भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 4.2

4.2.1

॥ श्रीनारायण उवाच ॥ ॥
येन वा प्रार्थितः कृष्ण आजगाम महीतलम्॥
यं यं विधाय भूमौ स जगाम स्वालयं विभुः

4.2.2

भारावतरणोपायं दुष्टानां च वधोद्यमम् ॥
सर्वं ते कथयिष्यामि सुविचार्य विधानतः

4.2.3

अधुना गोपवेषं च गोकुलागमनं हरेः ॥
राधा गोपालिका येन निबोध कथयामि ते

4.2.4

शंखचूडवधं पूर्वं संक्षेपात्कथितं श्रुतम् ॥
अधुना तत्सुविस्तार्य निबोध कथयामि ते ॥

4.2.5

श्रीदाम्नः कलहश्चैव बभूव राधया सह ॥
श्रीदामा शंखचूडश्च शापात्तस्या बभूव ह

4.2.6

राधां शशाप श्रीदामा याहि योनिं च मानवीम् ॥
व्रजे व्रजांगना भूत्वा विचरस्व महीतले

4.2.7

भीता श्रीदामशापात्सा श्रीकृष्णं समुवाच ह ॥
गोपीरूपा भविष्यामि श्रीदामा मां शशाप ह

4.2.8

कमुपायं करिष्यामि वद मां भयभंजन ॥
त्वया विना कथमहं धरिष्यामि स्वजीवनम्

4.2.9

क्षणमेकं युगशतं कालनाथ त्वया विना ॥
चक्षुर्निमेषविरहाद्भवेदंधं मनो मम

4.2.4.2.10

शरत्पार्वणचंद्राभं क्षुधापूर्णाननं तव ॥
नाथ चक्षुञ्चकोराभ्यां पिबाम्यहमहर्निशम्

4.2.11

त्वमात्मा मे मनः प्राणा देहमात्रं वहाम्यहम् ॥
दृष्टिशक्तिश्च चक्षुस्त्वं जीवनं परमं धनम्

4.2.12

स्वप्ने ज्ञाने त्वयि मनः स्मरामि त्वत्पदांबुजम् ॥
तव दास्यं विना नाथ न जीवामि क्षणं विभो

4.2.13

कृष्णस्तद्वचनं श्रुत्वा बोधयामास सुंदरीम् ॥
वक्षसि प्रेयसीं कृत्वा चकार निर्भयां च ताम्

4.2.14

महीतलं गमिष्यामि वाराहे च वरानने ॥
मया सार्धं भूगमनं जन्म तेऽपि निरूपितम्

4.2.15

व्रजं गत्वा व्रजे देवि विहरिष्यामि कानने ॥
मम प्राणाधिका त्वं च भयं किं ते मयि स्थिते

4.2.15

तामित्युक्त्वा हरिस्तत्र विरराम जगत्पतिः ॥
अतो हेतोर्जगन्नाथो जगाम नंदगोकुलम्

4.2.17

किं वा तस्य भयं कंसाद्भयांतकारकस्य च ॥
माया भयच्छलेनैव जगाम राधिकांतिकम्

4.2.18

विजहार तया सार्धं गोपवेषं विधाय सः ॥
सह गोपांगनाभिश्च प्रतिज्ञापालनाय च

4.2.19

ब्रह्मणा प्रार्थितः कृष्णः समागत्य महीतलम् ॥
भारावतरणं कृत्वा जगाम स्वालयं विभुः

4.2.4.2.20

नारद उवाच ॥
श्रीदाम्नः कलहश्चैव कथं वा राधया सह ॥
संक्षेपात्कथितं पूर्वं संव्यस्य कथयाधुना

4.2.21

॥
श्रीनारायण उवाच ॥
एकदा राधया सार्धं गोलोके श्रीहरिः स्वयम् ॥
विजहार महारण्ये निर्जने रासमंडले ॥

4.2.22

राधिकासुखसंभोगाद् बुबुधे न स्वकं परम्॥
कृत्वा विहारं श्रीकृष्णस्तामपृष्ट्वा विहाय च

4.2.23

गोपिकां विरजामन्यां शृङ्गारार्थं जगाम ह ॥
वृंदारण्ये च विरजा सुभगा राधिकासमा

4.2.24

तस्या वयस्याः सुंदर्यो गोपीनां शतकोटयः ॥
कृष्णप्राणाधिका गोपी धन्या मान्या च योषिताम्

4.2.25

रत्नसिंहासनस्था सा ददर्श हरिमन्तिके॥
ददर्श श्रीहरिस्तां च शरच्चंद्रनिभाननाम्

4.2.26

मनोहरां सस्मितां च पश्यंतीं वक्रचक्षुषा ॥
सदा षोडशवर्षीयां प्रोद्भिन्ननवयौवनाम्

4.2.27

रत्नालंकारशोभाढ्यां भूषितां शुक्लवाससा ॥
पुलकांकितसर्वांगीं कामबाणप्रपीडिताम्

4.2.28

दृष्ट्वा तां श्रीहरिस्तूर्णं विजहार तया सह ॥
पुष्पतल्पे महारण्ये निर्जने रत्नमंडपे

4.2.29

मूर्च्छामवाप विरजा कृष्णशृंगारकौतुकात् ॥
कृत्वा वक्षसि प्राणेशं कोटिकंदर्पसन्निभम्

4.2.4.2.30

तया सक्तं श्रीहरिं च रत्नमंडपसंस्थितम् ॥
दृष्ट्वा च राधिकाल्यश्च चक्रुस्तां च निवेदनम्

4.2.31

तासां च वचनं श्रुत्वा सुष्वाप च चुकोप ह ॥
भृशं रुरोद सा देवी रक्तपंकजलोचना

4.2.32

ता उवाच महादेवी मां तं दर्शयितुं क्षमाः ॥
यदि सत्यं ब्रूत यूयं मया सार्धं प्रगच्छत

4.2.33

करिष्यामि फलं गोप्याः कृष्णस्य च यथोचितम् ॥
को रक्षिताऽद्य तस्याश्च मयि शास्तिं प्रकुर्वति

4.2.34

शीघ्रमानयताल्यश्च तया सार्द्धं हरिं प्रियम् ॥
अंतर्वक्त्रं सस्मितं च विषकुंभं सुधामुखम्

4.2.35

मदाश्रयं समागंतुं यूयं दासं न दास्यथ ॥
तमेव मंडपं रम्यं यात संरक्षतेश्वरम्

4.2.36

राधिकावचनं श्रुत्वा काश्चिद्गोप्यो भयान्विताः ॥
ताः सर्वाः संपुटांजल्यो भक्तिनम्रात्मकंधराः ॥
तामूचुः पुरतः स्थित्वा सर्वा एव प्रियां सतीम्

4.2.37

॥ आल्य ऊचुः ॥
वयं तं दर्शयिष्यामो विरजासहितं विभुम्

4.2.38

तासां च वचनं श्रुत्वा रथमारुह्य सुंदरी ॥
जगाम सार्धं गोपीभिस्त्रिषष्टिशतकोटिभिः

4.2.39

रत्नेंद्रसाररचितं कोटिसूर्यसमप्रभम् ॥
मणींद्रसाररचितं कलशानां त्रिकोटिभिः

4.2.4.2.40

राजितं चित्रराजीभिर्वैजयंतीविराजितम् ॥
लक्षचक्रसमायुक्तं मनोयायि मनोहरम्

4.2.41

मणिसारविकारैश्च कोटिस्तंभैः सुशोभितम् ॥
नानाचित्रविचित्रैश्च सहितैः सुमनोहरैः

4.2.42

सिंदूराकारमणिभिर्मध्यदेशे विभूषितैः ॥
रत्नकृत्रिमसिंहैश्च रथचक्रोर्ध्वसंस्थितैः

4.2.43

चतुर्लक्षपरिमितैश्चित्रघंटासमन्वितैः ॥
चित्रपुत्तलिशोभाढ्यैर्विचित्रैश्च विराजितम्

4.2.44

रतिमंदिरलक्षैश्च रत्नसारविनिर्मितैः ॥
मणिसारकपाटैश्च शोभितैश्चित्रवाजिभिः

4.2.45

मणींद्रसारकलशैः शेखरोज्ज्वलितैर्युतम् ॥
भोगद्रव्यसमायुक्तं वेषद्रव्यसमन्वितम्

4.2.46

शोभितं रत्नशय्याभी रत्नपात्रघटान्वितम् ॥
हरिन्मणीनां वेदीनां समूहेन समन्वितम्

4.2.47

कुंकुमाभमणीनां च सोपानैः कोटिभिर्युतम् ॥
स्यमंतकैः कौस्तुभैश्च रुचकैः प्रवरैस्तथा

4.2.48

पद्मकृत्रिमकोटीनां शतकैश्च सुशोभितम् ॥
चित्रकाननवापीभि र्विशिष्टाभिर्विराजितम्

4.2.49

रत्नेंद्रसाररचितकलशोज्ज्वलशेखरम् ॥
शतयोजनमूर्ध्वं च दशयोजनविस्तृतम्

4.2.4.2.50

पारिजातप्रसूनानां मालाकोटिविराजितम् ॥
कुंदाना करवीराणां यूथिकानां तथैव च

4.2.51

सुचारुचंपकानां च नागेशानां मनोहरैः ॥
मल्लिकानां मालतीनां माधवीनां सुगंधिनाम्

4.2.52

कदंबानां च मालानां कदंबैश्च विराजितम् ॥
सहस्रदलपद्मानां मालाभिश्च विराजितम्

4.2.53

चित्रपुष्पोद्यानसरः काननैश्च विभूषितम् ॥
सर्वेषां स्यंदनानां च श्रेष्ठं वायुवहं परम्

4.2.54

तत्सूक्ष्मवस्त्रसाराणां वरैराच्छादितं परम् ॥
रत्नदर्पणलक्षाणां शतकैश्च समन्वितम्

4.2.55

श्वेतचामरकोटीभिर्वज्रकोटिभिरन्वितम् ॥
चन्दनागरुकस्तूरीकुंकुमद्रवचर्चितैः

4.2.56

पारिजातप्रसूनानां कोटितल्पविराजितम् ॥
कोटिघंटासमायुक्तं पताकाकोटिभिर्युतम्

4.2.57

रत्नशय्याकोटिभिश्च चित्रवज्रपरिच्छदैः ॥
चंदनाक्तैश्चंपकानां कुंकुमैश्च विचित्रितैः

4.2.58

पुष्पोपधानसंयुक्तैः शृंगारार्हाभिरन्वितम् ॥
अदृश्यैरश्रुतैर्द्रव्यैः सुंदरैश्च विभूषितम्

4.2.59

एवंभूताद्रथात्तूर्णमवरुह्य हरिप्रिया ॥
जगाम सहसा देवी तं रत्नमंडपं मुने

4.2.4.2.60

द्वारे नियुक्तं ददृशे द्वारपालं मनोहरम् ॥
लक्षगोपैः परिवृतं स्मेराननसरोरुहम्

4.2.61

गोपं श्रीदामनामानं श्रीकृष्णप्रियकिंकरम् ॥
तमुवाच रुषा देवी रक्तपंकजलोचना

4.2.62

गच्छ दूरं गच्छ दूरं रतिलंपटकिंकर ॥
कीदृशीं मत्परां कांतां द्रक्ष्यामि त्वत्प्रभोरहम्

4.2.63

राधिकावचनं श्रुत्वा निःशंकः पुरतः स्थितः ॥
तामेव न ददौ गंतुं वेत्रपाणिर्महाबलः

4.2.64

तूर्णं च राधिकाल्यश्च श्रीदामानं सकिंकरम् ॥
बलेन प्रेरयामासुः कोपेन स्फुरिताधराः

4.2.65

श्रुत्वा कोलाहलं शब्दं गोपिकानां हरिः स्वयम् ॥
ज्ञात्वा च कोपितां राधामंतर्धानं चकार ह

4.2.66

विरजा राधिकाशब्दादंतर्धानं हरेरपि ॥
दृष्ट्वा राधां भयार्ता सा जहौ प्राणांश्च योगतः

4.2.67

सद्यस्तत्र सरिद्रूपं तच्छरीरं बभूव ह ॥
व्याप्तं च वर्तुलाकारं तया गोलोकमेव च

4.2.68

कोटियोजनविस्तीर्णं प्रस्थेऽतिनिम्नमेव च ॥
दैर्घ्ये दशगुणं चारु नानारत्नाकरं परम्

4.2.2

॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंडे नारायणनारदसंवादे विरजानदप्रस्ताववर्णनं नाम द्वितीयोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc