भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.42

4.42.1

वसिष्ठ उवाच ॥
अथानरण्यस्य कन्या सिषेवे भक्तितो मुनिम् ॥
कर्मणा मनसा वाचा लक्ष्मीर्नारायणं यथा

4.42.2

एकदा स्वर्णदीं स्नातुं गच्छंतीं सस्मितां सतीम् ॥
ददर्श पथि धर्मश्च मायया नृपलिंगकः

4.42.3

चारुरत्नरथस्थश्च रत्नालंकारभूषितः ॥
नवीनयौवनश्रीमान्कामदेवसमप्रभः

4.42.4

दृष्ट्वा तां सुन्दरीं रम्यामुवाच मायया विभुः ॥
विज्ञातुमन्तस्तत्त्वं च तस्याश्च मुनियोषितः

4.42.5

धर्म उवाच ॥
अयि सुन्दरि लक्ष्मीव राजयोग्ये मनोहरे ॥
अतीव यौवनस्थे च कामिनि स्थिरयौवने

4.42.6

जरातुरस्य वृद्धस्य समीपे त्वं न राजसे ॥
चन्दनागुरुसंलिप्ता राजसे राजवक्षसि

4.42.7

विप्रं तपःसु निरतं सत्यज्ञं मरणोन्मुखम्॥
विहाय पश्य राजेन्द्रं रतिशूरं स्मरातुरम्

4.42.8

प्राप्नोति सुन्दरं पुण्यात्सौन्दर्यं पूर्वजन्मतः ॥
सफलं तद्भवेत्सर्वं रसिकालिंगनेन च

4.42.9

सहस्रसुन्दरीकान्तं कामशास्त्र विशारदम् ॥
किंकरं कुरु मां कान्ते परित्यक्ष्यामि ता अपि

4.42.4.42.10

निर्जले निर्जने रम्ये शैलेशैले नदेनदे ॥
पुष्पोद्याने पुष्पिते च सुगन्धिपुष्पवायुना

4.42.11

मलये चन्दनारण्ये चारुचन्दनवायुना ॥
विहरिष्यामि कामेन कामिन्या च त्वया सह

4.42.12

कामज्वरेण दग्धायाः शांतिं कर्तुमहं क्षमः ॥
विहरस्व मया सार्द्धं जन्मेदं सफलं कुरु

4.42.13

इत्येवमुक्तवंतं तं स्वरथादवरुह्य च ॥
ग्रहीतुमुत्सुकं हस्तं तमुवाच पतिव्रता

4.42.14

पद्मोवाच ॥
दूरं गच्छ गच्छ दूरं पापिष्ठ भूमिपाधम ॥
मां चेत्पश्यसि कामेन सद्यो भस्म भविष्यसि

4.42.15

पिप्पलादं मुनिश्रेष्ठं तपसा पूतविग्रहम्॥
विहाय त्वां भजिष्यामि स्त्रीजितं रतिलंपटम्

4.42.16

स्त्रीजितस्पर्शमात्रेण सर्वपुण्यं प्रणश्यति ॥
न भूमौ पातकी पापात्पापिनां स्त्रीजितात्परः

4.42.17

मां मातरं च स्त्रीभावं कृत्वा येन ब्रवीषि च ॥
भविष्यति क्षयस्तेन कालेन मम शापतः

4.42.18

श्रुत्वा धर्मः सतीशापं नृपमूर्तिं विहाय च ॥
धृत्वा स्वमूर्तिं देवेशः कंपमान उवाच ताम्

4.42.19

धर्म उवाच ॥
मातर्जानीहि मां धर्मं धर्मज्ञानां गुरोर्गुरुम् ॥
परस्त्रीमातृबुद्धिं च कुर्वन्तं संततं सति

4.42.4.42.20

अहं तवांतर्विज्ञातुमागतस्तव सन्निधिम् ॥
युष्माकं च मनो जाने तथापि दैवबोधितः

4.42.21

कृतं मे दमनं साध्वि न विरुद्धं यथोचितम् ॥
शास्तिः समुत्पथस्थानामीश्वरेण विनिर्मिता

4.42.22

धर्मं स्वधर्मं विज्ञातुं कालं कलयितुं क्षमः ॥
विधातारं संविधातुं तस्मै कृष्णाय ते नमः

4.42.23

संहर्तुं यः क्षमः काले संहर्तारं भवं विभुः ॥
स्रष्टारं लीलया स्रष्टुं तस्मै कृष्णाय ते नमः

4.42.24

शत्रुं विधातुं मित्रं च सुप्रीतिं कलहं क्षमः ॥
स्रष्टुं नष्टम् तदेवं च तस्मै कृष्णाय ते नमः

4.42.25

शापं प्रदातुं सर्वाश्च सुखदुःखवरान्क्षमः ॥
संपदं विपदं यो हि तस्मै कृष्णाय ते नमः

4.42.26

प्रकृतिर्निर्मिता येन महाविष्णुश्च निर्मितः ॥
ब्रह्मविष्णुमहेशाद्यास्तस्मै कृष्णाय ते नमः

4.42.27

येन शुक्लीकृतं क्षीरं जलं शीतं कृतं पुरा ॥
दाहीकृतो हुताशश्च तस्मै कृष्णाय ते नमः

4.42.28

अतितेजः समुत्थाय तेजोरूपाय मूर्त्तये ॥
गुणश्रेष्ठनिर्गुणाय तस्मै कृष्णाय ते नमः

4.42.29

सर्वस्मै सर्वबीजाय सर्वेषामन्तरात्मने॥
सर्वबंधुस्वरूपाय तस्मै कृष्णाय ते नमः

4.42.4.42.30

इत्युक्त्वा पुरतस्तस्यास्तस्थौ धर्मो जगद्गुरुः ॥
सा साध्वी तं च विज्ञाय सहसोवाच पर्वत

4.42.31

पद्मोवाच ॥
त्वमेव धर्मः सर्वेषां साक्षी च सर्वकर्मणाम् ॥
सर्वांतरेषु सर्वात्मा सर्वज्ञः सर्वतत्त्ववित्

4.42.32

कथं मनो मे विज्ञातुं विडंबयसि किंकरीम् ॥
यत्कृतं त्वत्कृते ब्रह्मन्नपराधो बभूव मे

4.42.33

त्वं च शप्तो मयाऽज्ञानात्स्त्रीस्वभावात्क्रुधा विभो ॥
का व्यवस्था भवेत्तस्य चिन्तयामीति सांप्रतम्

4.42.34

आकाशोऽसौ दिशः सर्वा यदि नश्यन्ति वायवः ॥
तथापि साध्वीशापस्तु न नश्यति कदाचन

4.42.35

त्वं च नष्टो भवसि चेत्सृष्टिनाशो भवेत्तदा ॥
इति कर्तव्यतामूढा तथापि त्वां वदाम्यहम्

4.42.36

सत्ये पूर्णश्चतुष्पादैः पौर्णमास्यां यथा शशी ॥
विराजसे देवराज सर्वकालं दिवानिशम्

4.42.37

पादक्षयश्च त्रेतायां भगवन्भविता तव ॥
पादौ परौ द्वापरे च तृतीयश्च कलौ विभो

4.42.38

कलिशेषे शेषपादस्तवाच्छन्नो भविष्यति ॥
पुनः सत्ये समायाते परिपूर्णो भविष्यसि

4.42.39

सत्ये सर्वव्यापकस्त्वं तदन्येषु च कुत्रचित् ॥
यत्र स्थानं तवाधारो वदामि श्रूयतां विभो

4.42.4.42.40

वैष्णवेषु च सर्वेषु यतिषु ब्रह्मचारिषु ॥
पतिव्रतासु प्राज्ञेषु वानप्रस्थेषु भिक्षुषु

4.42.41

नृपेषु धर्मशीलेषु सत्सु सद्वैश्यजातिषु ॥
द्विजसेविषु शूद्रेषु सत्संसर्गस्थितेषु च

4.42.42

एषु त्वं सततं पूर्णो धर्मराज विराजसे ॥
युगेयुगे तदाधारा यत्र पुण्यतमा जनाः

4.42.43

अश्वत्थवटबिल्वेषु तुलसीचंदनेषु च ॥
दीक्षापरीक्षाशपथगोष्ठगोष्पदभूमिषु

4.42.44

विवाहेषु च पुष्पेषु विद्यमानोऽसि शाखिषु ॥
देवालयेषु तीर्थेषु सतां शश्वद्गृहेषु च

4.42.45

वेदवेदांगश्रवणे जलेषु च सभासु च ।
श्रीकृष्णगुणनामोक्त श्रुतिगीतस्थलेषु च

4.42.46

व्रतपूजातपोन्याययज्ञसाक्षिस्थलेषु च ॥
गवां गृहेषु गोष्वेव विद्यमानो हि पश्यसि

4.42.47

कृशता तेन भविता धर्म तेषु स्थलेषु च ॥
एतदन्येषु कृशता यदगम्यं च तच्छृणु

4.42.48

पुंश्चलीषु च सर्वासु गृहेषु नरघातिनाम् ॥
नरघातिषु नीचेषु मूर्खेषु च खलेषु च

4.42.49

देवतागुरुविप्रेष्टपाल्यानां धनहारिषु ॥
असन्नरेषु धूर्तेषु चौरेषु रतिभूमिषु

4.42.4.42.50

दुरोदरसुरापानकलहानां स्थलेषु च ॥
शालग्रामसाधुतीर्थपुराणरहितेषु च

4.42.51

दस्युस्नेहेषु वादेषु तालच्छायासु गर्विषु॥
असिजीविमषीजीविदेवलग्रामयाजिषु

4.42.52

वृषवाहस्वर्णकारजीवहिंसोपजीविषु ॥
भर्तृनिंदितनारीषु स्त्रीजितेषु च पुंसु च

4.42.53

दीक्षासंध्याविष्णुभक्तिविहीनेषु द्विजेषु च ॥
स्वांगकन्याविक्रयिषु स्वयोषिद्विक्रयेष्वथ

4.42.54

शालग्रामसुरग्रंथभूमिविक्रयिषु प्रभो ॥
मित्रदोहिकृतघ्नेषु सत्यविश्वासघातिषु

4.42.55

शरणागतदीनेषु चाश्रितघ्नेषु नृष्वपि ॥
शश्वन्मिथ्योक्तिशीलेषु तथा सीमापहारिषु

4.42.56

कामात्क्रोधात्तथा लोभान्मिथ्यासाक्षिप्रवादिषु ॥
पुण्यकर्मविहीनेषु पुण्यकर्मविरोधिषु

4.42.57

स्थातुमेतेषु निन्द्येषु नाधिकारस्तव प्रभो ॥
ममापि वचनं सत्यं बभूव तत्क्षणं तव

4.42.58

यास्यामि पतिसेवायै गच्छ तात स्वमन्दिरम् ॥
इत्येवंवादिनीं साध्वीमुवाच विधिनन्दनः ॥
प्रसन्नवदनः श्रीमानतीव विनयं वचः

4.42.59

धर्म उवाच ॥
धन्याऽसि पतिभक्ताऽसि स्वस्ति तेऽस्तु च संततम्

4.42.4.42.60

वरं गृहाण दास्यामि मत्परित्राणकारिणि ॥
युवा भवतु भर्ता ते रतिशूरश्च कन्यके ॥

4.42.61

रूपवान्गुणवान्साध्वि संततं स्थिरयौवनः ॥
परमैश्वर्यसंयुक्ता त्वं भव स्थिरयौवना

4.42.62

चिरजीवी भवतु स मार्कण्डेयात्परः सुते ॥
कुबेराद्धनवांश्चैव शक्रादैश्वर्यवानपि

4.42.63

विष्णुभक्तः शिवसमः सिद्धस्तु कपिलात्परः ॥
स्वामिसौभाग्यसंयुक्ता भव त्वं जीवनावधि

4.42.64

गृहा भवन्तु ते साध्वि कुबेरभवनाधिकाः ॥
माता त्वं दशपुत्राणां गुणिनां चिरजीविनाम् ॥

4.42.69

स्वभर्तुरधिकानां च भविष्यसि न संशयः ॥
इत्येवमुक्त्वा संतस्थौ धर्मराजश्च पर्वत

4.42.66

सा तं प्रदक्षिणीकृत्य प्रणम्य स्वगृहं ययौ ॥
धर्मस्तामाशिषं युक्त्वा जगाम निजमन्दिरम्

4.42.67

पतिव्रतां प्रशशंस प्रतिसंसदि संसदि ॥
सा रेमे स्वामिना सार्द्धं यूना रहसि संततम्

4.42.68

पश्चाद्बभूव सत्पुत्रा तद्भर्तुरधिका गुणैः ॥
शैलेन्द्र कथितं सर्वमितिहासं पुरातनम्

4.42.69

दत्त्वाऽनरण्यः स्वसुतां ररक्ष सर्वसंपदम् ॥
त्वमेव कन्यकां दत्त्वा सर्वेषामीश्वराय च

4.42.4.42.70

रक्ष सर्वबन्धुवर्गानात्मनः सर्वसंपदम् ॥
सप्ताहे समतीते च दुर्लभेऽतिशुभे क्षणे

4.42.71

लग्नाधिपे च लग्नस्थे चन्द्रे स्वतनयान्विते ॥
मोदते रोहिणीयुक्ते विशुद्धे चन्द्रतारके

4.42.72

मार्गशीर्षे चन्द्रवारे सर्वदोषविवर्जिते ॥
सर्वसद्ग्रहसंदृष्टे ह्यसद्ग्रहविवर्जिते

4.42.73

सदपत्यप्रदेऽतीव पतिसौभाग्यदायिनि ॥
अवैधव्यप्रदे सौख्यप्रदे जन्मनि जन्मनि

4.42.74

अत्यन्तप्रेमाविच्छेदप्रदायिनि परात्परे ॥
कन्यां प्रदाय देवाय त्वं कृती भव पर्वत

4.42.79

जगदम्बां जगत्पित्रे मूलप्रकृतिमीश्वरीम् ॥
तेजःस्वरूपां सर्वेषां देवानां देवपूजिताम्

4.42.76

आविर्भूता पुरा कल्पे देवानां रक्षणाय च ॥
तेजोराशिः सुरौघाणां प्रज्वलन्तो दिशो दश

4.42.77

अस्याः स्वतेजसा दैत्याः केचिद्दग्धाः पलायिताः ॥
केचिद्बभूवुः शैलेन्द्र भस्मीभूताश्च भूतले

4.42.78

बिलं प्रविविशुः केचिन्मूर्च्छां प्रापुश्च केचन ॥
केचिद्दन्ते तृणं कृत्वा जग्मुः शरणमीश्वरीम्

4.42.79

केचिच्चिक्षिपुरस्त्राणि स्तम्भिता अपि केचन ॥
केचिच्चिरं रणं कृत्वा ययुः स्वर्गमनामयम्

4.42.4.42.80

निःशत्रवो बभूवुस्ते सुरा अस्याः प्रसादतः ॥
कृष्णाज्ञया सा कल्पान्ते दक्षकन्या बभूव ह

4.42.81

दक्षश्च विधिवद्देवीं प्रददौ शूलपाणये ॥
दैवेन मत्पितुर्यज्ञे सहसा सुरसंसदि

4.42.82

बभूव कलहः शैल तेन शूलभृता महान् ॥
ब्रह्माणं च नमस्कृत्य ययौ रुष्टस्त्रिलोचनः

4.42.83

दक्षश्च सगणो रुष्टः प्रययौ स्वालयं तदा ॥
कोपात्संभृतसंभारो दक्षो यज्ञं चकार ह

4.42.84

न ददौ यज्ञभागं च मात्सर्याच्छूलपाणये ॥
दृष्ट्वा सती प्रकुपिता जनकं रक्तलोचना

4.42.85

निर्भर्त्स्य च बहुतरं हृदयेन विदूयता ॥
यज्ञस्थानात्समुत्थाय जगाम मातुरन्तिकम्

4.42.86

भविष्यं कथयामास त्रिकालज्ञा परात्परा ॥
यज्ञभङ्गादिकं वाऽपि स्वपितुश्च पराभवम्

4.42.87

पलायनं च देवानां यज्ञस्थानाद्गिरीश्वरम् ॥
मुनीनामृत्विजां चैव पर्वतानां तथैव च

4.42.88

जयं शंकरसैन्यानां स्वात्मनो मृत्युमेव च ॥
शोकात्पर्यटनं भर्तुर्विरहातुरचेतसा

4.42.89

निर्माणं नेत्ररसः प्रबोधं च जनार्दनात् ॥
मूर्तिभेदात्पुनः प्राप्तिं विहारं तस्य तत्समम्

4.42.4.42.90

अपरं भवितव्यं च सर्वमुक्त्वा जगाम सा ॥
स्वमात्रा भगिनीभिश्च प्रतिषिद्धा च दुःखिता

4.42.91

बभूवादर्शना योगात्सर्वासां सिद्धियोगिनी ॥
गत्वा सा जाह्नवीतीरं स्मृत्वा संपूज्य शंकरम्

4.42.92

स्मृत्वा तच्चरणाम्भोजं देहं तत्याज सुन्दरी ॥
गन्धमादनद्रोणीस्थं शरीरं प्रविवेश ह

4.42.93

संजहार पुरा येन दैत्यानामखिलं कुलम् ॥
हाहाकारं प्रचक्रुश्च सुराः सर्वेऽतिविस्मिताः

4.42.94

जग्मुः शंकरसेनाश्च देशयज्ञं विनश्य च ॥
पराभवं च सर्वेषां कृत्वा शोकातुराः पराः

4.42.95

सत्वरं सर्ववृत्तान्तं कथयामासुरीश्वरम् ॥
श्रुत्वा प्रवृत्तिं संहर्ता सर्वरुद्रगणैर्वृतः ॥
जगाम स्वर्णदीतीरं यत्र देवीकलेवरम्

4.42.42

इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे सतीदेहत्यागो नाम द्विचत्वारिंशोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc