कला
विना देहेन क्वात्मा च क्व शरीरं विनाऽऽत्मना॥
प्राधान्यं च तयोर्देवि विना त्वाऽद्य कुतो भवः
न कुत्राप्यावयोर्भेदो राधे संसारबीजयोः ॥
यत्रात्मा तत्र देहं च न भेदो विनयेन किम्
यथा क्षीरे च धावल्यं दाहिका च हुताशने ॥
भूमौ गन्धो जले शैत्यं तथा त्वयि मयि स्थिते
धावल्यदुग्धयोरैक्यं दाहिकानलयोर्यथा ॥
भूगन्धजलशैत्यानां नास्ति भेदस्तथाऽऽवयोः
मया विना त्वं निर्जीवा चादृश्योऽहं त्वया विना ॥
त्वया विना भवं कर्तुं नालं सुन्दरि निश्चितम्
विना मृदा घटं कर्तुं यथा नालं कुलालकः ॥
विना स्वर्णं स्वर्णकारोऽलंकारं कर्तुमक्षमः
स्वयमात्मा यथा नित्यस्तथा त्वं प्रकृतिः स्वयम् ॥
सर्वशक्तिसमायुक्ता सर्वाधारा सनातनी
मम प्राणसमा लक्ष्मीवाणी च सर्वमंगला ॥
ब्रह्मेशानन्तध र्माश्च त्वं मे प्राणाधिका प्रिया
समीपस्था इमे सर्वे सुरा देव्यश्च राधिके ॥
एभ्योऽप्यधिका नो चेत्कथं वक्षः स्थलस्थिता
त्यजाश्रुमोक्षणं राधे भ्रांतिं च निष्फलां सति ॥
विहाय शंकां निःशंकं वृषभानुगृहं व्रज
कलावत्याश्च जठरे मासानां नव सुन्दरि ॥
वायुना पूरयित्वा च गर्भं रोधय मायया
दशमे समनुप्राप्ते त्वमाविर्भव भूतले ॥
स्वात्मरूपं परित्यज्य शिशुरूपं विधाय च
वायुनिःसारणे काले कलावत्याः समीपतः ॥
भूमौ विवसनीभूय पतित्वा रोदिषि ध्रुवम्
अयोनिसंभवा त्वं च भविता गोकुले सति ॥
अयोनिसंभवोऽहं च नावयोर्गर्भसंस्थितिः
भूमिसंस्पृष्टमात्रं मां गोकुले प्रापयिष्यति ॥
तव हेतोर्गमिष्यामि कृत्वा कंसभयं छलम्
यशोदामंदिरे मां च सानन्दं नन्दनंदनम् ॥
नित्यं द्रक्ष्यसि कल्याणि ममाश्लेषणपूर्वकम्
स्मृतिस्ते भविता काले वरेण मम राधिके ॥
स्वच्छन्दं विहरिष्यामि नित्यं वृन्दावने वने
त्रिःसप्तशतकोटीभिर्गोपीभिर्गोकुलं व्रज ॥
त्रयस्त्रिंशद्वयस्याभिः सुशीलादिभिरेव च
संस्थाप्य संख्यारहिता गोपीर्गोकुल एव च ॥
ता आश्वास्य प्रबोधैश्च मितया च सुधागिरा
अहं गोपाल सुहृदः संस्थाप्यात्रैव राधिके ॥
वसुदेवाश्रमं पश्चाद्यास्यामि मथुरां पुरीम्
व्रजे व्रजन्तु क्रीडार्थं मम संगे प्रियात्प्रियाः॥
बल्लवानां गृहे जन्म लभन्तां गोपकोटयः
इत्येवमुक्त्वा श्रीकृष्णो विरराम च नारद ॥
ऊषुर्देवाश्च देव्यश्च गोपा गोप्यश्च तत्र वै
ब्रह्मेशशेषधर्माश्च श्रीकृष्णं तं परात्परम् ॥
शिवापद्मासरस्वत्यस्तुष्टुवुः परया मुदा
भक्त्या गोपाश्च गोप्यश्च विरहज्वरकातराः ॥
तत्र संस्तूय श्रीकृष्णं प्रणेमुः प्रेमविह्वलाः ॥ २३८
प्राणाधिकं प्रियं कांतं राधापूर्णमनोरथम् ॥
परितुष्टोऽभवद्भक्त्याविरहज्वरकातराम्
साश्रुपूर्णातिदीनां च दृष्ट्वा राधां भयाकुलाम् ॥
प्रबोधवचनं श्रुत्यमुवाच तां हरिः स्वयम्
॥ श्रीकृष्ण उवाच ॥
प्राणाधिके महादेवि स्थिरा भव भयं त्यज ॥
यथा त्वं च तथाऽहं च का चिंता ते मयि स्थिते
किं तु ते कथयिष्यामि किंचिदेवास्त्यमंगलम् ॥
वर्षाणां शतकं पूर्णं त्वद्विच्छेदो मया सह
श्रीदामशापजन्येन कर्मभोगेन सुन्दरि ॥
भविष्यत्येव मम च मथुरागमनं ततः
तत्र भारावतरणं पित्रोर्बंधनमोचनम् ॥
मालाकारतंतुवायकुब्जिकानां च मोक्षणम्
घातयित्वा च यवनं मुचुकुन्दस्य मोक्षणम् ॥
द्वारकायाश्च निर्माणं राजसूयस्य दर्शनम्
उद्वाहं राजकन्यानां सहस्राणां च षोडश ॥
दशाधिकशतस्यापि शत्रूणां दमनं तथा
मित्रोपकरणं चैव वाराणस्याश्च दाहनम् ॥
हरस्य जृंभणं तत्र बाणस्य भुजकृंतनम्
पारिजातस्य हरणं यद्यत्कर्माणि तानि च ॥
गमनं तीर्थयात्रायां मुनिसंघप्रदर्शनम्
संभाषणं च बंधूनां यज्ञसंपादनं पितुः ॥
शुभक्षणे पुनस्तत्र त्वया सार्द्धं प्रदर्शनम् ॥
करिष्यामि च तत्रैव गोपिकानां च दर्शनम्
तुभ्यमाध्यात्मिकं दत्त्वा पुनः सत्यं त्वया सह ॥
दिवानिशमविच्छेदो मया सार्द्धमतः परम्
भविष्यति त्वया सार्द्धं पुनरागमनं व्रजे ॥
कांते विच्छेदसमये वर्षाणां शतके सति
नित्यं संमीलन स्वप्ने भविष्यति त्वया सह ॥
मम नारायणांशो यस्तस्य यानं च द्वारकाम्
शतवर्षांतरे साध्यमेतदेव सुनिश्चितम् ॥
भविष्यति पुनस्तत्र वने रासस्त्वया सह
पुनः पित्रोश्च गोपीनां शोकसंमार्जनं परम् ॥
कृत्वा भारावतरणं पुनरागमनं मम
त्वया सहापि गोलोकं गोपैर्गोपीभिरेव च ॥
मम नारायणांशस्य वाण्या च पद्मया सह
वैकुंठगमनं राधे नित्यस्य परमात्मनः ॥
श्वेतद्वीपं धर्मगेहमंशानां च भविष्यति
देवानां चैव देवीनामंशा यास्यंति स्वक्षयम् ॥
पुनः संस्थितिरत्रैव गोलोके मे त्वया सह
इत्येवं कथितं सर्वं भविष्यं च शुभाशुभम् ॥
मया निरूपितं यत्तत्कांते केन निवार्यते
इत्येवमुक्त्वा श्रीकृष्णः कृत्वा राधां स्ववक्षसि ॥
तस्थौ तस्थुः सुराः सर्वे सुरपत्न्यश्च विस्मिताः
उवाच श्रीहरिर्देवान्देवीं च समयोचितम् ॥
देवा गच्छत कार्यार्थं स्वालयं विषयोचितम्
गच्छ पार्वति कैलासं सुताभ्यां स्वामि ना सह ॥
मया नियोजितं कर्म सर्वं काले भविष्यति
भविता कलया जन्म सर्वेषां च व्रजेश्वरि ॥
क्षुद्राणां चैव महतां देवं लंबोदरं विना
प्रणम्य श्रीहरिं देवाः स्वालयं प्रययुर्मुदा ॥
लक्ष्मीं सरस्वतीं भक्त्या प्रणम्य पुरुषोत्तमम्
हरिणा योजितं कर्म कर्तुं व्यग्रा महीं ययुः ॥
भर्त्रा निरूपितं स्थानं देवानामपि दुर्लभम्
उवाच राधिकां कृष्णो वृषभानुगृहं व्रज ॥
गोपगोपीसमूहैश्च सह पूर्वनिरूपितैः
अहं यास्यामि मथुरां वसुदेवालयं प्रिये ॥
पश्चात्कंसभय व्याजाद्गोकुलं तव सन्निधिम्
राधा प्रणम्य श्रीकृष्णं रक्तपंकजलोचना ॥
भृशं रुरोद पुरतः प्रेमविच्छेदकातरा
स्थायंस्थायं क्वचिद्यांती गत्वागत्वा पुनः पुनः ॥
पुनः पुनः समागत्य दर्शंदर्शं हरेर्मुखम्
पपौ चक्षुश्चकोराभ्यां निमेषरहिता सती ॥
शरत्पार्वणचंद्राभसुधापूर्णं प्रभोर्मुखम्
ततः प्रदक्षिणीकृत्य सप्तधा परमेश्वरी ॥
प्रणम्य सप्तधा चैव पुनस्तस्थौ हरेः पुरः
आजग्मुर्गोपिकानां च त्रिःसप्तशतकोटयः ॥
आजगाम च गोपानां समूहः कोटिसंख्यकः
गोपानां गोपिकानां च समूहैः सह राधिका ॥
पुनः प्रणम्य तं राधा तत्र तस्थौ च नारद
त्रयस्त्रिंशद्वयस्याभिर्गोपीभिः सह सुंदरी ॥
गोपानां च समूहैश्च प्रणम्य प्रययौ महीम्
हरिणा योजितं स्थानं प्रजग्मुर्नंदगोकुलम् ॥
वृषभानुगृहं राधा गोपीगोपगृहं ययौ
महीं गतायां राधायां गोपीभिः सह गोपकैः ॥
बभूव श्रीहरिः सद्यः पृथिवीं गमनोत्सुकः
संभाष्य गोपान्गोपीश्च नियोज्य स्वीयकर्मणि ॥
मनोयायी जगन्नाथो जगाम मथुरां हरिः
पूर्वं यद्यदपत्यं च देवकीवसुदेवयोः ॥
बभूव सद्यस्तत्कंसः पुत्रषट्कं जघान ह
शेषांशं सप्तमं गर्भं माययाऽऽकृष्य गोकुले ॥
निधाय रोहिणीगर्भे जगाम चाज्ञया हरेः
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंडे नारायणनारदसंवादे षष्ठोऽध्यायः
मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0