भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 2.60

2.60.1

नारद उवाच ॥
नारायण महाभाग वेदवेदाङ्गपारग ॥
निपीतं च महाख्यानं त्वन्मुखेन्दुविनिसृतम्

2.60.2

अधुना श्रोतुमिच्छामि किमुवाच बृहस्पतिः ॥
शिवं च गत्वा कैलासं दातारं सर्वसम्पदाम्

2.60.3

जगत्कर्ता विधाता च किं वा तं प्रत्युवाच सः ॥
एतत्सर्वं समालोच्य वद वेदविदां वर

2.60.4

नारायण उवाच ॥
शीघ्रं गत्वा च कैलासं भ्रष्टश्रीः शंकरं गुरुः ॥
प्रणम्य तस्थौ पुरतो लज्जावनतकन्धरः ॥

2.60.5

दृष्ट्वा गुरुसुतं शम्भुरुदतिष्ठत्कुशासनात् ॥
आलिङ्गनं ददौ तस्मै शीघ्रं मांगलिकाशिषः

2.60.6

स्वासने वासयित्वा वै पप्रच्छ कुशलं वचः ॥
उवाच मधुरं वाक्यं भीतं तं लज्जितं शिवः

2.60.7

श्रीशङ्कर उवाच ॥
कथमेवंविधस्त्वं च दुःखी मलिन विग्रहः ॥
साश्रुनेत्रो लज्जितश्च भ्रातस्तत्कारणं वद

2.60.8

किं वा तपस्या हीना ते सन्ध्या हीनाऽथवा मुने ॥
किं वा श्रीकृष्णसेवा सा विहीना दैवदोषतः

2.60.9

किं वा गुरौ भक्तिहीनोऽभीष्टदेवेऽथवा गुरौ ॥
किं वा न रक्षितुं शक्तः प्रपन्नं शरणागतम्

2.60.11

किं वाऽतिथिस्ते विमुखः किं वा पोष्या बुभुक्षिताः ॥
किं वा स्वतन्त्रा स्त्री वा ते किं वा पुत्रोऽवचस्करः ॥2.60.१ ०॥
सुशासितो न शिष्यो वा किं भृत्याश्चोत्तरप्रदाः ॥
किं वा ते विमुखा लक्ष्मीः किं वा रुष्टो गुरुस्तव

2.60.12

गरिष्ठश्च वरिष्ठश्च शश्वत्सन्तुष्ट मानस ॥
गुरुस्तव वसिष्ठश्च प्रेष्ठः श्रेष्ठः सतामहो

2.60.13

किं वा रुष्टोऽभीष्टदेवः किं वा रुष्टाश्च वाडवाः ॥
किं वा रुष्टा वैष्णवाश्च किं वा ते प्रबलो रिपुः

2.60.14

किं वा ते बन्धुविच्छेदो विग्रहो बलिना सह ॥
किं वा पदं परग्रस्तं किं वा बन्धुधनं च वा

2.60.15

केन ते वा कृता निन्दा खलैर्वा पापिभिर्मुने ॥
केन वा त्वं परित्यक्तो बान्धवेन प्रियेण वा

2.60.16

बन्धुस्त्यक्तस्त्वया किं वा वैराग्येण क्रुधाऽथवा ॥
किं वा तीर्थे नहि स्नातं न दत्तं पुण्यवासरे

2.60.17

गुरुनिन्दा बन्धुनिन्दा खलवक्त्राच्छ्रुताऽथवा ॥
गुरुनिन्दा हि साधूनां मरणादतिरिच्यते

2.60.18

असद्वंशप्रजातानां खलानां निन्दनं तथा ॥
दौश्शील्यमेवमसतां शश्वन्नारकिणामिह

2.60.19

परप्रशंसकाः सन्तः पुण्यवन्तो हि भारते ॥
शश्वन्मङ्गलयुक्ताश्च राजन्ते मनसा सदा

2.60.2.60.20

पुत्रे यशसि तोये च समृद्धे च पराक्रमे ॥
ऐश्वर्ये वा प्रतापे च प्रजाभूमिधनेषु च

2.60.21

वचनेषु च बुद्धौ च स्वभावे च चरित्रतः ॥
आचारे व्यवहारे च जायते हृदयं नृणाम्

2.60.22

यादृग्येषां च हदये तादृक्तेषां च मंगलम् ॥
यादृग्येषां पूर्वपुण्यं तादृक्तेषां च मानसम्

2.60.23

इत्युक्त्वा च महादेवो विरराम स्वसंसदि ॥
तमुवाच महावक्ता स्वयमेव बृहस्पतिः

2.60.24

बृहस्पतिरुवाच ॥
अकथ्यमेव वृत्तान्तं कथयामि किमीश्वर ॥
लोकाः कर्मवशान्नित्यं नानाजन्मसु यत्कृतम्

2.60.25

स्वकर्मणां फलं भुङ्क्ते जन्तुर्जन्मनि जन्मनि ॥
नहि नष्टं च तत्कर्म विना भोगाच्च भारते

2.60.25

सुखं दुःखं भयं शोको नराणां भारते प्रभो ॥
केचिद्वदन्ति हि भवेत्स्वकृतेन च कर्मणा

2.60.27

केचिद्वदन्ति दैवेन स्वभावेनेति केचन ॥
त्रिविधा गतयो ह्यस्य वेदवेदाङ्गपारग

2.60.28

स्वयं च कर्मजनकः कर्म वै दैवकारणम् ॥
स्वभावो जायते नॄणां स्वात्मनः पूर्वकर्मणः

2.60.29

स्वकर्मणां च सर्वेषां जन्तूनां प्रतिजन्मनि ॥
सुखं दुःखं भयं शोकं स्वात्मनश्च प्रजायते

2.60.2.60.30

स्वकर्मफलभोक्ता च जीवो हि सगुणः सदा ॥
आत्मभोजयिता साक्षी निर्गुणः प्रकृतेः परः

2.60.33

स एवात्मा सर्वसेव्यः सर्वेषां च फलप्रदः ॥
स वै सृजति दैवं च स्वभावं कर्म चैव हि

2.60.32

कर्मणा च नृणां लज्जा प्रशंसा च प्रफुल्लता ॥
लज्जाबीजं च वृत्तान्तं तथाऽपि कथयामि ते

2.60.33

इत्युक्त्वा सर्ववृत्तान्तमवोचत्तं बृहस्पतिः ॥
श्रुत्वा बभूव नम्रास्यो गौरीशो लज्जया तदा

2.60.34

जपमाला कराद्भ्रष्टा कोपाविष्टस्य शूलिनः ॥
बभूव सद्यःकम्पश्च रक्तपंकजलोचने

2.60.35

संहर्त्तुरीशो रुद्रस्य विष्णोः पातुः सखा शिवः ॥
स्रष्टुः स्तुत्यश्च मान्यश्च स्वात्मनः परमात्मनः

2.60.36

निर्गुणस्य च कृष्णस्य प्रकृतीशस्य नारद ॥
कोपात्प्रवक्तुमारेभे शुष्ककण्ठौष्ठतालुकः

2.60.37

शिव उवाच ॥
शिवमस्तु च साधूनां वैष्णवानां सतामिह ॥
अवैष्णवानामसतामशिवं च पदे पदे

2.60.38

ददाति वैष्णवेभ्यश्च यो दुःखं सुस्थितो जनः ॥
श्रीकृष्णस्तस्य संहर्त्ता विघ्नस्तस्य पदे पदे

2.60.39

अवैष्णवानां हृदयं नहि शुद्धं सदामलम् ॥
श्रीकृष्णमन्त्रस्मरणं मनोनैर्मल्यकारणम्

2.60.2.60.40

भिद्यते हदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ॥
विष्णुमन्त्रोपासनया क्षीयते कर्म तन्नृणाम्

2.60.41

अहो श्रीकृष्णदासानां कः स्वभावः सुनिर्मलः ॥
हृतभार्य्यं मूर्च्छितश्च न शशाप रिपुं गुरुः

2.60.42

गुरुर्यस्य वरिष्ठश्च क्रोधहीनश्च धार्मिकः ॥
शतपुत्रघ्नमप्येनं न शशाप रिपुं मुनिः

2.60.43

निश्श्वासाद्वै सुरगुरोर्भ्रातुर्मम बृहस्पतेः ॥
भस्मीभूतो निमेषेण शतचन्द्रो भवेद्ध्रुवम् ॥

2.60.44

तथाऽपि तं नो शशाप धर्म्मभङ्गभयेन च ॥
तपस्या हीयते शप्तुः कोपाविष्टस्य नित्यशः

2.60.45

अहो ह्यत्रेरसत्पुत्रः परस्त्रीलुब्धकः शठः ॥
तपस्विनो वैष्णवस्य ब्रह्मपुत्रस्य धीमतः

2.60.46

धर्मिष्ठा ब्रह्मणः पुत्रा वैष्णवा ब्राह्मणास्तथा ॥
केचिद्देवा द्विजा दैत्याः पौत्राश्च त्रिविधा मताः

2.60.47

ये सात्त्विका ब्राह्मणास्ते देवा राजसिकास्तथा ॥
दैत्यास्तामसिका रौद्रा बलिष्ठाश्चोद्धताः सदा

2.60.48

स्वधर्मनिरता विप्रा नारायणपरायणाः ॥
शैवाः शाक्ताश्च ते देवा दैत्याः पूजाविवर्जिताः

2.60.49

मुमुक्षवो विष्णुभक्ता ब्राह्मणा दास्यलिप्सवः ॥
ऐश्वर्य्यलिप्सवो देवाश्चासुरास्तामसास्तथा

2.60.2.60.50

ब्राह्मणानां स्वधर्मश्च कृष्णस्यार्च्चनमीप्सितम् ॥
निष्कामानां निर्गुणस्य परस्य प्रकृतेरपि

2.60.51

ये ब्राह्मणा वैष्णवाश्च स्वतन्त्राः परमं पदम् ॥
यान्त्यन्योपासकाश्चान्यैः सार्द्धं च प्राकृते लये

2.60.52

वर्णानां ब्राह्मणाः श्रेष्ठाः साधवो वैष्णवा यदि ॥
विष्णुमन्त्रविहीनेभ्यो द्विजेभ्यः श्वपचो वरः

2.60.53

परिपक्वा विपक्वा वा वैष्णवाः साधवश्च ते ॥
सततं पाति तांश्चैव विष्णुचक्रं सुदर्शनम्

2.60.54

यथा वह्नौ शुष्कतृणं भस्मीभूतं भवेत्सदा॥
तथा पापं वैष्णवेषु काष्ठानीव हुताशने

2.60.55

गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे प्रवेक्ष्यति ॥
तं वैष्णवं महापूतं प्रवदन्ति मनीषिणः

2.60.56

पुंसां शतं पितॄणां च शतं मातामहस्य च ॥
स्वसोदरांश्च जननीमुद्धरन्त्येव वैष्णवाः

2.60.97

गयायां पिण्डदानेन पिण्डदाः पिण्डभोजिनम् ॥
समुद्धरन्ति पुंसां च वैष्णवाश्च शतं शतम्

2.60.58

मन्त्रग्रहणमात्रेण जीवन्मुक्तो भवेन्नरः ॥
यमस्तस्मान्महाभीतो वैनतेयादिवोरगः

2.60.59

पुनन्त्येव हि तीर्थानि गङ्गादीनि च भारते ॥
कृष्णमन्त्रोपासकाश्च स्पर्शमात्रेण वाक्पते

2.60.2.60.60

पापानि पापिनां तीर्थे यावन्ति प्रभवन्ति च ॥
नश्यन्ति तानि सर्वाणि वैष्णवस्पर्शमात्रतः

2.60.61

कृष्णमन्त्रोपासकानां रजसा पादपद्मयोः ॥
सद्यो मुक्ताः पातकेभ्यः कृत्स्ना पूता वसुन्धरा

2.60.62

वायुश्च पवनो वह्निः सूर्य्यः सर्वं पुनाति च ॥
एते पूता वैष्णवानां स्पर्शमात्रेण लीलया

2.60.63

अहं ब्रह्मा च शेषश्च धर्मः साक्षी च कर्म्मणाम् ॥
एते हृष्टाश्च वाञ्छन्ति वैष्णवानां समागमम्

2.60.64

फलं कर्मानुरूपेण सर्वेषां भारते भवेत् ॥
न भवेत्तद्वैष्णवे च सिद्धधान्ये यथांऽकुरम्

2.60.65

हन्ति तेषां कर्म पूर्वं भक्तानां भक्तवत्सलः ॥
कृपया स्वपदं तेभ्यो ददात्येव कृपानिधिः

2.60.66

तेजस्विनां च प्रवरं वैष्णवं भृगुनन्दनम् ॥
स चन्द्रो दुर्बलो भीतः शुक्रं च शरणं ययौ

2.60.67

सुदर्शनो बलिष्ठं च शुक्रं जेतुं न शक्तिमान् ॥
तथाऽपि चोद्धरिष्यामि तारां मन्त्रेण मद्गुरोः

2.60.68

भज सत्यं परं ब्रह्म कृष्णमात्मानमीश्वरम् ॥
सुप्रसन्ने भगवति पत्नीं प्राप्स्यसि लीलया

2.60.69

मन्त्रं तस्य प्रदास्यामि भ्रातः कल्पतरुं परम् ॥
कोटिजन्माघनिघ्नं च सर्वमंगलकारणम्

2.60.2.60.70

ब्रह्मादिस्तंबपर्य्यन्तं नश्वरं जलबिम्बवत् ॥
शरणं याहि गोविन्दं परमात्मानमीश्वरम् ॥
तावद्भवेच्छा भोगेच्छा स्त्रीसुखेच्छा नृणामिह

2.60.71

यावद्गुरुमुखाम्भोजान्न प्राप्नोति मनुं हरेः ॥
संप्राप्य दुर्लभं मन्त्रं वितृष्णो हि भवेन्नरः

2.60.72

इन्द्रत्वममरत्वं च नहि वाञ्छन्ति वैष्णवाः ॥
नहि वाञ्छन्ति मोक्षं च दास्यं भक्तिं विना हरेः

2.60.73

भक्ति निर्मथनं भक्तो मोक्षं नो वाञ्छति प्रभोः ॥
ज्ञानं मृत्युञ्जयत्वं च सर्वसिद्धिं तदीप्सितम्

2.60.74

वाक्सिद्धिं चैव धातृत्वं भक्तानां नहि वाञ्छितम् ॥
भक्तिं विहाय कृष्णस्य विषयं यो हि वाञ्छति ।

2.60.75

।
विषमत्ति सुधां त्यक्त्वा वञ्चितो विष्णुमायया ॥
अहं ब्रह्मा च विष्णुश्च धर्मोऽनन्तश्च कश्यपः

2.60.76

कपिलश्च कुमारश्च नरनारायणावृषी ॥
स्वायम्भुवो मनुश्चैव प्रह्लादश्च पराशरः ॥

2.60.77

भृगुः शुक्रश्च दुर्वासा वसिष्ठः क्रतुरंगिराः ॥
बलिश्च वालखिल्याश्च वरुणश्च हुताशनः

2.60.78

वायुः सूर्यश्च गरुडो दक्षो गणपतिः स्वयम् ॥
एते परा भक्तवराः कृष्णस्य परमात्मनः

2.60.79

ये च तस्य कलाः श्रेष्ठास्ते तद्भक्तिपरायणाः ॥
इत्युक्त्वा शङ्करस्तस्मै ददौ कल्पतरुं मनुम्

2.60.2.60.80

लक्ष्मीमायाकामबीजं ङेन्तं कृष्णपदं मुने ॥
परं पूजाविधानं च स्तोत्रं च कवचं मुने ॥

2.60.81

तत्पुरश्चरणं ध्यानं शुद्धे मन्दाकिनीतटे ॥
गुरुः संप्राप्य तं मन्त्रं शङ्कराच्च जगद्गुरोः

2.60.82

विषण्णो हि भवाब्धौ च बभूव तमुवाच ह

2.60.83

बृहस्पतिरुवाच ॥
आज्ञां कुरु जगन्नाथ यामि तप्तुं हरेस्तपः ॥
तारा तिष्ठतु तत्रैव न तया मे प्रयोजनम्

2.60.84

पश्यामि विषतुल्यं च सर्वं नश्वरमीश्वर ॥
श्रीकृष्णं शरणं यामि सत्यं नित्यं च निर्गुणम्

2.60.85

श्रीमहादेव उवाच ॥
परग्रस्तां स्त्रियं त्यक्त्वा न प्रशंस्यं तपो मुने ॥
सम्भावितस्य दुश्चर्च्चा मरणादतिरिच्यते

2.60.86

पुरो गच्छ महाभाग तमेतं नर्मदातटम् ॥
यत्र ब्रह्मादयो देवास्तत्राहं यामि सत्वरम्

2.60.87

शिवस्य वचनं श्रुत्वा ययौ सुरगुरुः स्वयम् ॥
आययौ च महाभागः शङ्करो नर्मदातटम्

2.60.88

सगणं शङ्करं दृष्ट्वा प्रसन्नवदनेक्षणम् ॥
प्रणेमुर्देवताः सर्वा मनवो मुनयस्तथा

2.60.89

ननाम शम्भुः शिरसा विष्णुं च कमलोद्भवम् ॥
ददौ विष्णुर्महेशाय प्रेम्णाऽऽलिङ्गनमासनम्

2.60.2.60.90

एतस्मिन्नन्तरे तत्र चागमच्च बृहस्पतिः ॥
प्रणनाम महादेवं विष्णुं च कमलोद्भवम्

2.60.91

सूर्य्यं धर्ममनन्तं च नरं मां च मुनीश्वरान् ॥
स्वगुरुं पितरं भक्त्या चावसत्तत्र संसदि

2.60.92

सञ्चिन्त्य मनसा युक्तिमूचे तत्र च संसदि ॥
स्वयं विष्णुश्च भगवान्ब्रह्माणं चन्द्रशेखरम्

2.60.93

विष्णुरुवाच॥
युवां च मुनयश्चैव समुद्रपुलिनं द्रुतम्॥
शुक्रं कञ्चिच्च मध्यस्थं प्रस्थापयितुमर्हथ

2.60.94

विग्रहेणैव विषमं भविष्यति न संशयः ॥
मदाशिषा सुरगुरुस्तारां प्राप्स्यति निश्चितम्

2.60.95

सुरैः स्तुतश्च सन्तुष्टः शुक्राचार्य्यो भविष्यति ॥
सुरैः शुक्रो हि न जितः कृष्णचक्रेण रक्षितः

2.60.96

युवाभ्यां प्रार्थ्यमानोऽहं युवयोः स्तवनेन च ॥
श्वेतद्वीपादागतोऽस्मि परितुष्टः स्तवेन च

2.60.97

शुक्राश्रममसीपर्णं सर्वा गच्छन्तु देवताः ॥
रिपुर्बलिष्ठः स्तोत्रेण वशीभूत इति श्रुतिः

2.60.98

इत्युक्त्वा जगतां नाथस्तत्रैवान्तर धीयत ॥
स्तुतो ब्रह्मादिभिदेवैः प्रणतैः परिपूजितः

2.60.99

गते च जगतां नाथे श्वेतद्वीपं च नारद ॥
चिन्तिताश्च सुराः सर्वे विषण्णमनसस्तथा

2.60.2.60.100

मुनीन्देवांश्च संबोध्य ब्रह्मा वै तत्र संसदि ॥
उवाच नीतिसारं तत्सम्मतं शङ्करस्य सः

2.60.101

ब्रह्मोवाच ॥
मम शम्भोश्च धर्मस्य विष्णोर्वा सर्वसाक्षिणः ॥
अस्माकं च समः स्नेहो दैत्ये देवे च पुत्रकाः

2.60.102

दैत्यानां च गुरुं शुक्रं प्रपन्नश्च निशाकरः ॥
न जितश्च सुरैः शुक्रः पूजितो दितिनन्दनैः

2.60.103

ताराहेतोरहं यामि शुक्रस्य भवनं सुराः ॥
सर्वे समुद्रपुलिनं यान्तु विष्णोर्निदेशतः

2.60.104

इत्युक्त्वा जगतां धाता चागमच्छुक्रसन्निधिम् ॥
प्रययुर्देवता विप्राः समुद्रपुलिनं मुने॥

2.60.60

इति श्रीब्रह्मवैवर्त्ते म०द्वि०प्र०नारदनारायणसंवादे श्रीकृष्णोपदिष्टतारोद्धरणोपायज्ञानं नाम षष्टितमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc