भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.45

4.45.1

॥ श्रीकृष्ण उवाच ॥
अथ वेदविधानेन संस्थाप्य वह्निमीश्वरः ॥
यज्ञं चकार तत्रैव वामे संस्थाप्य पार्वतीम्

4.45.2

निवृत्ते विधिवद्यज्ञे विप्राय दक्षिणां ददौ ॥
शिवः शतसुवर्णानि वृंदावनविनोदिनि

4.45.3

अथ प्रदीपमानीय शैलेंद्रनगरस्त्रियः ॥
निर्वर्त्य मंगलं कर्म गृहं संप्राप्य दंपती

4.45.4

कृत्वा जयध्वनिं प्रीत्या शुभनिर्मञ्छनादिकम् ॥
सस्मिताः सकटाक्षाश्च पुलकांचितविग्रहाः

4.45.5

वासगेहं संप्रविश्य ददृशुः कामिनीगणाः ॥
शंकरं रूपवेषाढ्यं रत्नभूषणभूषितम्

4.45.6

चन्दनागुरुकस्तूरीकुंकुमांचितविग्रहम् ॥
ईषद्धास्यप्रसन्नास्यं सकटाक्षं मनोहरम्

4.45.7

अपूर्वसूक्ष्मवेषाढ्यं सिंदूरबिंदुभूषितम् ॥
चारुचंपकवर्णाभं सर्वावयवसुंदरम्

4.45.8

नवीनयौवनस्थं च मुनीन्द्रचित्तमोहनम् ॥
सरस्वतीं च लक्ष्मीं च सावित्रीं जाह्नवीं रतिम्

4.45.9

अदितिं च शचीं चैव लोपामुद्रामरुंधतीम् ॥
अहल्यां तुलसीं स्वाहां रोहिणीं च वसुंधराम्

4.45.4.45.10

शतरूपां च संज्ञां च सतीस्त्रीणां च षोडश ॥
देवकन्या नागकन्या मुनिकन्या मनोहराः

4.45.11

या याः स्थितास्तत्र तासां संख्यां कर्तुं च कः क्षमः ॥
ताभी रत्नासने दत्ते तत्रोवास शिवो मुदा ॥
तमूचुः क्रमशो देव्यो मधुरोक्तिं सुधामिव

4.45.12

सरस्वत्युवाच ॥
प्राप्ता सती महादेवाधुना प्राणधिका मुदा ॥
दृष्ट्वा प्रियास्यं चंद्राभं संतापं त्यज कामुक ॥

4.45.13

कालं गमय कालेश सदा संश्लेषपूर्वकम् ॥
विश्लेषस्ते न भविता सर्वकालं ममाशिषा

4.45.14

लक्ष्मीरुवाच ॥
लज्जां विहाय देवेश सतीं कृत्वा स्ववक्षसि ॥
तिष्ठ संप्रति का लज्जा प्राणा यांति यया विना

4.45.15

सावित्र्युवाच ॥
भोजयित्वा सतीं शंभो शीघ्रं भोजय मा खिदः ॥
तदाचम्य सकर्पूरं तांबूलं देहि भक्तितः

4.45.16

जाह्नव्युवाच ॥
स्वर्णकंकतिकां धृत्वा केशान्मार्जय योषितः ॥
कामिन्याः स्वामिसौभाग्यं सुखं नातः परं भवेत्

4.45.17

रतिरुवाच ॥
गृहीत्वा पार्वतीं देव सुभगामतिदुर्लभाम् ॥
कथं मम प्राणनाथो निःस्वार्थ भस्मसात्कृतः

4.45.18

जीवयसि विभो कामं कामव्यापारमात्मनि ॥
कुरु दूरं च संतापं मम विश्लेषहेतुकम्

4.45.19

दम्पतीविरहक्लेशं सर्वं ज्ञात्वा दयानिधे ॥
तथापि मम कांतश्च कोपेन भस्मसात्कृतः

4.45.4.45.20

इत्युक्त्वा कामभस्माथ ददौ सा ग्रन्थिबंधितम् ॥
रुरोद पुरतः शंभोर्नाथनाथेत्युदीर्य च

4.45.21

हरिस्तद्रोदनं श्रुत्वा करुणामयसागरः ॥
ब्रह्मा धर्मादिदेवाश्च ययुर्वासगृहं शिवम्

4.45.22

दृष्ट्वा नारायणं धर्मं ब्रह्माणं च सुरानपि ॥
जवेन पीठादुत्थाय स्वाज्ञां कुर्वित्युवाच ह

4.45.23

शंकरस्य वचः श्रुत्वा तमुवाच हरिः स्वयम् ॥
कामं जीवय हे रुद्रेत्युक्त्वा शीघ्रं जगाम सः

4.45.24

ऊचुर्देव्यो बहुतरं वाक्यं विनयपूर्वकम्॥
क्रुधा दृष्ट्वा शूलभृतो भस्मतो निर्गतः स्मरः

4.45.25

दृष्ट्वा कामं रतिस्तं च प्रणनाम महेश्वरम् ॥
तद्रूपं च तदाकारं सस्मितं सधनुःशरम्

4.45.26

प्रणम्य शंकरं कामः स्तुतिं कृत्वा यथागमम् ॥
बहिर्गत्वा हरिं देवान्प्रणम्य समुवाच ह

4.45.27

कामं संभाष्य देवाश्च युयुजुश्च तमाशिषम् ॥
काले रक्षा विनाशश्च निषेधः केन वार्यते

4.45.28

अथ शैलः सुरान्सर्वान्नारायणपुरोगमान् ॥
भोजयामास भक्त्या च शाययामास यत्नतः

4.45.29

अथ शंभुर्वासगृहे वामे संस्थाप्य पार्वतीम् ॥
मिष्टान्नं भोजयामास तया सह मुदान्वितः

4.45.4.45.30

भुक्तवंतं शिवं तत्र देवमाताऽदितिः स्वयम् ॥
उवाच सस्मितं राधे संप्रीत्या सरसं वचः

4.45.31

अदितिरुवाच ॥
भोजनांते शचि शंभोः शौचार्थं जलमर्पय ॥
देहि शीघ्रं मम प्रीत्या दंपत्योः प्रीतिपूर्वकम्

4.45.32

शच्युवाच ॥
कृत्वा विलापं यद्धेतोः शवं कृत्वा स्ववक्षसि ॥
यो बभ्राम भुवं मोहात्कालेन प्राप तां सतीम्

4.45.33

अरुंधत्युवाच ॥
मया दत्ता सती तुभ्यं मेना दातुमनीप्सिता ॥
विविधं बोधयित्वेमां रतिं च कर्तुमर्हसि

4.45.34

अहल्योवाच ॥
वृद्धावस्थां परित्यज्य ह्यतीव तरुणोऽधुना ॥
तेन मेना तु मेने त्वां सुतामर्पितुमीश्वर

4.45.35

तुलस्युवाच ॥
सती त्वया परित्यक्ता कामो दग्धः पुराकृतः ॥
कथं तदा वसिष्ठश्च प्रभो प्रस्थापितोऽधुना

4.45.36

स्वाहोवाच ॥
स्थिरो भव महादेव स्त्रीणां वचसि सांप्रतम् ॥
विवाहे व्यवहारोऽस्ति पुरस्त्रीणां प्रगल्भता

4.45.37

रोहिण्युवाच ॥
कामं पूरय पार्वत्याः कामशास्त्रविशारद ॥
कुरु पारं स्वयं कामी कामिनां कामसागरम् ॥

4.45.38

वसुंधरोवाच ॥
भोगद्रव्यं विना भोगी न हि तुष्टः क्षुधातुरः ॥
येन तुष्टिर्भवेच्छंभो तत्कर्तुमुचितं स्त्रिया

4.45.39

संज्ञोवाच ॥
जानासि भावं सर्वज्ञ कामार्तानां च योषिताम् ॥
न च स्वस्वामिनं शंभो सती जानाति संगतम्

4.45.4.45.40

शतरूपोवाच ॥
तूर्णं प्रस्थापय प्रीत्या पार्वत्या सह शंकरम् ॥
रत्नप्रदीपं तांबूलं तल्पं निर्माय निर्जने

4.45.41

श्रीकृष्ण उवाच ॥
स्त्रीणां तद्वचनं श्रुत्वा ता उवाच शिवः स्वयम् ॥
निर्विकारी च भगवान्योगींद्राणां गुरोर्गुरुः

4.45.42

शंकर उवाच ॥
देव्यो मा वदतोक्तिं च ह्येवंभूतां ममांतिके ॥
जगतां मातरः साध्व्यः पुत्रे चपलता कथम्

4.45.43

शंकरस्य वचः श्रुत्वा लज्जिताः सुरयोषितः ॥
बभूवुः संभ्रमात्तूष्णीं चित्रपुत्तलिका यथा

4.45.44

भुक्त्वा मिष्टानि भगवानाचम्य च मुदाऽन्वितः ॥
सकर्पूरं च तांबूलं बुभुजे भार्यया सह

4.45.46

रत्नसिंहासने शंभुर्मेनादत्ते मनोहरे ॥
सन्निधाय मुदायुक्तो ददर्श वासमंदिरम् ॥ ४५
रत्नप्रदीपशतकैर्ज्वलद्भि र्ज्वलितं श्रिया ॥
रत्नपात्रघटाकीर्णं मुक्तामाणिक्यभूषितम्

4.45.47

रत्नदर्पणशोभाढ्यं मंडितं श्वेतचामरैः ॥
चंदनागुरुसंयुक्तं पुष्पशय्यासमन्वितम्

4.45.48

नानाचित्रविचित्राढयं निर्मितं विश्वकर्मणा ॥
रत्नसारेण खचितं रचितं हीरकैर्वरैः

4.45.49

कुत्रचित्सुरनिर्माणवैकुंठसुमनोहरम् ॥
वृंदावनं कुंजवनं कुत्रचिद्रासमंडलम्

4.45.4.45.50

कैलासं च कुत्रचन कुत्रचिदिंद्रमंदिरम् ॥
दृष्ट्वाश्चर्यं महादेवः परितुष्टो बभूव ह

4.45.51

अथ प्रभातकालश्च बभूव प्राणवल्लभे ॥
नानाप्रकारवाद्यानि वादयांचक्रिरे जनाः

4.45.52

सर्वे सुराः समुत्तस्थुः सज्जीभूताः ससंभ्रमाः ॥
स्ववाहनान्समारुह्य कैलासं गन्तुमुद्यताः

4.45.53

वासगेहं समागत्य धर्मो नारायणाज्ञया ॥
उवाच शंकरं योगी योगीशं समयोचितम्

4.45.54

धर्म उवाच ॥
उत्तिष्ठोत्तिष्ठ भद्रं ते भवतु प्रमथाधिप ॥
पार्वत्या सह माहेंद्रे यात्रां कुरु हरिं स्मरन्

4.45.55

इत्थं धर्मवचः श्रुत्वा पार्वत्या सह शंकरः ॥
यात्रां चकार माहेंद्रे वृंदावनविनोदिनि

4.45.56

यात्रां कुर्वति देवेशे पार्वत्या सह शंकरे ॥
उच्चै रुदित्वा सा मेना तमुवाच कृपानिधिम्

4.45.57

मेनोवाच ॥
कृपानिधे कृपां कृत्वा मद्वत्सां पालयिष्यसि ॥
सहस्रदोषान्भगवानाशुतोषः क्षमिष्यसि

4.45.58

त्वत्पदांबुजभक्तैषा मद्वत्सा जन्म जन्मनि ॥
स्वप्ने ज्ञाने स्मृतिर्नास्ति महादेवप्रभुं विना

4.45.59

त्वद्भक्तिश्रुतिमात्रेण हर्षाश्रुपुलकान्विता ॥
त्वन्निंदया भवेन्मौना मृत्युंजय मृता इव

4.45.4.45.60

इत्युक्ता मेनका शीघ्रं तत्रागत्य हिमालयः ॥
उच्चै रुरोद च तदा वत्सां कृत्वा स्ववक्षसि

4.45.61

क्व यासि वत्सेत्युच्चार्य शून्यं कृत्वा हिमालयम् ॥
स्मारंस्मारं तद्गणौघं विदार्य मन्मनः स्फुटम्

4.45.62

इत्येवमुक्त्वा शैलेन्द्रः समर्प्य च शिवां शिवे ॥
स शैलः सहपुत्रश्च रुरोदोच्चैर्मुहुर्मुहुः

4.45.63

नारायणश्च भगवानध्यात्मविद्यया स्वयम् ॥
सर्वान्प्रबोधयामास कृपया स कृपानिधिः

4.45.64

ननाम पार्वती भक्त्या मातरं पितरं गुरुम् ॥
मायया च महामाया रुरोदोच्चैर्मुर्हुमुहुः

4.45.65

पार्वतीरोदनेनैव रुरुदुः सर्वयोषितः ॥
मुनयश्च सुराः सर्वे सस्त्रीकाः सगणं ध्रुवम्

4.45.66

शीघ्रं ययुस्ते कैलासं देवा मानसशायिनः ॥
मुहूर्तार्द्धेन मुदिताः संप्रापुः शंकरालयम्

4.45.68

दृष्ट्वा गतं देवपत्न्यो मुनिपत्न्यश्च सत्वरम् ॥
आययुर्दीपमानीय मुदा मङ्गलकर्मणि ॥ ६७
वायुपत्नी कुबेरस्य कामिनी शुक्रकामिनी ॥
तारा सुरगुरोः पत्नी पत्नी दुर्वाससस्तथा

4.45.69

अत्रिभार्यानुसूया च चंद्रपत्न्यस्तथैव च ॥
देवकन्या नागकन्या मुनिकन्याः सहस्रशः

4.45.4.45.70

असंख्यकामिनीसंघः संख्यां कर्तुं च कः क्षमः ॥
ताश्च प्रवेशयामासुर्दंपतीवासमंदिरम्

4.45.71

रत्नसिंहासने रम्ये वासयामासुरीश्वरीम् ॥
सतीं तां दर्शयामास शिवः पूर्वालयं मुदा

4.45.72

सति स्मरस्यतो गेहाद्यद्गता तातमंदिरम् ॥
अधुना शैलकन्या त्वं तत्र दक्षसुता पुरा

4.45.73

जातिस्मरां स्मारयामि नित्यं स्मरसि चेद्वद ॥
शंकरस्य वचः श्रुत्वा सस्मितोवाच सा सती

4.45.74

सर्वं स्मरामि प्राणेश मौनीभूतो भवेति तम् ॥
शिवः संभृतसंभारो नानावस्तुमनोहरम्

4.45.75

भोजयामास देवांश्च नारायणपुरोगमान् ॥
भुक्त्वा देवाः प्रजग्मुस्ते नानारत्नविभूषिताः

4.45.76

सस्त्रीका सगणाः सर्वे प्रणम्य चन्द्रशेखरम् ॥
नारायणं च ब्रह्माणं ननाम शंकरः स्वयम्

4.45.77

तौ च तं च समाश्लिष्याशिषं कृत्वा प्रजग्मतुः ॥
अथ शैलश्च मेना च मैनाकमाजुहाव ह

4.45.78

शीघ्रमानय भद्रं ते पार्वतीं शंकरं सुत ॥
तयोः स वचनं श्रुत्वा शीघ्रं गत्वा शिवालयम्

4.45.79

आजगाम समानीय पार्वतीपरमेश्वरौ ॥
पार्वत्यागमनं श्रुत्वा बालाश्च बालिकास्तथा

4.45.4.45.80

वृद्धा युवत्यो या याश्च शैलाश्च दुद्रुवुर्मुदा ॥
मेना सुताभ्यां वध्वा च सह दुद्राव सस्मिता

4.45.81

हिमालयश्च मुदितो दुद्रावानुव्रजन्सुताम् ॥
अवरुह्य रथाद्देवी मातरं पितरं गुरुम्

4.45.82

प्रणनाम प्रमुदिता निमग्नाऽऽनन्दसागरे ॥
पार्वतीं च समाश्लिष्य मेनका हर्षविह्वला

4.45.83

हिमालयश्च मुदितो गताः प्राणा इवागताः ॥
सुतां निधाय गेहे स्वे रत्नसिंहासनं ददौ

4.45.84

शूलभृते गणेभ्यश्च मधुपर्कादिकं मुदा ॥
तस्थौ श्वशुरगेहे च सगणश्चन्द्रशेखरः

4.45.85

नित्यं षोडशोपचारैः पूजितः सह भार्यया ॥
इत्येवं कथितं राधे शंकरोद्वाहमङ्गलम् ॥
शोकजं हर्षजनकं किं भूयः श्रोतुमिच्छसि

4.45.45

॥ इति श्रीब्रह्मवैवर्त्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे शंकरविवाहो नाम पञ्चचत्वारिंशोऽध्यायः ॥

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc