भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 2.61

2.61.1

नारद उवाच ॥
ततः परं किं रहस्यं बभूवासुरदेवयोः ॥
श्रोतुमिच्छामि भगवन्परं कौतूहलं मम

2.61.2

नारायण उवाच ॥
ब्रह्मा जगाम निलयं शुक्रस्य च महात्मनः ॥
नानादैत्यगणाकीर्णं रत्नमण्डपभूषितम्

2.61.3

पञ्चाशत्कोटिभिः शिष्यैः परीतं ब्रह्मवादिभिः ॥
सप्तभिः परिखाभिश्च वेष्टितं दुर्गमेव च

2.61.4

रक्षितं रक्षकगणैर्दैत्यैश्च शतकोटिभिः ॥
पद्मरागैर्विरचितैः प्रावारैः परिशोभितम्

2.61.5

ददर्श जगतां धाता सभायां भृगुनन्दनम् ॥
स्तुतं मुनिगणैर्दैत्यै रत्नसिंहासनस्थितम्

2.61.6

जपन्तं परमं ब्रह्म कृष्णमात्मानमीश्वरम् ॥
कोटिसूर्य्यप्रभं शश्वज्ज्वलन्तं ब्रह्मतेजसा

2.61.7

दृष्ट्वा पौत्रं प्रभायुक्तं विधाता हृष्टमानसः ॥
आत्मानं कृतिनं मेने पुत्रं पौत्रं च नारद

2.61.8

दृष्ट्वा पितामहं शुक्रो धातारं जगतां प्रभुम् ॥
उत्थाय सहसा भीतः प्रणनाम कृताञ्जलिः

2.61.9

आदाय पूजयामास चोपचारांस्तु षोडश ॥
तुष्टाव परया भक्त्या सम्भ्रमेण यथागमम्

2.61.11

विद्या मन्त्रप्रदातारं दातारं सर्वसम्पदाम् ॥
स्वकर्मणां च फलदं सर्वेषां विश्वतो वरम् ।2.61.१०॥
शुक्रस्य स्तवनेनैव सन्तुष्टो जगतां पतिः॥
अवरुह्य रथात्तूर्णमवसत्तत्र संसदि

2.61.12

शुक्रेण शिरसा दत्तरत्नसिंहासने वरे॥
तेजसा ज्वलिते रम्ये निर्मिते विश्वकर्मणा॥

2.61.13

शुक्रः प्रणम्य ब्रह्माणं कुमारं शकुनं क्रतुम् ॥
वसिष्ठं च मरीचिं च सनन्दं च सनातनम्

2.61.14

कपिलं वै पञ्चशिखं वोढुमंगिरसं मुने ॥
धर्मं मां च नरं भक्त्या प्रणनाम कृताञ्जलिः

2.61.15

प्रत्येकं पूजयामास सादरं च यथोचितम् ॥
सिंहासनेषु रत्नेषु वासयामास धार्मिकः

2.61.16

प्रहृष्टवदनाः सर्वे प्रणेमुर्दितिनन्दनाः ॥
ऋषिसंघाश्च धातारं तुष्टुवुश्च यथागमम्

2.61.17

सर्वान्संस्तूय स कविरवोचत्सम्पुटाञ्जलिः ॥
साश्रुनेत्रः सपुलकः प्रणतो विनयान्वितः

2.61.18

शुक्र उवाच ॥
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥
स्वयं विधाता भगवान्साक्षाद्दृष्टः स्वमन्दिरे

2.61.19

साक्षाद्दृष्टाश्च तत्पुत्रा भगवन्तः सनातनाः ॥
तुष्टः कृष्णोऽथ मामेवं परमात्मा परात्परः

2.61.2.61.20

कृतार्थं कर्तुमीशा मां युष्माकं स्वागतं शिशुम् ॥
स्वात्मारामेषु कुशलप्रश्नमेवं विडम्बनम्

2.61.21

पवित्रं कर्तुमीशा मां हेतुरागमनेऽत्र वः ॥
अपरं ब्रूथ किं वाऽपि शास्त नः करवामि किम्

2.61.22

ब्रह्मोवाच ॥
उद्विग्नश्चिरविच्छेदात्त्वां पौत्रं द्रष्टुमागतः ॥
विच्छेदः पुत्रपौत्राणां मरणादतिरिच्यते

2.61.23

कुशलं ते मुनिश्रेष्ठ पुत्रयोश्चापि योषितः ॥
कुशलं ते स्वधर्माणां काम्यानां तपसामपि

2.61.24

दिने दिनेऽपरिच्छन्नं श्रीकृष्णार्चनमीप्सितम् ॥
स्व गुरोः सेवनं नित्यमविच्छिन्नं भवेत्तव

2.61.29

गुर्विष्टयोः पूजनं च सर्वमङ्गलकारणम् ॥
पापाधिरोगशोकघ्नं पुण्यहर्षप्रदं शुभम्॥

2.61.26

अभीष्टदेवः सन्तुष्टो गुरौ तुष्टे नृणामिह ॥
इष्टदेवे च सन्तुष्टे सन्तुष्टाः सर्वदेवताः

2.61.27

गुरुर्विप्रः सुरो रुष्टो येषां पातकिनामिह ॥
तेषां च कुशलं नास्ति विघ्नस्तस्य पदे पदे

2.61.28

तुष्टश्च सततं वत्स श्रीकृष्णः प्रकृतेः परः ॥
सर्वान्तरात्मा भगवांस्तव भक्त्या च निर्गुणः

2.61.29

तव तुष्टो गुरुरहं विधाता जगतामपि ॥
मयि तुष्टे हरिस्तुष्टो हरौ तुष्टे तु देवताः

2.61.2.61.30

साम्प्रतं शृणु मे धीमन्नत्रागमनकारणम् ॥
प्रेषितस्य सुराणां च विश्वसंहर्तुरेव च

2.61.31

शिवस्य गुरुपुत्रस्य साध्वीं तारां बृहस्पतेः ॥
अपहृत्य निशानाथस्तवैव शरणागतः

2.61.32

शम्भुर्धर्मश्च सूर्य्यश्च शक्रोऽनन्तश्च पुत्रक ॥
आदित्या वसवो रुद्रा दिक्पालाश्च दिगीश्वराः

2.61.33

युद्धायायान्ति सन्नद्धास्तिस्रः कोट्यश्च देवताः ॥
नागाः किम्पुरुषाश्चैव यक्षराक्षसगुह्यकाः

2.61.34

भूताः प्रेताः पिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः ॥
किराताश्चैव गन्धर्वाः समुद्रपुलिनेऽधुना

2.61.35

तारकामयसंग्रामे मध्यस्थो ऽहं सुतैः सह ॥
देहि तारां रणं किं वा त्यज चन्द्रं च कामिनम्

2.61.36

शुक्र उवाच ॥
आगच्छन्तु सुराः सर्वे सन्नद्धा रणदुर्मदाः॥
योत्स्ये विना महेशं च सर्वेषां च गुरुं परम्

2.61.37

दैत्या ऊचुः ॥ उभयेषां गुरुः शम्भुर्मान्यो वन्द्यश्च सर्वदा ॥
धर्मश्च साक्षी सर्वेषां त्वमेव च पितामहः

2.61.38

अन्यांश्च तृणतुल्यांश्च नहि मन्यामहे वयम् ॥
आगच्छन्तु च योत्स्यामो व्रज ब्रूहि जगद्गुरो॥

2.61.39

कृपया गुरुपुत्रस्य यद्यायाति महेश्वरः ॥
आग्नेयास्त्रं प्रयोक्ष्यामः पश्चाद्योत्स्यामहे प्रभो

2.61.2.61.40

ब्रह्मोवाच ॥
कालाग्निरुद्रः संहर्त्ता विश्वस्य बलिनां वरः ॥
हे वत्सास्तेन सार्द्धं च को वा युद्धं करिष्यति

2.61.41

भद्रकाली जगन्माता खड्गखर्पर धारिणी ॥
तया दुर्द्धर्षया सार्द्धं को वा युद्धं करिष्यति

2.61.42

सा सहस्रभुजा देवी मुण्डमालाविभूषणा ॥
योजनायतवक्त्रा च दशयोजनविस्तृता

2.61.43

सप्ततालप्रमाणाश्च यस्या दन्ता भयानकाः ॥
क्रोशप्रमाणजिह्वा च माहालोला भयङ्करी ॥

2.61.44

अतीव रौद्रा सन्नद्धा भीमाः शंकरकिंकराः ॥
अतिभीमा भैरवाश्च नन्दी च रणकर्कशः

2.61.45

शिवस्य पार्षदाः सर्वं महाबलपराक्रमाः ॥
वीरभद्रादयः शूराः कोटिसूर्य्यसमप्रभाः

2.61.46

सहस्रमूर्ध्नः शेषस्य फणामण्डलभूषणम् ॥
विश्वं सर्षपतुल्यं च को वा योद्धा च तत्समः

2.61.47

कालाग्निरुद्रः संहर्त्ता यस्य शम्भोश्च किंकरः॥
शूलिनस्त्रिपुरघ्नस्य ज्वलतो ब्रह्मतेजसा

2.61.49

यस्य पाशुपतास्त्रेण दुर्निवार्येण पुत्रकाः ॥
भस्मीभूतं भवेद्विश्वं दैत्यानां चैव का कथा ॥४८।
यस्य शूलेन भिन्नश्च शङ्खचूडः प्रतापवान् ॥
सुदामा पार्षदवरः कृष्णस्य परमात्मनः

2.61.2.61.50

त्रिकोटिसूर्य्यसदृशस्तेजस्वी परमाद्भुतः ॥
राधाकवचकण्ठश्च सर्वदैत्यजनेश्वरः

2.61.51

मधुकैटभयोर्हन्ता हिरण्यकशिपोश्च यः ॥
स च विष्णुः समायाति श्वेतद्वीपात्स्वयं प्रभुः

2.61.52

इत्युक्त्वा जगतां धाता विरराम च संसदि ॥
प्रहस्योवाच दैतेयो दानवानामधीश्वरः

2.61.53

प्रह्राद उवाच ॥
नमस्तुभ्यं जगद्धातः सर्वेषां प्राक्तनेश्वर ॥
सर्वपूज्यः सर्वनाथः किं वक्ष्यामि तवाग्रतः

2.61.54

हिरण्यकशिपोर्हन्ता मधुकैटभयोश्च यः ॥
सा कला यस्य कृष्णस्य परिपूर्णतमस्य च ॥

2.61.55

सर्वान्तरात्मनस्तस्य चक्रं नाम सुदर्शनम् ॥
अस्माकं लोकमस्मांश्च तद्द्राग्धक्ष्यति दुस्सहम्

2.61.56

ततो न बलवाञ्छम्भुर्न च पाशुपतं विधे ॥
न च काली न शेषश्च न च रुद्रादयः सुराः

2.61.97

यस्य लोमसु विश्वानि निखिलानि जगत्पते ॥
सर्वाधारस्य च विभोः स्थूलात्स्थूलतरस्य च

2.61.58

षोडशांशो भगवतः स चैव हि महान्विराट् ॥
अनन्तो नहि तत्स्थूलो न काली बृहती ततः

2.61.59

आगच्छन्तु सुराः सर्वे युद्धं कुर्वन्तु साम्प्रतम् ॥
न बिभेमि शरेभ्यश्च न च पाशुपताद्धरात्

2.61.2.61.60

नमस्तस्मै भगवते शिवाय शिवरूपिणे ॥
नमोऽनन्ताय साधुभ्यो वैष्णवेभ्यः प्रजापते

2.61.61

श्रीकृष्णस्य प्रसादेन निर्भयोऽहं निरामयः ॥
न मे स्वात्मबलं ब्रह्मंस्तद्बलं यत्प्रभोर्बलम्

2.61.62

स्वपापेन मृतस्तातो पुरा वै विष्णुनिन्दया ॥
निर्बन्धाच्छङ्खचूडश्च दर्पाच्च मधुकैटभौ

2.61.63

त्रिपुरः किङ्करोऽस्माकं वीरत्वेन न गण्यते ॥
तथाऽपि प्रेरितस्तेन स रथस्थो महेश्वरः

2.61.64

इत्युक्त्वा दानवश्रेष्ठो विरराम च संसदि ॥
उवाच जगतां धाता पुनरेव च नारद

2.61.65

ब्रह्मोवाच ॥
विनाशकारणं युद्धमुभयोर्दैत्यदेवयोः॥
सुप्रीत्या चरणं वत्स सर्वमङ्गलकारणम्

2.61.66

तारां भिक्षां देहि मह्यं भिक्षुकाय च वेधसे ॥
विमुखे भिक्षुके राजन्गृहस्थः सर्वपापभाक्

2.61.67

सनत्कुमार उवाच ॥
स्वकीर्तिं रक्ष राजेन्द्र सिंहस्त्वं सुरदैत्ययोः ॥
यस्य भिक्षुर्जगद्धाता तस्य कीर्तेश्च का कथा

2.61.68

सनातन उवाच ॥
न जितस्त्वं सुरेन्द्रैश्च ब्रह्मेशानपुरोगमैः ॥
रक्षितः कृष्णचक्रेण वैष्णवः पुण्यवाञ्छुचिः

2.61.69

सनन्दन उवाच ॥
यस्येष्टदेवः सर्वात्मा श्रीकृष्णः प्रकृतेः परः ॥
गुरुश्च वैष्णवः शुक्रः स च केन जितो महान्

2.61.2.61.70

सनक उवाच ॥
पुण्यवान्न जितः केन जितः पापी स्वपातकैः ॥
पुण्यदीपो न निर्वाति पाषण्डेनैव वायुना

2.61.71

ऋषय ऊचुः ॥
देहि तारां महाभाग चन्द्र प्राणाधिकं गुरोः ॥
स्वकीर्तिं रक्ष सुचिरं प्रार्थयामः पुनः पुनः

2.61.72

प्रह्राद उवाच ॥
स्थिते मदीश्वरे साक्षान्नहि भृत्यो विराजते ॥
कर्त्तारं ब्रूहि मन्नाथं गुरुं शुक्रं सतां वरम्

2.61.73

शिष्याणामाधिपत्ये च साधूनां गुरुरीश्वरः ॥
गुरौ समर्पितं पूर्वं सर्वैश्वर्य्यं मुनीश्वरं

2.61.74

वयं भृत्याश्च पोष्याश्च स्वगुरोः परिचारकाः ॥
ते च शिष्याः कुशलिनो गुर्वाज्ञां पालयन्ति ये

2.61.75

प्रह्रादस्य वचः श्रुत्वा चकार प्रार्थनां कविम् ॥
ददौ शुक्रश्च तारां तां चन्द्रं च मलिनं मुने

2.61.76

दत्त्वा तारां विधुं शुक्रः प्रणनाम विधेः पदे ॥
नमस्कृत्य मुनिभ्यश्च प्रणतः स्वपुरं ययौ

2.61.77

प्रह्लादः सगणो भक्त्या नमस्कृत्य विधेः पदे ॥
प्रत्येकं वै मुनिगणान्प्रणतः स्वगृहं ययौ

2.61.78

ब्रह्मा ददर्श तारां च प्रणतां स्वपदे सतीम् ॥
लज्जया नम्रवक्त्रां च रुदतीं गुर्विणीं मुने

2.61.79

चन्द्रं च प्रणतं धाता क्रोडे संस्थाप्य मायया ॥
उवाच मलिनां तारां कातरां च कृपामयः

2.61.2.61.80

तारे त्यज भयं मत्तः भयं किं ते मयि स्थिते ॥
सौभाग्ययुक्ता स्वपतौ भविष्यसि वरेण मे

2.61.81

दुर्बला बलिना ग्रस्ता निष्कामा न च्युता भवेत् ॥
प्रायश्चित्तेन शुद्धा सा न स्त्री जारेण दुष्यति

2.61.82

सकामा कामतो जारं भजते स्वसुखेन च ॥
प्रायश्चित्तान्न शुद्धा सा स्वामिना परिवर्जिता

2.61.83

कुम्भीपाके पच्यते सा यावच्चन्द्रदिवाकरम् ॥
अन्नं विष्ठा जलं मूत्रं स्पर्शनं सर्वपापदम्

2.61.84

पापी यस्याश्च तस्याश्च साधुभिः परिवर्जितम् ॥
कस्य गर्भं वद शुभे गच्छ वत्से गुरोर्गृहम्

2.61.85

त्यज लज्जां महाभागे सर्वं च प्राक्तनाद्भवेत्॥
ब्रह्मणो वचनं श्रुत्वा तमुवाच सती तदा

2.61.86

चन्द्रस्य गर्भं हे तात बिभर्म्यद्य स्वकर्मणा ॥
सर्वे मे साक्षिणः सन्ति दुर्बलायाः प्रजापते

2.61.87

यदा जग्राह चन्द्रो मां दयाहीनश्च दुर्मतिः॥
इत्युक्त्वा तारका देवी सुषाव कनकप्रभम्

2.61.88

कुमारं सुन्दरं तत्र ज्वलन्तं ब्रह्मतेजसा ॥
गृहीत्वा तनयं चन्द्रो नत्वा ब्रह्माणमीश्वरम्

2.61.89

जगाम स स्वभवनं ब्रह्मा सिन्धुतटं ययौ ॥
साध्वीं तारां च गुरवे देवेभ्योऽप्यभयं ददौ

2.61.2.61.90

आशिषं शम्भुधर्माभ्यां दत्त्वा लोकं ययौ विधिः ॥
देवा ययुः स्वभवनं स्वगृहं च बृहस्पतिः

2.61.91

भावानुरक्तवनितां प्राप्य संहृष्टमानसः ॥
तारकागर्भसंभूतः स एव च बुधः स्वयम्

2.61.92

तेजस्वी सद्ग्रहो ब्रह्मश्चन्द्रस्य तनयो महान् ॥
स एव नन्दनवने चित्रां संप्राप्य निर्जने

2.61.93

घृताच्या गर्भसंभूतां कुबेरस्य च रेतसा ॥
दृष्ट्वा च निर्जने रम्यां कन्यां कमललोचनाम्

2.61.94

अतीव यौवनस्थां च बालां षोडशवार्षिकीम् ॥
गान्धर्वेण विवाहेन तां जग्राह विधोः सुतः

2.61.95

तस्यामथायं रहसि वीर्य्याधानं चकार सः ॥
बभूव राजा चित्रायां चैत्रो वै मण्डलेश्वरः

2.61.96

सप्तद्वीपवतीं पृथ्वीं शास्ति वै धार्मिको बली ॥
शतं नद्यो घृतानां च दध्नां नद्यः शतानि च

2.61.97

शतानि नद्यो दुग्धानां मधुनद्यश्च षोडश ॥
दश नद्यश्च तैलानां शर्करालक्षराशयः

2.61.99

मिष्टान्नानां स्वस्तिकानां लक्षराशिश्च नित्यशः ॥
पञ्चकोटिगवां मांसं सापूपं स्वन्नमेव च ॥ ९८ ।
एतेषां च नदीराशीर्भुञ्जते ब्राह्मणा मुने ॥
गवां लक्षं च रत्नानां मणीनां लक्षमेव च

2.61.2.61.100

शतलक्षं सुवर्णानां लक्षं वै सूक्ष्मवाससाम् ॥
रत्नानां भूषणं पात्रमतीव सुमनोहरम्

2.61.101

ददौ द्विजातये राजा नित्यं वै जीवितावधि ॥
तस्य चैत्रस्य पुत्रश्च राजाऽधिरथ एव च

2.61.102

तस्य पुत्रश्च सुरथश्चक्रवर्त्ती बृहच्छ्रवाः ॥
महाज्ञानं च संप्राप्य मेधसो मुनिसत्तमात्

2.61.103

भेजे पुरा विष्णुमायां पुण्यक्षेत्रे च भारते ॥
शरत्काले महापूजां चकार स सरित्तटे

2.61.104

वैश्येन सार्धं स महाञ्ज्ञानिनां मुनिसत्तम॥
राजा कलिङ्गदेशस्य विराधश्च विशां वरः

2.61.105

तस्य पुत्रो महायोगी द्रुमिणो ज्ञानिनां वरः ॥
द्रुमिणो वैष्णवः प्राज्ञः पुष्करे दुष्करं तपः

2.61.106

कृत्वा समाधिं संप्राप ज्ञानिनां वैष्णवाग्रणीः ॥
पुत्रैर्दारैर्निरस्तश्च धनलोभाद्दुरात्मभिः

2.61.107

स च कोटिसुवर्णं च नित्यं दत्त्वा जलं पपौ ॥
मुक्तिं संप्राप संसेव्य विष्णुमायां सनातनीम्

2.61.108

राजा लेभे मनुत्वं च राज्यं निष्कण्टकं मुने ॥
उवाच मधुरं वाक्यं धाता त्रिजगतां पतिः

2.61.61

इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे दुर्गोपाख्याने गुरोस्ताराप्राप्तिबुधोत्पत्त्यादिवर्णनं नामैकषष्टितमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc