भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.4

4.4.1

॥ नारद उवाच ॥ ॥
केन वा प्रार्थितः कृष्णो महीं च केन हेतुना ॥
आजगाम जगन्नाथो वद वेदविदां वर

4.4.2

॥ नारायण उवाच ॥ ॥
पुरा वाराहकल्पे सा भाराक्रांता वसुंधरा ॥
भृशं बभूव शोकार्ता ब्रह्माणं शरणं ययौ

4.4.3

सुरैश्चासुरसंतप्तैर्भृशमुद्विग्नमानसैः ॥
सार्द्धं तैस्तां दुर्गमां च जगाम वेधसः सभाम्

4.4.4

ददर्श तस्यां देवेशं ज्वलंतं ब्रह्मतेजसा ॥
ऋषीन्द्रैश्च मुनीन्द्रैश्च सिद्धेंद्रैः सेवितं मुदा

4.4.5

अप्सरोगणनृत्यं च पश्यंतं सस्मितं मुदा ॥
गंधर्वाणां च संगीतं श्रुतवंतं मनोहरम्

4.4.6

जपंतं परमं ब्रह्म कृष्ण इत्यक्षरद्वयम् ॥
भक्त्यानंदाश्रुपूर्णं तं पुलकांकितविग्रहम्

4.4.7

भक्त्या सा त्रिदशैः सार्द्धं प्रणम्य चतुराननम् ॥
सर्वं निवेदनं चक्रे दैत्यभारादिकं मुने ॥
साऽश्रुपूर्णा सपुलका तुष्टाव च रुरोद च

4.4.8

तामुवाच जगद्धाता कथं स्तौषि च रोदिषि ॥
कथमागमनं भद्रे वद भद्रं भविष्यति

4.4.9

सुस्थिरा भव कल्याणि भयं किं ते मयि स्थिते॥
आश्वास्य पृथिवीं ब्रह्मा देवान्पप्रच्छ सादरम्

4.4.10

कथमागमनं देवा युष्माकं मम सन्निधिम् ॥
ब्रह्मणो वचनं श्रुत्वा देवा ऊचुः प्रजापतिम्

4.4.11

भाराक्रांता च वसुधा दस्युग्रस्ता वयं प्रभो ॥
त्वमेव जगतां स्रष्टा शीघ्रं नो निष्कृतिं कुरु

4.4.12

गतिस्त्वमस्या भो ब्रह्मन्निर्वृतिं कर्तुमर्हसि ॥
पीडिता येन भारेण पृथिवीयं पितामह

4.4.13

वयं तेनैव दुःखार्तास्तद्भारहरणं कुरु ॥
देवानां वचनं श्रुत्वा तां पप्रच्छ जगद्विधिः

4.4.14

दूरीकृत्य भयं वत्से सुखं तिष्ठ ममांतिकम् ॥
केषां भारमशक्ता त्वं सोढुं पंकजलोचने

4.4.15

अपनेष्यामि तं भद्रे भद्रं ते भविता धुवम् ॥
तस्य सा वचनं श्रुत्वा तमुवाच स्वपीडनम्॥
पीडिता येन येनैवं प्रसन्नवदनेक्षणा

4.4.16

॥ क्षितिरुवाच ॥ ॥
शृणु तात प्रवक्ष्यामि स्वकीयां मानसीं व्यथाम् ॥
विना बंधुं सविश्वासं नान्यं कथितुमर्हति

4.4.17

स्त्रीजातिरबला शश्वद्रक्षणीया स्वबंधुभिः ॥
जनकस्वामिपुत्रैश्च गर्हिताऽन्यैश्च निश्चितम्

4.4.18

त्वया पृष्टा जगत्तात न लज्जा कथितुं मम ॥
येषां भारैः पीडिताऽहं श्रूयतां कथयामि ते

4.4.19

कृष्णभक्तिविहीना ये ये च तद्भक्तनिंदकाः ॥
तेषां महापातकिनामशक्ता भारवाहने

4.4.20

स्वधर्माचारहीना ये नित्यकृत्यविवर्जिताः ॥
श्रद्धाहीनाश्च वेदेषु तेषां भारेण पीडिता

4.4.21

पितृमातृगुरुस्त्रीणां पोषणं पुत्रपोष्ययोः ॥
ये न कुर्वंति तेषां च न शक्ता भारवाहने

4.4.22

ये मिथ्यावादिनस्तात दयासत्य विवर्जिताः ॥
निंदका गुरुदेवानां तेषां भारेण पीडिता

4.4.23

मित्रद्रोही कृतघ्नश्च मिथ्यासाक्ष्यप्रदायकः ॥
विश्वासघ्नो न्यासहर्ता तेषां भारेण पीडिता

4.4.24

कल्याणसूक्तसामानि हरेर्नामैकमंगलम् ॥
कुर्वंति विक्रयं ये वै तेषां भारेण पीडिता

4.4.25

जीवघाती गुरुद्रोही ग्रामयाजी च लुब्धकः ॥
शवदाही शूद्रभोजी तेषां भारेण पीडिता

4.4.26

पूजायज्ञोपवासादि व्रतानि विविधानि च ॥
ये ये मूढा विहंतारस्तेषां भारेण पीडिता

4.4.27

सदा द्विषंति ये पापा गोविप्रसुरवैष्णवान् ॥
हरिं हरिकथां भक्तिं तेषां भारेण पीडिता

4.4.28

शंखादीनां च भारेण पीडिताऽहं यथा विधे ॥
ततोऽधिकानां दैत्यानां भारेण परिपीडिता

4.4.29

इत्येवं कथितं सर्वं मद्व्यथाया निवेदनम् ॥
त्वया यदि सुपाल्याऽहं प्रतीकारं कुरु प्रभो

4.4.30

इत्येवमुक्त्वा वसुधा रुरोद च मुहुर्मुहुः ॥
ब्रह्मा तद्रोदनं दृष्ट्वा तामुवाच कृपानिधिः

4.4.31

भारं तवापनेष्यामि दस्यूनामप्युपायतः ॥
उपायतोऽपि कार्याणि सिद्ध्यंत्येव वसुन्धरे

4.4.32

कालेन भारहरणं करिष्यति मदीश्वरः ॥
मन्त्रं मंगलकुम्भं च शिवलिंगं च कुंकुमम्

4.4.33

मधुकाष्ठं चंदनं च कस्तूरीं तीर्थमृत्तिकाम् ॥
खङ्गगंडकखंडं च स्फाटिकं पद्मरागकम्

4.4.34

इंद्रनीलं सूर्यमणिं रुद्राक्षं कुशमूलकम् ॥
शालग्रामशिलां शंखं तुलसीं प्रतिमां जलम्

4.4.35

शंखं प्रदीपमालां च शिलामर्च्यां च घंटिकाम्॥
निर्माल्यं चैव नैवेद्यं हरिद्वर्णमणिं तथा॥
ग्रंथियुक्तं यज्ञसूत्रं दर्पणं श्वेतचामरम्

4.4.36

गोरोचनं च मुक्तां च शुक्तिं माणिक्यमेव च ॥
पुराणसंहितां वह्निं कर्पूरं परशुं तथा

4.4.37

रजतं कांचनं चैव प्रवालं रत्नमेव च ॥
कुशबीजं तीर्थतोयं गव्यं गोमूत्रगोमयम्

4.4.38

त्वयि ये स्थापयिष्यंति मूढाश्चैतानि सुन्दरि ॥
पच्यन्ते कालसूत्रेण वर्षाणामयुतं ध्रुवम्

4.4.39

ब्रह्मा पृथ्वीं समाश्वास्य देवताभिस्तया सह ॥
जगाम जगतां धाता कैलासं शंकरालयम्

4.4.40

गत्वा तमाश्रमं रम्यं ददर्श शंकरं विधिः ॥
वसंतमक्षयवटमूले स्वःसरितस्तटे

4.4.41

व्याघ्रचर्मपरीधानं दक्षकन्यास्थिभूषणम् ॥
त्रिशूलपट्टिशधरं पंचवक्त्रं त्रिलोचनम्

4.4.42

नानासिद्धैः परिवृतं योगींद्रगणसेवितम्॥
परितोऽप्सरसां नृत्यं पश्यंतं सस्मितं मुदा

4.4.43

गंधर्वाणां च संगीतं श्रुतवंतं कुतूहलात् ॥
पश्यंतीं पार्वतीं प्रीत्या पश्यंतं वक्रचक्षुषा

4.4.44

जपंतं पञ्चवक्त्रेण हरेर्नामैकमङ्गलम् ॥
मंदाकिनीपद्मबीजमालया पुलकांकितम्

4.4.45

एतस्मिन्नंतरे ब्रह्मा तस्थावग्रे स धूर्जटेः ॥
पृथिव्या सुरसंघैश्च सार्द्धं प्रणतकंधरैः

4.4.46

उत्तस्थौ शंकरः शीघ्रं भक्त्या दृष्ट्वा जगद्गुरुम् ॥
ननाम मूर्ध्ना संप्रीत्या लब्धवानाशिषं ततः

4.4.47

प्रणेमुर्देवताः सर्वे शंकरं चंद्रशेखरम् ॥
प्रणनाम धरा भक्त्या चाशिषं युयुजे हरः

4.4.48

वृत्तांतं कथयामास पार्वतीशं प्रजापतिः ॥
श्रुत्वा नतमुखस्तूर्णं शंकरो भक्तवत्सलः

4.4.49

भक्तापायं समाकर्ण्य पार्वतीपरमेश्वरौ ॥
बभूवतुस्तौ दुःखार्तौ बोधयामास तौ विधिः

4.4.50

ततो ब्रह्मा महेशश्च सुरसंघान्वसुंधराम् ॥
गृहं प्रस्थापयामास समाश्वास्य प्रयत्नतः

4.4.51

ततो देवेश्वरैस्तूर्णमागत्य धर्ममंदिरम् ॥
सह तेन समालोच्य प्रजग्मुर्भवनं हरेः

4.4.53

वैकुंठं परमं धाम जरामृत्युहरं परम् ॥
वायुना धार्यमाणं च ब्रह्मांडादूर्ध्वमुत्तमम् ॥
कोटियोजनमूर्ध्वं च ब्रह्मलोकात्सनातनम् ५२ ॥
वर्णनीयं न कविभिर्विचित्रं रत्ननिर्मितम् ॥
पद्मरागैरिंद्रनीलै राजमार्गैर्विभूषितम्

4.4.54

ते मनोयायिनः सर्वे संप्रापुस्तं मनोहरम् ॥
हरेरंतःपुरं गत्वा ददृशुः श्रीहरिं सुराः

4.4.95

रत्नसिंहासनस्थं च रत्नालंकारभूषितम् ॥
रत्नकेयूरवलयरत्ननूपुरशोभितम्

4.4.56

रत्नकुण्डलयुग्मेन गंडस्थलविराजितम् ॥
पीतवस्त्रपरीधानं वनमालाविभूषितम्

4.4.57

शांतं सरस्वतीकांतं लक्ष्मीधृतपदांबुजम् ॥
कोटिकंदर्पलीलाभं स्मितवक्त्रं चतुर्भुजम्

4.4.58

सुनंदनंदकुमुदैः पार्षदैरुपसेवितम् ॥
चंदनोक्षितसर्वांगं सुरत्नमुकुटोज्ज्वलम् ॥
परमानंदरूपं च भक्तानुग्रहकारकम्

4.4.99

तं प्रणेमुः सुरेंद्राश्च भक्त्या ब्रह्मादयो मुने ॥
तुष्टुवुः परया भक्त्या भक्तिनम्रात्मकंधराः ॥
परमानंदभारार्ताः पुलकांचितविग्रहाः

4.4.60

ब्रह्मोवाच ॥ ॥ नमामि कमलाकांतं शांतं सर्वेष्टमच्युतम् ॥
वयं यस्य कलाभेदाः कलांशकलया सुराः

4.4.61

मनवश्च मुनींद्राश्च मानुषाश्च चराचराः ॥
कलाकलांशकलया भूतास्त्वत्तो निरंजन

4.4.62

शंकर उवाच ॥
त्वामक्षयमक्षरं वा व्यक्तमव्यक्तमीश्वरम् ॥
अनादिमादिमानंदरूपिणं सर्वरूपिणम्

4.4.63

अणिमादिकसिद्धीनां कारणं सर्वकारणम्॥
सिद्धिज्ञं सिद्धिदं सिद्धिरूपं कः स्तोतुमीश्वरः

4.4.64

॥ धर्म उवाच ॥ ॥
वेदे निरूपितं वस्तु वर्णनीयं विचक्षणैः ॥
वेदे निर्वचनीयं यत्तन्निर्वक्तुं च कः क्षमः ॥
यस्य संभावनीयं यद्गुणरूपं निरंजनम्

4.4.69

तदतिरिक्तं स्तवनं किमहं स्तौमि निर्गुणम् ॥
ब्रह्मादीनामिदं स्तोत्रं षट्श्लोकोक्तं महामुने

4.4.66

पठित्वा मुच्यते दुर्गाद्वाञ्छितं च लभेन्नरः ॥
देवानां स्तवनं श्रुत्वा तानुवाच हरिः स्वयम्

4.4.67

गोलोकं यात यूयं च यामि पश्चाच्छ्रिया सह ॥
नरनारायणौ तौ द्वौ श्वेतद्वीपनिवासिनौ

4.4.68

एते यास्यंति गोलोके तथा देवी सरस्वती ॥
अनंता मम माया च कार्त्तिकेयो गणाधिपः ॥
सावित्री वेदमाता च पश्चाद्यास्यंति निश्चितम्

4.4.69

तत्राहं द्विभुजः कृष्णो गोपीभी राधया सह ॥
अत्राहं कमलायुक्तः सुनंदादिभिरावृतः

4.4.70

नारायणश्च कृष्णोऽहं श्वेतद्वीपनिवासकृत् ॥
ममैवैताः कलाः सर्वे देवा ब्रह्मादयः स्मृताः

4.4.71

कलाकलांशकलया सुरासुरनरादयः ॥
गोलोकं यात यूयं च कार्यसिद्धिर्भविष्यति

4.4.72

वयं पश्चाद्गमिष्यामः सर्वेषामिष्टसिद्धये ॥
इत्युक्त्वा वै सभामध्ये विरराम हरिः स्वयम्

4.4.73

प्रणम्य देवताः सर्वा जग्मुर्गोलोकमद्भुतम् ॥
विचित्रं परमं धाम जरामृत्युहरं परम्

4.4.74

ऊर्ध्वं वैकुंठतो गम्यं पंचाशत्कोटियोजनम् ॥
वायुना धार्यमाणं च निर्मितं स्वेच्छया विभोः

4.4.75

तमनिर्वचनीयं च देवास्ते गमनोत्सुकाः ॥
ते मनोयायिनः सर्वे संप्रापुर्विरजातटम्

4.4.76

दृष्ट्वा देवाः सरित्तीरं विस्मयं परमं ययुः ॥
शुद्धस्फटिकसंकाशं सुविस्तीर्णं मनोहरम्

4.4.77

मुक्तामाणिक्यपरममणिरत्नाकरान्वितम् ॥
कृष्णशुभ्रहरिद्रक्तमणिराजिविराजितम्

4.4.78

प्रवालांकुरमुद्भूतं कुत्रचित्सुमनोहरम् ॥
परमामूल्यसद्रत्नाकरराजिविभूषितम्

4.4.79

विधेरदृश्यामाश्चर्य निधिश्रेष्ठाकरान्वितम् ॥
पद्मरागेंद्रनीलानामाकरं कुत्रचिन्मुने

4.4.80

कुत्रचिच्च मरकताकरश्रेणीसमन्वितम् ॥
स्यमंतकाकरं कुत्र कुत्रचिद्रुचकाकरम्

4.4.81

अमूल्यपीतवर्णाभं मणिश्रेण्याकरान्वितम् ॥
रत्नाकरं कुत्रचिच्च कुत्रचित्कौस्तुभाकरम्

4.4.82

कुत्र निर्वचनीयानां मणीनामाकरं परम् ॥
कुत्रचित्कुत्रचिद्रम्यविहारस्थलमुत्तमम्

4.4.83

दृष्ट्वा तु परमाश्चर्यं जग्मुस्तत्पारमीश्वराः ॥
ददृशुः पर्वतश्रेष्ठं शतशृंगं मनोरमम्

4.4.84

पारिजाततरूणां च वनराजिविराजितम् ॥
कल्पवृक्षैः परिवृतं वेष्टितं कामधेनुभिः

4.4.85

कोटियोजनमूर्ध्वं च दैर्घ्यं दशगुणोत्तरम् ॥
शैलप्रस्थपरिमितं पंचाशत्कोटियोजनम्

4.4.86

प्राकाराकारमस्यैव शिखरे रासमंडलम् ॥
दशयोजनविस्तीर्णं वर्तुलाकारमुत्तमम्

4.4.87

पुष्पोद्यानसहस्रेण पुष्पितेन सुगंधिना ॥
संकुलेन मधुघ्राणां समूहेन समन्वितम्

4.4.88

सुरत द्रव्यसंयुक्तै राजितं रतिमंदिरैः ॥
रत्नमंडपकोटीनां सहस्रेण समन्वितम्

4.4.89

रत्नसोपानयुक्तेन सद्रत्नकलशेन च ॥
हरिन्मणीनां स्तंभेन शोभितेन च शोभितम्

4.4.90

सिंदूरवर्णमणिभिः परितः खचितेन च ॥
इन्द्रनीलैर्मध्यगतैर्मंडितेन मनोहरैः

4.4.91

रत्नप्राकारसंयुक्तमणिभेदैर्विराजितम् ॥
द्वारैः कपाटसंयुक्तैश्चतुर्भिश्च विराजितम्

4.4.92

रज्जुग्रंथिसमायुक्तरसालपल्लवान्वितैः ।
परितः कदलीस्तंभसमूहैश्च समन्वितम्

4.4.93

शुक्लधान्यपर्णजालफलदूवांर्कुरान्वितम् ॥
चंदनागरुकस्तूरीकुंकुमद्रवचर्चितम्

4.4.94

वेष्टितं गोपकन्यानां समूहैः कोटिशो मुने ॥
रत्नालंकारसंयुक्तै रत्नमालाविराजितैः

4.4.95

रत्नकंकणकेयूर रत्ननूपुरभूषितैः ॥
रत्नकुण्डलयुग्मेन गंडस्थलविराजितैः

4.4.96

रत्नांगुलीयललितैर्हस्तांगुलिविराजितैः ॥
रत्नपाशकवृन्दैश्च विराजितपदांगुलैः

4.4.97

भूषितै रत्नभूषाभिः सद्रत्नमुकुटोज्ज्वलैः ॥
गजेंद्रमुक्तालंकारैर्नासिकामध्यराजितैः

4.4.98

सिंदूरबिंदुना सार्द्धमलकाधःस्थलोज्ज्वलैः ॥
चारुचम्पकवर्णाभैश्चंदनद्रवचर्चितैः

4.4.99

पीतवस्त्रपरीधानैर्बिंबाधरमनोहरैः ॥
शरत्पार्वणचंद्राणां प्रभां मुष्णन्मुखोज्ज्वलैः

4.4.100

शरत्प्रफुल्लपद्मानां शोभामोषणलोचनैः ॥
कस्तूरीपात्रिकायुक्तै रेखाक्तकज्जलोज्ज्वलैः

4.4.101

प्रफुल्लमालतीमालाजालैःकबरशोभितैः ॥
मधुलुब्धमधुघ्राणां समूहैश्चापि संकुलैः ॥
चारुणा गमनेनैव गजखंजनगंजनैः

4.4.102

वक्रभ्रूभंगसंयोगश्लक्ष्णस्मितसमन्वितैः ॥
पक्वदाडिमबीजाभदंतपंक्तिविराजितैः

4.4.103

खगेंद्रचंचुशोभाढ्यनासिकोन्नतभूषितैः ॥
गजेंद्रगंडयुग्माभस्तनभारनतैरिव

4.4.104

नितम्बकठिनश्रोणीपीनभारभरानतैः ॥
कंदर्पशरचेष्टाभिर्जर्जरीभूतमानसै

4.4.105

दर्पणैः पूर्णचंद्रास्यसौंदर्यदर्शनोत्सुकैः ॥
राधिकाचरणांभोजसेवासक्तमनोरथैः

4.4.106

सुंदरीणां समूहैश्च रक्षितं राधिकाज्ञया ॥
क्रीडासरोवराणां च लक्षैश्च परिवेष्टितम्

4.4.107

श्वेतरक्तैर्लोहितैश्च वेष्टितैः पद्मराजितैः ॥
सुकूजद्भिर्मधुघ्राणां समूहैः संकुलैः सदा

4.4.106

पुष्पोद्यानसहस्रेण पुष्पितेन समन्वितम् ॥
कोटिकुंजकुटीरैश्च पुष्पशय्यासमन्वितैः

4.4.109

भोगद्रव्यसकर्पूरतांबूलवस्त्रसंयुतैः ॥
रत्नप्रदीपैः परितः श्वेतचामरदर्पणैः ॥

4.4.110

विचित्रपुष्पमालाभिः शोभितैः शोभितं मुने ॥
तं रासमंडपं दृष्ट्वा जग्मुस्ते पर्वताद्बहिः

4.4.111

ततो विचक्षणं रम्यं ददृशुः सुंदरं वनम् ॥
वनं वृदावनं नाम राधामाधवयोः प्रियम्

4.4.112

क्रीडास्थानं तयोरेव कल्पवृक्षचयान्वितम् ॥
विरजातीरनीराक्तैः कंपितं मंदवायुभिः

4.4.113

कस्तूरीयुक्तपत्राब्जैः पुष्पौघैः सुरभीकृतम् ॥
नवपल्लवसंसक्तपरपुष्टरुतैर्युतम्

4.4.114

कुत्र हेलिकदंबानां कदंबैः कमनीयकम् ॥
मंदाराणां चंपकानां चन्दनानां तथैव च

4.4.115

सुगंधिकुसुमानां च गंधेन सुरभीकृतम् ॥
आम्राणां नागरंगाणां पनसानां तथैव च

4.4.116

तालानां नारिकेलानां वृंदैर्वृंदारकं वनम् ॥
जंबूनां बदरीणां च खर्जूराणां विशेषतः

4.4.117

गुर्वाकाम्रातकानां च जंबीराणां च नारद ॥
कदलीनां श्रीफलानां दाडिमानां मनोहरैः

4.4.118

सुपक्वफलसंयुक्तैः समूहैश्च विराजितम् ॥
पिप्पलीनां च शालानामश्वत्थानां तथैव च

4.4.119

निंबानां शाल्मलीनां च तित्तिडीनां च शोभनैः ॥
अन्येषां तरुभेदानां संकुलैः संकुलं सदा

4.4.120

परितः कल्पवृक्षाणां वृन्दैर्वृन्दैर्विराजितम् ॥
मल्लिकामालतीकुंदकेतकीमाधवी लताः

4.4.121

एतासां च समूहैश्च यूथिकाभिः समन्वितम् ॥
चारुकुंजकुटीरैस्तैः पंचाशत्कोटिभिर्मुने

4.4.122

रत्नप्रदीपदीपैश्च धूपेन सुरभीकृतैः ॥
शृंगारद्रव्ययुक्तैश्च वासितैर्गंधवायुभिः

4.4.123

चंदनाक्तैः पुष्पतल्पैर्मालाजालसमन्वितैः ॥
मधुलुब्धमधुघ्राणां कलशब्दैश्च शब्दितम्

4.4.124

रत्नालंकारशोभाढयैर्गोपीवृंदैश्च वेष्टितम् ॥
पंचाशत्कोटिगोपीभी रक्षितं राधिकाज्ञया

4.4.129

द्वात्रिंशत्काननं तत्र रम्यं रम्यं मनोहरम् ॥
वृंदावनाभ्यंतरितं निर्जनस्थानमुत्तमम्

4.4.126

सुपक्वमधुरस्वादुफलैर्वृंदारकं मुने ॥
गोष्ठानां च गवां चैव समूहैश्च समन्वितम्

4.4.127

पुष्पोद्यानसहस्रेण पुष्पितेन सुगंधिना ॥
मधुलुब्धमधुघ्राणां ।समूहेन समन्वितम्

4.4.128

पंचाशत्कोटिगोपीनां विलासैश्च विराजितम् ॥
श्रीकृष्णतुल्यरूपाणां सद्रत्नगुंठितैर्वरैः

4.4.130

दृष्ट्वा वृंदावनं रम्यं ययुर्गोलोकमीश्वराः ॥
परितो वर्तुलाकारं कोटियोजनविस्तृतम् ॥ १२९ ॥।
रत्नप्राकारसंयुक्तं चतुर्द्धारान्वितं मुने॥
गोपानां च समूहैश्च द्वारपालैः समन्वितम्

4.4.131

आश्रमै रत्नखचितैर्नानाभोगसमन्वितैः ॥
गोपीनां कृष्णभृत्यानां पंचाशत्कोटिभिर्युतम्

4.4.132

भक्तानां गोपवृन्दानामाश्रमैः शतकोटिभिः ॥
ततोऽधिकसुविस्तीर्णैः सद्रत्नग्रथितैर्युतम्

4.4.134

आश्रमैः पार्षदानां च ततोऽधिकविलक्षणैः ॥
अमूल्यरत्नरचितैः संयुक्तं दशकोटिभिः ॥ १३३ ।
पार्षदप्रवराणां च श्रीकृष्णरूपधारिणाम् ॥
आश्रमैः कोटिभिर्युक्तं सद्रत्नेन विनिर्मितैः

4.4.135

राधिकाशुद्धभक्तानां गोपीनामाश्रमैर्वरैः ॥
सद्रत्नरचितैर्द्रव्यैर्द्वात्रिंशत्कोटिभिर्युतम्

4.4.136

तासां च किकरीणां च भवनैः सुमनोहरैः॥
मणिरत्नादिरचितैः शोभितं दशकोटिभिः

4.4.137

शतजन्मतपःपूता भक्ता ये भारते भुवि ॥
हरिभक्तिपरा ये च कर्मनिर्वाणकारकाः

4.4.138

स्वप्ने ज्ञाने हरेर्ध्याने विविष्टमानसा मुने ॥
राधाकृष्णेति कृष्णेति प्रजपंतो दिवानिशम्

4.4.139

तेषां श्रीकृष्णभक्तानां निवासैः सुमनोहरैः ॥
सद्रत्नमणिनिर्माणैर्नानाभोगसमन्वितैः

4.4.140

पुष्पशय्यापुष्पमालाश्वेतचामरशोभितैः॥
रत्नदर्पणशोभाढ्यैर्हरिन्मणिसपर्पितैः

4.4.142

अमूल्यरत्नकलशसमूहान्वितशेखरैः॥
सूक्ष्मवस्त्राभ्यंतरितैः संयुक्तं शतकोटिभिः ॥ १४ १ ॥
देवास्तमद्भुतं दृष्ट्वा कियद्दूरं ययुर्मुदा ॥
तत्राक्षयवटं रम्यं ददृशुर्जगदीश्वराः ॥ ।

4.4.143

पंचयोजनविस्तीर्णमूर्ध्वं तद्द्विगुणं मुने ॥
सहस्रस्कंधसंयुक्तशाखासंस्थासमन्वितम्

4.4.144

रक्तपक्कफलाकीर्णं शोभितं रत्नवेदिभिः ॥
कृष्णस्वरूपांस्तन्मूले ददृशुर्वल्लभाञ्छिशून्

4.4.145

पीतवस्त्रपरीधानान्क्रीडासक्तमनोहरान् ॥
चन्दनोक्षितसर्वांगान्रत्नभूषणभूषितान्

4.4.146

ददृशुस्तत्र देवेशाः पार्षदप्रवरान्हरेः ॥
ततोऽविदूरे ददृशू राजमार्गं मनोहरम्

4.4.147

सिंदूराकारमणिभिः परितो रचितं मुने ॥
इंद्रनीलैः पद्मरागैर्हीरकै रुचकैस्तथा

4.4.148

निर्मितैर्वेदिभिर्युक्तं परितो रत्नमंडपम् ॥
चंदनागुरुकस्तूरीकुंकुमद्रवचर्चितम्

4.4.149

दधिपूर्णलाजफलपुष्पदूर्वांकुरान्वितम् ॥
सूक्ष्मसूत्रग्रंथियुक्तश्रीखंडपल्लवान्वितम्

4.4.150

रंभास्तंभसमूहैश्च कुङ्कुमाक्तैर्विराजितम् ॥
सद्रत्नमंडलघटैः फलशाखासमन्वितैः

4.4.151

सिंदूरकुंकुमाक्तैश्च गंधचंदनचर्चितैः ॥
भूषितैः पुष्पमालाभिः पादपैः परिभूषितम्

4.4.152

गोपिकानां समूहैश्च क्रीडासक्तैश्च वेष्टितम ॥
बहुमूल्येन रत्नेन रत्नसोपाननिर्मितान्

4.4.153

वह्निशौचांशुकै रम्यैः श्वेतचामरदर्पणैः ॥
रत्नतल्पविचित्रैश्च पुष्पमाल्यैर्विराजितान

4.4.154

षोडशद्वारसंयुक्तान्द्वारपालैश्च रक्षितान् ॥
परितः परिखायुक्तान्रत्नप्राकारवेष्टितान्

4.4.155

चंदनागुरुकस्तूरीकुंकुमद्रवचर्चितान्॥
गृहान्मनोरमान्दृष्ट्वा ते देवा गमनोत्सुकाः

4.4.156

जग्मुः शीघ्रं कियद्दूरं ददृशुः सुन्दरं ततः ॥
आश्रमं राधिकायाश्च रासेश्वर्याश्च नारद

4.4.157

देवाधिदेव्या गोपीनां वरायाश्चारुनिर्मितम् ॥
प्राणाधिकायाः कृष्णस्य रम्यद्रव्यमनोहरम्

4.4.158

सर्वानिर्वचनीयं च पंडितैर्न निरूपितम् ॥
सुचारुवर्तुलाकारं षड्गव्यूतिप्रमाणकम्

4.4.159

शतमंदिरसंयुक्तं ज्वलितं रत्नतेजसा ॥
अमूल्यरत्नसाराणां चयौर्विरचितं वरम्

4.4.160

दुर्लंघ्याभिर्गभीराभिः परिखाभिः सुशोभितम् ॥
कल्पवृक्षैः परिवृतं पुष्पोद्यानशतांतरम्

4.4.161

सुमूल्यरत्नखचितप्राकारैः परिवेष्टितम् ॥
सद्रत्नवेदिकायुक्तैर्युक्तं द्वारैश्च सप्तभिः

4.4.162

संयुक्तरत्नचित्रैश्च विचित्रैर्वर्तुलं मुने ॥
प्रधानसप्तद्वारेभ्यः क्रमशः क्रमशो मुने

4.4.163

सर्वतोऽपि ततस्तत्र षोडशद्वारसंयुतम् ॥
देवा द्दष्ट्वा च प्राकारं सहस्रधनुरुच्छ्रितम्

4.4.164

सद्रत्नक्षुद्रकलशसमूहैः सुमनोहरैः ॥
प्रदीप्तं तेजसा रम्यं परमं विस्मयं ययुः

4.4.165

ततः प्रदक्षिणीकृत्य कियद्दूरं ययुर्मुदा ॥
पुरतो गच्छतां तेषां पश्चाद्भूतस्तदाश्रमः

4.4.166

गोपानां गोपिकानां च ददृशुश्चाश्रमान्परान् ॥
अमूल्यरत्नरचिताञ्छतकोटिमितान्मुने

4.4.167

दर्शंदर्शं च परितो गोपानां सर्वमाश्रमम् ॥
गोपिकानां चापरं वा रम्यं रम्यं नवंनवम्

4.4.368

गोलोकं निखिलं दृष्ट्वा पुलकांगं ययुः सुराः ॥
तदेव वर्तुलाकारं रम्यं वृंदावनं वनम्

4.4.169

ददृशुः शतशृंगं च तद्बहिर्विरजानदीम् ॥
विरजां तां ययुर्देवा ददृशुः शून्यमेव च

4.4.170

वाय्वाधारं च गोलोकं सद्रत्नमयमद्भुतम् ॥
ईश्वरेच्छाविनिर्माणं राधिकाज्ञानुबंधनात्

4.4.171

युक्तं सहस्रैः सरसां केवलं मंगलालयम् ॥
नृत्यं च ददृशुस्तत्र देवाश्च सुमनोहरम्

4.4.172

सुतानं चारुसंगीतं राधाकृष्णगुणान्वितम् ॥
श्रुत्वैव गीतपीयूषं मूर्छामापुः सुरा मुने

4.4.173

क्षणेन चेतनां प्राप्य ते देवाः कृष्णमानसाः ॥
ददृशुः परमाश्चर्यं स्थानेस्थाने मनोहरम्

4.4.174

ददृशुर्गोपिकाः सर्वा नानावेषविधायिकाः ॥
काश्चिन्मृदंगहस्ताश्च काश्चिद्वीणाकरा वराः

4.4.175

काश्चिच्चामरहस्ताश्च करतालकराः पराः ॥
काश्चिद्यंत्रवाद्यहस्ता रत्ननूपुरशोभिताः

4.4.176

सद्रत्नकिंकिणीजालशब्देन शब्दिता वराः ॥
काश्चिन्मस्तककुंभाश्च नृत्यभेदमनोरथाः

4.4.177

पुंवेषनायिकाः काश्चित्काश्चित्तासां च नायिकाः ॥
कृष्णवेषधराः काश्चिद्राधावेषधराः पराः

4.4.178

काश्चित्संयोगविरताः काश्चिदालिंगने रताः ॥
क्रीडासक्ताश्च ता दृष्ट्वा सस्मिता जगदीश्वराः

4.4.179

प्रगच्छंतः कियद्दूरं ददृशुश्चाश्रमान्बहून् ॥
राधासखीनां गेहांश्च प्रधानानां च नारद

4.4.180

रूपेणैव गुणेनैव वेषेण यौवनेन च ॥
सौभाग्येनैव वयसा सदृशीनां च तत्र वै

4.4.181

त्रयस्त्रिंशद्वयस्याश्च राधिकायाश्च गोपिकाः ॥
वेषानिर्वचनीयाश्च तासां नामानि च शृणु

4.4.182

सुशीला च शशिकला यमुना माधवी रती ॥
कदंबमाला कुंती च जाह्नवी च स्वयंप्रभा

4.4.183

चंद्रमुखी च सावित्री गायत्री सुमुखी सुखा ॥
पद्मालया पारिजाता गौरी च सर्वमंगला

4.4.184

कालिका कमला दुर्गा भारती च सरस्वती ॥
गंगा ऽम्बिका मधुमती चंपाऽपर्णा च सुंदरी

4.4.185

कृष्णप्रिया सती चैव नंदिनी नंदनेति च ॥
एताः समानाः सद्रत्नरचिता राधिकाप्रियाः

4.4.187

एतासां समरूपाणां रत्नधातुविचित्रितान् ॥
नानाप्रकारचित्रेण चित्रितान्सुमनोहरान् ॥ १८५ ।
अमूल्यरत्नकलशसमूहैः शिखरोज्ज्वलान् ॥
सद्रत्नरचिताञ्छुभ्रानाश्रमान्ददृशुस्तथा

4.4.189

ब्रह्मांडाद्बहिरूर्ध्वं च नास्ति लोकस्तदूर्ध्वकः ॥
ऊर्ध्वं शून्यमयं सर्वं तदंता सृष्टिरेव च ॥ १८८. ॥
रसातलेभ्यः सप्तभ्यो नास्त्यधः सृष्टिरेव च ॥
तदधश्च जलं ध्वांतमगंतव्यमदृश्यकम् ॥
ब्रह्मांडांतं तद्बहिश्च सर्वं मत्तो निशामय

4.4.4

इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंडे नारायणनारदसंवादे गोलोकवर्णनं नाम चतुर्थोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc