ब्रह्मवैवर्त पुराण · अध्याय 4.5
श्रीनारायण उवाच ॥
गोलोकं निखिलं दृष्ट्वा देवास्ते हृष्टमानसाः ॥
पुनराजग्मू राधायाः प्रधानद्वारमेव च
सद्रत्नमणिनिर्माणं वेदिकायुग्मसंयुतम् ॥
हरिद्राकारमणिना वज्रसंमिश्रितेन च
अमूल्यरत्नरचितकपाटेन विभूषितम् ॥
द्वारे नियुक्तं ददृशुर्वीरभानुमनुत्तमम्
रत्नसिंहासनस्थं च रत्नाभरणभूषितम् ॥
पीतवस्त्रपरीधानं सद्रत्नमुकुटोज्ज्वलम्
द्वारं चित्रविचित्रेण विचित्रं परमाद्भुतम् ॥
सर्वं निवेदनं चक्रुर्देवा दौवारिकं मुदा
तानुवाच द्वारपालो निःशंकं त्रिदशेश्वरान् ॥
नाहं विनाऽऽज्ञया गंतुं दातुं सांप्रतमीश्वरः
किंकरान्प्रेषयामास श्रीकृष्णस्थानमेव च ॥
हरेरनुज्ञां संप्राप्य ददौ गंतुं सुरान्मुने
तं संभाष्य ययुर्देवा द्वितीयं द्वारमुत्तमम् ॥
ततोऽधिकं विचित्रं च सुंदरं सुमनोहरम्
द्वारे नियुक्तं ददृशुश्चंद्रभानुं च नारद ॥
किशोरं श्यामलं चारु स्वर्णवेत्रधरं वरम्
रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ॥
गोपानां च समूहेन पंचलक्षेण शोभितम्
तं संभाष्य ययुर्देवास्तृतीयं द्वारमुत्तमम् ॥
ततोऽतिसुन्दरं चित्रं ज्वलन्तं मणितेजसा
द्वारे नियुक्तं ददृशुः सूर्यभानुं च नारद ॥
द्विभुजं मुरलीहस्तं किशोरं श्यामसुन्दरम्
मणिकुण्डलयुग्मेन कपोलस्थलराजितम् ॥
रत्नदंडकरं श्रेष्ठं प्रेष्यं राधेशयोः परम्
नवलक्षेण गोपानां वेष्टितं च नृपेंद्रवत् ॥
तं संभाष्य ययुर्देवाश्चतुर्थं द्वारमेव च
तेभ्यो विलक्षणं रम्यं सुदीप्तं मणितेजसा ॥
अत्यद्भुतविचित्रेण भूषितं सुमनोहरम्
द्वारे नियुक्तं ददृशुर्वसुभानुं व्रजेश्वरम् ॥
किशोरं सुन्दरवरं मणिदण्डकरं परम्
रत्नसिंहासनस्थं च रत्नभूषणभूषितम् ॥
पक्वबिंबाधरोष्ठं च सस्मितं सुमनोहरम्
तं संभाष्य ययुर्देवा पञ्चमं द्वारमेव च ॥
वज्रभित्तिस्थितैश्चित्रविचित्रैर्ज्वलितं परम्
द्वारपालं च ददृशुर्देवभानुं च तत्र वै ॥
चारु सिंहासनस्थं च रत्नभूषणभूषितम्
मयूरपिच्छचूडं च रत्नमालाविभूषितम् ॥
कदंबपुष्पसंसक्तसद्रत्नकुण्डलोज्ज्वलम्
चंदनागरुकस्तूरीकुङ्कुमद्रवचर्चितम् ॥
नृपेंद्रवरतुल्यं च दशलक्षप्रजान्वितम्
तं वेत्रपाणिं संभाष्य ययुर्देवा मुदाऽन्विताः ॥
विलक्षणं द्वारषट्कं चित्रराजिविराजितम्
वज्रभित्तियुग्मयुक्ते पुष्पमाल्यविभूषिते ॥
द्वारे नियुक्तं ददृशुः शुक्रभानुं व्रजेश्वरम्
नानालंकारशोभाढ्यं दशलक्षप्रजान्वितम् ॥
श्रीखंडपल्लवासक्तकपोलं कुण्डलोज्ज्वलम्
तूर्णं सुरास्तं सभाष्य ययुर्द्वारं च सप्तमम् ॥
नानाप्रकारचित्रं च षड्भ्यश्चातिविलक्षणम्
द्वारे नियुक्तं ददृशू रत्नभानुं हरेः प्रियम् ॥
चंदनोक्षितसर्वांगं पुष्पमालाविभूषितम् ॥
भूषितं भूषणै रम्यैर्मणिरत्नमनोहरैः
गोपैर्द्वादशलक्षैश्च राजेंद्रमिव राजितम् ॥
रत्नसिंहासनस्थं च स्मेराननसरोरुहम्
तं वेत्रहस्तं संभाष्य जग्मुर्देवेश्वरा मुदा ॥
विचित्रमष्टमं द्वारं सप्तभ्योऽपि विलक्षणम्
दौवारिकं ते ददृशुः सुपार्श्वं सुमनोहरम् ॥
सस्मितं सुन्दरवरं श्रीखण्डतिलकोज्ज्वलम्
बन्धुजीवाधरोष्ठं च रत्नकुण्डलमंडितम् ॥
सर्वालंकारशोभाढ्यं रत्नदण्डधरं वरम्
गोपैर्द्वादशलक्षैश्च किशोरैश्च समन्वितम् ॥
ततः शीघ्रं ययुर्देवा नवमं द्वारमीप्सितम्
वज्रसद्रत्नरचितं चतुर्वेदिसमन्वितम् ॥
अपूर्वचित्ररचितमालजालैर्विराजितम्
द्वारपालं च ददृशुः सुबलं ललिताकृतिम् ॥
नानाभूषणशोभाढ्यं भूषणार्हं मनोहरम्
वज्रैर्द्वादशलक्षैश्च संयुक्तं सुमनोहरम् ॥
तं दण्डहस्तं सम्भाष्य सुरा द्वारातरं ययुः
विशिष्टं दशमं द्वारं दृष्ट्वा ते विस्मयं ययुः ॥
सर्वानिर्वचनीयं चाप्यदृष्टमश्रुतं मुने
ददृशुर्द्वारपालं च सुदामानं च सुन्दरम् ॥
अनिवर्चनीयरूपं कृष्णतुल्यं मनोहरम्
गोपविंशतिलक्षाणां समूहैः परिवारितम् ॥
तं दण्डहस्तं दृष्ट्वैव जग्मुर्द्वारांतरं सुराः
द्वारमेकादशाख्यं च सुचित्रं महदद्भुतम् ॥
द्वारपालं च तत्रस्थं श्रीदामानं व्रजेश्वरम्
राधिकापुत्रतुल्यं च पीतवस्त्रेण भूषितम् ॥
अमूल्यरत्नरचितरत्नसिंहासनस्थितम्
अमूल्यरत्नभूषाभिर्भूषितं सुमनोहरम् ॥
चन्दनागुरुकस्तूरीकुंकुमेन विराजितम्
गण्डस्थलकपोलार्हसद्रत्नकुण्डलोज्ज्वलम् ॥
सद्रत्नश्रेष्ठरचितविचित्रमुकुटोज्ज्वलम्
प्रफुल्लमालतीमालाजालैः सर्वांगभूषितम् ॥
कोटिगोपैः परिवृतं राजेन्द्राधिकमुज्ज्वलम्
तं संभाष्य ययुर्द्वारं द्वादशाख्यं सुरा मुदा ॥
अमूल्यरत्नरचितवेदिकाभिः समन्वितम्
सर्वेषां दुर्लभं चित्रमदृश्यमश्रुतं मुने ॥
वज्रभित्तिस्थितं चित्रं सुन्दरं सुमनोहरम्
द्वारे नियुक्ता ददृशुर्देवा गोपांगना वराः ॥
नवयौवनसंपन्ना रत्नाभरणभूषिताः
पीतवस्त्रपरीधानाः कबरीभारभूषिताः ॥
सुगंधिमालतीमाला जालैः सर्वांगभूषिताः
रत्नकंकणकेयूररत्ननूपुरभूषिताः ॥
रत्नकुंडलयुग्मेन गण्डस्थलविराजिताः
चन्दनागुरु कस्तूरीकुंकुमद्रवचर्चिताः ॥
पीनश्रोणीभरानम्रा नितंबाभारपीडिताः
गोपीनां शतकोटीनां श्रेष्ठाः प्रेष्ठा हरेरपि ॥
गोपीश्च कोटिशो दृष्ट्वा सुरास्ते विस्मयं ययुः
संभाष्य ता मुदा युक्ता ययुर्द्वारातरं मुने ॥
ततश्च क्रमशो विप्र त्रिषु द्वारेषु तत्र वै
गोपांगनानां श्रेष्ठाश्च ददृशुः सुमनोहराः ॥
वराणां च वरा रम्या धन्या मान्याश्च शोभनाः
सर्वाः सौभाग्ययुक्ताश्च राधिकायाः प्रियाश्च ताः ॥
भूषिता भूषणै रम्यैः प्रोद्भिन्ननवयौवनाः
एवं द्वारत्रयं दृष्ट्वा स्वप्ना ज्ञानाद्भुताश्रुतम् ॥
अदृश्यमतिरम्यं चाप्यनिरूप्यं विचक्षणैः
तास्ताः संभाष्य देवास्ते विस्मिता ययुरीश्वराः ॥
राधिकाभ्यंतरं द्वारं षोडशाख्यं मनोहरम्
सर्वासां च प्रधानं च गोप्यं गोपांगनागणैः ॥
त्रयस्त्रिंशद्वयस्यानां निकरैर्वेष्टितं मुने
तेषामनिर्वचनीयैर्नानागुणसमन्वितैः ॥
रूपयौवनसंपन्नै रत्नालंकारभूषितैः
रत्नकंकणकेयूरत्ननूपुरभूषितैः ॥
सद्रत्नकिंकिणीजालैमर्ध्यदेशविभूषितैः
रत्नकुंडलयुग्मेन गंडस्थलविराजितैः ॥
प्रफुल्लमालतीमालाजालैर्वक्षस्थलोज्ज्वलैः
शरत्पार्वणपद्मानां प्रभां मुष्णन्मुखेंदुभिः ॥
पारिजातप्रसूनानां मालाजालेन वेष्टितैः ॥
पक्वबिंबाधरोष्ठैश्च स्मेराननसरोरुहैः ॥
पक्वदाडिमबीजाभिः शोभितैर्दंतपंक्तिभिः
चारुचंपकवर्णाभिर्मध्यस्थलकृशैर्मुने ॥
गजमौक्तिकयुक्ताभिर्नासिकाभिर्विराजितैः
खगेंद्रचारुचंचूनां शोभामुष्णाभिरेव च ॥
गजेंद्रगंडकठिन स्तनभारभरानतैः
पीनश्रोणिभरार्तैश्च मुकुंदपदमानसैः ॥
निमेषरहिता देवा द्वारं च ददृशुश्च ताः
लसद्रमणिरत्नैश्च वेदिकायुग्मशोभितम् ॥
हरिन्मणीनां स्तंभानां समूहैः संयुतं सदा
सिंदूराकारमणिभिर्मध्यस्थलविराजितैः ॥
पारिजात प्रसूनानां मालाजालैर्विभूषितम्
तत्संस्पर्शैर्गंधवाहैः सर्वत्र सुरभीकृतम् ॥
दृष्ट्वा तत्परमाश्चर्यं राधिकाभ्यंतरं सुराः
श्रीकृष्णचरणांभोजदर्शनैकमनोरथाः ॥
ताः संभाष्य ययुः शीघ्रं पुलकांचितविग्रहाः
भक्त्युद्रेकादश्रुपूर्णाः किंचिन्नम्रात्मकंधराः ॥
आरात्ते ददृशुर्देवा राधिकाभ्यंतरं वरम्
मंदिराणां च मध्यस्थं चतुःशालं मनोहरम् ॥
अमूल्यरत्नसाराणां सारेण रचितं परम्
नानारत्नमणिस्तंभैर्वज्रयुक्तैश्च भूषितम् ॥
पारिजातप्रसूनानां मालाजालैर्विराजितम्
मुक्तासमूहैर्माणिक्यैः श्वेतचामरदर्पणैः ॥
अमूल्यरत्नसाराणां कलशैर्भूषितं मुने
पट्टसूत्रग्रंथियुक्तश्रीखंडपल्लवान्वितैः ॥
मणिस्तंभसमूहैश्च रम्यप्रांगणभूषितम्
चंदनागुरुकस्तूरीकुंकुमद्रवसंयुतम् ॥
शुक्लधान्यशुक्लपुष्पप्रवालफलतंडुलैः
पर्णदूर्वाक्षतैर्लाजैर्निर्मंछनविभूषितैः ॥
फलयुक्तै रत्नकुंभैः सिंदूरकुंकुमान्वितैः
पारिजातप्रसूनानां मालायुक्तैर्विराजितम् ॥
प्रसूनाक्तैर्गंधवाहैः सर्वत्र सुरभीकृतम्
सर्वानिर्वचनीयं च यद्द्रव्यमनिरूपितम् ॥
ब्रह्मांडे दुर्लभं यद्यद्वस्तुभिस्तैर्विराजितम्
पारिजातप्रसूनानां मालाजालैः सुशोभितम् ॥
रत्नशय्यासु ललिताः सूक्ष्मवस्त्रपरिच्छदाः
कोटिशो रत्नकुंभाश्च रत्नपात्राणि नारद ॥
अमूल्यानि च चारूणि तैस्तैरेव विभूषितम्
नानाप्रकारवाद्यानां कलनादैर्निनादितम्॥
स्वरयंत्रैश्च वीणाभिर्गोपीसंगीतसुश्रुतम्
मोहितं वाद्यशब्दैश्च मृदंगानां च नारद ॥
गोपानां कृष्णतुल्यानां समूहैः परिवारितम्॥
राधासखीनां गोपीनां वृंदैर्वृंदैर्विराजितम् ॥
राधाकृष्णगुणोद्रेकपदसंगीतसुश्रुतम्
एवमभ्यंतरं दृष्ट्वा बभूवुर्विस्मिताः सुराः॥ ।
शुश्रुवुर्मधुरं गीतं ददृशुर्नृत्यमुत्तमम्
तत्र तस्थुः सुराः सर्वे ध्यानैकतानमानसाः ॥
रत्नसिंहासनं रम्यं ददृशुस्त्रिदशेश्वराः
धनुःशतप्रमाणं च परितो वर्तुलाकृतिम्॥
सद्रत्नक्षुद्रकलशसमूहैश्च समन्वितम्
चित्रपुत्तलिकापुष्पचित्रकाननभूषितम् ॥
तत्र तेजःसमूहं च सूर्यकोटिसमप्रभम्
प्रभया ज्वलितं ब्रह्मन्नाश्चर्यं महदद्भुतम् ॥
सप्ततालप्रमाणं तद्व्याप्तमूर्ध्वं समन्ततः
तेजोमुषं च सर्वेषां महाश्रमविवर्जितम् ॥
सर्वव्यापि सर्वबीजं चक्षूरोधकरं परम्
दृष्ट्वा तेजःस्वरूपं च ते देवा ध्यानतत्पराः ॥
प्रणेमुः परया भक्त्या भक्तिनम्रात्मकंधराः
परमानन्दसंयोगादश्रुपूर्णविलोचनाः ॥
पुलकांकितसर्वांगा वांछापूर्णमनोरथाः
नत्वा तेजःस्वरूपं च तमीशं त्रिदशेश्वराः ॥
तत्रोत्थाय ध्यानयुक्ताः प्रतस्थुस्तेजसः पुरः
ध्यात्वैवं जगतां धाता बभूव संपुटांजलिः ॥
दक्षिणे शंकरं कृत्वा वामे धर्मं च नारद
भक्त्युद्रेकात्प्रतुष्टाव ध्यानैकतानमानसः ॥
परात्परं गुणातीतं परमात्मानमीश्वरम्
॥ ब्रह्मोवाच ॥ ॥
वरं वरेण्यं वरदं वरदानां च कारणम् ॥
कारणं सर्वभूतानां तेजोरूपं नमाम्यहम्
मंगलं मंगलानां च मंगलं मंगलप्रदम् ॥
समस्तमंगलाधारं तेजोरूपं नमाम्यहम्
स्थितं सर्वत्र निर्लिप्तमात्मरूपं परात्परम् ॥
निरीहमवितर्क्यं च तेजोरूपं नमाम्यहम्
सगुणं निर्गुणं ब्रह्म ज्योतीरूपं सनातनम् ॥
साकारं च निराकारं तेजोरूपं नमाम्यहम्
तमनिर्वचनीयं च व्यक्तमव्यक्तमेककम् ॥
स्वेच्छामयं सर्वरूपं तेजोरूपं नमाम्यहम्
गुणत्रयविभागाय रूपत्रयधरं परम् ॥
कलया ते कृताः सर्वे किं जानन्ति श्रुतेः परम्
सर्वाधारं सर्वरूपं सर्वबीजमबीजकम् ॥
सर्वांतकमनन्तं च तेजोरूपं नमाम्यहम्
लक्ष्यं षङ्गुणरूपं च वर्णनीयं विचक्षणैः ॥
किं वर्णयामि लक्ष्यं च तेजोरूपं नमाम्यहम्
अशरीरं विग्रहवदिंद्रियं यदतींद्रियम् ॥
यदसाक्षि सर्वसाक्षि तेजोरूपं नमाम्यहम्
गमनार्हमपादं यदचक्षुः सर्वदर्शनम् ॥
हस्तास्यहीनं यद्भोक्तृ तेजोरूपं नमाम्यहम्
वेदे निरूपितं वस्तु सन्तः शक्ताश्च वर्णितुम् ॥
वेदेऽनिरूपितं यत्तत्तेजोरूपं नमाम्यहम्
सर्वेशं यदनीशं यत्सर्वादि यदनादि यत् ॥
सर्वात्मकमनात्मं यत्तेजोरूपं नमाम्यहम्
अहं विधाता जगतो वेदानां जनकः स्वयम् ॥
पाता धर्मो हरो हर्ता स्तोतुं शक्ता न केऽपि यत्
सेवया तव धर्मोऽयं पालने च निरूपितः॥
तवाज्ञया च संहर्ता त्वया काले निरूपिते
निःशेषोत्पत्तिकर्त्ताऽहं त्वत्पादांभोजसेवया ॥
कर्मिणां फलदाता च त्वं भक्तानां च नः प्रभुः ॥ १०७
ब्रह्मांडे बिंबसदृशे भूत्वा विषयिणो वयम् ॥
एवं कतिविधाः संति तेष्वनन्तेषु सेवकाः
यथा न संख्या रेणूनां तथा तेषामणीयसाम् ॥
सर्वेषां जनकश्चेशो यस्तं स्तोतुं च के क्षमाः
एकैकलोमविवरे ब्रह्मांडमेकमेककम् ॥
यस्यैव महतो विष्णोः षोडशांशस्तवैव सः
ध्यायंते योगिनः सर्वे तवैतद्रूपमीप्सितम् ॥
त्वद्भक्तदास्यनिरताः सेवंते चरणांबुजम्
किशोरं सुंदरतरं यक्षं कमनीयकम् ॥
मंत्रध्यानानुरूपं च दर्शयास्माकमीश्वर
नवीनजलदश्यामपीतांबरधरं वरम् ॥
द्विभुजं मुरलीहस्तं सस्मितं सुमनोहरम्
मयूरपिच्छचूडं च मालतीजालमंडितम् ॥
चंदनागुरुकस्तूरीकुङ्कुमद्रवचर्चितम्
अमूल्यरत्नसाराणां सारभूषणभूषितम् ॥
अमूल्यरत्नरचितकिरीटमुकुटोज्ज्वलम्
शरत्प्रफुल्लपद्मानां प्रभामोष्यास्यचंद्रकम् ॥
पक्वबिंबसमानेन ह्यधरोष्ठेन राजितम्
पक्वदाडिमबीजाभदंतपंक्तिमनोहरम् ॥
केलीकदंबमूले च स्थितं रासरसोन्मुखम्
गोपीवक्त्रस्मिततनुं राधावक्षःस्थलस्थितम् ॥
एवं वांछितरूपं ते दृष्टुं को वा न चोत्सुकः
इत्येवमुक्त्वा विश्वसृट् प्रणनाम पुनः पुनः ॥
एवं स्तोत्रेण तुष्टाव धर्मोऽपि शंकरः स्वयम्
ननाम भूयोभूयश्च साश्रुपूर्णविलोचनः ॥
तिष्ठतोऽपि पुनः स्तोत्रं प्रचक्रुस्त्रिदशेश्वराः
व्याप्तास्तत्राश्रमे सर्वे श्रीकृष्णतेजसा मुने ॥
स्तवराजमिमं नित्यं ब्रह्मेशधर्मभिः कृतम्
पूजाकाले हरेरेवं भक्तियुक्तश्च यः पठेत् ॥
सुदुर्लभां दृढां भक्तिं निश्चलां लभते हरेः
सुरासुरमुनींद्राणां दुर्लभं दास्यमेव च ॥
अणिमादिकसिद्धिं च सालोक्यादि चतुष्टयम्
इहैव विष्णुतुल्यश्च विख्यातः पूजितो धुवम् ॥
वाक्सिद्धिर्मंत्रसिद्धिश्च भवेत्तस्य सुनिश्चितम्
सर्वसौभाम्यसंयुक्तं यशसा पूरितं जगत् ॥
पुत्रश्च विद्या कविता निश्चला कमला तथा
पत्नी पतिव्रता साध्वी सुशीला सुस्थिराः प्रजाः ॥
कीर्तिश्च चिरकालीना त्वंते कृष्णांतिके गतिः
इति श्रीब्रह्म वैवर्ते महापुराणे श्रीकृष्णजन्मखंडे गोलोकवर्णने श्रीकृष्णस्तोत्रराजपठनं नाम पंचमोऽध्यायः
मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0