भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 2.51

2.51.1

श्रीपार्वत्युवाच ॥
किमूचुर्ब्राह्मणं ब्रह्मन्ब्राह्मणा ब्रह्मणः सुताः ॥
नीतिज्ञा नीतिवचनं तन्मां व्याख्यातुमर्हसि

2.51.2

श्रीमहादेव उवाच ॥
सन्तोष्य तं ब्राह्मणं च स्तवेन विनयेन च ॥
क्रमेण वक्तुमारेभे मुनिसंघो वरानने

2.51.3

सनत्कुमार उवाच ॥
त्वत्पश्चादागता लक्ष्मीः कीर्त्तिः सत्त्वं यशस्तथा ॥
सुशीलं च महैश्वर्यं पितरोऽग्निः सुरास्तथा

2.51.4

आगता नृपगेहेभ्यः कृत्वा भ्रष्टश्रियं नृपम् ॥
भव तुष्टो द्विजश्रेष्ठ चाशुतोषश्च वाडवः

2.51.5

ब्राह्मणानां तु हृदयं कोमलं नवनीतवत् ॥
शुद्धं सुनिर्मलं चैव मार्जितं तपसा मुने

2.51.6

क्षमस्वागच्छ विप्रेन्द्र शुद्धं कुरु नृपालयम् ॥
आशिषं कुरु तस्मै त्वं पवित्रपदरेणुना

2.51.7

भृगुरुवाच ॥
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्त्तते ॥
पितरस्तस्य देवाश्च वह्निश्चैव तथैव च

2.51.8

निराशाः प्रतिगच्छन्ति चातिथेरप्रतिग्रहात्॥
क्षमस्वागच्छ विप्रेन्द्र शुद्धं कुरु नृपालयम्

2.51.9

स्त्रीघ्नैर्गोघ्नैः कृतघ्नैश्च ब्रह्मघ्नैर्गुरुतल्पगैः ॥
तुल्यदोषो भवत्येतैर्यस्यातिथिरनर्चितः

2.51.2.51.10

पुलस्त्य उवाच ॥
पश्यन्ति ये वक्रदृष्ट्या चातिथिं गृहमागतम् ॥
दत्त्वा स्वपापं तस्मै तत्पुण्यमादाय गच्छति

2.51.11

क्षमस्व नृपदोषं च गच्छ वत्स यथासुखम् ॥
राजा स्वकर्मदोषेण नोत्तस्थौ तत्क्षमां कुरु

2.51.12

पुलह उवाच ॥
राजश्रिया विद्यया वा ब्राह्मणं योऽवमन्यते ॥
विप्रस्त्रिसन्ध्याहीनो यः श्रीहीनः क्षत्रियो भवेत्

2.51.13

एकादशीविहीनश्च विष्णुनैवेद्यवञ्चितः ॥
क्षमस्वागच्छ विप्रेन्द्र शुद्धं कुरु नृपालयम्

2.51.14

क्रतुरुवाच॥
ब्राह्मणः क्षत्रियो वाऽपि वैश्यो वा शूद्र एव च॥
दीक्षाहीनो भवेत्सोऽपि ब्राह्मणं योऽवमन्यते

2.51.15

धनहीनः पुत्रहीनो भार्य्याहीनो भवेद्ध्रुवम् ॥
क्षमस्वागच्छ भगवञ्छुद्धं कुरु नृपालयम्

2.51.16

अङ्गिरा उवाच ॥
ज्ञानवान्ब्राह्मणो भूत्वा ब्राह्मणं योऽवमन्यते॥
वृषवाहो भवेत्सोऽपि भारते सप्तजन्मसु

2.51.17

मरीचिरुवाच॥
पुण्यक्षेत्रे भारते च देवं च ब्राह्मणं गुरुम्॥
विष्णुभक्तिविहीनश्च स भवेद्योऽवमन्यते

2.51.18

कश्यप उवाच ॥
वैष्णवं ब्राह्मणं दृष्ट्वा योऽसत्यमवमन्यते ॥
विष्णुमन्त्रविहीनश्च तत्पूजाविरतो भवेत्

2.51.19

प्रचेता उवाच ॥
अतिथिं ब्राह्मणं दृष्ट्वा नाभ्युत्थानं करोति यः ॥
पितृभक्तिविहीनस्स्यात्स भवेद्भारते भुवि

2.51.2.51.20

प्राप्नोति कौञ्जरीं योनिं स मूढः सप्तजन्मसु ॥
शीघ्रं गच्छ द्विजश्रेष्ठ राज्ञे देह्याशिषश्शुभाः

2.51.21

दुर्वासा उवाच ॥
गुरुं वा ब्राह्मणं वाऽपि देवताप्रतिमामपि ॥
दृष्ट्वा शीघ्रं न प्रणमेत्स भवेत्सूकरो भुवि

2.51.22

मिथ्यासाक्षी च भवति तथा विश्वासघातकः ॥
क्षमस्व सर्वमस्माकमातिथ्यग्रहणं कुरु

2.51.23

राजोवाच ॥
छलेन कथितो धर्मो युष्माभिर्मुनिपुङ्गवैः ॥
सर्वं कृत्वा च विस्पष्टं मां मूढं बोधयन्त्वहो

2.51.24

स्त्रीघ्नगोघ्नकृतघ्नानां गुरुस्त्रीगामिनां तथा ॥
ब्रह्मघ्नानां च को दोषो ब्रूत मां योगिनां वराः

2.51.25

वसिष्ठ उवाच ॥
कामतो गोवधे राजन्वर्षं तीर्थं भ्रमेन्नरः ॥
यवयावकभोजी च करेण च जलं पिबेत्

2.51.26

तदा धेनुशतं दिव्यं ब्राह्मणेभ्यः सदक्षिणम् ॥
दत्त्वा मुञ्चति पापाच्च भोजयित्वा शतं द्विजान्

2.51.27

प्रायश्चित्ते तु वै चीर्णे सर्वपापान्न मुच्यते ॥
पापावशेषाद्भवति दुःखी चाण्डाल एव च

2.51.28

आतिदेशिकहत्यायां तदर्धं फलमश्नुते ॥
प्रायश्चित्तानुकल्पेन सर्वपापान्न मुच्यते॥

2.51.29

शुक्र उवाच ॥
गोहत्याद्विगुणं पापं स्त्रीहत्यायां भवेद्ध्रुवम् ॥
षष्टिवर्षसहस्राणि कालसूत्रे वसेद्ध्रुवम्

2.51.2.51.30

ततो भवेन्महापापी सूकरः सप्तजन्मसु ॥
ततो भवति सर्पश्च सप्तजन्मन्यतः शुचिः

2.51.33

बृहस्पतिरुवाच ॥
स्त्रीहत्याद्विगुणं पापं ब्रह्महत्याकृतो भवेत् ॥
लक्षवर्षं महाघोरे कुम्भीपाके वसेद्ध्रुवम्

2.51.32

ततो भवेन्महापापी विष्ठाकीटः शताब्दकम्॥
ततो भवति सर्पश्च सप्तजन्मन्यतः शुचिः

2.51.33

गौतम उवाच ॥
दोषः कृतघ्ने राजेन्द्र ब्रह्महत्याचतुर्गुणः ॥
निष्कृतिर्नास्ति वेदोक्ता कृतघ्नानां च निश्चितम्

2.51.34

राजोवाच ॥
लक्षणं च कृतघ्नानां वद वेदविदां वर ॥
कृतघ्नः कतिधा प्रोक्तः केषु को दोष एव च

2.51.35

ऋष्यशृङ्ग उवाच ॥
कृतघ्नाः षोडशविधाः सामवेदे निरूपिताः ॥
सर्वः प्रत्येकदोषेण प्रत्येकं फलमश्नुते

2.51.36

कृते सत्ये च पुण्ये च स्वधर्मे तपसि स्थिते ॥
प्रतिज्ञायां च दाने च स्वगोष्ठीपरिपालने

2.51.37

गुरुकृत्ये देवकृत्ये काम्यकृत्ये द्विजार्चने ॥
नित्यकृत्ये च विश्वासे परधर्मप्रदानयोः

2.51.38

एतान्यो हन्ति पापिष्ठः स कृतघ्न इति स्मृतः ॥
एतेषां सन्ति लोकाश्च तज्जन्म भिन्नयोनिषु

2.51.39

यान्यांश्च नरकांस्ते च यान्ति राजेन्द्र पापिनः ॥
ते ते च नरकाः सन्ति यमलोके सुनिश्चितम्

2.51.2.51.40

सुयज्ञ उवाच॥
के किं कृत्वा कृतघ्नाश्च कांस्कान्गच्छन्ति रौरवान् ॥
प्रत्येकं श्रोतुमिच्छामि वक्तुमर्हसि मे प्रभो॥

2.51.41

कात्यायन उवाच ॥
कृत्वा शपथरूपं च सत्यं हन्ति न पालयेत् ॥
स कृतघ्नः कालसूत्रे वसेदेव चतुर्युगम्

2.51.42

सप्तजन्मसु काकश्च सप्तजन्मसु पेचकः ॥
ततः शूद्रो महाव्याधिः सप्तजन्मस्वतः शुचिः

2.51.43

श्रीसनन्दन उवाच ॥
पुण्यं कृत्वा वदत्येव कीर्तिवर्द्धनहेतुना ॥
स कृतघ्नस्तप्तसूर्म्यां वसत्येव युगत्रयम्

2.51.44

पञ्चजन्मसु मण्डूकस्त्रिषु जन्मसु कर्कटः ॥
तदा मूको महाव्याधिर्दरिद्रश्च ततः शुचिः

2.51.45

सनातन उवाच ॥
स्वधर्मं हन्ति यो विप्रः सन्ध्यात्रयविवर्जितः ॥
अतर्पयंश्च यः स्नाति विष्णुनैवेद्यवर्जितः

2.51.46

विष्णुपूजाविहीनश्च विष्णुमन्त्रविहीनकः ॥
एकादशीविहीनः श्रीकृष्णजन्मदिने तदा ॥

2.51.47

शिवरात्रौ च यो भुङ्क्ते श्रीरामनवमीदिने ॥
पितृकृत्यादिहीनो यः स कृतघ्र इति स्मृतः

2.51.48

कुम्भीपाके वसत्येव यावदिन्द्राश्चतुर्दश ॥
ततश्चाण्डालतां याति सप्तजन्मसु निश्चितम्

2.51.49

शतजन्मनि गृध्रश्च शतजन्मनि सूकरः ॥
ततो भवेद्ब्राह्मणश्च शूद्राणां सूपकारकः

2.51.2.51.50

ततो भवेज्जन्म सप्त ब्राह्मणो वृषवाहकः ॥
शूद्राणां शवदाही च भवेत्सप्तसु जन्मसु ॥

2.51.51

द्विजो भूत्वा सप्तजनौ भारते वृषलीपतिः ॥
भुक्त्वा स्वभोगलेशं च भ्रमित्वा याति रौरवम्

2.51.52

पुनः पुनः पापयोनिं नरकं च पुनः पुनः ॥
ततो भवेद्गर्दभश्च मार्जारः पञ्चजन्मसु

2.51.53

पञ्चजन्मसु मण्डूको भवेच्छुद्धस्ततः क्रमात्

2.51.54

सुयज्ञ उवाच ॥
शूद्राणां सूपकरणे शूद्राणां शवदाहने ॥
शूद्रान्नभोजने वाऽपि शूद्रस्त्रीगमनेऽपि च

2.51.55

ब्राह्मणानां च को दोषो वृषाणां वाहने तथा ॥
एतान्सर्वान्समालोच्य ब्रूहि मां निश्चयं मुने

2.51.56

पराशर उवाच ॥
शूद्राणां सूपकारश्च यो विप्रो ज्ञानदुर्बलः ॥
असिपत्रे वसत्येव युगानामेकसप्ततिः

2.51.57

ततो भवेद्गर्दभश्च मूषिकः सप्तजन्मसु॥
तैलकीटस्सप्तजन्मस्वतः शुद्धो भवेन्नरः

2.51.58

जरत्कारुरुवाच ॥
भृत्यद्वारा स्वयं वाऽपि यो विप्रो वृषवाहकः ॥
स कृतघ्न इति ख्यातः प्रसिद्धो भारते नृप

2.51.59

ब्रह्महत्यासमं पापं तन्नित्यं वृषताडने ॥
वृषपृष्ठे भारदानात्पापं तद्द्विगुणं भवेत

2.51.2.51.60

सूर्य्यातपे वाहयेद्यः क्षुधितं तृष्टितं वृषम् ॥
ब्रह्महत्याशतं पापं लभते नात्र संशयः

2.51.61

अन्नं विष्ठा जलं मूत्रं विप्राणां वृषवाहिनाम् ॥
नाधिकारो भवेत्तेषां पितृदेवार्चने नृप

2.51.62

लालाकुण्डे वसत्येव यावच्चन्द्रदिवाकरौ ॥
विष्ठाभक्ष्यं मूत्रजलं तत्र तस्य भवेद्ध्रुवम्

2.51.63

त्रिसन्ध्यं ताडयेत्तं च शूलेन यमकिङ्करः ॥
उल्कां ददाति मुखतः सूच्या कृन्तति सन्ततम्

2.51.64

षष्टिवर्षसहस्राणि विष्ठायां च कृमिर्भवेत् ॥
ततः काकः पञ्चजन्मस्वथैवं बक एव च

2.51.69

पञ्चजन्मसु गृध्रश्च शृगालः सप्तजन्मसु ॥
ततो दरिद्रः शूद्रश्च महाव्याधिस्ततः शुचिः

2.51.66

भारद्वाज उवाच ॥
शूद्राणां शवदाही यः स कृतघ्न इति स्मृतः ॥
वयःप्रमाणां राजेन्द्र ब्रह्महत्यां लभेद्ध्रुवम्

2.51.67

तत्तुल्ययोनिभ्रमणात्तत्तुल्यनरकाच्छुचिः ॥
यो दोषो ब्राह्मणानां च शूद्राणां शवदाहने

2.51.68

तावदेव भवेद्दोषः शूद्रश्राद्धान्नभोजने

2.51.69

विभाण्डक उवाच ॥
पितृश्राद्धे च शूद्राणां भुङ्क्ते यो ब्राह्मणोऽधमः॥
सुरापीती ब्रह्मघाती पितृदेवार्चनाद्बहिः

2.51.2.51.70

मार्कण्डेय उवाच ॥
यो दोषो ब्राह्मणानां च शूद्रस्त्रीगमने नृप ॥
अहं वक्ष्यामि वेदोक्तं सावधानं निशामय

2.51.71

कृतघ्नानां प्रधानश्च यो विप्रो वृषलीपतिः ॥
कृमिदंष्ट्रे वसेत्सोऽपि यावदिन्द्राश्चतुर्दश

2.51.72

कृमिभक्ष्यो भवेद्विप्रो विह्वलो यमकिङ्करैः ॥
प्रतिमां तां तप्तलौहीमाश्लेषयति नित्यशः

2.51.73

ततश्च पुंश्चलीयोनौ कृमिर्भवति निश्चितम् ॥
एवं वर्षसहस्रं च ततः शूद्रस्ततः शुचिः

2.51.74

सुयज्ञ उवाच॥
अन्येषां च कृतघ्नानां वद कर्मफलं मुने॥
श्लाघ्यो मे ब्राह्मशापश्च कस्य सम्पद्विनाऽऽपदम्

2.51.75

धन्योऽहं कृतकृत्योऽहं सफलं जीवनं मम ॥
आगतास्तु यतो मुक्ता मद्गेहे मुनयः सुराः

2.51.51

इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वि० प्र० नारदनारायणसंवादान्तर्गतहरगौरीसंवादे नृपमुनिसंवादे राधोपाख्याने
कर्मविपाको नामैकपञ्चाशत्तमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc