भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.47

4.47.1

नारद उवाच ॥
अथ क्रीडांतरे राधा किं पप्रच्छ हरिं विभुम् ॥
कां कथां कथयामास कथ्यतां करुणानिधे

4.47.2

॥ श्रीनारायण उवाच ॥ ॥
उत्थाय सुखसंभोगाद्राधां कृत्वा पुरो हरिः ॥
उवास मलयद्रोणीं वटमूले मनोहरे

4.47.3

राधा तं परिपप्रच्छ सस्मितं सुमनोहरम् ॥
दर्पभङ्गः वज्रभृतो निगूढं श्रुतिसुन्दरम्

4.47.4

॥ श्रीराधिकोवाच ॥
श्रुतं यशः शूलभृतो दर्पभङ्गश्च दैवतः ॥
पार्वत्या दर्पभङ्गश्च विवाहश्च तयोरहो

4.47.5

अधुना श्रोतुमिच्छामि दर्पभङ्गं हरेर्हरे ॥
शेषाणां च क्रमेणैव वद व्यस्य जगद्गुरो

4.47.6

श्रीकृष्ण उवाच ॥
दर्पभंगं सुरपतेस्त्रिषु लोकेषु विश्रुतम् ॥
कर्णपीयूषमतुलं सुन्दरं शृणु सुन्दरि

4.47.7

पुरा शतमखो दर्पात्कृत्वा शतमखान्मुदा ॥
बभूव सर्वदेवानामध्यक्षः संपदा युतः

4.47.8

दिनेदिने तदैश्वर्यं वर्द्धते तपसां फलात् ॥
दीक्षां तं कारयामास सिद्धमन्नं बृहस्पतिः

4.47.9

स जजाप महामन्त्रं पुष्करे शतवत्सरम् ॥
बभूव मन्त्रसिद्धश्च परिपूर्णमनोरथः

4.47.4.47.10

ब्रह्मस्वरूपां प्रकृतिं संपन्मूढो न मन्यते ॥
सा तं शशाप स्वगुरोः शापं लेभेऽतिकोपतः॥

4.47.11

एकदा प्रकृतेः शापाद्धतबुद्धिः स्वसंसदि॥
गुरुं दृष्ट्वा समुत्थाय न ननाम मुदाऽन्वितः

4.47.12

बृहस्पतिस्ततः कोपान्नोवास गृहमाययौ ॥
न तस्थौ तारकाभ्याशे तपसे काननं ययौ

4.47.13

उवाच मनसा दीनो यातु संपद्धरेरिति ॥
अथ शक्रो मतिं प्राप्य क्व गतोऽतो मदीश्वरः

4.47.14

इत्युक्त्वा वेगतः पीठाज्जगाम तारकान्तिकम्॥
प्रणम्य मातरं भक्त्या नतस्कन्धः पुटाञ्जलिः ॥

4.47.15

सर्वं निवेदनं कृत्वा रुरोदोच्चैर्मुहुर्मुहुः ॥
पुत्रस्य रोदनं दृष्ट्वा रुरोद तारका भृशम्

4.47.16

वत्स गच्छ गृहं नैव गुरुं द्रक्ष्यसि साम्प्रतम् ॥
दुर्दिनान्ते गुरुं प्राप्य पुनर्लक्ष्मीमवाप्स्यसि

4.47.17

अधुना कर्मणां भोगं भुङ्क्ष्व मूढ दुराशय॥
दुर्दिने स्वगुरौ दोषः सुदिने परितोषणम्

4.47.18

सुदिनं दुर्दिनं शक्र कारणं सुखदुःखयोः ॥
इत्युक्त्वा तारका देवी विरराम पतिव्रता

4.47.19

जगाम शक्रः स्नानार्थं स्वर्णदीं सुमनोहराम् ॥
ददर्श तत्र रुचिरां मार्जन्तीं च नितम्बिनीम्

4.47.4.47.20

सस्मितां सकटाक्षां तामहल्यां गौतमप्रियाम् ॥
दृष्ट्वा च विपुलश्रोणीं स्तनयुग्मं मनोहरम्

4.47.21

स तस्याः शक्रः संपश्यन्मुमोह काममोहितः ॥
पुनः स चेतनां प्राप्य विहाय स्नानमीश्वरि

4.47.22

मूर्तिं विधाय तद्भर्तुस्तत्समीपं जगाम ह ॥
गत्वा तु स्निग्धवस्त्रां तां समाकृष्य स्मरातुरः

4.47.23

चकार विविधं तत्र शृंगारं सुमनोहरम् ॥
मूर्च्छां संप्राप कामेन तन्द्रां च मुनिकामिनी

4.47.24

निश्चेष्टा सुखसंभोगान्निश्चेष्टस्त्रिदशाधिपः ॥
एतस्मिन्नन्तरे तप्त्वा समागत्य मुनीश्वरः

4.47.25

ददर्श गेहे मिथुनं मैथुने च रतिप्रिये ॥
दृष्ट्वा चुकोप स मुनिर्ज्वलन्निव हुताशनः

4.47.26

विज्ञानेनातिरोषेण बभञ्ज सुरतिक्षणम् ॥
शक्रः स चेतनां प्राप्य दृष्ट्वा च मुनिपुंगवम्

4.47.27

कालस्वरूपं त्रासेन दधार चरणाम्बुजम् ॥
कोपरक्तास्यनयनो देवं पादानतं भिया ॥
उवाच नीतिवचनं गौतमः शरणागतम्

4.47.28

गौतम उवाच ॥
धिक् त्वामिन्द्र सुरश्रेष्ठ कश्यपात्मज पण्डित

4.47.29

प्रपौत्र जगतां स्रष्टुर्बुद्धिस्ते कथमीदृशी ॥
मातामहः स्वयं दक्षोऽदितिर्माता पतिव्रता

4.47.4.47.30

कर्मसाध्यः स्वभावश्च कुलधर्मं प्रबाधते ॥
वेदं विज्ञाय ज्ञानी त्वं योनिलुब्धोऽसि कर्मणा

4.47.31

योनीनां च सहस्रं च तव गात्रे भवत्विह ॥
पूर्णवर्षं च सततं योनिगन्धं त्वमाप्नुहि

4.47.32

ततः सूर्यं समाराध्य योनिश्चक्षुर्भविष्यति ॥
मम प्राणेश्वरी दुष्टा येन मूढ त्वया कृता

4.47.33

मच्छापेन गुरोः कोपाद्भ्रष्टश्रीर्भव साम्प्रतम् ॥
गुरोरपेक्षया मूढ प्राणा नापहृतास्तव

4.47.34

तेजस्विनोऽतिबन्धोर्मे बंधुभेदभिया सुर ॥
उत्तिष्ठोत्तिष्ठ देवेन्द्र गच्छ वत्स स्वमन्दिरम्

4.47.35

शुभाशुभं च यत्किंचित्सर्वं कर्मोद्भवं भवेत् ॥
महामुनीन्द्रवचनाद्गतः शक्रश्च पुष्करम् ।

4.47.36

चकाराराधनं भक्त्या नैष्कृत्यं च चकार ह ॥
पादानतामहल्यां तामुवाच मुनिपुंगवः

4.47.37

वनं गत्वा चिरं तिष्ठ विधाय मूर्तिमश्मनः ॥ ॥
अकामां चकमे शक्रः सर्वं जानाम्यहं प्रिये

4.47.38

तथा च परभोग्या मे न भोग्या व्रजाधमे ॥
परवीर्यं यदुदरे कामतोऽकामतोऽपि वा

4.47.39

अहल्ये याति दैवेन तदुपायं निशामय ॥
अकामतो न च दुष्टा सा प्रायश्चित्तेन शुद्ध्यति

4.47.4.47.40

कामभोगेन त्याज्या सा कर्मभोगेन शुद्ध्यति ॥
पितृपाके दैवपाके पूजायां नाधिकारिणी

4.47.41

षष्टिवर्षसहस्राणि कालसूत्रं प्रयाति सा॥
षष्टिवर्षसहस्राणि क्षयं कृत्वा स्वकर्मणः

4.47.42

स्वामिनो वचनात्सा तु प्रणम्य स्वामिनं भिया ॥
नाथ नाथेति कुर्वन्ती रुदन्ती वनमाप सा

4.47.43

षष्टिवर्षसहस्राणि भुक्त्वा भोगं मुनिप्रिया ॥
श्रीरामचरणस्पर्शात्सद्यः शुद्धा बभूव ह

4.47.44

त्रैलोक्यमोहनं रूपं विधाय मुनिकामिनी ॥
जगाम गौतमाभ्याशं मुनिः संप्राप्य सुन्दरीम्

4.47.45

अथ शक्रस्य वृत्तांतं परमं शृणु सुन्दरि ॥
पापघ्नं पुण्यबीजं तत्संव्यस्य कथयामि ते

4.47.46

एकदा च गुरोः कोपात्प्रकृतेरवहेलनात् ॥
ब्रह्महत्या वज्रभृतो बभूव हतचेतसः

4.47.47

शक्रस्त्यक्तगुरुर्दैवग्रस्तो दैत्यनिपीडितः ॥
जगाम शरणं भीतो ब्रह्माणं जगतां गुरुम् ॥

4.47.48

तदाज्ञया विश्वरूपं चकार च पुरोहितम् ॥
बभूव तत्र विश्वस्तो दैवाद्बुद्धिहतो हरिः

4.47.49

दैत्यदौहित्रस्य भावं विज्ञाय च विचक्षणः ॥
प्रचिच्छेद शिरस्तस्य तीक्ष्णबाणेन लीलया

4.47.4.47.50

विश्वरूपपिता त्वष्टा श्रुत्वा सद्यश्चुकोप ह ॥
इंद्रशत्रो विवर्द्धस्वेत्युक्त्वा यज्ञं चकार ह

4.47.51

यज्ञकुंडात्समुत्तस्थौ वृत्रो नाम महासुरः ॥
चकार निग्रहं कोपाद्देवानामवलीलया

4.47.52

शक्रो महामुनेरस्थ्नां वज्रं कृत्वा सुदारुणम् ॥
जघान वृत्रं देवानां कंटकं दैत्यमर्दनः

4.47.53

ब्रह्महत्या शुनासीरं दुद्राव हतचेतनम् ॥
रक्तवस्त्रपरीधाना वृत्रस्त्रीवेषधारिणी

4.47.94

सप्ततालप्रमाणा सा शुष्ककण्ठोष्ठतालुका ॥
ईषाप्रमाणदशना महाभीतं चकार तम्

4.47.55

धावंतं परिधावंती बलिष्ठा हतचेतनम् ॥
खड्गहस्ता दयाहीना वेगेन परिधावति

4.47.56

इंद्रो दृष्ट्वा च तां घोरां स्मारंस्मारं गुरोः पदम् ॥
विवेश मानससरो मृणालसूक्ष्मसूत्रतः

4.47.57

तत्र गंतुं न शक्ता सा ब्रह्मणः शापकारणात् ॥
सा तस्थौ वटशाखायां सरसस्तटसन्निधौ

4.47.58

अथात्र नहुषो भूपस्त्रिलोकेशो बभूव ह ॥
स ययाचे शचीं देवान्बलिष्ठो दुर्बलानपि

4.47.59

शची श्रुत्वा महाभीता तारकां शरणं ययौ ॥
तारा निर्भर्त्स्य स्वपतिं भृत्यपत्नीं ररक्ष च

4.47.4.47.60

शचीमाश्वास्य स्वगुरुर्जगाम तत्सरो मुदा ॥
आजुहाव शुनासीरं कातरं हतचेतनम्

4.47.61

बृहस्पतिरुवाच ॥
उत्तिष्ठोत्तिष्ठ हे वत्स भयं किं ते मयि स्थिते ॥
त्वदीश्वरं स्वरेणैव निशामय भयं त्यज ॥
स्वरं बृहस्पतेर्ज्ञात्वा सर्वसिद्धीश्वरो हरिः

4.47.62

सूक्ष्मरूपं परित्यज्य स्वरूपं च दधार सः ॥
उत्थाय सद्यः संभ्रातो गुरुं तं सूर्यवर्चसम्

4.47.63

दृष्ट्वा ननाम संप्रीत्या संप्रीतं त्यक्तकोपकम् ॥
पदांबुजे निपतितं रुदंतं भयविह्वलम्

4.47.64

निधाय वक्षसि प्रेम्णा रुरोद प्रेमविह्वलः ॥
रुदंतं वाक्पतिं तुष्टं तुष्टाव त्रिदशेश्वरः ॥
पुटांजलिः पुलकितो भक्तिनम्रात्मकंधरः

4.47.65

इंद्र उवाच ॥
क्षमस्व भगवन्दोषं कृपां कुरु कृपानिधे

4.47.66

भृत्यापराधं सततं न गृह्णाति सदीश्वरः ॥
स्वभार्यासु स्वशिष्येषु स्वभृत्येषु सुतेषु च

4.47.67

दुर्बलः सबलो वाऽपि को दंडं कर्तुमक्षमः ॥
त्रिषु कोटिषु देवेषु देवकोऽहमपंडितः

4.47.68

त्वत्प्रसादात्सुरश्रेष्ठ कृपया वर्द्धितस्त्वया ॥
संहर्तुमीशस्त्वं सर्वमहं को वापि कीटवत्

4.47.69

स्वयं विधातुः पौत्रश्च पुनः स्रष्टुं स्वयं क्षमः ॥
इति तस्य स्तवं श्रुत्वा परितुष्टो गुरुः स्वयम् ॥
उवाच वचनं प्रीत्या प्रसन्नवदनेक्षणः

4.47.4.47.70

गुरुरुवाच ॥
स्थिरो भव महाभाग निश्चलां कमलां लभ

4.47.71

संप्राप्य परमैश्वर्यं पूर्वस्माच्च चतुर्गुणम् ॥
गच्छामरावतीं वत्स राज्यं कुरु पुरंदर

4.47.72

हतशत्रुर्मत्प्रसादाद्गत्वा पश्य शचीं सतीम् ॥
इत्येवमुक्त्वा स गुरुः सशिष्यो गंतुमुद्यतः

4.47.73

ददर्श पुरतो घोरां ब्रह्महत्यां सुदुःसहाम् ॥
दृष्ट्वा शक्रो महाभीतस्तं गुरुं शरणं ययौ

4.47.74

बृहस्पतिर्महाभीतः सस्मार मधुसूदनम् ॥
एतस्मिन्नंतरे तत्र वाग्बभूवाशरीरिणी

4.47.75

स्वल्पाक्षरा च बह्वर्था तां शुश्राव बृहस्पतिः ॥
संसारविजयं नाम सर्वाशुभविनाशनम्

4.47.76

राधिके वचनं श्रुत्वा शिष्यं रक्षाधुनेति च॥
तदा त्वत्कवचं दत्त्वा शिष्याय शिष्यवत्सलः

4.47.77

चकार भस्मसात्तां च हुंकारेणैव लीलया ॥
तदा शिष्यं गृहीत्वा च गत्वा ताममरावतीम्

4.47.78

ददर्श च्छिन्नभग्नां च शत्रुणा वचनाद्गुरोः ॥
भर्तुरागमनं श्रुत्वा शची संहृष्टमानसा

4.47.79

प्रणम्य च गुरुं भक्त्या स्वकांतं प्रणनाम सा ॥
श्रुत्वाऽऽगमनमिंद्रस्य समाजग्मुः सुराः प्रिये ॥
ऋषयो मुनयश्चैव हर्षगद्गदमानसाः

4.47.4.47.80

योजयामास सत्कारं निर्मातुममरावतीम् ॥
पूर्णमब्दशतं शिल्पी निर्ममे त्वमरावतीम्

4.47.81

नानारत्नविचित्राढ्यां मणिरत्नेंद्रनिर्मिताम् ॥
मनोहरां निरुपमां न हि तुष्टो यया हरिः

4.47.82

विश्वकर्मा गृहं गंतुं न शशाक विनाऽऽज्ञया॥
परमोद्विग्नचित्तश्च ब्रह्माणं शरणं ययौ

4.47.83

विज्ञाय तदभिप्रायं तमुवाच विधिः स्वयम् ॥
तव कर्मक्षयादेव तावच्छ्वो भवितेति च

4.47.84

श्रुत्वा तद्वचनं कारुः शीघ्रं प्रापामरावतीम् ॥
ब्रह्मा जगाम वैकुण्ठे प्रणम्योवाच मातरम्

4.47.85

हरिर्ब्रह्माणमाश्वास्य प्रस्थाप्य स्वगृहं च तम् ॥
विप्ररूपं समास्थाय चाजगामामरावतीम्

4.47.86

दण्डी छत्त्री शुक्लवासा बिभ्रत्तिलकमुज्ज्वलम् ॥
अतिखर्वः शुक्लदंतः सस्मितः सुमनोहरः

4.47.87

वयसाऽतिशिशुर्बुद्ध्या ज्ञानवृद्ध्या विचक्षणः ॥
स्वयं विधातुर्धाता च दाता च सर्वसंपदाम्

4.47.88

इंद्रद्वारे समुत्तिष्ठन्द्वारपालमुवाच ह ॥
ब्रूहीदं ब्रह्मणो द्वारे शीघ्रं त्वां द्रष्टुमागतः

4.47.89

इत्येवं वचनं श्रुत्वा द्वारि ज्ञानं चकार तम् ॥
स च शीघ्रं समागम्य ददर्श ब्राह्मणार्भकम्

4.47.4.47.90

बालकानां बालिकानां समूहैः परिवेष्टितम् ॥
हसद्भिश्च महोत्साहात्सस्मितं तेजसाऽन्वितम्

4.47.91

प्रणनाम हरिर्भक्त्या तं हरिं शिशुरूपिणम् ॥
आशिषं युयुजे प्रीत्या तं हरिर्भक्तवत्सलः

4.47.92

मधुपर्कादिकं दत्त्वा शक्रः पूजां चकार तम् ॥
पप्रच्छागमनं कस्माद्वदेति विप्रबालकम्

4.47.93

इंद्रस्य वचनं श्रुत्वा तमुवाच द्विजार्भकः ॥
मेघ गम्भीरया वाचा बृहस्पतिगुरोर्गुरुः

4.47.94

ब्राह्मण उवाच ॥
समागतोऽहं त्वां द्रष्टुं प्रष्टुं वचनमीप्सितम् ॥
चित्रं नगरनिर्माणं समाकर्ण्याद्भुतं हरे

4.47.95

कतिवर्षं च निर्माणे भवान्संकल्पितो यथा ॥
कतिचित्तां विश्वकर्मा निर्माणं वा करिष्यति ॥

4.47.96

एवंभूतं च निर्माणं न केनैंद्रेण निर्मितम् ॥
नैवंविधं सुनिर्माणे विश्वकर्मा परः क्षमः

4.47.97

बालकस्य वचः श्रुत्वा जहास स सुरेश्वरः ॥
संपन्मदातिमत्तश्च पुनः पप्रच्छ बालकम्

4.47.98

कतींद्राणां समूहश्च त्वया दृष्टः श्रुतोऽथवा ॥
विश्वकर्मा कतिविधस्तं मे ब्रूहि शिशोऽधुना

4.47.99

शक्रस्य वचनं श्रुत्वा प्रहस्य विप्रबालकः ॥
तमुवाच श्रुतिसुखं पीयूषसदृशं वचः

4.47.4.47.100

॥ ब्राह्मण उवाच ॥
जानामि कश्यपं तात तव तातं प्रजापतिम् ॥
मुनिं मरीचिनामानं तत्रालं च तपोनिधिम्

4.47.1

नाभिपद्मोद्भवं विष्णोः स्तुत्वा तं विधिमीश्वरम् ॥
रक्षितारं च तं विष्णुं परं सत्त्वगुणान्वितम्

4.47.2

एकार्णवं च प्रलयं सत्त्वशून्यं भयानकम् ॥
सृष्टिं कतिविधां शक्र कल्पं कतिविधं ध्रुवम्

4.47.3

ब्रह्मांडं च कतिविधं ब्रह्मविष्णुमहेश्वरान् ॥
ब्रह्माण्डेषु कतिविधानिन्द्रान्को गन्तुमीश्वरः

4.47.4

यदि संख्याऽस्ति रेणूनां धरायां च सुराधिप ॥
तथापि संख्या शक्राणां नास्त्येवेति विदुर्बुधाः

4.47.5

शक्रस्यायुश्चाधिकारो युगानामेकसप्ततिः ॥
अष्टाविंशतिशक्राणां पतनेऽहर्निशं विधेः

4.47.6

विधेरष्टोत्तरशतमायुरेव प्रमाणतः॥
सुरेंद्राणां च का संख्या नास्ति संख्या विधेरपि

4.47.7

ब्रह्मांडसंख्या यत्र क्व ब्रह्मविष्णुमहेश्वराः ॥
महाविष्णोर्लोमकूपोद्भवे तोये सुनिर्मले

4.47.8

ब्रह्मांडेऽस्ति यथा नौका भवतोये च कृत्रिमा ॥
एवं लोम्नः प्रमाणेन ब्रह्मांडाः संत्यसंख्यकाः

4.47.9

ब्रह्मांडे च कतिविधाः सुराः संत्येव त्वत्समाः ॥
एतस्मिन्नंतरे तत्र ददर्श पुरुषोत्तमः

4.47.4.47.110

पिपीलिकासमूहं च व्यायतं धनुषां शतम् ॥
क्रमशस्तान्संनिरीक्ष्य जहासोच्चैर्द्विजार्भकः

4.47.11

नोवाच किंचिन्मौनी च गंभीरः सगणो यथा॥
दृष्ट्वा हास्यं विप्रवटोर्गाथां श्रुत्वाऽतिविस्मितः ॥
पप्रच्छ च पुनर्विप्रं शुष्ककंठोष्ठतालुकः

4.47.12

इंद्र उवाच ॥
कथं हससि विप्रेंद्रं मां शीघ्रं कारणं वद ॥
त्वं वा को मायया च्छन्नः शिशुरूपी गुणार्णवः

4.47.13

इंद्रस्य वचनं श्रुत्वा तमुवाच द्विजार्भकः ॥
आध्यात्मिकं नीतिसारं ज्ञानबीजं परं वरम्

4.47.14

ब्राह्मण उवाच ॥
दृष्टः पिपीलिकासंघो हेतुरस्य निगूढकः

4.47.15

मा मां पृच्छ शोकबीजं तवान्यज्ञानकारणम् ॥
सांसारिकाणां संसारवृक्षमूलनिकृंतनम्

4.47.16

अज्ञानतमसिच्छन्नं ज्ञानदीपमनुत्तमम् ॥
निगूढं सर्ववेदेषु सिद्धानामपि दुर्लभम्

4.47.17

योगिनां प्राणतुल्यं च मूढाहंकारभंजनम् ॥
इत्युक्त्वा तत्र संतस्थौ सस्मितो द्विजपुंगवः ॥
पुनः पप्रच्छ शक्रस्तं शुष्ककंठोष्ठतालुकः

4.47.18

शक्र उवाच ॥
ब्रूहि विप्रबटो शीघ्रं ज्ञानदीपं पुरातनम् ॥
न जानामि शिशुः कस्त्वं ज्ञानराशिः स्वमूर्तिमान्

4.47.19

इंद्रस्य वचनं श्रुत्वा विप्ररूपी जनार्दनः ॥
ज्ञानं भाषितुमारेभे योगींद्राणां सुदुर्लभम्

4.47.4.47.120

ब्राह्मण उवाच ॥
सृष्टः पिपीलिकासंघ एकैकः क्रमशो मया

4.47.21

सर्वे स्वकर्मणा शक्र शक्रीभूताः सुरालये ॥
अधुना कर्मणा सर्वे क्रमशो भूतजन्मनाम्

4.47.22

अतीतकाले संप्राप्ता भूतजातिं पिपीलिकाम् ॥
कर्मणा जीविनो यांति वैकुंठं च निरामयम्

4.47.23

कर्मणा ब्रह्मलोकं च शिवलोकं च कर्मणा ॥
स्वर्गं स्वर्गसमास्थानं पातालं च स्वकर्मणा

4.47.24

कर्मणा नरकं घोरं स्वात्मदुःखैककारणम् ॥
कर्मणा सूकरीगर्भं कर्मणा क्षुद्रजीवनम्

4.47.25

कर्मणा पशुपत्नीनां कर्मणा पक्षियोषिताम् ॥
कर्मणा कीटयोनिं च वृक्षत्वं च स्वकर्मणा

4.47.26

स्वकर्मणा सुखी दुःखी सेव्यः सेवक एव च ॥
कर्मणा ब्राह्मणत्वं च दैवं चापि स्वकर्मणा

4.47.27

स्वकर्मणा च प्रेतत्वं ब्रह्मत्वं च स्वकर्मणा ॥
कर्मणा व्याधियुक्तश्च कर्मणेवातिसुन्दरः

4.47.28

कर्मणा स्वाङ्गहीनश्च स्वाङ्गवृद्धश्च कर्मणा ॥
विधाता कर्मसूत्रेण फलदाता च जीविनाम्

4.47.29

कर्म स्वभावसाध्यं च स्वभावोऽभ्यासजीवकः ॥
इत्येवं कथितं सर्वमाध्यात्मिकपरं वचः

4.47.4.47.130

सुखदं पुण्यदं सारं नरकार्णवतारकम् ॥
संसारः स्वप्नवत्सर्वं देवेन्द्र सचराचरम्

4.47.31

मृत्युश्च मस्तकस्थायी सर्वेषां कालयोगतः ॥
जलबुद्बुदवत्सर्वं जीविनां च शुभाशुभम्

4.47.32

शक्र शश्वद्भ्रमत्येव नाविष्टस्तत्र पण्डितः ॥
इत्येवमुक्त्वा विप्रश्च तत्र तस्थौ च सस्मितः

4.47.33

विस्मितास्त्रैदशाध्यक्षो नात्मानं बहु मन्यते ॥
एतस्मिन्नन्तरे शीघ्रमाजगाम मुनीश्वरः

4.47.34

अतिवृद्धो महायोगी ज्ञानेन वयसा महान् ॥
कृष्णाजिनी जटाधारी बिभ्रत्तिलकमुज्ज्वलम् ॥

4.47.35

वक्षःस्थले रोमचक्रं बिभर्ति मस्तके कटम् ॥
स्थितं सर्वं मध्यदेशे किंचिदुत्पाटितं स्फुटम्

4.47.36

समागत्य द्वयोर्मध्ये तस्थौ स्थाणुवदेव सः ॥
महेन्द्रो ब्राह्मणं दृष्ट्वा प्रणनाम मुदाऽन्वितः

4.47.37

मधुपर्कादिकं दत्त्वा पूजयामास भक्तितः ॥
पप्रच्छ कुशलं विप्रं चकार विनयं पुनः

4.47.38

तुष्टावातिथिभावेन मुदा सादरपूर्वकम् ॥
विप्रार्भकस्तेन सार्द्धं संभाषां च चकार सः ॥
स्ववाञ्छितं परं प्राह सर्वं विनयपूर्वकम्

4.47.39

बालक उवाच ॥
कुतस्त्वमागतो विप्र किन्नाम तव वा वद ॥
को वाऽत्रागमने हेतुर्निवासः केन हेतुना

4.47.4.47.140

कटं कथं मस्तके ते लोमचक्रं च वक्षसि ॥
अत्युन्नतं मध्यदेशे किंचिदुत्पाटितं मुने ॥

4.47.41

मां चेत्कृपाऽस्ति ते विप्र सर्वं संव्यस्य कथ्यताम् ॥
अत्यद्भुतमिदं सर्वं श्रोतुं कौतूहलं मम

4.47.42

स शिशोर्वचनं श्रुत्वा तमुवाच महामुनिः ॥
सर्वं स्वकीयवृत्तान्तं शक्रस्य पुरतो मुदा

4.47.43

मुनिरुवाच ॥ अल्पायुषा मया विप्र कुत्रापि न कृता गृहाः ॥
न विवाहश्चोपजीव्यं भिक्षोपजीविनाऽधुना

4.47.44

लोमशेति च मन्नाम हेतुर्विप्रस्य दर्शनम् ॥
वर्षणातपशान्त्यर्थं मस्तकस्थं कटं मम

4.47.45

वक्षस्थलस्थितं रोमचक्रं तत्कारणं शृणु ॥
सांसारिकाणां भयदं विवेकजननं परम्

4.47.46

आयुःसंख्याप्रमाणं मे लोमचक्रं च वक्षसि ॥
शक्रैकपतनं विप्र लोमैकोत्पाटनं मम

4.47.47

उत्पादितानि लोमानि तेन मध्ये स्थितानि च ॥
ब्रह्मणो द्विपरार्धे च मम मृत्युर्निरूपितः

4.47.48

असंख्यविधयो ब्रह्मन्मरिष्यन्ति मृता अपि ॥
कलत्रेण च पुत्रेण गृहेण किं प्रयोजनम्

4.47.49

ब्रह्मणः पतने चक्षुर्निमेषश्च हरेर्भवेत् ॥
तत्पादपद्ममतुलं चिन्तयामि निरंतरम्

4.47.4.47.150

दुर्लभं श्रीहरेर्दास्यं भक्तिर्मुक्तिर्गरीयसी ॥
स्वप्नवत्सर्वमैश्वर्यं तद्भक्तिव्यवधायकम्

4.47.51

इदं मद्गुरुणा दत्तं शंभुना ज्ञानमुत्तमम् ॥
विना भक्तिं न गृह्णामि सालोक्यादिचतुष्टयम्

4.47.52

इत्येवमुक्त्वा स मुनिर्जगाम शिवसन्निधिम् ॥
शिशुरूपी हरिस्तत्रैवान्तर्धानं चकार ह

4.47.53

इन्द्रस्तु स्वप्नवद्दृष्ट्वा बभूव तत्र विस्मितः ॥
तृष्णामात्रं च संपत्तौ नास्त्येव परमेश्वरे

4.47.54

विश्वकर्माणमानीय प्रियमुक्त्वा शतक्रतुः ॥
दत्त्वा रत्नानि संपूज्य तं प्रस्थापितवान्गृहम्

4.47.55

सर्वं विन्यस्य पुत्रे च शरणं गन्तुमुद्यतः ॥
शचीं राज्यश्रियं त्यक्त्वा विवेकी क्षयकामुकः

4.47.55

दृष्ट्वा विवेकिनं कान्तं हृदयेन विदूयता ॥
शची जगाम शोकार्ता संत्रस्ता शरणं गुरोः

4.47.57

सर्वं निवेदनं कृत्वा समानीय बृहस्पतिम् ॥
बोधयामास शक्रं तं नीतिसारेण कामिनी

4.47.58

गुरोः शास्त्रविशेषं च दम्पतीरससंयुतम्॥
विधाय च स्वयं प्रीत्या पाठयामास तं मुदा

4.47.59

मुनिः शास्त्रविशेषं च बोधयामास वाक्पतिः ॥
स चकार तदा राज्यं वृन्दावन विनोदिनि

4.47.4.47.160

इत्येवं कथितं सर्वं शक्रदर्पविमोचनम् ॥
साक्षाद्दृष्टो दर्पभङ्गो नन्दयज्ञे सुरेश्वरि

4.47.47

इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे श्रीकृष्णराधासंवादे सप्तचत्वारिंशोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc