ब्रह्मवैवर्त पुराण · अध्याय 4.3
॥ श्रीनारायण उवाच ॥ ॥
राधा रतिगृहं गत्वा न ददर्श हरिं मुने ॥
विरजां च सरिदूपां दृष्ट्वा गेहं जगाम सा
श्रीकृष्णो विरजां दृष्ट्वा सरिद्रूपां प्रियां सतीम् ॥
उच्चै रुरोद विरजातीरे नीरमनोहरे
ममांतिकं समागच्छ प्रेयसीनां परे वरे ॥
त्वया विनाऽहं सुभगे कथं जीवामि सुंदरि
नद्यधिष्ठात्रि देवि त्वं भव मूर्तिमती सती ॥
ममाशिषा रूपवती सुंदरी योषिता वरा
पूर्वरूपाच्च सौभाग्यादिदानीं सुभगा भव ॥
पुरातनं शरीरं ते सरिदूपमभूत्सति
जलादुत्थाय चागच्छ विधाय तनुमुत्तमाम्॥
अष्टौ सिद्धीर्मया दत्ताः सुरसुंदरि सत्वरम्
कृष्णाज्ञया च विरजा विधाय तनुमुत्तमाम् ॥
आजगाम हरेरग्रे साक्षाद्राधेव सुंदरी
पीतवस्त्रपरीधाना स्मेराननसरोरुहा ॥
पश्यंतं प्राणनाथं च पश्यंती वक्रचक्षुषा
नितंबश्रोणिभारार्ता पीनोन्नतपयोधरा ॥
मानिनी मानिनीनां च गजेंद्रमंदगामिनी
सुंदरी सुदरीणां च धन्या मान्या च योषिताम् ॥
चारुचंपकवर्णाभा पक्वबिंबाधरा वरा
पक्व दाडिमबीजाभदंतपंक्तिमनोहरा ॥
शरत्पार्वणचंद्रास्या फुल्लेंदीवरलोचना
कस्तूरीबिंदुना सार्धं सिंदूरबिंदुभूषिता ॥
चारुपत्रक शोभाढ्या सुचारुकबरीयुता
रत्नकुंडलगंडस्था भूषिता रत्नमालया ॥
गजमौक्तिकनासाग्रा मुक्ताहारविराजिता
रत्नकंकणकेयूरचारुशंखकरोज्ज्वला ॥
किंकिणीजालशब्दाढ्या रत्नमंजीररंजिता
तां च रूपवतीं दृष्ट्वा प्रेमोद्रेका जगत्पतिः ॥
चकारालिंगनं तूर्णं चुचुंब च मुहुर्मुहुः
नानाप्रकारशृंगारं विपरीतादिकं विभुः ॥
रहसि प्रेयसीं प्राप्य चकार च पुनः पुनः
विरजा सा रजोयुक्ता धृत्वा वीर्यममोघकम् ॥
सद्यो बभूव तत्रैव धन्या गर्भवती सती
दधार गर्भमीशस्य दिव्यं वर्षशतं च सा ॥
ततः सुषाव तत्रैव पुत्रान्सप्त मनोहरान्
माता सा सप्तपुत्राणां श्रीकृष्णस्य प्रिया सती ॥
तस्थौ तत्र सुखासीना सार्द्धं पुत्रैश्च सप्तभिः
एकदा हरिणा सार्द्धं वृंदारण्ये च निर्जने ॥
विजहार पुनः साध्वी शृंगारासक्तमानसा
एतस्मिन्नंतरे तत्र मातुः क्रोडं जगाम ह ॥
कनिष्ठपुत्रस्तस्याश्च भ्रातृभिः पीडितो भिया
भीतं स्वतनयं दृष्ट्वा तत्याज तां कृपानिधिः ॥
क्रोडे चकार बालं सा कृष्णो राधागृहं ययौ
प्रबोध्य बालं सा साध्वी न ददर्शांतिके प्रियम् ॥
विललाप भृशं तत्र शृंगारातृप्तमानसा
शशाप स्वसुतं कोपाल्लवणोदो भविष्यसि॥
कदाऽपि ते जलं केचिन्न खादिष्यंति जीविनः
शशाप बालान्सर्वांश्च यांतु मूढा महीतलम् ॥
गच्छध्वं च महीं मूढा जंबुद्वीपं मनोहरम्
स्थितिर्नैकत्र युष्माकं भविष्यति पृथक्पृथक् ॥
द्वीपे द्वीपे स्थितिं कृत्वा तिष्ठंतु सुखिनः सदा
द्वीपस्थाभिर्नदीभिश्च सह क्रीडंतु निर्जने ॥
कनिष्ठो मातृशापाच्च लवणोदो बभूव ह
कनिष्ठः कथयामास मातृशापं च बालकान् ॥
आजग्मुर्दुःखिताः सर्वे मातृस्थाने च बालकाः
श्रुत्वा विवरणं सर्वे प्रजग्मुर्धरणीतलम् ॥
प्रणम्य चरणं मातुर्भक्तिनम्रात्ममूर्तयः
सप्तद्वीपसमुद्राश्च सप्त तस्थुर्विभागशः ॥
कनिष्ठाद्वृद्धपर्यंतं द्विगुणं द्विगुणं मुने
लवणेक्षुसुरा सर्पिर्दधिदुग्धजलार्णवाः ॥
एतेषां च जलं पृथ्व्यां सस्यार्थं च भविष्यति
व्याप्ताः समुद्राः सप्तैव सप्तद्वीपां वसुंधराम् ॥
रुरुदुर्बालकाः सर्वे मातृभ्रातृशुचाऽन्विताः
रुरोद च भृशं साध्वी पुत्रविच्छेदकातरा ॥
मूर्च्छामवाप शोकेन पुत्राणां भर्तुरेव च
तां शोकसागरे मग्नां विज्ञाय राधिकापतिः ॥
आजगाम पुनस्तस्याः स्मेराननसरोरुहः
दृष्ट्वा हरिं सा तत्याज शोकं रोदनमेव च ॥
आनन्दसागरे मग्ना दृष्ट्वा कांतं बभूव ह
चकार श्रीहरिं क्रोडे विजहार स्मरातुरा ॥
तां च पुत्र परित्यक्तां हरिस्तुष्टो बभूव ह
वरं तस्यै ददौ प्रीत्या प्रसन्नवदनेक्षणः ॥
कांते नित्यं तव स्थानमागमिष्यामि निश्चितम्
यथा राधा तत्समा त्वं भविष्यसि प्रिया मम ॥
पुत्रान्द्रक्ष्यसि नित्यं त्वं मद्वरस्य प्रसादतः
इत्युक्तवंतं श्रीकृष्णं वसंतं विरजांतिके ॥
दृष्ट्वा राधावयस्याश्च कथयामासुरीश्वरीम्
श्रुत्वा रुरोष सा देवी सुष्वाप क्रोधमंदिरे ॥
एतस्मिन्नंतरे कृष्णो जगाम राधिकांतिकम्
स तस्थौ राधिकाद्वारे श्रीदाम्ना सह नारद ॥
रासेश्वरी हरिं दृष्ट्वा रुष्टोवाच प्रियं पुरः
मत्तो बहुतराः कांता गोलोके संति ते हरे ॥
याहि तासां सन्निधानं मया ते किं प्रयोजनम्
विरजा प्रेयसी कांता सरिद्रूपा बभूव ह ॥
देहं त्यक्त्वा मम भयात्तथाऽपि याहि तां प्रति
तत्तीरे मंदिरं कृत्वा तिष्ठ तिष्ठ च याहि ताम्॥
नदी बभूव सा त्वं च नदो भवितुमर्हसि
नदस्य नद्या सार्द्धं च संगमो गुणवान्भवेत् ॥
स्वजातौ परमा प्रीतिः शयने भोजने सुखात्
देवचूडामणेः क्रीडा नद्या सार्द्धमहो बत ॥
महाजनः स्मेरमुखः श्रुत्वा सद्यो भविष्यति
ये त्वां वदंति सर्वेशं ते किं जानंति तत्त्वतः ॥
भगवान्सर्वभूतात्मा नदीं संभोक्तुमिच्छति
इत्युक्त्वा राधिका देवी विरराम रुषाऽन्विता ॥
नोत्तस्थौ भूमिशयनाद्गोपीलक्षसमन्विता
काश्चिच्चामरहस्ताश्च काश्चित्सूक्ष्मांशुकांबराः ॥
काश्चित्तांबूलहस्ताश्च काश्चिन्मालाकरा वराः
वासितोदकराः काश्चित्काश्चित्पद्मकरा वराः ॥
काश्चित्सिंदूरहस्ताश्च पानहस्ताश्च काश्चन
रत्नालंकारहस्ताश्च काश्चित्कज्जलवाहिकाः ॥
वेणुवीणाकराः काश्चित्काश्चित्कंकतिकाकराः
काश्चिदावीरहस्ताश्च यंत्रहस्ताश्च काश्चन ॥
सुगंधितैलहस्ताश्च काश्चन प्रमदोत्तमाः
करतालकराः काश्चिद्गेंदुहस्ताश्च काश्चन ॥
काश्चिन्मृदंगमुरजमुरलीतानकारिकाः
संगीतनिपुणाः काश्चित्काश्चिन्नर्तनतत्पराः ॥
क्रीडावस्तुकराः काश्चिन्मधुहस्ताश्च काश्चन
सुधापात्रकराः काश्चिदंघ्रिपीठकराः पराः ॥
वेषवस्तुकराः काश्चित्काश्चिच्चरणसेविकाः
पुटांजलिकराः काश्चित्काश्चित्स्तुतिपरा वराः ॥
एवं कतिविधाः संति राधिकापुरतो मुने
बहिर्देशस्थिताः काश्चित्कोटिशः कोटिशः सदा ॥
काश्चिद्द्वारनियुक्ताश्च वयस्या वेत्रधारिकाः
कृष्णमभ्यंतरं गंतुं न ददुर्द्वारसंस्थिताः ॥
पुरःस्थितं तं प्राणेशं राधा पुनरुवाच सा ॥
नानुरूपमत्यकथ्ययमयोग्यमतिकर्कशम्
॥ राधिकोवाच ॥
हे कृष्ण विरजाकांत गच्छ मत्पुरतो हरे ॥
कथं दुनोषि मां लोल रतिचौरातिलंपट
शीघ्रं पद्मावतीं गच्छ रत्नमालां मनोरमाम् ॥
अथवा वनमालां वा रूपेणाप्रतिमां व्रज
हे नदीकांत देवेश देवानां च गुरोर्गुरो ॥
मया ज्ञातोऽसि भद्रं ते गच्छ गच्छ ममाश्रमात्
शश्वत्ते मानुषाणां च व्यवहारस्य लंपट ॥
लभतां मानुषीं योनिं गोलोकाद्व्रज भारतम्
हे सुशीले शशिकले हे पद्मावति माधवि ॥
निवार्यतां च धूर्तोऽयं किंमस्यात्र प्रयोजनम्
राधिकावचनं श्रुत्वा तमूचुर्गोपिका हरिम् ॥
हितं तथ्यं च विनयं सारं यत्समयोचितम्
काश्चिदूचुरिति हरे गच्छ स्थानांतरं क्षणम् ॥
राधाकोपापनयने ह्यागमिष्यामहे वयम्
काश्चिदूचुरिति प्रीत्या क्षणं गच्छ गृहांतरम् ॥
त्वयैव वर्धिता राधा त्वां विना कं च वक्ष्यति
काश्चिदूचुरिति प्रेम्णा राधिकायां हरिं मुने ॥
क्षणं वृंदावनं गच्छ मानापनयनावधि
काश्चिदित्यूचुरीशं च परिहासपरं वचः ॥
मानापनयनं भक्त्या मानिन्याः कुरु कामुक
काश्चनोचुरितीशं तं याहि जायांतरं तव ॥
लोलुपस्य कथं नाथ करिष्यामो यथोचितम्
काश्चनोचुरिति हरिं सस्मितं पुरतः स्थितम् ॥
गत्वा समीपमुत्थाय मानापनयनं कुरु
काश्चनोचुरिति प्राणनाथं गोप्यो दुरक्षरम् ॥
कः क्षमः सांप्रतं द्रष्टं राधिकामुखपंकजम्
काश्चनोचुरिति विभुं व्रज स्थानांतरं हरे ॥
कोपापनयने काले पुनरागमनं तव
काश्चनोचुरितीदं तं प्रगल्भाः प्रमदोत्तमाः ॥
वयं त्वां दारयिष्यामो न चेद्याहि गृहांतरम्
काश्चिन्निवारयामासुर्माधवं प्रमदोत्तमाः ॥
स्मितवक्त्रं च सर्वेशं स्वस्थमक्रोधमीश्वरम्
गोपीर्भिर्वार्यमाणे च जगत्कारणकारणे ॥
सद्यश्चुकोप श्रीदामा हरौ गेहांतरं गते
कोपादुवाच श्रीदामा राधिकां परमेश्वरीम् ॥
रक्तपद्मेक्षणां रुष्टां रक्तपंकजलोचनाम्
॥ श्रीदामोवाच ॥ ॥
कथं वदसि मातस्त्वं कटुवाक्यं मदीश्वरम् ॥
विचारणां विना देवि करोषि भर्त्सनं वृथा
ब्रह्मानंतेशदेवेशं जगत्कारणकारणम् ॥
वाणीपद्मालयामायाप्रकृतीशं च निर्गुणम्
स्वात्मारामं पूर्णकामं करोषि त्वं विडंबनम् ॥
देवीनां प्रवरा त्वं च निबोध यस्य सेवया
यस्य पादार्चनेनैव सर्वेषामीश्वरी परा ॥
तन्न जानासि कल्याणि किमहं वक्तुमीश्वरः
भ्रूभंगलीलया कृष्णः स्रष्टुं शक्तश्च त्वद्विधाः ॥
कोटिशः कोटिशो देव्यस्तं न जानासि निर्गुणम्
वैकुंठे श्रीहरेरस्य चरणांबुजमार्जनम् ॥
करोति केशैः शश्वच्छ्रीः सेवनं भक्तिपूर्वकम्
सरस्वती च स्तवनैः कर्णपीयूषसुंदरैः ॥
सततं स्तौति यं भक्त्या न जानासि तमीश्वरम्
भीता च प्रकृतिर्माया सर्वेषां बीजरूपिणी ॥
सततं स्तौति यं भक्त्या तं न जानासि मानिनि
स्तुवंति सततं वेदा महिम्नः षोडशीं कलाम् ॥
कदापि न विजानंति तं न जानासि भामिनि
वक्त्रैश्चतुर्भिर्यं ब्रह्मा वेदानां जनको विभुः ॥
स्तौति सेवां च कुरुते चरणांबुजमीश्वरि
शंकरः पंचभिर्वक्त्रैः स्तौति यं योगिनां गुरुः ॥
साश्रुपूर्णः सपुलकः सेवते चरणांबुजम्
शेषः सहस्रवदनैः परमात्मानमीश्वरम् ॥
सततं स्तौति यं भक्त्या सेवते चरणांबुजम्
धर्मःपाता च सर्वेषां साक्षी च जगतां पतिः ॥
भक्त्या च चरणांभोजं सेवते सततं मुदा
श्वेतद्वीपनिवासी यः पाता विष्णुः स्वयं विभुः ॥
तस्यांशश्च तथा यं यं धार्यतेऽप्यक्षरं परम्
सुरासुरमुनींद्राश्च मनवो मानवा बुधाः ॥
सेवंते न हि पश्यंति स्वप्नेऽपि चरणांबुजम्
क्षिप्रं रोषं परित्यज्य भज पादांबुजं हरेः॥
भ्रूभंगलीलामात्रेण सृष्टिसंहर्तुरेव च
निमेषमात्रादस्यैव ब्रह्मणः पतनं भवेत् ॥
यस्यैकदिवसेऽप्यष्टाविंशतींद्राः पतंत्यपि
एवमष्टोत्तरशतमायुर्यस्य जगद्विधेः ॥
त्वं वा काऽन्याश्च वा राधे मदीश्वरवशेऽखिलम्
श्रीदाम्नो वचनं श्रुत्वा केवलं कटुमुज्ज्वलम् ॥
सद्यश्चुकोप सा ब्रह्मन्सद्यः प्राणेश्वरी हरेः
रासेश्वरी बहिर्गत्वा तमुवाच ह निष्ठुरम् ॥
स्फुरदोष्ठी मुक्तकेशी रक्तांभोरुहलोचना
॥
राधिकोवाच ॥
रेरे जाल्म महामूढ शृणु लॆपटकिंकर ॥
त्वं च जानासि सर्वार्थं न जानामि त्वदीश्वरम्
त्वदीश्वरश्च श्रीकृष्णो न ह्यस्माकं व्रजाधम ॥
जानामि जनकं स्तौषि सदा निंदसि मातरम्
यथाऽसुराश्च त्रिदशा नित्यं निंदंति संततम् ॥
तथा निंदसि मां मूढ तस्मात्त्वमसुरो भव
गोप व्रजासुरीं योनिं गोलोकाच्च बहिर्भव ॥
मयाऽद्य शप्तो मूढस्त्वं कस्त्वां रक्षितुमीश्वरः
रासेश्वरी तमित्युक्त्वा सुष्वाप विरराम च ॥
वयस्याः सेवयामासुश्चामरै रत्नमुष्टिभिः
श्रुत्वा च वचनं तस्याः कोपेन स्फुरिताधरः ॥
शशाप तां च श्रीदामा व्रज योनिं च मानुषीम् ॥
श्रीदामोवाच ॥ ॥
मानुष्या इव कोपस्ते तस्मात्त्वं मानुषी भुवि
भविष्यसि न संदेहो मया शप्ता त्वमंबिके ॥
छायया कलया वाऽपि परशक्त्या कलंकिना
मूढा रापाणपत्नी त्वां वक्ष्यति जगतीतले ॥
रापाणः श्रीहरेरंशो वैश्यो वृंदावने वने
भविष्यति महायोगी राधाशापेन गर्भजः ॥
गोकुले प्राप्य तं कृष्णं विहरिष्यसि कानने
भविता ते वर्षशतं विच्छेदो हरिणा सह ॥
पुनः प्राप्य तमीशं च गोलोकमागमिष्यसि
तामित्युक्त्वा च नत्वा च स जगाम हरेः पुरः ॥
गत्वा प्रणम्य श्रीकृष्णं शापाख्यानमुवाच ह
आनुपूर्व्यात्तु तत्सर्वं रुरोद च भृशं पुनः ॥
उवाच तं रुदंतं च गच्छध्वं धरणीतलम्
न जेता ते त्रिभुवने ह्यसुरेंद्रो भविष्यसि ॥
काले शंकरशूलेन देहं त्यक्त्वा ममांतिकम्
आगमिष्यसि पंचाशद्युगांते तु ममाशिषा ॥
श्रीकृष्णस्य वचः श्रुत्वा तमुवाच शुचाऽन्वितः
त्वद्भक्तिरहितं मां च कदाचिन्न करिष्यसि ॥
इत्युक्त्वा श्रीहरिं नत्वा जगाम स्वाश्रमाद्बहिः
पश्चाज्जगाम सा देवी रुरोद च पुनःपुनः ॥
क्व यासि वत्सेत्युच्चार्य विललाप भृशं सती
श्रीदामाऽपि च तां नत्वा रुरोद प्रेमविह्वलः ॥
स एव शंखचूडश्च बभूव तुलसीपतिः
गते श्रीदाम्नि सा देवी जगामेश्वरसन्निधिम् ॥
सर्वं निवेदयामास हरिः प्रत्युत्तरं ददौ
शोकातुरां च तां कृष्णो बोधयामास प्रेयसीम् ॥
शंखचूडश्च कालेन संप्राप पुनरीश्वरम्
राधा जगाम धरणीं वाराहे हरिणा सह ॥
वृषभानुगृहे जन्म ललाभ गोकुले मुने
इत्येवं कथितं सर्वं श्रीकृष्णाख्यानमंगलम् ॥
सर्वेषां वांछितं सारं किं भूयः श्रोतुमिच्छसि
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंडे नारायणनारदसंवादे सप्तसमुद्रजन्म राधाश्रीदामशापोद्भवो नाम तृतीयोऽध्यायः
मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0