भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र2 (टीका सहित) · अध्याय 60

60.1

ओं ।
आवृत्तिरसकृदुपदेशात् ।
साधनं निरूप्य फलं निरूप्यत इत्यध्याययोर्हतुफलभावं संगतिमाह- तृतीय इति ।
फलप्रासङ्गेनोत्क्रान्तिरर्चिरादिमार्गश्च विचार्यत इत्याह- प्रसङ्गेति ।
पूर्वं साक्षादेव श्रुत्युक्तं संन्यासादि साधनं चिन्तितं, संप्रति फलार्थापत्तिगम्यमावृत्त्यादिकमद्याश्लेषाधिकरणात्प्राक् चिन्त्यते, तदारभ्य जीवन्मुक्तिस्ततो द्वितीयपादे उत्क्रान्तिस्तृतीये अर्चिरादिमार्गस्य गन्तव्यस्य च निर्णयश्चतुर्थे ज्ञानोपासनयोः फलनिर्णय इति पादार्थविवेकः ।
आद्याधिकरणस्य श्रवणादिसाधनं विषयमनूद्य द्वेधानुष्ठानदर्शनात्संशयमाह- आत्मा वा इति ।
श्रौतात्मधीसाधनफलविचारात्मकत्वात्सर्वाधिकरणानां श्रुतिशास्त्राध्यायसंगतय उक्ताः ।
तत्तत्पदार्थसंबन्धात्तत्तत्पादसङ्गतिः ।
मोक्षे विशेषाभाववच्छ्रवणादावावृत्तिविशेषो नास्तीति दृष्टान्तलक्षणावान्तरसंगत्या पूर्वपक्षमाह- किं तावदिति ।
अत्र पूर्व पक्षे श्रवणादेः प्रयाजवददृष्टार्थत्वात्सकृदनुष्ठानं फलं, सिद्धान्ते त्ववघातवद्दृष्टार्थत्वाद्यावत्फलमावृत्तिरिति भेदः ।
असकृदुपदेशान्यथानुपपत्त्या साधनावृत्तौ शास्त्रस्य तात्पर्यमिति शङ्कते- नन्वसकृदिति ।
श्रवणादीनां समुच्चयसिध्यर्थत्वेनासकृदुक्तेरन्यथोपपत्तेर्नावृत्तौ तात्पर्यमित्याह- एवमपीति ।
सगुणसाक्षात्कारसाधनेष्वप्यनावृत्तिमाह- सकृदिति ।
यद्यप्यसकृदुपदेश आवृत्तिसमुच्चययोरन्यतरसूचकत्वेनान्यथासिद्धः, तथापि दृष्टे संभवत्यदृष्टमात्रकल्पनानुपपत्तेः श्रवणादेरावृत्तिद्वारा साक्षात्कारफलस्य षड्जादौ दृष्टत्वादसकृदुक्तिरावृत्तिं सूचयति दृष्टार्थत्वादिति न्यायानुग्रहादित्याह- न दर्शनपर्यवसानत्वादिति ।
ध्यानस्य त्वावृत्तेर्वेदोपासीतेति शब्दे श्रुतत्वान्न केवलार्थिकत्वमित्याह- अपिचेति ।
अस्त्युपास्तिशब्दस्यावृत्तिवाचित्वं तथापि वेदेतिशब्दोक्तवेदनेष्वहङ्ग्रहेषु कथमावृत्तिसिद्धिरित्यत आह- विद्युपास्त्योश्चेति ।
शब्दयोरेकार्थत्वमुदाहरति- क्वचिदिति ।
स रैक्वो यद्वेद तत्प्राणतत्त्वं रैक्वादन्यो ऽपि यः कश्चिद्वेद तत्फले सर्वमन्तर्भवतीत्येतदुक्ते इत्थं मयोत्कृष्टत्वेन स रैक्व उक्त इति हंसं प्रति हंसान्तरवचनं, तच्छ्रुत्वा रैक्वं गत्वोवाच जानश्रुतिः, हे भगवः, एतां रैक्वविदितां देवतां मे ऽनुशाधि मह्यमुपदिशेत्यर्थः ।
एवं सगुणनिर्गुणसाक्षात्कारसाधनध्यानस्यावृत्तिः श्रौती चार्थसिद्धा च दृष्टार्थत्वात्, श्रवणमननयोस्त्वसकृदुपदेशादर्थसिद्धैवावृत्तिरिति विशेषः

60.2

एन्द् ब्स्चोम्_4,1.1.1
स्तर्त् ब्स्चोम्_4,1.1.2
लिङ्गाच् च । ब्ब्स्_4,1.2 ।
लिङ्गम् अपि प्रत्ययावृत्तिं प्रत्याययति ।
तथा हि उद्गीथविज्ञानं प्रस्तुत्य ऽआदित्य उद्गीथःऽ (छा. 1.5.1) इति एतत् एकपुत्रतादोषेण आपोद्य ऽरशमींस्तवं पर्यावर्तयात्ऽ (छा. 1.5.2) इति रश्मिबहुत्व विज्ञानं बहुपुत्रतायै विदधत् सिद्धवत् प्रत्ययावृत्तिं दर्शयति ।
तस्मात् तत् सामान्यात् सर्वप्रत्ययेषु आवृत्तिसिद्धिः ।
अत्र आह - भवतु नाम साध्यफलेषु प्रत्ययेषु आवृत्तिः ।
तेषु आवृत्तिसाद्यस्य अतिशयस्य संभवात् ।
यः तु परब्रह्मविषयः प्रत्ययो नित्य शुद्ध बुद्ध मुक्त स्वभावमेव आत्मभूतं परं ब्रह्म समर्पयति तत्र किम् अर्थावृत्तिः इति ।
सकृत् श्रुतौ च ब्रह्म आत्मत्वप्रतीति अनुपपत्तेः आवृत्ति अभ्युपगम इति चेत् ।
न ।
आवृत्तौ अपि तत् अनुपपत्तेः ।
यदि हि ऽतत्त्वमसिऽ (छा. 6.8.7) इति एवञ्जातीयकं वाक्यं सकृत् श्रूयमाणं ब्रह्मात्मत्व प्रतीतिं न उत्पादयेत् ततः तदेव आवर्त्यमानम् उत्पादयिष्यति इति का प्रत्याशा स्यात् ।
अथ उच्येत न केवलं वाक्यं कञ्चिदर्थं साक्षात्कर्तुं शक्नोति अतो युक्त्यपेक्षं वाक्यम् अनुभावयिष्यति ब्रह्मात्मत्वम् इति ।
तथा अपि आवृत्ति आनर्थक्यमेव ।
सा अपि हि युक्तिः सकृत् प्रवृत्तैव स्वम् अर्थम् अनुभावयिष्यति ।
अथापि स्यात् उक्त्या वाक्येन च सामान्यविषयमेव विज्ञानं क्रियते न विशेषविषयम् ।
यथा अस्ति मे हृदये शूलम् इत्यतो वाक्यात् गात्र कम्पादि लिङ्गात् च शूलसद्भाव सामान्यमेव परः प्रतिपद्यते न विशेषम् अनुभवति यथा स एव शूली ।
विशेष अनुभवः च अविद्याया निवर्तकः ततः तदर्थ आवृत्तिः इति चेत् ।
न ।
असकृत् अपि तावत् मात्रे क्रियमाणे विशेषविज्ञान उत्पत्ति असंभवात् ।
न हि सकृत् प्रयुक्ताभ्यां शास्त्रयुक्तिभ्याम् अनवगतो विशेषः शतकृत्वः अपि प्रयुज्यमानाभ्याम् अवगन्तुं शक्यते ।
तस्मात् यदि शास्त्रयुक्तिभ्यां विशेषः प्रतिपाद्यते यदि वा सामान्यमेव उभयथा अपि सकृत् प्रवृत्ते एव ते स्वकार्यं कुरुत इति आवृत्ति अनुपयोगः ।
न च सकृत् प्रयुक्ते शास्त्रयुक्ती कस्यचित् अपि अनुभवं न उत्पादयत इति शक्यते नियन्तुं विचित्रप्रज्ञत्वात् प्रतिपत्तृणाम् ।
अपि च अनेक अंशोपेते लौकिके पदार्थे सामान्य विशेषवत् एकेन अवधानेन एकम् अंशम् अवधारयति अपरेण अपरम् इति स्यात् अपि अभ्यास उपयोगो यथा दीर्घप्रपाठकग्रहणादिषु ।
न तु निर्विशेषे ब्रह्मणि सामान्य विशेषरहिते चैतन्यमात्रात्मके प्रमा उत्पत्तौ अभ्यासापेक्षा युक्त इति ।
अत्र उच्यते - भवेत् आवृत्ति आनर्थक्यं तं प्रति यः तत्त्वमसि इति सकृत् उक्तमेव ब्रह्मात्मत्वम् अनुभवितुं शक्नुयात् ।
यस्तु न शक्नोति तं प्रत्युपयुज्यत एव आवृत्तिः ।
तथा हि छान्दोग्ये ऽतत्त्वमसि श्वेतकेतोऽ (छा. 6.8.7) इति उदिश्य ऽभूय एव मा भगवान्विज्ञापयतुऽ (छा. 6.8.7) इति पुनः परिचोद्यमानः तत् तत्
आदाशङ्का कारणं निराकृत्य तत्त्वमसि इति एव असकृत् उपदिशते ।
तथा च ऽश्रोतव्यो मन्तव्यो निदिध्यासितव्यःऽ (बृ. 4.5.6) इत्यादि दर्शितम् ।
ननु उक्तं सकृत् श्रुतं चेत् तत्त्वमसि वाक्यं स्वम् अर्थम् अनुभावयितुं न शक्नोति तत आवर्त्यमानम् अपि न एव शक्ष्यति इति ।
न एष दोषः ।
नहि दृष्टे अनुपपन्नं नाम ।
दृश्यन्ते हि सकृत् श्रुतात् वाक्यात् मन्दप्रतीतं वाक्यार्थम् आवर्तयन्तः तत् तत् आभासव्युदासेन सम्यक् प्रतिपद्यमानाः ।
अपि च तत्त्वमसि इति एतत् वाक्यं त्वं पदार्थस्य तत् पदार्थभावम् आचष्टे ।
तत् पदेन च प्रकृतं सत् ब्रह्म ईक्षितृ जगतो जन्मादिकारणम् अभिधीयते ऽसत्यं ज्ञानमनन्त ब्रह्मऽ (तै. 2.1.1) ऽविज्ञानमानन्दं ब्रह्मऽ (बृ. 3.8.11) ऽअदृष्टं द्रष्टृऽ (बृ. 3.8.11) ऽअविज्ञातं विज्ञातृऽ (बृ. 3.8.11) ऽअजमजरममरम् अस्थूलमनण्वह्रस्वमदीर्घम्ऽ (बृ. 3.8.8) इत्यादि शास्त्र प्रसिद्धम् ।
तत्र अजादिशब्दैः जन्मादयो भावविकारा निवर्तिताः ।
अस्थूलादिशब्दैः च स्थौल्यादयो द्रव्यधर्माः ।
विज्ञानादिशब्दैः च चैतन्यप्रकाशात्मकत्वम् उक्तम् ।
एष व्यावृत्तसर्वसंसारधर्मकः ।
अनुभावात्मको ब्रह्मसंज्ञकः तत् पदार्थो वेदान्त अभियुक्तानां प्रसिद्धः ।
तथा त्वंपदार्थः अपि प्रत्यगात्मा श्रोता देहात् आरभ्य प्रत्यगात्मतया संभाव्यमानः चैतन्यपर्यन्तत्वेन अवधारितः ।
तत्र येषाम् एतौ पदार्थौ अज्ञान संशय विपर्यय प्रतिबद्धौ तेषां तत्वमसि इत्येतत् वाक्यं स्वार्थे प्रमां न उत्पादयितुं शक्नोति पदार्थज्ञानपूर्वकत्वात् वाक्यार्थस्य इति अतस्तात् प्रत्येष्टव्यः पदार्थविवेकप्रयोजनः शास्त्रयुक्त्यभ्यासः ।
यद्यपि च प्रतिपत्तव्य आत्मा निरंशः तथा अपि अध्यारोपितं तस्मिन् बहु अशत्वं देह इन्द्रिय मनो बुद्धि विषय वेदनादि लक्षणं तत्र एकेन अवधानेन एकम् अंशम् अपोहति अपरेण अपरम् इति युज्यते तत्र क्रमवती प्रतिपत्तिः ।
तत् तु पूर्वरूपमेव आत्मप्रतिपत्तेः ।
येषां पुनः निपुणमतीनां न अज्ञानसंशयविपर्ययलक्षणः पदार्थविषयः प्रतिबन्धः अस्ति ते शक्नुवन्ति सकृत् उक्तमेव तत्त्वमसि वाक्यार्थम् अनुभवितुम् इति तान् प्रत्यावृत्ति आनर्थक्यम् इष्टमेव ।
सकृत् उत्पन्न एव हि आत्मप्रतिपत्तिः अविद्यां निवर्तयति इति न अत्र कश्चित् अपि क्रमः अभ्युपगम्यते ।
सत्यमेवं युज्येत यदि कस्यचित् एवं प्रतिपत्तिः भवेत् ।
बलवती हि आत्मनो दुःखत्वादि प्रतिपत्तिः ।
अतो न दुःखित्वादि अभावं कश्चित् प्रतिपद्यत इति चेत् ।
न ।
देहादि अभिमानवत् दुःखित्वादि अभिमानस्य मिथ्या अभिमानत्व उपपत्तेः ।
प्रत्यक्षं हि देहे छिद्यमाने दह्यमाने वा अहं छिद्ये दह्य इति च मिथ्या अभिमानो दृष्टः ।
तथा बाह्यतरेषु अपि पुत्रमित्रादिषु संतप्यमानेषु अहमेव संतप्य इत्यदि आरोपो दृष्टः ।
तथा दुःखित्वादि अभिमानः अपि स्यात् ।
देहादिवत् एव चैतन्यात् बहिः उपलभमानत्वात् दुःखित्वादीनां सुषुप्तादिषु च अननुवृत्तेः ।
चैतन्यस्य तु सुषुप्ते अपि अनुवृत्तिम् आमनन्ति ऽयद्वै तन्न पश्यति पश्यन्वै तन्न पश्यतिऽ (बृ. 4.3.23) इत्यादिना ।
तस्मात् सर्वदुःखविनिर्मुक्त एकचैतन्यात्मकः अहम् इत्येष आत्मानुभवः ।
न च एवम् आत्मानम् अनुभवतः किञ्चित् अन्यत् कृत्यम् अवशिष्यते ।
तथा च श्रुतिः - ऽकिं प्रजया करिष्यामो येषां नो ऽयमात्मायं लोकःऽ (बृ. 4.4.22) इति आत्मविदः कर्तव्य अभावं दर्शयति ।
स्मृतिः अपि - ऽयस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च संतुष्टस्य कार्यं न विद्यतेऽ (गी. 3.17) इति ।
यस्य तु न एषः अनुभवो द्रागिव जायते तं प्रत्यनुभवार्थ एव आवृत्ति अभ्युपगमः ।
तत्र अपि न तत्त्वमसि वाक्यार्थात् प्रच्याव्यावृत्तौ प्रवर्तयेत् ।
न हि वरघाताय कन्याम् उद्वाहयन्ति ।
नियुक्तस्य च अस्मिन् अधिकृतः अहं कर्ता मया इदं मन्दम् अप्रतिभानात् तं ब्रह्मप्रत्ययात् विपरीतप्रत्यय उत्पद्यते ।

यः तु स्वयमेव मन्दमतिः अप्रतिभानात् तं वाक्यार्थं जिहासेत् तस्य एतस्मिन् एव वाक्यार्थे स्थिरीकार आवृत्त्यादि वाचो युक्त्या अभ्युपेयते ।
तस्मात् परब्रह्मविषये अपि प्रत्यये तत् उपाय उपदेशेषु आवृत्तिसिद्धिः

मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc