भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 2.50

2.50.1

पार्वत्युवाच ॥
को वा सुयज्ञो नृपतिः कुत्र वंशे बभूव सः ॥
कथं विप्राभिशप्तश्च कथं संप्राप राधिकाम्

2.50.2

सर्वात्मनश्च कृष्णस्य पत्नीं श्रीकृष्णपूजिताम् ॥
कथं विण्मूत्रधारी च सिषेवे परमेश्वरीम्

2.50.3

षष्टिवर्षसहस्राणि तपस्तेपे पुरा विधिः ॥
यत्पादाम्भोजरेणूनां लब्धये पुष्करे विभुः

2.50.4

कथं ददर्श तां देवो महालक्ष्मीं पुरा सतीम् ॥
दुर्दर्शामपि युष्माकं दृश्या साऽभूत्कथं नृणाम्

2.50.5

कथं त्रिजगतां धाता तस्मै तत्कवचं ददौ ॥
ध्यानं पूजाविधिं स्तोत्रं तस्या व्याख्यातुमर्हसि

2.50.6

श्रीमहादेव उवाच ॥
स्वायम्भुवो मनुर्देवि मनूनामादिरेव च ॥
ब्रह्मात्मजस्तपस्वी च शतरूपापतिः प्रभुः

2.50.7

उत्तानपादस्तत्पुत्रस्तत्पुत्रो ध्रुव एव च ॥
ध्रुवस्य कीर्तिर्विख्यातस्त्रैलोक्ये शैलकन्यके

2.50.8

उत्कलस्तस्य पुत्रश्च नारायणपरायणः ॥
सहस्रं राजसूयानां पुष्करे स चकार ह

2.50.9

सर्वाणि रत्नपात्राणि ब्राह्मणेभ्यो ददौ मुदा ॥
अमूल्यरत्नराशीनां सहस्रं तेजसा वृतम्

2.50.2.50.10

ब्राह्मणेभ्यो ददौ राजा यज्ञान्ते स महोत्सवे ॥
दृष्ट्वा तच्छोभनं यज्ञं विधाता जगतां प्रिये

2.50.11

सुयज्ञं नाम नृपतिं चकार सुरसंसदि ॥
स च राजा सुयज्ञश्च मनुवंशसमुद्भवः

2.50.12

अन्नदाता रत्नदाता दाता वै सर्वसम्पदाम् ॥
दशलक्षं गवां चैव रत्नशृङ्गपरिच्छदम्

2.50.13

नित्यं ददौ स विप्रेभ्यो मुदायुक्तः सदक्षिणम् ॥
गवां द्वादशलक्षाणां ददौ नित्यं मुदाऽन्वितः

2.50.14

सुपक्वानि च मांसानि ब्राह्मणेभ्यश्च पार्वति ॥
षट्कोटीर्ब्राह्मणानां च भोजयामास नित्यशः

2.50.15

चोष्यैश्चर्व्यैर्लेह्यपेयैरतितृप्तं दिने दिने ॥
विप्रलक्षं सूपकारं भोजयामास तत्परम्

2.50.16

पूर्णमन्नं च सूपाक्तं सगव्यं मांसवर्जितम् ॥
विप्रा भोजनकाले च मनुवंशसमुद्भवम्

2.50.17

न तुष्टुवुः सुयज्ञं च तुष्टुवुस्तत्पितॄंश्च ते ॥
दिने सुयज्ञयज्ञान्ते षट्त्रिंशल्लक्षकोटयः

2.50.18

चक्रुः सुभोजनं विप्राश्चातितृप्ताश्च सुन्दरि ॥
गृहीतानि च रत्नानि स्वगृहं वोढुमक्षमाः

2.50.19

वृषलेभ्यो ददुः किञ्चित्किञ्चित्पथि च तत्यजुः ॥
विप्राणां भोजनान्ते च विप्रान्येभ्यो ददौ नृपः

2.50.2.50.20

तथाप्युर्वरितं तत्र चान्नराशिसहस्रकम् ॥
कृत्वा यज्ञं महाबाहुः समुवास स्वसंसदि ॥

2.50.21

रत्नेन्द्रसारसंक्लृप्तच्छत्रकोटिसमन्विते ॥
रत्नसिंहासने रम्ये पट्टवस्त्रैः सुसंस्कृते

2.50.22

चन्दनादिसुसंसृष्टे रम्ये चन्दनपल्लवैः ॥
शाखायुक्तैः पूर्णकुम्भै रम्भावृक्षैश्च शोभिते

2.50.23

चन्दनागुरुकस्तूरीवनसिन्दूरसंस्कृते ॥
वसुवासवचन्द्रेन्द्ररुद्रादित्य समन्विते

2.50.24

मुनिनारदमन्वादिब्रह्मविष्णुशिवान्विते ॥
एतस्मिन्नन्तरे तत्र विप्र एकः समाययौ

2.50.25

रूक्षो मलिनवासाश्च शुष्ककण्ठौष्ठतालुकः ॥
रत्नसिंहासनस्थं च माल्यचन्दनचर्चितम्

2.50.26

राजानमाशिषं चक्रे सस्मितः सम्पुटाञ्जलिः ॥
प्रणनाम नृपस्तं च नोत्तस्थौ किंचिदेव हि

2.50.27

सभासदश्च नोत्तस्थुर्जहसुः स्वल्पमेव च ॥
मुनिभ्योऽपि च देवेभ्यो नमस्कृत्य द्विजोत्तमः

2.50.28

शशाप नृपतिं क्रोधात्तत्रातिष्ठन्निरंकुशः ॥
गच्छ दूरमतो राज्याद्भ्रष्टश्रीर्भव पामर

2.50.29

भवाचिरं गलत्कुष्ठी बुद्धिहीनोऽप्युपद्रुतः ॥
इत्युक्त्वा कम्पितः क्रोधात्सभास्थाञ्छप्तुमुद्यतः

2.50.2.50.30

ये यत्र जहसुः सर्वे समुत्तस्थुः सभासदः ॥
सर्वे चक्रुः प्रणामं ते क्रोधं तत्याज वाडवः

2.50.31

प्रणम्यागत्य राजा तं रुरोद भयकातरः ॥
निस्ससार सभामध्याद्धृदयेन विदूयता

2.50.32

ब्राह्मणो गूढरूपी च प्रज्वलन्ब्रह्मतेजसा ॥
तत्पश्चान्मुनयः सर्वे प्रययुर्भयकातराः

2.50.33

हे विप्र तिष्ठ तिष्ठेति समुच्चार्य्य पुनः पुनः ॥
पुलहश्च पुलस्त्यश्च प्रचेता भृगुरंगिराः

2.50.34

मरीचिः कश्यपश्चैव वसिष्ठः क्रतुरेव च ॥
शुक्रो बृहस्पति श्चैव दुर्वासा लोमशस्तथा

2.50.35

गौतमश्च कणादश्च कण्वः कात्यायनः कठः ॥
पाणिनिर्जाजलिश्चैव ऋष्यशृंगो विभाण्डकः

2.50.36

तैत्तिरिश्चाप्यापिशलिर्मार्कण्डेयो महातपाः ॥
सनकश्च सनन्दश्च वोढुः पैलः सनातनः

2.50.37

सनत्कुमारो भगवान्नरनारायणावृषी ॥
पराशरो जरत्कारुः संवर्त्तः करभस्तथा

2.50.38

भरद्वाजश्च वाल्मीकिरौर्वश्च च्यवनस्तथा ॥
अगस्त्यो ऽत्रिरुतथ्यश्च सङ्कर्ताऽऽस्तीक आसुरिः

2.50.39

शिलालिर्लाङ्गलिश्चैव शाकल्यः शाकटायनः ॥
गर्गो वत्सः पञ्चशिखो जमदग्निश्च देवलः

2.50.2.50.40

जैगीषव्यो वामदेवो वालखिल्यादयस्तथा ॥
शक्तिर्दक्षः कर्दमश्च प्रस्कन्नः कपिलस्तथा

2.50.41

विश्वामित्रश्च कौत्सश्चाप्यृचीकोऽप्यघमर्षणः ॥
एते चान्ये च मुनयः पितरोऽग्निर्हरिप्रिया

2.50.42

दिक्पाला देवताः सर्वा विप्रं पश्चात्समाययुः॥
ब्राह्मणं बोधयामासुर्वासयामासुरीश्वरि

2.50.43

समूचुस्तं क्रमेणैव नीतिं नीतिविशारदाः

2.50.50

इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादान्तर्गतहरगौरीसंवादे राधोपाख्याने सुयज्ञोपाख्यानं नाम पञ्चाशत्तमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc