ब्रह्मवैवर्त पुराण · अध्याय 4.37
श्रीराधिकोवाच ॥
एवंभूतस्य च विभोः सर्वेशस्य महात्मनः ॥
न शस्तं कथमुच्छिष्टं ब्रूहि संदेहभञ्जन
श्रीकृष्ण उवाच ॥
शृणु देवि प्रवक्ष्येऽहमितिहासं पुरातनम् ॥
पापेन्धनानां दहने ज्वलदाग्निशिखोपमम्
सनत्कुमारो वैकुण्ठमेकदा च जगाम ह ॥
ददर्श भुक्तवन्तं च नाथं नारायणं द्विजः
तुष्टाव गूढैः स्तोत्रैश्च प्रणम्य भक्तितो मुदा ॥
अवशेषं ददौ तस्मै संतुष्टो भक्तवत्सलः
प्राप्तमात्रेण तत्रैव भुक्तं तेनैव किंचन॥
किंचिद्ररक्ष बंधूनां भक्षणाय च दुर्लभम्
सिद्धाश्रमे च यद्दत्तं गुरवे शूलपाणिने ॥
भक्त्युद्रेकाच्च तत्सर्वं भुक्तं च प्राप्तिमात्रतः
भुक्त्वा सुदुर्लभं वस्तु ननर्त प्रेमविह्वलः ॥
पुलकाङ्कितसर्वाङ्गः साश्रुनेत्रो मुदाऽन्वितः
गायन्मम गुणान्भक्त्या सुकण्ठः पंचवक्त्रतः ॥
रागभेदैकतानेन तालमानेन सुंदरम्
पपात डमरुर्हस्ताच्छृङ्गं च व्याघ्रचर्म च ॥
स्वयं निपत्य पश्चाच्च रुदन्मूर्च्छामवाप ह
अतीव कमनीयं तद्रूपं ध्यात्वैकमानमः ॥
सहस्रदलमध्यस्थं मां पश्यन्हृत्सरोरुहे
एतस्मिन्नन्तरे देवी दुर्गा दुर्गार्तिनाशिनी ॥
मुदाऽऽजगाम शीघ्रं तत्प्रसन्नवदनेक्षणा
रुदन्तं मूर्च्छितं दृष्ट्वा निपतन्तं च भक्तितः ॥
प्रहस्य वार्तां पप्रच्छ कुमारं शूलपाणिनः
सर्वं तां कथयामास कुमारः संपुटाञ्जलिः ॥
श्रुत्वा चुकोप सा देवी शिवं प्रस्फुरिताधरा ॥
तां शप्तुमुद्यतां देवीमुत्थाय च त्रिलोचनः ॥
बोधयामास विविधं तुष्टाव संपुटाञ्जलिः
श्रुत्वा मनोहरं स्तोत्रं न शशाप शिवं शिवा ॥
दुष्टं चक्रे तदुच्छिष्टमभक्ष्यं विदुषामपि
न लोकानां प्रभावश्च तपःसौभाग्यतेजसाम् ॥
ब्रह्माण्डे सर्वसंहर्ता चकंपे पार्वतीभये
उवाच तं जगन्माता नीतिसारं परं वचः ॥
गणप्रसूः सकोपा च रक्तपङ्कजलोचना
अहो तपःप्रभावश्च तेजसश्च न जीविनाम् ॥
स ब्रह्माण्डस्य संहर्ता चकम्पे शैलकन्यका
पार्वत्युवाच॥
त्वं पोष्टा जगतां पाता ममैव च विशेषतः ॥
वक्ता चतुर्णां वेदानां जनकश्च स्वयं विभुः
मुक्तिप्रदाता भक्तानां दाता च सर्वसंपदाम् ॥
त्वं चेत्करोषि दुर्नीतिं को वा धर्मं च पाति वै
सदा ते परिपाल्याऽहं पोष्या भक्त्या च किंकरी ॥
वंचिता कर्मदोषेण हरनिर्माल्यभक्षणे
किंचिच्छुद्धं हिरण्येन किंचिद्वस्तु च वायुना ॥
किंचित्प्रक्षालनेनैव सर्वं विष्णोर्निवेदनात्
विष्णोर्निवेदितान्नेन यष्टव्याः सर्वदेवताः ॥
पितरोऽतिथयश्चैवमिति वेदेषु निश्चितम्
अनिवेद्यमभक्ष्यं च नैवेद्यमुदरे हरेः ॥
त्यक्त्वा करोति यो भक्त्या पार्षदप्रवरो भवेत्
अमृतं सर्ववस्तूनामिष्टसारं सुदुर्लभम् ॥
विष्णोर्निवेदितान्नस्य कलां नार्हति षोडशीम्
हन्त्यकालिकमृत्युं तदमृतं मूढरंजनम् ॥
नैवेद्यं च हरेरेव हरितुल्यं करोत्यहो
यदृच्छया तं नैवेद्यं यो भुङ्क्ते साधुसंगतः ॥
षष्टिवर्षसहस्राणां प्राप्नोति तपसः फलम्
यो निवेद्य हरिं भुङ्क्ते भक्त्या भक्तश्च नित्यशः॥
किं वा तपस्यां कर्ता च स हरेस्तेजसा समः
श्रुतं पुरा त्वन्मुखतः पुष्करे मुनिसंसदि ॥
अहं वेदविधाता न किमहं वक्तुमीश्वरी ॥
सुचिरं च तपस्तप्त्वा मया लब्धस्त्वमीश्वरः ॥
त्वया विष्णोः प्रसादेन वंचिताऽहं कथं प्रभो
यतो न दत्तं नैवद्यं विष्णोर्मह्यं त्वयाऽधुना॥
अतो मत्तो गृहाणैतत्फलमेव महेश्वर
अद्यप्रभृति ये लोका नैवेद्यं भुञ्जते तव ॥
ते जन्मैकं सारमेया भविष्यन्त्येव भारते
इत्युक्त्वा पार्वती माता रुरोद पुरतो विभोः ॥
दृष्टिः पपात तत्कण्ठे नीलकण्ठो बभूव ह
तदा शिवः शिवां भक्त्या कृत्वा वक्षसि सादरम् ॥
तन्मानभङ्गं स्तोत्रेण विनयेन चकार ह
करेण चक्षुषोर्नीरं संमृज्य च पुनःपुनः ॥
बोधयामास विविधैर्नीतिवाक्यैर्मनोहरैः
परितुष्टा च सा देवी भर्तारं समुवाच ह ॥
कलेवरं च त्यक्ष्यामि नैवेद्येन विना हरेः
बिभर्ति देहं सततं तव सौभाग्यवर्द्धनम् ॥
कथं वहामि सौभाग्यरहितं च कलेवरम्
अपूर्वं तव नैवेद्यं जन्ममृत्युजराहरम् ॥
कृतं दुष्टं च यत्तस्मात्पश्य देहं त्यजामि च
लिङ्गोपरि च यद्दत्तं तदेवाग्राह्यमीश्वर ॥
सुपवित्रं भवेत्तस्य विष्णोर्नैवेद्यमिश्रितम्
इत्येवमुक्त्वा सा देवी देहं त्यक्तुं समुद्यता ॥
त्रस्तो हरस्तत्पुरतः स्तुत्वा च स्वीचकार ह
शंकर उवाच ॥
स्थिरा भव महादेवि चण्डिके जगदंबिके ॥
ममापराधमखिलं क्षन्तुमर्हसि सुन्दरि ॥
मां भृत्यं तपसा क्रीतं कृपां कुरु ममोपरि ॥
ब्रह्मविष्णुमहेशानां बीजभूते सनातनि
अहो गोलोकनाथस्थ गुणातीतस्य निर्गुणे ॥
सर्वशक्तिस्वरूपे च सदैव सहचारिणि
साकारे च निराकारे नित्ये स्वेच्छामये प्रिये ॥
कृपया तद्विभोरेव मम वक्षसि सांप्रतम्
सर्वबीजस्वरूपे च महामाये मनोहरे ॥
सर्वसिद्धिप्रदे देवि मुक्तिदे कृष्णभक्तिदे ॥ ४५
इच्छैव श्रीहरेः साक्षान्नाहं दातुमपि क्षमः ॥
तदा देहं परित्यज्य निर्गुणं व्रज निर्गुणे
इत्येवमुक्त्वा पुरतस्तस्थौ च चन्द्रशेखरः ॥
बभूव सुप्रसन्ना सा प्रणनाम हरं परम्
इत्येवं पार्वतीस्तोत्रं शङ्करेण कृतं पुरा ॥
यः पठेद्विपदा ग्रस्तः स भयादेव मुच्यते
मित्रभेदो भवेद् दूरं तत्संम्प्रीतिर्भवेत्पुरा ॥
पार्वती परितुष्टा च न त्यजेत्तस्य मन्दिरम्
॥ श्रीकृष्ण उवाच ॥
श्रुत्वा प्रतिज्ञां नाथस्य परितुष्टा बभूव सा ॥
जगाम स्वर्णदीं तूर्णं स्नानार्थं शंकराज्ञया
स्नात्वा संपूज्य भक्त्या च सुरमिष्टं च निर्गुणम् ॥
चकार प्रस्तुतं शीघ्रं मिष्टान्नं व्यञ्जनानि च
शिवः स्नात्वा च संपूज्य ब्रह्मज्योतिः सनातनम् ॥
तुष्टाव परया भक्त्या मामेव हृदयस्थितम्
गत्वा सर्वमहं भुक्त्वा तस्मै दत्त्वाऽभिवाञ्छितम् ॥
नैवेद्यं पार्वती लेभे तव मूलं समागता
भुक्त्वाऽवशेषं सा देवी सह भर्त्रा मुदाऽन्विता ॥
तुष्टाव शङ्करं भक्त्या प्रणनाम मुहुर्मुहुः
इत्येवं कथितं सर्वं त्वया पृष्टं सुरेश्वरि ॥
अभिशप्तं शङ्करस्य निर्माल्यं येन हेतुना
इति श्रीब्रह्मवैवर्त्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे हरनिर्माल्यशापप्रसङ्गो नाम सप्तत्रिंशोऽध्यायः
मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0