भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.48

4.48.1

श्रीराधिकोवाच ॥
कथितो भवता मह्यं दर्पभङ्गः श्रुतो हरेः ॥
दर्पभङगं रवेश्चापि श्रोतुमिच्छामि तत्त्वतः

4.48.2

श्रीकृष्ण उवाच ॥
एकदैवोदयं कृत्वा रविरस्तं जगाम ह ॥
माली सुमाली दैत्येन्द्रौ दीप्तिं कर्तुं समुद्यतौ

4.48.3

महासंपन्मदोन्मत्तौ शंकरस्य वरेण च ॥
तयोश्च प्रभया रात्रिर्न भवेदिति सुन्दरि

4.48.4

रुष्टः सूर्यः स्वशूलेन तौ जघानावलीलया॥
पतितौ सूर्यशूलेन मूर्च्छितौ धरणीतले

4.48.5

भक्तापायं च विज्ञाय शंकरो भक्तवत्सलः ॥
आगत्य जीवयामास महाज्ञानेन तौ विभुः

4.48.6

तौ च नत्वा शिवं भक्त्या जग्मतुर्निजमन्दिरम् ॥
दुद्राव च महादेवः सूर्यं हन्तुं रुषा ज्वलन्

4.48.7

दृष्ट्वा संहारकर्तारं जिघांसन्तं हरं रविः ॥
भिया पलायमानश्च ब्रह्माणं शरणं ययौ

4.48.8

दुद्राव च महादेवो ब्रह्मणो निलयं रुषा ॥
शूलमत्यर्थमुद्यम्य कालकालो विधेर्विधिः

4.48.9

दृष्ट्वा ब्रह्मा हरं रुष्टं तुष्टाव परमेश्वरम् ॥
चतुर्वक्त्रेण वेदोक्तस्तोत्रेण जगतां पतिः

4.48.4.48.10

ब्रह्मोवाच ॥
प्रसीद दक्षयज्ञघ्न सूर्यं मच्छरणागतम् ॥
त्वयैव सृष्टं सृष्टेश्च समारम्भे जगद्गुरो

4.48.11

आशुतोष महाभाग प्रसीद भक्तवत्सल ॥
कृपया च कृपासिन्धो रक्ष रक्ष दिवानिशम्

4.48.12

ब्रह्मस्वरूप भगवन्सृष्टिस्थित्यन्तकारण ॥
स्वयं रविं च निर्माय स्वयं संहर्तुमिच्छसि

4.48.13

स्वयं ब्रह्मा स्वयं शेषो धर्मः सूर्यो हुताशनः ॥
इन्द्रचंद्रादयो देवास्त्वत्तो भीताः परात्पर

4.48.14

ऋषयो मुनयश्चैव त्वां निषेव्य तपोधनाः ॥
तपसां फलदाता त्वं तपस्त्वं तपसां फलम्

4.48.15

इत्येवमुक्त्वा ब्रह्मा तं सूर्यमानीय भक्तितः ॥
प्रीत्या समर्पयामास शङ्करे दीनवत्सले

4.48.16

शंभुस्तमाशिषं कृत्वा विधिं नत्वा जगद्विधिः ॥
प्रसन्नवदनः श्रीमानालयं प्रययौ मुदा

4.48.17

इति धातृकृतं स्तोत्रं संकटे यः पठेन्नरः ॥
भयात्प्रमुच्यते भीतो बद्धो मुच्येत बन्धनात्

4.48.18

राजद्वारे श्मशाने च मग्नपोते महार्णवे ॥
स्तोत्रस्मरणमात्रेण मुच्यते नात्र संशयः

4.48.48

इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे श्रीकृष्णराधासंवादे अष्टचत्वारिंशोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc