भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मवैवर्त पुराण · अध्याय 2.52

2.52.1

श्रीपार्वत्युवाच ॥
अन्येषां च कृतघ्नानां यद्यत्कर्मफलं प्रभो ॥
तेषां किमूचुर्मुनयो वेदवेदाङ्गपारगाः

2.52.2

श्रीमहेश्वर उवाच ॥
प्रश्नं कुर्वति राजेन्द्रे सर्वेषु मुनिषु प्रिये ॥
तत्र प्रवक्तुमारेभे ऋषिर्नारायणो महान्

2.52.3

श्रीनारायण उवाच ॥
स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः ॥
स कृतघ्न इति ज्ञेयः फलं च शृणु भूमिप

2.52.4

यावन्तो रेणवः सिक्ता विप्राणां नेत्रबिन्दुभिः ॥
तावद्वर्षसहस्रं च शूलपोते स तिष्ठति

2.52.5

तप्ताङ्गारं च तद्भक्ष्यं पानं वै तप्तमूत्रकम् ॥
तप्ताङ्गारे च शयनं ताडितो यमकिङ्करैः

2.52.6

तदन्ते च महापापी विष्ठायां जायते कृमिः ॥
षष्टिवर्षसहस्राणि देवमानेन भारते

2.52.7

ततो भवेद्भूमिहीनः प्रजाहीनश्च मानवः ॥
दरिद्रः कृपणो रोगी शूद्रो निन्द्यस्ततः शुचिः

2.52.8

नारद उवाच ॥
हन्ति यः परकीर्त्तिं च स्वकीर्त्तिं वा नराधमः॥
स कृतघ्न इति ख्यातस्तत्फलं च निशामय

2.52.9

अन्धकूपे वसेत्सोऽपि यावदिन्द्राश्चतुर्दश॥
कीटैर्नकुलगृध्रैश्च भक्षितः सततं नृप

2.52.2.52.10

तप्तक्षारोदकं पापी नित्यं पिबति वै ततः ॥
सप्तजन्मस्वतः सर्पः काकः पञ्चस्वतः शुचिः

2.52.11

देवल उवाच ॥
ब्रह्मस्वं वा गुरुस्वं वा देवस्वं वाऽपि यो हरेत् ॥
स कृतघ्न इति ज्ञेयो महापापी च भारते

2.52.12

अवटोदे वसेत्सोऽपि यावदिन्द्राश्चतुर्दश ॥
ततो भवेत्सुरापी स ततः शूद्रस्ततः शुचिः

2.52.13

जैगीषव्य उवाच ॥
पितृमातृगुरूंश्चापि भक्तिहीनो न पालयेत् ॥
वाचाऽपि ताडयेत्तांश्च स कृतघ्र इति स्मृतः ॥
वाचा च ताडयेन्नित्यं स्वामिनं कुलटा च या

2.52.14

सा कृतघ्नीति विख्याता भारते पापिनी वरा ॥
वह्निकुण्डं महाघोरं तौ प्रयातस्सुनिश्चितम्

2.52.15

तत्र वह्नौ वसत्येव यावच्चन्द्रदिवाकरौ ॥
ततो भवेज्जलौकाश्च सप्तजन्मस्वतः शुचिः

2.52.16

वाल्मीकिरुवाच ॥
यथा तरुषु वृक्षत्वं सर्वत्र न जहाति च ॥
तथा कृतघ्नता राजन्सर्वपापेषु वर्त्तते

2.52.17

मिथ्यासाक्ष्यं यो ददाति कामात्क्रोधात्तथा भयात् ॥
सभायां पाक्षिकं वक्ति स कृतघ्न इति स्मृतः

2.52.18

पुण्यमात्रं चापि राजन्यो हन्ति स कृतघ्नकः ॥
सर्वत्रापि च सर्वेषां पुण्यहानौ कृतघ्नता

2.52.19

मिथ्यासाक्ष्यं पाक्षिकं वा भारते वक्ति यो नृप ॥
यावदिन्द्रसहस्रं च सर्पकुण्डे वसेद्ध्रुवम्

2.52.2.52.20

सन्ततं वेष्टितः सर्पैर्भीतो वै भक्षितस्तथा ॥
भुङ्क्ते च सर्वविण्मूत्रं यमदूतेन ताडितः

2.52.21

कृकलासो भवेत्तत्र भारते सप्तजन्मसु ॥
सप्तजन्मसु मण्डूकः पितृभिः सप्तभिः सह

2.52.22

ततो भवेद्वै वृक्षश्च महारण्ये तु शाल्मलिः ॥
ततो भवेन्नरो मूकस्ततः शूद्रस्ततः शुचिः

2.52.23

आस्तीक उवाच ॥
गुर्वङ्गनानां गमने मातृगामी भवेन्नरः ॥
नराणां मातृगमने प्रायश्चित्तं न विद्यते

2.52.24

भारते च नृपश्रेष्ट यो दोषो मातृगामिनाम् ॥
ब्राह्मणीगमने चैव शूद्राणां तावदेव हि

2.52.25

ब्राह्मण्यास्तावदेव स्याद्दोषः शूद्रेण मैथुने ॥
कन्यानां पुत्रपत्नीनां श्वश्रूणां गमने तथा

2.52.26

सगर्भभ्रातृपत्नीना भगिनीनां तथैव च ॥
दोषं वक्ष्यामि राजेन्द्र यदाह कमलोद्भवः

2.52.27

यः करोति महापापी चैताभिः सह मैथुनम् ॥
जीवन्मृतो भवेत्सोऽपि चण्डालोऽस्पृश्य एव च

2.52.28

नाधिकारो भवेत्तस्य सूर्य्यमण्डलदर्शने ॥
शालग्रामं तज्जलं च तुलस्याश्च दलं जलम्

2.52.29

सर्वतीर्थजलं चैव विप्रपादोदकं तथा ॥
स्प्रष्टुं च नैव शक्नोति विट्तुल्यः पातकी नरः

2.52.2.52.30

दैवं गुरुं ब्राह्मणं च नमस्कर्तुं न चार्हति ॥
विष्ठाधिकं तदन्नं च जलं मूत्राधिकं तथा

2.52.31

देवताः पितरो विप्रा नैव गृह्णन्ति भारते ॥
भवेत्तदङ्गवातेन तीर्थमङ्गारवाहनम्

2.52.32

सप्तरात्रं ह्युपवसेद्दैवस्पर्शात्तथा द्विजः ॥
भारक्रान्ता च पृथिवी तद्भारं वोढुमक्षमा

2.52.33

तत्पापात्पतितो देशः कन्याविक्रयिणो यथा ॥
तत्स्पर्शाच्च तदालापाच्छयनाश्रयभोजनात्

2.52.34

नृणां च तत्समं पापं भवत्येव न संशयः ॥
कुम्भीपाके वसेत्सोऽपि यावद्वै ब्रह्मणः शतम्

2.52.35

दिवानिशं भ्रमेत्तत्र चक्रावर्त्तं निरन्तरम् ॥
दग्धो वाऽग्निशिखाभिश्च यमदूतैश्च ताडितः

2.52.36

एवं नित्यं महापापी भुङ्क्ते निरययातनाम् ॥
विष्ठाहारश्च सर्वत्र कुम्भीपाकेऽथ पातितः

2.52.37

गते प्राकृतिके घोरे महति प्रलये तथा ॥
पुनः सृष्टेः समारम्भे तद्विधो वा भवेत्पुनः

2.52.38

षष्टिवर्षसहस्राणि विष्ठायां च कृमिर्भवेत् ॥
ततो भवति चण्डालो भार्य्याहीनो नपुंसकः

2.52.39

सप्तजन्मसु शुद्धश्च गलत्कुष्ठी नपुंसकः ॥
ततो भवेद्ब्राह्मणश्चाप्यन्धः कुष्ठी नपुंसकः

2.52.2.52.40

लब्ध्वैवं सप्त जन्मानि महापापी भवेच्छुचिः

2.52.41

मुनय ऊचुः॥
इत्येवं कथितं सर्वमस्माभिर्वो यथागमम् ॥
एभिस्तुल्यो भवेद्दोषोऽप्यतिथीनां पराभवे

2.52.42

प्रणामं कुरु विप्रेन्द्रं गृहं प्रापय निश्चितम् ॥
संपूज्य ब्राह्मणं यत्नाद्गृहीत्वा ब्राह्मणाशिषम्

2.52.43

वनं गच्छ महाराज तपस्यां कुरु सत्वरम्॥
ब्रह्मशापैर्विनिर्मुक्तः पुनरेवागमिष्यसि

2.52.44

इत्युक्त्वा मुनयः सर्वे ययुस्तूर्णं स्वमन्दिरम्॥
सुराश्चापि च राजानो बन्धुवर्गाश्च पार्वति

2.52.52

इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादान्तर्गतहरगौरीसंवादे राधोपाख्याने सुयज्ञोपाख्याने कर्मविपाको नाम द्विपञ्चाशत्तमोऽध्यायः

मूल पाठ: brahmavaivartapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc