ब्रह्मसूत्र2 (टीका सहित) · अध्याय 56
कर्माङ्गविद्याप्रसङ्गाद्ब्रह्मज्ञानस्य कर्माङ्गत्वमाशङ्क्याह- पुरुषार्थो ऽतः शब्दादिति बादरायणः ।
पूर्वपादे परापरविद्यानां गुणोपसंहारोक्त्या स्वरूपं निश्चितमस्मिन्पादे तासां कर्मानङ्गतया पुरुषार्थहेतुत्वं निरूप्यते ।
ततो ऽङ्गाकाङ्क्षायां यज्ञादीनि बहिरङ्गानि शमाद्दीन्यन्तरङ्गानि च निरूप्यन्त इत्येकविद्याविषयत्वं पादयोः संगतिः तत्रादौ तत्त्वज्ञानं विषयीकृत्य वादिविप्रतिपत्त्या संशयमाह- अथेति ।
पूर्वपक्षे ज्ञानकर्मणोरङ्गाङ्गित्वेन समुच्चयः ।
सिद्धान्ते केवलज्ञानान्मुक्तिरिति फलभेदः ।
ऽय आत्मेतिऽप्रजापत्युक्तब्रह्मविद्यायां लोकादिकं सगुणविद्याफलं मोक्षानन्दे ऽन्तर्भावाभिप्रायेणोक्तमिति मन्तव्यम्
एन्द् ब्स्चोम्_3,4.1.1
स्तर्त् ब्स्चोम्_3,4.1.2
अथात्र प्रत्यवतिष्ठते -
शेषत्वात्पुरुषार्थवादो यथान्येष्व् इति जैमिनिः । ब्ब्स्_3,4.2 ।
कर्तृत्वमात्मनः कर्मशेषत्वात्तद्विज्ञानमपि व्रीहिप्रोक्षणादिवद्विषयद्वारेण कर्मसंबन्ध्येवेत्यतस्तस्मिन्नवगतप्रयोजन आत्मज्ञाने या फलश्रुतिः सार्थवाद इति जैमिनिराचार्यो मन्यते यथान्येषु द्रव्यसंस्कारकर्मसु ऽयस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति ।
यदङ् के चक्षुरेव भ्रातृव्यस्य वृङ् क्ते ।
यत्प्रयाजानुयाजा इज्यन्ते वर्म वा एतद्यज्ञस्य क्रियते कर्म यजमानस्य भ्रातृव्याभिभूत्यैऽ इत्येवञ्जातीयका फलश्रुतिरर्थवादः ।
तद्वत् ।
कथं पुनरस्यानरभ्याधीतस्यात्मज्ञानस्य प्रकरणादीनामन्यतमेनापि हेतुना विना क्रतुप्रवेश आशङ्क्यते ।
कर्तृद्वारेण वाक्यात्तद्विज्ञानस्य क्रतुसंबन्ध इति चेत् ।
न ।
वाक्यात्तद्विनियोगानुपपत्तेः ।
अव्यभिचारिणा हि केनचिद्द्वारेणानारभ्याधीतानामपि वाक्यनिमित्तः क्रतुसंबन्धो ऽवकल्पते ।
कर्ता तु व्यभिचारि द्वारं लोकिकवैदिककर्मसाधारण्यात् ।
तस्मान्न तद्द्वारेणात्मज्ञानस्य क्रतुसंबन्धसिद्धिरिति ।
न ।
व्यतिरेकविज्ञानस्य वैदिकेभ्यः कर्मभ्यो ऽन्यत्रानुपयोगात् ।
नहि देहव्यतिरिक्तात्मज्ञानं लोकिकेषु कर्मसूपयुज्यते ।
सर्वथा दृष्टार्थप्रवृत्त्युपपत्तेः ।
वैदिकेषु तु देहपातोत्तरकालफलेषु देहव्यतिरिक्तात्मज्ञानमन्तरेण प्रवृत्तिर्नोपपद्यत इत्युपयुज्यते व्यतिरेकविज्ञानम् ।
नन्वपहतपाप्मत्वादिविशेषणादसंसार्यात्मविषयमौपनिषदं दर्शनं न प्रवृत्त्यङ्गं स्यात् ।
न ।
प्रियादिसंसूचितस्य संसारिण एवात्मनो द्रष्टव्यत्वेनोपदेशात् ।
अपहतपाप्मत्वादि विशेषणं तु स्तुत्यर्थं भविष्यति ।
ननु तत्र तत्र प्रसीधितमेतदधिकमसंसारि ब्रह्म जगत्कारणं तदेव च संसारिण आत्मनः पारमार्थिकं स्वरूपमुपनिषत्सूपदिश्यत इति ।
सत्यं प्रसादितं तस्यैव तु स्थूणानिखननवत्फलद्वारेणाक्षेपसमाधाने क्रियेते दार्ढ्याय
मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0