ब्रह्मवैवर्त पुराण · अध्याय 4.1
॥ श्रीगणेशाय नमः ॥
॥ श्रीसरस्वत्यै नमः ॥
॥ श्रीगोपीजनवल्लभाय नमः ॥
॥ अथ ब्रह्मवैवर्तीयश्रीकृष्णजन्मखण्डप्रारंभः ॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्
नारद उवाच ॥ ॥
श्रुतं प्रथमतो ब्रह्मन्ब्रह्मखण्डं मनोहरम् ॥
ब्रह्मणो वदनांभोजात्परमाद्भुतमेव च
ततस्तद्वचनात्तूर्णं समागत्य तवांतिकम् ॥
श्रुतं प्रकृतिखण्डं च सुधाखंडात्परं वरम्
ततो गणपतेः खंडमखंडभवखंडनम् ॥
न मे तृप्तं मनो लोलं विशिष्टं श्रोतुमिच्छति
श्रीकृष्णजन्मखंडं च जन्मादेः खंडनं नृणाम् ॥
प्रदीपं सर्वतत्त्वानां कर्मघ्नं हरिभक्तिदम्
सद्यो वैराग्यजननं भवरोगनिकृंतनम् ॥
कारणं मुक्तिबीजानां भवाब्धेस्तारणं परम्
कर्मोपभोगरोगाणां खंडने च रसायनम् ॥
श्रीकृष्णचरणांभोजप्राप्तिसोपान कारणम्
जीवनं वैष्णवानां च जगतां पावनं परम् ॥
वद विस्तार्य मां भक्तं शिष्यं च शरणागतम्
केन वा प्रार्थितः कृष्ण आजगाम महीतलम् ॥
सर्वांशैरेक एवेशः परिपूर्णतमः स्वयम्
युगे कुत्र कुतो हेतोः कुत्र वाऽऽविर्बभूव ह ॥
वसुदेवोऽस्य जनकः को वा का वा च देवकी
वद कस्य कुले जन्म मायया सुविडंबनम् ॥
किं चकार समागत्य केन रूपेण वा हरिः ॥
जगाम गोकुलं कंसभयेन सूतिकागृहात् ॥
कथं कंसात्कीटतुल्याद्भयेशस्य भयं मुने
हरिर्वा गोपवेषेण गोकुले किं चकार ह ॥
कुतो गोपाङ्गनासार्धं विजहार जगत्पतिः
का वा गोपांगना के वा गोपाला बालरूपिणः ॥
का वा यशोदा को नंदः किं वा पुण्यं चकार ह
कथं राधा पुण्यवती देवी गोकुलवासिनी ॥
व्रजे वा व्रजकन्या सा बभूव प्रेयसो हरेः
कथं गोप्यो दुराराध्यं संप्रापुरीश्वरं परम् ॥
कथं ताश्च परित्यज्य जगाम मथुरां पुनः
भारावतरणं कृत्वा किं विधाय जगाम सः ॥
कथयस्व महाभाग पुण्यश्रवणकीर्तन
सुदुर्लभां हरिकथां तरणिं भवसागरे ॥
निषेकभोगनिगडक्लेशच्छेदन कर्तनीम्
पापेंधनानां दहने ज्वलदग्निशिखामिव ॥
पुंसां श्रुतवतां कोटिजन्मकिल्बिषनाशिनीम्
मुक्तिं कर्णसुधारम्यां शोकसागरनाशिनीम् ॥
मह्यं भक्ताय शिष्याय ज्ञानं देहि कृपानिधे
तपोजपमहादानात्पृथिव्यां तीर्थदर्शनात् ॥
श्रुतिपाठादनशनाद्व्रताद्देवार्चनादपि
दीक्षायाः सर्वयज्ञेषु यत्फलं लभते नरः ॥
षोडशीं ज्ञानदानस्य कलां नार्हति तत्फलम्
पित्राऽहं प्रेषितो ज्ञानादानाय तव सन्निधिम् ॥
सुधासमुद्रं संप्राप्य को वाऽन्यत्पातुमिच्छति
श्रीनारायण उवाच ॥ ॥
मया ज्ञातोऽसि धन्यस्त्वं पुण्यराशिः सुमूर्तिमान् ॥
करोषि भ्रमणं लोकान्पावितुं कुलपावन
जनानां हृदयं सद्यः सुव्यक्तं वचनेन वै ॥
शिष्ये कलत्रे कन्यायां दौहित्रे बांधवेऽपि च
पुत्रे पौत्रे च वचसि प्रतापे चापदि स्त्रियाम् ॥
वृद्धौ वैरिणि विद्यायां ज्ञायते हृदयं नृणाम्
जीवन्मुक्तोऽसि पूतस्त्वं शुद्धभक्तो गदाभृतः ॥
पुनासि पादरजसा सर्वाधारां वसुन्धराम्
पुनासि लोकान्त्सर्वांश्च स्वीयविग्रहदर्शनात् ॥
सुमंगलां हरिकथां तेन त्वं श्रोतुमिच्छसि
यत्र कृष्णकथाः संति तत्रैव सर्वदेवताः ॥
ऋषयो मुनयश्चैव तीर्थानि निखिलानि च
कथाः श्रुत्वा कथांते ते यांति सन्तो निरापदम् ॥
भवंति तानि तीर्थानि येषु कृष्णकथाः शुभाः
सद्यः कृष्णकथावक्ता स्वस्य पुंसां शतं शतम्॥
समुद्धृत्य श्रुतवतां पुनाति निखिलं कुलम्
प्रष्टा तु प्रश्नमात्रेण पुनाति कुलमात्मनः ॥
श्रोता श्रवणमात्रेण स्वकुलं स्व स्वबांधवान्
शतजन्मतपस्तप्तो जन्मेदं भारते लभेत् ॥
करोति सफलं जन्म श्रुत्वा हरिकथामृतम्
अर्चनं वंदनं मन्त्रजपः सेवनमेव च ॥
स्मरणं कीर्तनं शश्वद्गुणश्रवणमीप्सितम्
निवेदनं तस्य दास्यं नवधा भक्तिलक्षणम् ॥
करोति जन्म सुफलं कृत्वैतानि च नारद
न च विघ्नो भवेत्तस्य परमायुर्न नश्यति ॥
न याति तत्पुरः कालो वैनतेयमिवोरगः
न जहाति समीपं च क्षणं तस्य हरिः स्वयम् ॥
उपतिष्ठति तूर्णं तमणिमादिकसिद्धयः
सुदर्शनं भ्रमत्येव तस्य पार्श्वे दिवानिशम् ॥
कृष्णाज्ञया च रक्षार्थं को वा किं कर्तुमीश्वरः
न यांति तत्समीपं च स्वप्नेऽपि यमकिंकराः ॥
ज्वलदग्निं यथा दृष्ट्वा शलभा न व्रजंति तम्
व्याधयो विपदः शोका विप्राश्च न प्रयांति तम् ॥
न याति तत्समीपं च मृत्युर्मृत्युभयान्मुने
ऋषयो मुनयः सिद्धाः सन्तुष्टाः सर्वदेवताः ॥
स च सर्वत्र निःशंकः सुखी कृष्णप्रसादतः
तव कृष्णकथायां च रतिरात्यंतिकी सदा ॥
जनकस्य स्वभावो हि जन्ये तिष्ठति निश्चितम्
विप्रेंद्र का प्रशंसेयं जन्म ते ब्रह्ममानसे ॥
यत्र यत्र कुले जन्म तन्मतिस्तादृशी भवेत्
पिता विधाता जगतां कृष्णपादाब्जसेवया ॥
नित्यं करोति यः शश्वन्नवधा भक्तिलक्षणम्
रतिः कृष्णकथायां च यस्याश्रुपुलकोद्गमः ॥
मनो निमग्नं तत्रैव स भक्तः कथितो बुधैः
पुत्रदारादिकं सर्वं जानाति श्रीहरेरिति ॥
आत्मना मनसा वाचा स भक्तः कथितो बुधैः
निर्जने तीर्थसंपर्के निःसंगा ये मुदाऽन्विताः ॥
ध्यायंते चरणांभोजं श्रीहरेस्ते च वैष्णवाः
दयाऽस्ति सर्वजीवेषु सर्वं कृष्णम यं जगत् ॥
यो जानाति महाज्ञानी स भक्तो वैष्णवो मतः
शश्वद्ये नाम गायंति गुणं मंत्रं जपंति च ॥
कुर्वंति श्रवणं गाथा वदंति तेऽतिवैष्णवाः
लब्धानीष्टानि वस्तूनि प्रदातुं हरये मुदा ॥
तूर्णं यस्य मनो हृष्टं स भक्तो ज्ञानिनां वरः
यन्मनो हरिपादाब्जे स्वप्ने ज्ञाने दिवानिशम्॥
पूर्वकर्मोपभोगं च बहिर्भुङ्क्ते स वैष्णवः
गुरुवक्त्राद्विष्णुमंत्रो यस्य कर्णे विशत्यलम् ॥
तं वैष्णवं महापूतं प्रवदंति मनीषिणः
पूर्वान्त्सप्त परान्त्सप्त सप्त मातामहादिकान् ॥
सोदरानुद्धरेद्भक्तः स्वप्रसूं च प्रसूप्रसूम्
कलत्रं कन्यकां बंधुं शिष्यं दौहित्रमात्मनः ॥
किंकरान्किंकरीश्चैवमुद्धरेद्वैष्णवः सदा
सदा वांछति तीर्थानि वैष्णवस्पर्शदर्शने ॥
पापिदत्तानि पापानि तेषां नश्यंति संगतः
गोदोहनक्षणं यावद्यत्र तिष्ठंति वैष्णवाः ॥
तत्र सर्वाणि तीर्थानि संति तावन्महीतले
ध्रुवं तत्र मृतः पापी मुक्तो याति हरेः पदम् ॥
तथैव ज्ञानगंगायामंते कृष्णस्मृतौ यथा
तुलसीकानने गोष्ठे श्रीकृष्णमंदिरे परे॥
वृंदारण्ये हरिद्वारे तीर्थेष्वन्येषु वा यथा
पापानि पापिनां यांति तीर्थस्नानावगाहनात् ॥
तेषां पापानि नश्यंति वैष्णवस्पर्शवायुना
न हि स्थातुं शक्नुवंति पापान्येव कृतानि च ॥
ज्वलदग्नौ यथा क्षिप्रं शुष्काणि हि तृणानि च
भक्तं वर्त्मनि गच्छंतं ये ये पश्यंति मानवाः॥
सप्तजन्मार्जिताघानि तेषां नश्यंति निश्चितम्
ये निंदंति हृषीकेशं तद्भक्तं पुण्यरूपिणम् ॥
शतजन्मार्जितं पुण्यं तेषां नश्यति निश्चितम्
ते पच्यंते महाघोरे कुंभीपाके भयानके ॥
भक्षिताः कीटसंघेन यावच्चंद्रदिवाकरौ
तस्य दर्शनमात्रेण पुण्यं नश्यति निश्चितम् ॥
गंगां स्नात्वा रविं नत्वा तदा विद्वान्विशुध्यति
वैष्णवस्पर्शमात्रेण मुक्तो भवति पातकी ॥
तस्य पापानि हंत्येव स्वांतःस्थो मधुसूदनः॥
इत्येवं कथितो विप्र विष्णुवैष्णवयोर्गुणः ॥
अधुना श्रीहरेर्जन्म निबोध कथयामि ते
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंडे नारायणनारदसंवादे विष्णुवैष्णवयोर्गुणप्रशंसाप्रस्ताववर्णनं नाम प्रथमोऽध्यायः
मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0