ब्रह्मवैवर्त पुराण · अध्याय 4.43
नारायण उवाच ॥
अथ दुर्गां महादेवस्सतीमूर्तिं मनोहराम् ॥
अम्लानपद्मवक्त्रां तां शयानां जाह्नवीतटे
दधतीमक्षमालां च प्रतप्तकाञ्चनप्रभाम् ॥
तेजसा प्रज्वलन्तीं च दधानां शुक्लवाससम्
दृष्ट्वा सतीशरीरं च प्रदग्धो विरहाग्निना ॥
तत्त्वराशिर्मूर्तिमांश्च मूर्च्छां प्राप तथापि च
कलत्रशोको बलवान्स्वात्मारामं परात्परम् ॥
बाधते वेदबीजं तं योगीन्द्राणां गुरोर्गुरुम्
क्षणेन चेतनां प्राप्य तामुवाच त्रिलोचनः ॥
निरीक्ष्य वदनाम्भोजं स्थाणुः स्थाणुरिवापरः
साश्रुनेत्रोऽतिदीनश्च दीनानां शरणप्रदः ॥
दीनदैन्यापहारी च विललाप परं वचः
शंकर उवाच ॥
उत्तिष्ठोत्तिष्ठ सुभगे सति प्राणेश्वरि प्रिये ॥
शङ्करोऽहं तव स्वामी पश्य मां निकटागतम्
शिवं शिवप्रदं सर्वसंपद्रूपं च सिद्धिदम् ॥
सर्वात्मानं च सर्वेशं शवतुल्यं त्वया विना
शक्तोऽहं च त्वया सार्द्धं सर्वशक्तिस्वरूपया ॥
शक्तिहीनः शवसमो निश्चेष्टः सर्वकर्मसु
यश्च शक्तिं न जानाति ज्ञानहीनश्च निन्दति ॥
तं त्यक्तुमुचितं विज्ञे कथं मां त्यजसि प्रिये
स्वयं ब्रह्मा स्वयं विष्णुः साध्यभूता वयं तव ॥
सस्मितं सकटाक्षं च वद किंचित्सुधोपमम्
मधुराभासदृष्ट्या च मां दग्धं सेचनं कुरु ॥
मां दृष्ट्वा दूरतः शीघ्रं स्निग्धं वदसि सस्मितम्
कथमद्यापि रुष्टेव विलपन्तं न भाषसे ॥
प्राणाधिके समुत्तिष्ठ रुदंतं मां न पश्यसि
परित्यज्य च नः प्राणान्गन्तुं नार्हसि सुन्दरि ॥
जगदम्बे समुत्तिष्ठ प्राणाधारे परात्परे
पतिव्रते समुत्तिष्ठ कथं मां नाद्य सेवसे ॥
कथं करोषि विज्ञाय व्रतभङ्गं श्रुतिप्रसूः
इत्युक्त्वा मृतदेहं च प्रियाया विरहातुरः ॥
निधायोरसि संश्लिष्य चुचुम्ब च पुनःपुनः
अधरे चाधरं दत्त्वा वक्षो वक्षसि शङ्करः ॥
पुनःपुनः समाश्लिष्य पुनर्मूर्च्छामवाप सः
पुनः स चेतनां प्राप्य वेगादुत्थाय शोकतः ॥
दुद्राव च यथोन्मत्तो ज्ञानिनां च गुरोर्गुरुः
सप्तद्वीपसप्तसिन्धुं लोकालोकं च काञ्चनम् ॥
बभ्राम भ्रान्तवज्ज्ञानी सतीं कृत्वा स्ववक्षसि
शतशृङ्गगिरेः पार्श्वे जम्बुद्वीपे च भारते॥
सुनिर्जनेऽक्षयवटे गङ्गातीरे सरित्तटे
रुरोदोच्चैः स्वयं कृत्वा सति साध्वीत्युदीर्य च ॥
त्रिनेत्रनेत्रनीरेण संबभूव सरोवरम्
तन्नेत्रं च सरो नाम मुनीनां तपसः स्थलम् ॥
योजनद्वयविस्तीर्णं पुण्यतीर्थं मनोहरम्
यत्र स्नात्वा पुनर्जन्म नराणां न भवेद्गिरे ॥
शतजन्मकृतं पापं स्नानमात्रेण नश्यति
त्यक्त्वा तां मानवीं मूर्तिं नरा यान्ति हरेः पदम् ॥
स तत्र रोदनं त्यक्त्वा पुनर्बभ्राम मेदिनीम्
पूर्णमब्दं महायोगी विरहातुरमानसः ॥
सतीगलितप्रत्यङ्गैरंगैश्च पर्वतेश्वर
बभूव सिद्धपीठानां समूहो वाञ्छितप्रदः ॥
शेषाङ्गानां महादेवः संस्कारं वै विधाय च
अस्थिमालां विनिर्माय चकार कण्ठभूषणम् ॥
नित्यं तद्भस्म भक्त्या च चकार गात्रलेपनम्
सति प्राणेश्वरीत्युक्त्वा पुनर्मूर्च्छामवाप सः ॥
विसस्मार ब्रह्म परमात्मानमात्मसंभवः
स्वात्मारामः पूर्णकामो निश्चेष्टो विरहज्वरात् ॥
तं शयानं गिरिवरस्याभ्याशे वटमूलके
दृष्ट्वा देवाः समाजग्मुर्विस्मिताः शिवसन्निधिम् ॥
नारायणश्च भगवानीश्वरः सह पार्षदैः
रत्नयानेनाजगाम पद्मार्चितपदाम्बुजः॥
रत्नालंकार शोभाढ्यः पीतवासाश्चतुर्भुजः
ईषद्धास्यप्रसन्नास्यो वनमालाविभूषितः ॥
ब्रह्मा शेषश्च धर्मश्च सुराः सर्वे महर्षयः
समूषुरीशसदसि लक्ष्मीकान्त प्रणम्य ते ॥
श्रीहरिः शङ्करमहो कृत्वा वक्षसि मूर्च्छितम् ॥
रुदन्तं बोधयामास ज्ञानीशो ज्ञानिनां गुरुम्
श्रीभगवानुवाच ॥
स्वात्माराम निबोधेदं मदीयं वचनं शृणु
हितमध्यात्मसारं च दुःखशोकनिकृन्तनम् ॥
सर्वाध्यात्मविद्यमानबीजं ज्ञाननिधिं विधिम्
तथापि बोधयामि त्वां सर्वज्ञं वेधसो विधिम् ॥
बुधं बोधयितुं शक्तोऽबुधोऽपि प्राणसंकटे
व्यवहारोऽस्ति लोकेषु सर्वः सर्वपरस्परम् ॥
मायाश्रिता गुणाः सर्वे हेतवः सुखदुःखयोः ॥.
विष्णुमाया बलवती गुणयुक्तं प्रबाधते ॥
दुःखं शोकं भयं शंभो दुर्दिने भवतीश्वर
तत्रातीते कुतस्तानि सुदिने च समागते ॥
हर्ष ऐश्वर्यदर्पश्च संततं तत्र वर्द्धते
सर्वाण्येतानि गण्यन्ते स्वप्नानीव विपश्चितः ॥
ज्ञानं लभ महादेव ज्ञानबीज सनातन
चेतनां कुरु भद्रं ते सतीं प्राप्स्यसि निश्चितम् ॥
तत्तोयं शीतता नित्यं नाग्निं मुञ्चति दाहिका
तेजः सूर्यं महीं गन्धो तथा त्वां च सती शिव ॥
शैलेत्येवं समाकर्ण्य हरिं किंचिदुवाच ह
नेत्राण्युन्मीलनं कृत्वा त्रिनेत्रः श्रूयतामिति ॥
त्रिनेत्र उवाच ॥
कस्त्वं तेजःस्वरूपोऽसि क इमे तव सन्निधौ
किन्नाम भवतश्चैषां कानि नामानि का सती ॥
कोऽहं को मे भवान्ब्रूते किंकराः कुत आगताः
क्व यास्यसि क्व यास्यामि क्व गच्छन्त इमे वद॥
हरिरित्येवमाकर्ण्य रुरोद सगणो गिरे
नेत्रनीरैस्त्रिनेत्रं तं रुदन्तं प्रसिषेच सः ॥
हरित्रिनेत्रयोर्नेत्रनीरपातेन तत्र वै
बभूव सरसां श्रेष्ठं तीर्थं भुवनपावनम् ॥
भारतेऽस्तगिरेः पश्चात्तत्राक्षयवटांतिके
स्थलं बभूव तपसां मुक्तिबीजं तपस्विनाम् ॥
अथोवाच पुनः शीघ्रमाध्यात्मं च हरं हरिः
शृण्वतां सर्वदेवानां मुनीनामूर्ध्वरेतसाम् ॥
श्रीभगवानुवाच ॥
शृणु शंकर वक्ष्यामि ज्ञानानंद सनातन
ज्ञानं ज्ञाननिधे शोकाद्विस्मृतोऽसि परात्पर ॥
सुदिनं दुर्दिनं शश्वद्भवत्येव भवे भवे
सर्वेषां प्राकृतानां च ते बीजे सुखदुःखयोः॥
सुखाद्भवति हर्षश्च दर्पः शौर्यप्रमत्तता
राग ऐश्वर्यकामश्च विद्वेषश्च निरन्तरम् ॥
दुःखाच्छोकात्समुद्वेगाद्भयं नित्यं प्रवर्तते
हतान्येतानि सर्वाणि हते बीजे महेश्वर ॥
सुदिनं दुर्दिनं चैव सर्वकर्मोद्भवं भव
तत्कर्म तपसा साध्यं कर्मणा च शुभाशुभम् ॥
तपः स्वभावसाध्यं च स्वभावोऽभ्यासतो भवेत्
संसर्गसाध्यो ऽध्यासश्च संसर्गः पुण्यतो भवेत्॥
पुण्यबीजं मनश्चैव पापबीजं च चंचलम्
मनः शंभो ममांशश्च सर्वेंद्रियपुरःसरम्॥
सर्वेषां जनकोऽहं च चित्त्वं ब्रह्मा पतिस्त्वयम्
ब्रह्रैकं मूर्तिभेदस्तु गुणभेदेन संततम् ॥
तद्ब्रह्म विविधं वस्तु सगुणं निर्गुणं शिव
मायाश्रितो यः सगुणो मायाऽतीतश्च निर्गुणः ॥
स्वेच्छामयश्च भगवानिच्छया विकरोति च
इच्छाशक्तिश्च प्रकृतिर्नित्या सर्वप्रसूः सदा ॥
केचिदेकं वदंत्येव ब्रह्मज्योतिः सनातनम्
केचिद्वदन्ति द्विविधं ब्रह्म प्रकृतिपूर्वकम् ॥
शृणु ये च वदन्त्येकं मायापुरुषयोः परम्
तस्माद्भवति तौ द्वौ च तद्ब्रह्म सर्वकारणम् ॥
अथ चैकं परं ब्रह्म द्विविधं भवतीच्छया ॥
इच्छाशक्तिश्च प्रकृतिः सर्वशक्तिप्रसूः .सदा ॥
तत्राशक्तश्च सगुणः सर्वाधारः सनातनः
सर्वेश्वरः सर्वसाक्षी सर्वत्रास्ति फलप्रदः ॥
शरीरं द्विविधं शंभो नित्यं प्राकृतमेव च
नित्यं विनाशरहितं नश्वरं प्राकृतं सदा ॥
अहं त्वं चापि भगवान्नावयोर्नित्यविग्रहः
आवयोरंशभूता ये प्राकृता नष्टविग्रहाः ॥
रुद्रादयस्त्वदंशाश्च मदंशा विष्णुरूपिणः
ममाप्येवं द्विधा रूपं द्विभुजं च चतुर्भुजम्॥
चतुर्भुजोऽहं वैकुण्ठे पद्मया पार्षदैः सह
गोलोके द्विभुजोऽहं च गोपीभिः सह राधया ॥
द्विविधं ये वदन्त्येवं द्वौ प्रधानौ तु तन्मते
पुरुषश्च सदा नित्यो नित्या प्रकृतिरीश्वरी ॥
सदा तौ द्वौ च संश्लिष्टौ सर्वेषां पितरौ शिव
सशरीरौ निःशरीरौ स्वेच्छया सर्वरूपिणौ ॥
प्राधान्यं च यथा पुंसः प्रकृतेश्च सदा तथा
सतीमिच्छसि चेच्छम्भो प्रकृतेः स्तवनं कुरु ॥
यत्स्तोत्रं च त्वया दत्तं पुरा दुर्वाससे मुदा
तद्दिव्यं कण्वशाखोक्तं भज तेन जगत्प्रसूम् ॥
शोकनाशो भवतु ते शिवं शिव ममाशिषा
दूरं विप्लवहेतुश्च यातु स्त्रीविरहज्वरः ॥
इत्येवमुक्त्वा लक्ष्मीशो विरराम गिरीश्वरम्
स्तवनं कर्तुमारेभे प्रकृतेश्च महेश्वरः ॥
स्नात्वा नत्वा च श्रीकृष्णं ब्रह्माणं भक्तिसंयुतः॥
पुटाञ्जलियुतो भूत्वा पुलकाञ्चितविग्रहः
महेश्वर उवाच ॥
ओं नमः प्रकृत्यै मन्त्रः ॥
ब्राह्मि ब्रह्मस्वरूपे त्वं मां प्रसीद सनातनि ॥
परमात्मस्वरूपे च परमानन्दरूपिणि
भद्रे भद्रप्रदे दुर्गे दुर्गघ्ने दुर्गनाशिनि ॥
पोतस्वरूपे जीर्णे त्वं मां प्रसीद भवार्णवे ॥
सर्वस्वरूपे सर्वेशि सर्वबीजस्वरूपिणि ॥
सर्वाधारे सर्वविद्ये मां प्रसीद जयप्रदे
सर्वमङ्गलरूपे च सर्वमङ्गलदायिनि ॥
समस्तमङ्गलाधारे प्रसीद सर्वमङ्गले
निद्रे तन्द्रे क्षमे श्रद्धे तुष्टिपुष्टिस्वरूपिणि ॥
लज्जे मेधे बुद्धिरूपे प्रसीद भक्तवत्सले
वेदस्वरूपे वेदानां कारणे वेददायिनि ॥
सर्ववेदाङ्गरूपे च वेदमातः प्रसीद मे
दये जये महामाये प्रसीद जगदम्बिके ॥
क्षान्ते शान्ते च सर्वान्ते क्षुत्पिपासास्वरूपिणि
लक्ष्मीर्नारायणक्रोडे स्रष्टुर्वक्षसि भारति ॥
मम क्रोडे महामाये विष्णुमाये प्रसीद मे
कलाकाष्ठास्वरूपे च दिवारात्रिस्वरूपिणि ॥
परिणामप्रदे देवि प्रसीद दीनवत्सले
कारणे सर्वशक्तीनां कृष्णस्योरसि राधिके ॥
कृष्णप्राणाधिके भद्रे प्रसीद कृष्णपूजिते
यशःस्वरूपे यशसां कारणे च यशःप्रदे ॥
सर्वदेवीस्वरूपे च नारीरूपविधायिनि
समस्तकामिनीरूपे कलांशेन प्रसीद मे ॥
सर्वसंपत्स्वरूपे च सर्वसंपत्प्रदे शुभे
प्रसीद परमानन्दे कारणे सर्वसंपदाम् ॥
यशस्विनां पूजिते च प्रसीद यशसां निधे
आधारे सर्वजगतां रत्नाधारे वसुन्धरे ॥
चराचरस्वरूपे च प्रसीद मम मा चिरम् । ८७ ॥
योगस्वरूपे योगीशे योगदे योगकारणे ॥
योगाधिष्ठात्रि देवीशे प्रसीद सिद्धयोगिनि
सर्वसिद्धिस्वरूपे च सर्वसिद्धिप्रदायिनि ॥
कारणे सर्व सिद्धीनां सिद्धेश्वरि प्रसीद मे
व्याख्यानं सर्वशास्त्राणां मतभेदे महेश्वरि ॥
ज्ञाने यदुक्तं तत्सर्वं क्षमस्व परमेश्वरि
केचिद्वदन्ति प्रकृतेः प्राधान्यं पुरुषस्य च ॥
केचित्तत्र मतद्वैधे व्याख्याभेदं विदुर्बुधाः
महाविष्णोर्नाभिदेशे स्थितं तं कमलोद्भवम् ॥
मधुकैटभौ महादैत्यौ लीलया हंतुमुद्यतौ
दृष्ट्वा स्तुतिं प्रकुर्वन्तं ब्रह्माणं रक्षितुं पुरा ॥
बोधयामास गोविन्दं विनाशहेतवे तयोः
नारायणस्त्वद्भक्त्या च जघान तौ महासुरौ ॥
सर्वेश्वरस्त्वया सार्द्धमनीशोऽयं त्वया विना
पुरा त्रिपुरसंग्रामे गगनात्पतिते मयि ॥
त्वया च विष्णुना सार्द्धं रक्षितोऽहं सुरेश्वरि
अधुना रक्ष मामीशे प्रदग्धं विरहाग्निना॥
स्वात्मदर्शनपुण्येन क्रीणीहि परमेश्वरि
इत्युक्त्वा विरतः शंभुर्ददर्श गगनस्थिताम् ॥
रत्नसाररथस्थां तां देवीं शतभुजां मुदा
तप्तकाञ्चनवर्णाभां रत्नाभरणभूषिताम् ॥
ईषद्धास्यप्रसन्नास्यां जगतां मातरं सतीम्
दृष्ट्वा तां विरहासक्तः पुनस्तुष्टाव सत्वरम् ॥
दुःखं निवेदयामास प्ररुदन्विरहोद्भवम्
दर्शयामासास्थिमालां स्वांगस्थं भस्मभूषणम् ॥
कृत्वा बहु परीहारं तोषयामास सुंदरीम्
नारायणश्च ब्रह्मा च धर्मः शेषः सुरर्षयः ॥
शिवं रक्षेश्वरीत्युक्त्वा तुष्टुवुस्ते सनातनीम् ।१॥
बभूव परितुष्टा सा तेषां स्तोत्रेण तत्क्षणम् ॥
उवाच कृपया शंभुं प्राणेशं प्राणवल्लभा
प्रकृतिरुवाच ॥
स्थिरो भव महादेव प्राणाधिक मम प्रभो ॥
भवानात्मा च योगीशः स्वामी जन्मनि जन्मनि
अहं शैलेन्द्रकामिन्यां लब्ध्वा जन्म महेश्वर ॥
तव पत्नी भविष्यामि मुञ्च त्वं विरहज्वरम्
इत्युक्त्वा शिवमाश्वास्य चांतर्धानं चकार सा ॥
सुरा जग्मुस्तमाश्वास्य लज्जानम्रात्मकन्धरम्
हर्षान्तरात्मा गिरिशः कैलासं तु जगाम ह ॥
ननर्त सगणस्तूर्णं संत्यज्य विरहज्वरम्
इदं शिवकृतं स्तोत्रं प्रकृत्या यः पठेन्नरः ॥
न भवेत्कामिनीभेदस्तस्य जन्मनि जन्मनि
इहलोके सुखं भुक्त्वा स याति शिवमन्दिरम् ॥
धर्मार्थकाममोक्षांश्च लभते नात्र संशयः
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे शंकरशोकापनो दनं नाम त्रिचत्वारिंशोऽध्यायः
मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0