भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्मसूत्र2 (टीका सहित) · अध्याय 55

55.1

॥ इति तृतीयाध्यायस्य परापरब्रह्मविद्यागुणोपसंहाराख्यस्तृतीयः पादः ॥
एन्द् ब्स्चोम्_3,3.36.66
तृतीयाध्याये चतुर्थः पादः ।
अत्र निर्गुणविद्याया अन्तरङ्गबहिरङ्गसाधनविचारः
तृतीयाध्याये चतुर्थः पादः ।
स्तर्त् ब्स्चोम्_3,4.1.1
1 पुरुषार्थाधिकरणम् । सू. 1-17
पुरुषार्थो ऽतः शब्दाद् इति बादरायणः । ब्ब्स्_3,4.1 ।
अथेदानीमौपनिषदमात्मज्ञानं किमधिकारिद्वारेण कर्मण्येवानुप्रविशत्याहोस्वित्स्वतन्त्रमेव पुरुषार्थसाधनं भवतीति मीमांसमानः सिद्धान्तेनैव तादुपक्रमते पुरुषार्थो ऽत इति ।
अस्मद्वेदान्तविहितादात्मज्ञानात्स्वतनत्रात्पुरुषार्थः सिद्द्यतीति बादरायण आचार्यो मन्यते ।
कुत एतदवगम्यते शब्दादित्याह ।
तथाहि - ऽतरति शोकमात्मवित्ऽ (छा. 7.1.3) ऽस यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवतिऽ (मु. 3.2.9) ऽब्रह्मविदाप्नोति परम्ऽ (तै. 2.1.1) ऽआचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्नविमोक्ष्ये ऽथ संपत्स्येऽ (छा ।
6.14.2) इति ।
ऽय आत्मापहतपाप्माऽ (छा. 8.7.1) इत्युपक्रम्य ऽसर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानाति (छा. 8.7.1) इति ।
ऽआत्मा वा अरे द्रष्टव्यःऽ (बृ. 4.5.6) इत्युपक्रम्य ऽएतावदरे खल्वमृतत्वम्ऽ (बृ. 4.5.15) इत्येवञ्जातीयका श्रुतिः केवलाया विद्यायाः पुरुषार्थहेतुत्वं श्रावयति

मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc