ब्रह्मसूत्र2 (टीका सहित) · अध्याय 57
एवं सिद्धान्तमुपक्रम्य पूर्वपक्षयति- शेषत्वादिति ।
सूत्रेर्ऽथवादपदमावर्तनीयम् ।
ज्ञानात्पुरुषार्थवादोर्ऽथवाद इत्यर्थः ।
ज्ञानं कर्माङ्गम्, अफलत्वे सति कर्मेशेषाश्रयत्वात्प्रोक्षणपर्णमयीत्वादिवदिति भावः ।
तत्त्वनिर्णयार्थं गुरुशिष्ययोः कथावादो ऽयमिति ज्ञापनार्थं जैमिनिग्रहणम् ।
अङ्गिफलेनाङ्गभूत आत्मावगतप्रयोजनस्तदाश्रये तत्संस्कारे ज्ञाने फलश्रुतिरर्थवाद इत्यत्र दृष्टान्तः- यथेति ।
पर्णमयी द्रव्यं, यजमानस्याञ्जनं संस्कारः, प्रयाजादीनि कर्माणि तेष्वित्यर्थः ।
वर्म कवचम् ।
आत्मज्ञानं न कर्माङ्गं मानाभावादिति सिद्धान्ती शङ्कते- कथमिति ।
पूर्वपक्ष्याह- कर्त्रिति ।
युक्तो ह्यनारभ्याधीतायाः पर्णताया जुहूद्वारेण वाक्यात्क्रत्वङ्गभावो जुह्वाः क्रतुव्याप्यतया क्रतूपस्थापकत्वात्, न तथात्मविज्ञानस्य ऽआत्मा द्रष्टव्यःऽइति वाक्यात्क्रतुसंबन्ध उपपद्यते, आत्मनः क्रतुव्याप्त्यभावादिति सिद्धान्ती दूषयति- नेति ।
देहभिन्नत्वेन ज्ञातात्मनः क्रतुव्याप्यत्वमस्तीति पूर्वपक्षी समाधत्ते- न व्यतिरेकेति ।
सर्वथेति ।
देहात्मत्वेनापीत्यर्थः ।
देहभिन्नकर्तृज्ञानस्याङ्गत्वे ऽप्यकर्तृब्रह्मात्मज्ञानस्य नाङ्गत्वमिति शङ्कते- नन्वपहतेति ।
यस्यार्थे जायादिकं प्रियं भोग्यं स आत्मा द्रष्टव्य इति भोग्यलिङ्गेन सूचितभोक्तृभिन्नमकर्तृस्वरूपं नास्तीति समाध्यर्थः ।
जन्मादिसूत्रमारभ्य साधितं स्वरूपं कथं नास्तीति शङ्कते- नन्विति ।
स्वरूपज्ञानं वेदान्तानां फलं, तस्य क्रत्वर्थत्वपुरुषार्थत्वविचारेण दार्ढ्यं क्रियत इत्याह- सत्यमिति
एन्द् ब्स्चोम्_3,4.1.2
स्तर्त् ब्स्चोम्_3,4.1.3
आचारदर्शनात् । ब्ब्स्_3,4.3 ।
ऽजनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजेऽ (बृ. 3.1.1) ऽयक्ष्यमाणो वै भगवन्तो ऽहमस्मिऽ (छा. 5.11.5) इत्येवमादीनि ब्रह्मविदामप्यन्यपरेषु वाक्येषु कर्मसंबन्धदर्शनानि भवन्ति ।
तथोद्दालकादीनामपि पुत्रानुशासनादिदर्शनाद्गार्हस्थ्यसंबन्धो ऽवगम्यते ।
केवलाच्चेज्ज्ञानात्पुरुषार्थसिद्धिः स्यात्किमर्थमनेकायाससमन्वितानि कर्माणि ते कुर्युः ऽअर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्ऽ इति न्यायात्
ब्रह्मविदां कर्माचारदर्शनं ब्रह्मविद्यायाः कर्माङ्गत्वे लिङ्गमित्याह- आचारेति ।
ईजे यागं कृतवानित्यर्थः ।
हे भगवन्त इति ब्राह्मणान्संबोध्य ब्रह्मवित्कैकेयराजो ब्रूते अहं यक्ष्यमाणो यागं करिष्यमाणो ऽस्मि वसन्त्वत्र भगवन्त इत्यर्थः ।
अन्यपरेष्विति विद्याविधिपरेष्वित्यर्थः ।
अल्पायासं मुक्तेरूपायं ज्ञानं लब्ध्वा बह्वायासं कर्म न कुर्युरित्यत्र दृष्टान्तमाह- अक्व इति ।
समीप इत्यर्थः ॥
अर्क इति पाठे ऽप्ययमेवार्थः
एन्द् ब्स्चोम्_3,4.1.3
स्तर्त् ब्स्चोम्_3,4.1.4
तच्छ्रुतेः । ब्ब्स्_3,4.4 ।
ऽयदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतिऽ (छा. 1.1.10) इति च कर्मशेषत्वश्रवणाद्विद्याया न केवलायाः पुरुषार्थहेतुत्म्
ब्रह्मविद्यायाः कर्माङ्गत्वे तृतीया श्रुतिरप्यस्तीत्याह- तच्छ्रुतेरिति
एन्द् ब्स्चोम्_3,4.1.4
स्तर्त् ब्स्चोम्_3,4.1.5
समन्वारम्भणात् । ब्ब्स्_3,4.5 ।
ऽतं विद्याकर्मणी समन्वारभेतेऽ (बृ. 4.4.2) इति च विद्याकर्मणोः फलारम्भे सहकारित्वदर्शनान्न स्वातन्त्र्यं विद्यायाः
लिङ्गान्तरमाह- समिति ।
तं परलोकं गच्छन्तं विद्याकर्मणी अनुगच्छत इत्यर्थः
एन्द् ब्स्चोम्_3,4.1.5
स्तर्त् ब्स्चोम्_3,4.1.6
तद्वतो विधानात् । ब्ब्स्_3,4.6 ।
ऽआचार्यकुलाद्वेदमधीत्य यथाविदानं गुरोः कर्मातिशेषेणाभिसमावृत्त्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानःऽ (छा. 8.15.1) इति चैवञ्जातीयका श्रुतिः समस्तवेदार्थविज्ञानवतः कर्माधिकारं दर्शयति तस्मादपि न विज्ञानस्य स्वातन्त्र्येण फलहेतुत्वम् ।
नन्वत्राधीत्येत्यध्ययनमात्रं वेदस्य श्रूयते नार्थविज्ञानम् ।
नैष दोषः ।
दृष्टार्थत्वाद्वेदाध्ययनमर्थावबोधपर्यन्तमितिस्थितम्
गुरोः शुश्रूषारूपं कर्म कुर्वन्नतिशेषेणावशिष्टेन कालेन यथाविधानं वेदमधीत्यानन्तरमाचार्यस्य कुलाद्गृहात् ।
ब्रह्मचर्यादिति यावत् ।
अभिसमावर्तनं कृत्वा कुटुम्बे गार्हस्थ्ये स्थितः प्रत्यहं शुचौ देशे स्वाध्यायाध्ययनं कुर्वन्नन्यांश्च नित्यादिधर्माननुतिष्ठन्ब्रह्मलोकं प्राप्नोतीति श्रुत्यर्थः ।
यथावघातस्तुषविमोकपर्यन्त एवमध्ययनमर्थावबोधान्तम् ।
दृष्टेर्ऽथावबोधाख्ये फले संभवति अध्ययनस्यादृष्टार्थत्वायोगादिति पूर्वतन्त्रे स्थितम् ।
ततश्च ब्रह्मापि वेदार्थ इति तदवबेधवतः कर्मविधानमित्यर्थः
एन्द् ब्स्चोम्_3,4.1.6
स्तर्त् ब्स्चोम्_3,4.1.7
नियमाच् च । ब्ब्स्_3,4.7 ।
ऽकुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ।
एवं त्वयि नान्यथेतो ऽस्ति न कर्म लिप्यते नरेऽ (ईश. 2) इति ।
तथा ऽएतद्वै जरामर्यं सत्रं यदग्निहोत्रं जरया वा ह्येवास्मान्मुच्यते मृत्युना वाऽ इत्येवञ्जातीयकान्नियमादपि कर्मशेषत्वमेव विध्यया इति
यावज्जीवं कर्मनियमो ऽप्यत्र लिङ्गमित्याह- नियमाच्चेति ।
इह देहे कर्माणि कुर्वन्नेव शतं संवत्सराञ्जीवितुमिच्छेदेवं कर्मित्वेन जीवति त्वयि नरे कर्म पापं न लिप्यते ।
इतः कर्मणो ऽन्यथा नास्ति ।
कर्म विना श्रेयो नास्तीत्यर्थः ।
जरामर्यं जरामरणावधिकमित्यर्थः
एन्द् ब्स्चोम्_3,4.1.7
स्तर्त् ब्स्चोम्_3,4.1.8
एवं प्राप्ते प्रतिविधत्ते -
अधिकोपदेशात् तु बादरायणस्यैवं तद्दर्शनात् । ब्ब्स्_3,4.8 ।
तुशब्दात्पक्षो विपरिवर्तते ।
यदुक्तम् - ऽशेषत्वात्पुरुषार्थवादःऽ (ब्र. सू. 3.4.2) इति तन्नोपपद्यते ।
कस्मात् ।
अधिकोपदेशात् ।
यदि संसार्येवात्मा शारीरः कर्ता भोक्ता च शरीरमात्रव्यतिरेकेण वेदान्तेषूपदिष्टः स्यात्ततो वर्णितेन प्रकारेण फलश्रुतेरर्थवादत्वं स्यात् ।
अधिकस्तावच्छरीरादात्मनो ऽसंसारीश्वरः कर्तृत्वादिसंसारिधर्मरहितो ऽपहतपाप्मत्वादिविशेषणः परमात्मा वेद्यत्वेनोपदिश्यते वेदान्तेषु ।
नच तद्विज्ञानं कर्मणां प्रवर्तकं भवति प्रत्युत कर्माण्युच्छिनत्तीति वक्ष्यति ऽउपमर्दं चऽ (ब्र.सू. 3.4.16) इत्यत्र ।
तस्मात् ऽपुरुषार्थो ऽतः शब्दात्ऽ (ब्र.सू. 3.4.1) इति यन्मतं भगवतो बादरायणस्य तत्तथैव तिष्ठति न शेषत्वप्रभृतिभिर्हेत्वाभासैश्चालयितुं शक्यते ।
तथाहि तमधिकं शारीरादीश्वरमात्मानं दर्शयन्ति श्रुतयः - ऽयः सर्वज्ञः सर्ववित्ऽ (मुण्ड. 1.19) ऽभीषास्माद्वातः पवतेऽ (तै. 2.8.1) ऽमहद्भयं वज्रमुद्यतम्ऽ (कठ. 6.2) ऽएतस्य वा अक्षरस्य प्रशासने गार्गिऽ (बृ. 3.8.9) ऽतदैक्षत बहु स्यां प्रजायेयेति तत्तेजो ऽसृजतऽ (छा. 6.2.3) इत्येवमाद्याः ।
यत्तु प्रियादिसंसूचितस्य संसारिण एवात्मनो वेद्यतयानुकर्षणम् ऽआत्मनस्तु कामाय सर्वं प्रियं भवति ।
आत्मा वा अरे द्रष्टव्यःऽ (बृ. 2.4.5) ऽयः प्राणेन प्राणिति स त आत्मा सर्वान्तरःऽ (बृ. 3.4.1) ऽय एषो ऽक्षीणि पुरुषो दृश्यतेऽ (छा. 8.7.4) इत्युपक्रम्य ऽएतं त्वेव ते भूयो ऽनुव्याख्यस्यामिऽ (छा. 8.9.3) इति चैवमादि तदपि ऽअस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदःऽ (बृ. 2.4.10) ऽयो ऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येतिऽ (बृ. 3.5.1) ऽपरं ज्योतिरुपसंपद्य स्वेनरूपेणाभिनिष्पद्यते स उत्तमः पुरुषःऽ (छा. 8.12.3) इत्येवमादिभिर्वाक्यशेषैः सत्यामेवाधिकोपदिदिक्षायामत्यन्ताभेदाभिप्रायमित्यविरोधः ।
पारमेश्वरमेव हि शारीरस्य पारमार्थिकं स्वरूपम् ।
उपाधिकृतं तु शारीरत्वम् ऽतत्वमसिऽ (छा. 6.8.7) ऽनान्योदतो ऽस्ति द्रष्टृऽ (बृ. 3.8.11) इत्यादिश्रुतिभ्यः ।
सर्वं चातद्विस्तरेणास्माभिः पुरस्तात्तत्र तत्र वर्णितम्
कर्तुरधिकस्यासंसार्यात्मनः कर्मशेषत्वाभावात्तत्त्वज्ञानं कर्माङ्गं नेति सिद्धान्तयति- अधिकेति ।
अस्य महत इति वाक्यशेषात्प्रियसंसूचित आत्मा पर एव द्रष्टव्यः ।
यः प्राणादि प्रेरयति सो ऽप्यशनायाद्यत्ययवाक्यशेषात्पर एव ।
तथाक्षिपुरुषो ऽप्यवस्थासाक्षि परञ्ज्योतिरिति वाक्यशेषात्पर इति विभागः जीवानुकर्षणमभेदाभिप्रायमित्यङ्गीकारे न विरोध इति कथम्, अभेदे जीवत्वविरोधादित्यत आह- पारमेश्वरमिति ।
ज्ञानं कर्माङ्गमफलत्वे सति कर्मशेषाश्रयत्वादित्युक्तो हेतुरसिद्ध इति भावः
एन्द् ब्स्चोम्_3,4.1.8
स्तर्त् ब्स्चोम्_3,4.1.9-10
तुल्यं तु दर्शनम् । ब्ब्स्_3,4.9 ।
यत्तूक्तमाचारदर्शनात्कर्मशेषो विद्येति ।
अत्र ब्रूमः - तुल्यामाचारदर्शनमक्मशेषित्वे ऽपि विद्यायाः ।
तथाहि श्रुतिर्भवति - ऽएतद्वा स्म वै तद्विद्वांस आहुरृषयः कावषेयाः किमर्था वयमध्येष्यामहे किमर्थावयं यक्ष्यामहे ।
एतद्ध स्म वै तत्पूर्वे विद्वांसो ऽग्निहोत्रं न जुहवाञ्चक्रिरेऽ ऽएतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणयाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्तिऽ (बृ. 3.5.1) इत्येवजातीयका ।
याज्ञवल्क्यादीनामपि ब्रह्मविदामर्मनिष्ठत्वं दृश्यते - ऽएतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो विजहारऽ (बृ. 4.5.15) इत्यादिश्रुतिभ्यः ।
अपिच यक्ष्यमाणो वै भगवन्तो ऽहमसमि (छा. 5.11.5) इत्येतल्लिङ्गदर्शनं वैश्वानरविद्याविषयम् ।
संभवति च सोपाधिकायां ब्रह्मविद्यायां कर्मसाहित्यदर्शनम् ।
नत्वत्रापि कर्माङ्गत्वमस्ति ।
प्रकरणाद्यभावात्
यत्पुनरुक्तम् - ऽतच्छ्रुतेःऽ (ब्र.सू. 3.4.4) इति अत्र ब्रूमः -
असार्वत्रिकी । ब्ब्स्_3,4.10 ।
ऽयदेव विद्यया करोतिऽ (छा. 1.1.10) इत्येषा श्रुतिर्न सर्वविद्याविषया ।
प्रकृतविद्याभिसंबन्धात् ।
प्रकृता चोद्गीथविद्या ऽओमित्येतदक्षरमुद्गीथमुपासीतऽ (छा. 1.1.1) इत्यत्र
ब्रह्मविदां कर्मवत्संन्यासस्यापि दर्शनात्तेषां कर्मदर्शनात्मकं लिङ्गं लोकसंग्रहार्थत्वेनान्यथासिद्धमित्याह- तुल्यं त्विति ।
किञ्च यस्य कर्म स न ब्रह्मविदित्याह- अपिचेति ।
तर्हि वैश्वानरविद्यायाः कर्माङ्गत्वं स्यादित्यत आह- नत्विति ।
ब्रह्मविदां लोकसंग्रहार्थं क्रियमाणमपि कर्म न भवति अभिमानाभावेनानधिकारित्वादिति भावः
एन्द् ब्स्चोम्_3,4.1.9-10
स्तर्त् ब्स्चोम्_3,4.1.11
विभागः शतवत् । ब्ब्स्_3,4.11 ।
यदप्युक्तम् - ऽतं विद्याकर्मणी समन्वारभेतेऽ (बृ. 4.4.2) इत्येतत्समान्वारम्भवचनमस्वतन्त्र्ये विद्याया लिङ्गमिति तत्प्रत्युच्यते ।
विभागो ऽत्र द्रष्टव्यो विद्यान्यं पुरुषमन्वारभते कर्मान्यमिति ।
शतवत् ।
यथा शतमाभ्यां दीयतामित्युक्ते विभज्य दीयते पञ्चाशदेकस्मै पञ्चाशदपरस्मै तद्वत् ।
नचेदं समन्वारमभवचनं मुमुक्षुविषयम् ऽइति नु कामयमानःऽ (बृ. 4.4.6) इति संसारिविषयत्वोपसंहारात् ।
ऽअथाकामयमानःऽ (बृ. 4.4.6) इति च मुमुक्षोः पृथगुपक्रमात् ।
तत्र संसारिविषये विद्या विहिता प्रतिषिद्धा च परिगृह्यते विशेषाभावात् ।
करमापि विहितं प्रतिषिद्धं च यथाप्राप्तानुवादित्वात् ।
एवं सत्यविभागेनापीदं समन्वारम्भवचनमवकल्पते
समन्वारम्भवचनस्य मुमुक्षुविषयत्वमङ्गीकृत्य विद्या अन्यं मुमुक्षुं मुक्तत्वेनान्वारभत इति विभाग उक्तः सूत्रकृताः वस्तुतस्तु तन्नास्तीत्याह- नचेदं समन्वारम्भवचनमिति ।
तत्र संसारिविषये तं विद्येत्यादिवाक्ये यथाप्राप्तानुवादिनि विद्यादिपदार्थमाह- तत्रेति ।
विहितोद्गीथादिविद्या प्रतिषिद्धा नग्निस्त्रीध्यानादिरूपा
एन्द् ब्स्चोम्_3,4.1.11
स्तर्त् ब्स्चोम्_3,4.1.12-13
यच्चैतत् ऽतद्वतो विधानात्ऽ (ब्र. सू. 3.4.6) इत्यत उत्तरं पठति -
अध्ययनमात्रवतः । ब्ब्स्_3,4.12 ।
ऽआचार्यकुलाद्वेदमधीत्यऽ (छा. 8.15.1) इत्यध्ययनमात्रस्य श्रवणादध्ययनमात्रवत एव कर्मविधिरित्यध्यवस्यामः ।
नन्वेवं सत्याविद्यत्वानधिकारः कर्मसु प्रज्येत ।
नैष दोषः ।
न वयमध्ययनप्रभवं कर्मावबोधनमधिकारकारणं वारयामः किं तर्ह्येनिषदमात्मज्ञानं स्वातन्त्र्येणैव प्रयोजनवत्प्रतीयमानं न कर्माधिकारकारणतां प्रतिपद्यत इत्येतावत्प्रतिपादयामः ।
यथाच न क्रत्वन्तरज्ञानं क्रत्वन्तराधिकारेणापेक्ष्यत एवमेतदपि द्रष्टव्यमिति
यदप्युक्तं नियमच्च (ब्र. सू. 3.4.7) इत्यत्राभिधीयते -
नाविशेषात् । ब्ब्स्_3,4.13 ।
ऽकुर्वन्नेवेह कर्माणि जिजीविषेत्ऽ (ईशा. 2) इत्येलमादिषु नियमश्रवणेषु न विदुष इति विशेषो ऽस्ति ।
अविशेषेण नियमविधानात्
यच्चैतदिति ।
उक्तमिति शेषः अविद्यत्वाद्वेदार्थज्ञानशून्यत्वादित्यर्थः ।
मात्रपदमात्मज्ञानस्य व्यावर्तकं न कर्मज्ञानस्येत्याह- नैष दोष इति
एन्द् ब्स्चोम्_3,4.1.12-13
स्तर्त् ब्स्चोम्_3,4.1.14
स्तुतये ऽनुमतिर्वा । ब्ब्स्_3,4.14 ।
ऽकुर्वन्नेवेह कर्माणिऽ (ईशा. 2) इत्यत्रापरो विशेष आख्यायते यद्यप्यत्र प्रकरणसामर्थ्याद्विद्वानेव कुर्वन्निति संबध्यते तथापि विद्यास्तुतये कर्मानुज्ञानमेतद्द्रष्टव्यम् ।
ऽन कर्म लिप्यते नरेऽ (ईशा. 2) इति हि वक्ष्यति ।
एतदुक्तं भवति ।
यावज्जीवं कर्म कुर्वत्यपि विदुषि पुरुषे हि वक्ष्यति ।
एतदुक्तं भवति ।
यावज्जीवं कर्म कुर्वत्यपि विदुषुपुरुषे न कर्म लेपाय भवति विद्यासामर्थ्यादिति तदेवं विद्या स्तूयते
नियमवाक्यमज्ञविषयमित्युक्तं विदुषो ज्ञानस्तुत्यर्थं वेत्याह- स्तुतय इति ।
एवं कर्म कुर्वित्यपि त्वयि नरे नेतो विद्यालब्धाद्ब्रह्मभावादन्यथास्ति कर्मणा संसारो नास्तीति यावत् ।
यतः कर्म न लिप्यते ।
अपूर्वरूपलेपाय न भवतीत्यर्थः श्रुतेरिति भावः
एन्द् ब्स्चोम्_3,4.1.14
स्तर्त् ब्स्चोम्_3,4.1.15
कामकारेण चैके । ब्ब्स्_3,4.15 ।
अपिचैके विद्वांसः प्रत्यक्षीकृतविद्याफलाः सन्तस्तदवष्टभ्यात्फलान्तरसाधनेषु प्रजादिषु प्रयोजनाभावं परामृशन्ति ।
कामकारेणेति श्रुतिर्भवति वाजसनेयिनाम् ऽएतद्ध स्म वै तत्पूर्वे विद्वांसः प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नो ऽयमात्मायं लोकःऽ (बृ. 4.4.22) इति अनुभवारूढमेव च विद्याफलं न क्रियाफलवत्कालान्तरभावीत्यसकृदवोचाम ।
अतो ऽपि न विद्यायाः कर्मशेषत्वं नापि तद्विषयायाः फलश्रुतेरयथार्थत्वं शक्यमाश्रयितुम्
स्वेच्छातः कर्मसाधनप्रजादित्यालिङ्गाच्च विद्या स्वतन्त्रफलेत्याह- कामेति ।
तदेतद्ब्रह्म येषां नो ऽस्माकं अयमपरोक्ष आत्मा अयमेव लोकः पुरुषार्थस्ते वयं किं प्रजादिना करिष्याम इत्यालोच्य कर्म त्यक्तवन्त इत्यर्थः ।
नन्वयं लोक इति ज्ञानफलस्य प्रत्यक्षत्वोक्तिरयुक्ता कर्मफलवददृष्टत्वादित्यत आह- अनुभवेति
एन्द् ब्स्चोम्_3,4.1.15
स्तर्त् ब्स्चोम्_3,4.1.16
उपमर्दं च । ब्ब्स्_3,4.16 ।
अपिच कर्माकारहेतोः क्रियाकारकफललक्षणस्य समस्तस्य प्रपञ्चस्याविद्याकृतस्य विद्यासामर्थ्यात्स्वरूपोपमर्दमामनन्ति - ऽयत्र वा अस्य सर्वमात्मत्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत्ऽ (बृ. 2.4.14) इत्यादिना ।
वेदान्तोदितात्मज्ञानपूर्विकां तु कर्माधिकारसिद्धिं प्रत्याशासनस्य कर्माधिकारोच्छित्तिरेव प्रसज्येत ।
तस्मादपि स्वातन्त्र्यं विद्यायाः
न केवलमनुपयोगाज्ज्ञानस्य कर्मानङ्गत्वं किन्तु कर्मनाशकत्वाच्चेत्याह- उपमर्दं चेति
एन्द् ब्स्चोम्_3,4.1.16
स्तर्त् ब्स्चोम्_3,4.1.17
ऊर्ध्वरेतस्सु च शब्दे हि । ब्ब्स्_3,4.17 ।
ऊर्ध्वरेतःसु चाश्रमेषु विद्या श्रूयते ।
नच तत्र कर्माङ्गत्वं विद्याया उपपद्यते ।
कर्माभावात् ।
नह्यग्निहोत्रादीनि वैदिकानि कर्माणि तेषां सन्ति ।
स्यादेतत् ।
ऊर्ध्वरेतस आश्रमा न श्रूयन्ते वेद इति तदपि नास्ति ।
ते ऽपि हि वैदिकेषु शब्देष्ववगम्यन्ते ऽत्रयो धर्मस्कन्धाःऽ (छा. 2.23.1) ऽये चेमे ऽरण्ये श्रद्धा तप इत्युपासतेऽ (छा. 5.10.1) ऽतपःश्रद्धे यो ह्युपवसन्त्यरण्येऽ (मु. 1.2.11) ऽएतमेव प्रवाजिनो लोकमिच्छन्तः प्रवजन्तिऽ (बृ. 4.4.22) ऽब्रह्मचर्यादेव प्रव्रजेत्ऽ (जा. 4) इत्येवमादिषु ।
प्रतिपन्नाप्रतिपन्नगार्हस्थ्यानामपाकृतानापाकृतर्णत्रयाणां चोर्ध्वरेतस्त्वं श्रुतिस्मृतिप्रसिद्धम् ।
तस्मादपि स्वातन्त्र्यं विद्यायाः
किञ्च कर्मतत्त्वज्ञाने नाङ्गाङ्गिभूते भिन्नाधिकारिस्थत्वाद्राजसूयबृहस्पतिसववदित्याह- ऊर्ध्वेति ।
त्रयो धर्मस्कन्धाः कर्मप्रधाना आश्रमाश्चतुर्थो ब्रह्मसंस्थ इत्यर्थः ।
ऽब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य एव वा अनृणःऽइति श्रुतेः ।
ऽऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।
अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधःऽइति स्मृतेश्च प्राप्तगार्हस्थ्यस्यैव निरस्तर्णत्रयस्य पारिव्राज्यमित्यपि शङ्का न कार्या ।
ब्रह्मचर्यादेव प्रव्रजेदिति द्वितीयमाश्रममिच्छेत्तमावसेदिति च विधिश्रुतिस्मृतिविरोधेन अर्थवादश्रुतिस्मृत्योरविरक्तविषयत्वागमादित्याह- प्रतिपन्नेति ।
तस्मादि ति संन्यासनिष्ठत्वादित्यर्थः
एन्द् ब्स्चोम्_3,4.1.17
स्तर्त् ब्स्चोम्_3,4.2.18
2 परामर्शाधिकरणम् । सू. 18-20
परामर्शं जैमिनिरचोदनाच्चापवदति हि । ब्ब्स्_3,4.18 ।
ऽत्रयो धर्मस्कन्धाःऽ (छा. 2.2.3.1) इत्यादयो ये शब्दा ऊर्ध्वरेतसामाश्रमाणां सद्भावायोदाहृता न ते तत्प्रतिपादनाय प्रभवन्ति ।
यतः परामर्शमेषु शब्देष्वाश्रमान्तराणां जैमिनिराचार्यो मन्यते न विदिम् ।
कुतः - नह्यत्र लिङ्गादीनामन्यतमश्चोदनाशब्दो ऽस्ति ।
अर्थान्तरपरत्वं चैषु प्रत्येकमुपलभ्यते ।
त्रयो धर्मस्कन्धा इत्यत्र तावद्यज्ञो ऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयो ऽत्यन्तमात्मानमाचार्यकुले ऽवसादयन्सर्व एते पुण्यलोका भवन्तीति परामर्शपूर्वकमाश्रमाणामनात्यन्तिकफलत्वं संकीर्त्यात्यन्तिकफलतया ब्रह्मसंस्थता स्तूयते - ऽब्रह्मसंस्थो ऽमृतत्वमेतिऽ (छा. 2.23.1) इति ।
ननु परामर्शे ऽप्याश्रमा गम्यन्त एव ।
सत्यं गम्यन्ते ।
स्मृत्याचाराभ्यां तु तेषां प्रसिद्धिर्न प्रत्यक्षश्रुतेः ।
अतश्च प्रत्यक्षश्रुतिविरोधे सत्यनादरणीयास्ते भविष्यन्ति ।
अनधिकृतविषया वा ।
ननु गार्हस्थ्यमपि सहैवोर्ध्वरेतोभिः परामृष्टं यज्ञो ऽध्ययनं दानमिति प्रथम इति ।
सत्यमेवं तथापि तु गृहस्थं प्रत्येवाग्निहोत्रादीनां कर्मणां विधानाच्छ्रुतिप्रसिद्धमेव हि तदस्तित्वम् ।
तस्मात्स्तुत्यर्थ एवायं परमर्शो न चोदनार्थः ।
अपिचापवदति हि प्रत्यक्षा श्रुतिराश्रमान्तर् ऽवीरहा वा एष देवानां यो ऽग्निमुद्वासयतेऽ, ऽआचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीःऽ (तै. 1.11.1) ऽनापुत्रस्य लोको ऽस्तीति तत्सर्वे पशवो विदुःऽ इत्येवमाद्या ।
तथा ऽये चेमेरण्ये श्रद्धा तप इत्युपासतेऽ (छा. 5.10.1) ऽतपःश्रद्धे ये ह्युपासन्त्यरण्येऽ (मुण्ड. 1.2.11) इति च देवयानोपदेशो नाश्रमान्तरोपदेशः ।
संदिग्धं चाश्रमान्तराभिधानम् ऽतप एव द्वितीयःऽ (छा. 2.2.3.1) इत्येवमादिषु ।
तथा एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्तिऽ (बृ. 4.4.22) इति लोकसंस्तवो ऽयं न पारिव्राज्यविधिः ।
ननु ब्रह्मचर्यादेव प्रव्रजेदितिविस्पष्टमिदं प्रत्यक्षं प्रिव्राज्यविधानं जाबालानाम् ।
सत्यमेतत् ।
अनपेक्ष्य त्वेतां श्रुतिमयं विचार इति द्रष्टव्यम्
संन्यासो नास्तीत्याक्षिपति- परामर्शं जैमिनिरिति ।
ऊर्ध्वरेतः शब्दितं पारिव्राज्यमनुष्ठेयं न वेति मानभ्रान्तिमूलत्वाभ्यां संदेहे भ्रान्तिमूलत्वान्नानुष्ठेयमित्याह- त्रय इति ।
आश्रमाणामवान्तरभेदापेक्षया बहुवचनम् ।
तथाच काण्वायनस्मृतिरर्थतो ऽनुक्रम्यते ।
गायत्रो ब्राह्मः प्राजापत्यो बृहन्निति ब्रह्मचारीचतुर्विधः ।
तत्रोपनयनादूर्ध्वं यस्त्रिरात्रमक्षारालवणाशी गायत्रीमधीते स गायत्रः ।
यस्तु वेदस्य ग्रहणान्तं ब्रह्मचर्यं चरति स ब्राह्मः ।
ऋतुकाले स्वदारगामी नित्यं परस्त्रीविमुखः प्राजापत्यः, संवत्सरं वेदव्रतकृद्वटुर्वा प्राजापत्यः ।
आमरणं गुरुकुलवासी नैष्ठिको बृहन्नित्युच्यते ।
गृहस्थो ऽपि चतुर्विधः वार्ताको यायावरः शालीनो घोरसंन्यसिकश्चेति ।
तत्र कृषिगोरक्षादिकया वैश्यादिवृत्त्या जीवन्नित्यादिक्रियापरो वार्ताकवृत्तिः ।
यायावरस्त्वयाचितवृत्तिर्याजनाध्यापनप्रतिग्रहविमुखः ।
शालीनस्तु षट्कर्मनिरतो याजनादिवृत्तिः संचयी ।
उद्धृतपरिपूताभिरद्भिः कार्यं कुर्वन्प्रत्यहं कृतोञ्छवृत्तिर्ग्रामवासी घोरसंन्यसिक इत्युच्यते, हिंसाविमुखत्वात् ।
वानप्रस्थो ऽपि चतुर्विधः वैखानस औदुम्बरो वालखिल्यः फेनपश्चेति ।
तत्राकृष्टपच्यौषधीभिर्ग्रामबहिष्कृताभिरग्निहोत्रादिकुर्वन्वैखानस उच्यते ।
यस्तु प्रातरुथाय यां दिशं पश्यति तत्रत्यौदुम्बरबदरीनीवारश्यामाकैः कर्मपरः स औदुम्बरः ।
यस्तु जटावल्कलधारी अष्टौ प्रातसान्वृत्त्युपार्जनं कृत्वा चातुर्मास्ये संगृहीताशी कार्तिक्यां संगृहीतपुष्पफलत्यागी स वालखिल्यः ।
फेनपास्तु शीर्णपर्णफलवृत्तयो यत्र क्वचिद्वसन्तः कर्मपरा इति ।
तथा परिव्राजाकाश्चतुर्विधाः कुटीचका बहूदका हंसाः परमहंसाश्चेति ।
तत्र स्वपुत्रगृहे भिक्षां चरन्तस्त्रिदण्डिनः कुटीचकाः ।
बहूदकास्तु त्रिदण्डिनः शिक्यजलपवित्रपादुकासनशिखायज्ञोपवीतकौपीनकाषायवेषधारास्तीर्थान्यटन्तो भैक्षं चरन्त आत्मानं प्रार्थयन्ते ।
हंसास्तु एकदण्डिनः शिखावर्जं यज्ञोपवीतधराः शिक्यकमण्डलुपाणयः ग्रामैकरात्रवासिनः कृच्छ्रचान्द्रायणपराः ।
परमहंसास्त्वेकदण्डधरा मुण्डा अयज्ञोपवीतिनः त्यक्तसर्वकर्माण आत्मनिष्ठा इति ।
अत्र पूर्वपक्षे संन्यासाभावाञ्ज्ञानस्य स्वतन्त्रफलत्वासिद्धिः सिद्धान्ते तद्भावात्तत्सिद्धिरिति फलभेदः ।
स्कन्धा आश्रमाः आत्मानं शरीरमाचार्यस्य कुले गृहे कर्शयन्नैष्ठिक इत्यर्थः ।
स्कन्धश्रुतावाश्रमा न विधीयन्ते किन्तु ब्रह्मसंस्थतास्तुर्थमनूद्यन्त इत्युक्ते शङ्कते- ननु परामर्शे ऽपीति ।
अनुवादापेक्षितपुरोवादात्प्रतीतिमङ्गीकरोति- सत्यमिति ।
प्रत्यक्षा स्कन्धश्रुतिरेव पुरोवादो ऽस्तु नानुवाद इत्यत आह- स्मृतीति ।
तयोरपि इयमेव श्रुतिर्मूलमस्तु ।
कॢप्तश्रुतौ विधिमात्रकल्पनालाघवात् ।
अस्या अनुवादत्वे तु मूलत्वेन साग्निकानग्निकाश्रमश्रुतिस्तत्र विधिश्चेति द्वयकल्पनागौरवादित्यत आह- अतश्चेति ।
स्मार्तत्वादाश्रमाः प्रत्यक्षयावज्जीवकर्मविधिश्रुत्यविरुद्धा ग्राह्याः ।
विरुद्धास्त्वनग्निकाश्रमा उपेक्ष्याः कर्मानधिकृतैरन्धादिभिर्वा अनुष्ठेया इत्यर्थः ।
यावज्जीवश्रुतिविरोधाल्लाघवं त्याज्यमिति भावः ।
स्कन्धश्रुतावनुवाद्यत्वाविशेषाद्गार्हस्थ्यवदितरेषामनुष्ठेयत्वमाशङ्क्य तस्य श्रौतत्वादनुष्ठानं नेतरेषामश्रौतत्वादतो ब्रह्मसंस्थतास्तुतिपरमिदं स्कन्धवाक्यमित्याह- नन्वित्यादिना ।
तन्तुं संततिम् ।
तथा ये चेति ।
ते ऽर्चिषमभिसंभवन्तीति वाक्यशेषादित्यर्थः ।
स्कन्धशब्दस्य आश्रमेष्वरूढत्वाच्चात्र नाश्रमिविधिरित्याह- संदिग्धं चेति ।
तर्हि प्रव्रजन्तीत्याश्रमविधिरीत्यत आह- तथैतमिति ।
आत्मलोको महीयान् यदर्थमशक्यां प्रव्रज्यामपि कुर्वन्तीति स्तुतिर्वर्तमानापदेशादित्यर्थः ।
संप्रति पूर्वपक्षमाक्षिप्येयं श्रुतिर्नास्तीतिकृत्वा चिन्त्यत इत्याह- नन्वित्यादिना
एन्द् ब्स्चोम्_3,4.2.18
स्तर्त् ब्स्चोम्_3,4.2.19
अनुष्ठेयं बादरायणः साम्यश्रुतेः । ब्ब्स्_3,4.19 ।
अनुष्ठेयमाश्रमान्तरं बादरायण आचार्यो मन्यते ।
वेदे श्रवणात् ।
अग्निहोत्रादीनां चावश्यानुष्ठोयत्वात्तद्विरोधादनधिकृतानुष्ठेयमाश्रमान्तरमितिहीमां मतिं निराकरोति गार्हस्थ्यवदेवाश्रमान्तरमप्यनिच्छता प्रतिपत्तव्यमिति मन्यमानः ।
कुतः साम्यश्रुतेः ।
समा हि गार्हस्त्येनाश्रमान्तरस्य परामर्शश्रुतिर्दृश्यते ऽत्रयो धर्मस्कन्धाःऽ (छा. 2.2.3.1)इत्याद्या ।
यथेह श्रुत्यन्तरविहितमेव गार्हस्त्यं परामृष्टमेवाश्रमान्तरमपीति प्रतिपत्तव्यम् ।
यथाच शास्त्रान्तरप्राप्तयोरेव निवीतप्राचीनवीतयोः परामर्श उपवीतविधिपरे वाक्ये ।
तस्मात्तुल्यमनुष्ठेयत्वं गार्हस्थ्येनाश्रमान्तरस्य ।
तथा ऽएतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्तिऽ (बृ. 4.4.22) इत्यस्य वेदानुवचनादिभिः समभिव्याहारः ।
ऽये चेमे ऽरम्ये श्रद्दा तप इत्युपासतेऽ (छा. 5.101) इत्यस्य च पञ्चाग्निविद्यया ।
यत्तूक्तम् ऽतप एव द्वितीयः (छा. 2.2.3.1) इत्यादिष्वाश्रमान्तराभिधानं संदिग्धमिति ।
नैष दोषः ।
निश्चयकारणसद्भावात् ।
ऽत्रयो धर्मस्कन्धाःऽ (छा. 2.23.1) इति हि धर्मस्कन्धत्रित्वं प्रतिज्ञातम् ।
नच यज्ञादयो भूयांसो धर्मा उत्पत्तिभिन्नाः सन्तो ऽन्यत्राश्रमसंबन्धात्रित्वे ऽन्तर्भावयितुं शक्यन्ते ।
तत्र यज्ञादिलिङ्गो गृहाश्रम एको धर्मस्कन्धो निर्दिष्टो ब्रह्मचारीति च स्पष्ट आश्रमनिर्देशस्तपैत्यपि को ऽन्यस्तपःप्रधानादाश्रमाद्धर्मस्कन्धो ऽभ्युपगम्येत ।
ऽये चेमे ऽरण्येऽ (छा. 5.10.1) इति चारण्यलिङ्गाच्छ्रद्धातपोभ्यामाश्रमगृहीतिः ।
तस्मात्परामर्शे ऽप्यनुष्ठेयमाश्रमान्तरम्
स्कन्धश्रुतावितराश्रमाः श्रुत्यन्तरविहिता अनूद्यन्ते एतद्वाक्यानुवाद्यत्वाद्गार्हस्थ्यवदिति सिद्धान्तयति- अनुष्ठेयमिति ।
अनुवादस्य क्वचिद्विधिपूर्वकत्वे दृष्टान्तमाह- यथाचेति ।
निवीतं मनुष्याणां प्राचीनावीतं पितृणामुपवीतं देवानामिति वाक्ये दैवे कर्मण्युपवीतं विधीयते ।
तत्स्तुतये द्वयमनूद्यते ।
मानुषक्रियासु देहार्धवस्त्रबन्धनाख्यनिवीतस्य सौकर्यार्ततया प्राप्तत्वात् पित्र्ये कर्मणि प्राचीनावीतस्यापि विध्यन्तरप्राप्तत्वादित्यर्थः ।
वाक्यान्तरे च साक्षादेव पारिव्राज्यविधिर्विधेयैः साहित्यादित्याह- तथैतमेवेति ।
अस्येति पारिव्राज्योक्तिः ।
विधेयवेदानुवचनादिसाहित्यात्पारिव्राज्यस्य विधेयतेत्यर्थः ।
वाक्यान्तरे ऽपि साम्यश्रुतिमाह- य चेति ।
अस्येति वानप्रस्थोक्तिः ।
विधेयपञ्चाग्निविद्यया तानप्रस्थस्य सहोक्त्या तदपि विधेयमित्यर्थः ।
श्रुतत्रित्वान्यथानुपपत्त्या स्कन्धशब्दस्य आश्रमपरत्वनिश्चय इत्याह- यत्तूक्तमित्यादिना ।
उत्पत्तिभिन्ना इति ।
यजेताध्येतव्यं दद्यादीति पृथगुत्पन्ना इत्यर्थः
एन्द् ब्स्चोम्_3,4.2.19
स्तर्त् ब्स्चोम्_3,4.2.20
विधिर् वा धारणवत् । ब्ब्स्_3,4.20 ।
विधिरिवायमाश्रमान्तरस्य न परामर्शमात्रम् ।
ननु विधित्वाभ्युपगम एकवाक्यताप्रतीतिरुपरुध्येत प्रतीयते चात्रैकवाक्यता पुण्यलोकफलास्त्रयो धर्मस्कन्धा ब्रह्मसंस्थाता त्वमृतत्वफलेति ।
सत्यमेतत् ।
सतीमपि त्वेकवाक्यताप्रतीतिं परित्यज्य विधिरेवाभ्युपगन्तव्यो ऽपूर्वत्वात् ।
विध्यन्तरस्यादर्शनात् ।
विस्पष्टाच्चाश्रमान्तरप्रत्ययाद्गुणवादकल्पनयैकवाक्यत्वायोजनानुपपत्तेः ।
धारणवत् ।
यथा ऽअधस्तत्समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यो धारयतिऽ इत्यत्र सत्यामप्यविरोधोधारणैनैकवाक्यताप्रतीतौ विधीयत एवोपरिधारणमपूर्वत्वात् ।
तथाचोक्तं शेषलक्षणे - ऽविधिस्तु धारणे ऽपूर्वत्वात्ऽ इति ।
तद्वदिहाप्याश्रमपरामर्शश्रुतिर्विधिरिवेति कल्प्यते ।
यदापि परामर्श एवायमाश्रमान्तराणां तदपि ब्रह्मसंस्थता तावत्संस्तवसामर्थ्यादवश्यं विधेयाभ्युपगन्तव्या ।
सा च किं चतुर्ष्वाश्रमेषु यस्य कस्यचिदाहोस्वित्परिव्राजकस्यैवेति विवेक्तव्यम् ।
यदि च ब्रह्माचार्यन्तेष्वाश्रमेषु परामृश्यमानेषु परिव्राजको ऽपि परामृष्टस्तश्चतुर्णामप्याश्रमाणां परामृष्टत्वाविशेषादनाश्रमित्वानुपपत्तेश्च यः कश्चिच्चतुर्ष्वाश्रमेषु ब्रह्मसंस्थो भविष्यति ।
अथ न परामृष्टस्ततः परिशिष्यमाणः परिव्राडेव ब्रह्मसंस्थ इति संत्स्यति ।
तत्र तपःशब्देन वैखानसग्राहिणापरामृष्टःपरिव्राडपीति केचित् ।
तदप्युक्तम् ।
नहि सत्यां गतौ वानप्रस्थविशेषणेन परिव्राजको ग्रहणमिति ।
यथात्र ब्रह्मचारिगृहमेधिनावसादारणेनैव स्वेन स्वेन विशेषणेन विशेषितावेवं भिक्षुवैखानसावपीति युक्तम् ।
तपश्चासाधारणोधर्मो वानप्रस्थानां कायक्लेशप्रधानत्वात् ।
तपःशब्दस्य तत्र रूढेः ।
भिक्षोस्तु धर्म इन्द्रियसंयमादिलक्षणो नैव तपःशब्देनाभिलप्यते ।
चतुष्ठ्वेन च प्रसिद्धा आश्रमास्त्रित्वेन परामृश्यन्त इत्यन्याय्यम् ।
अपिच भेदव्यपदेशो ऽत्र भवति ऽत्रय एते पुण्यलोकभाज एको ऽमृतत्वभाक्ऽ इति ।
पृथक्त्वेव चैष भेदव्यपदेशो ऽवकल्पते ।
नह्येवं भवति देवदत्तयज्ञदत्तौ मन्दप्रज्ञावन्यस्त्वनयोर्महाप्रज्ञ इति ।
भवति त्वेवं देवदत्तयज्ञदत्तौ मन्दप्रज्ञौ विष्णुमित्रस्तु महाप्रज्ञ इति ।
तस्मात्पूर्वो त्रय आश्रमिणः पुण्यलोकभाजः परिशिष्यमाणः परिव्राडेवामृतत्वभाक् ।
कथं पुनर्ब्रह्मसंस्थशब्दो योगात्प्रवर्तमानः सर्वत्र संभवन्परिव्राजक एवावतिष्ठेत ।
रूढ्यभ्युपगमे चाश्रममात्रादमृतत्वप्राप्तेर्ज्ञानानर्थक्यप्रसङ्ग इति ।
अत्रोच्यते - ब्रह्मसंस्थ इति हि ब्रह्मणि परिसम्प्तिरनन्यव्यापारतारूपं तन्निष्ठत्वमभिधीयते ।
तच्च त्रयाणामा8माणां न संबवति ।
स्वाश्रमविहितकर्माननुष्ठाने प्र्यवायश्रवणात् ।
परिव्राजकस्य तु सर्वकर्मसंन्यासातप्रत्यवायो न संभवत्यननुष्ठाननिमित्तः ।
शमदमादिस्तु तदीयो धर्मो ब्रह्मसंस्थताया उपोद्बलको न विरोधी ।
ब्रह्मनिष्ठत्वमेव हि तस्य शमदमाद्युपबृंहितं स्वाश्रमविहितं कर्म यज्ञादीनि चेतरेषां तद्व्यतिक्रमे च तस्य प्रत्यवायः तथाच ऽन्यास इति ब्रह्मा ब्रह्मा हि परः परो हि ब्रह्म तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयत्ऽ (नारा. 78) ऽवेदान्तविज्ञानसुनिष्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाःऽ (मुण्ड. 3.2.6. नारा. 1.2.3. कैवल्य. 3) इत्याद्याः श्रुतयः ।
स्मृतयश्च -ऽतद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाःऽ (गी. 5.17) इत्याद्या ब्रह्मसंस्थस्य कर्माभावं दर्शयन्ति ।
तस्मातपरिव्राजकस्याश्रममात्रादमृतत्वप्राप्तेर्ज्ञानानर्थक्यप्रसङ्ग इत्येतेषो ऽपि दोषो न्वतरति ।
तदेवं परामर्शो ऽपीतरेषामाश्रमाणां पारिव्राज्यं तावद्ब्रह्मसंस्थतालक्षणं लभ्येतैव ।
अनपेक्ष्यैव जाबालश्रुतिमाश्रमान्तरविधायिनीमयमाच्र्योण विचारः प्रवर्तितः ।
विद्यत एव त्वाश्रमान्तरविधिश्रुतिः प्रत्यक्षा ।
ऽब्रह्मचर्यं परिसम्प्य गृही भवेद्गृही भूत्वा वनीभवेद्वनी भूत्वा प्रव्रजेत् ।
यदि वेतरथा ब्रह्मचर्यादेव ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वाऽ (जाबा. 4) इति ।
न चेयं श्रुतिरनदिकृताविषया शक्या वक्तुम् ।
अविशेषश्रवणात् ।
पृथग्निधानाच्चानधिकृतानाम ऽअथ पुनरेव व्रती वाव्रती वा स्नातको वास्नातको वोत्सन्नाग्निरनग्निको वाऽ (जाबा. 4) इत्यादिना ।
ब्रह्मदानपरिपाकाङ्गत्वाच्च पारिव्राज्यस्य नानधिकृतविषयत्वम् ।
तच्च दर्शयति - ऽअथ परिव्राड्विवर्णवासा मुण्डो ऽपरिग्रहः शुचिरद्रोही भैक्षाणो ब्रह्मभूयाय भवतिऽ (जाबा. 5) इति ।
तस्मात्सिद्धा ऊर्ध्वरेतसामाश्रमाः ।
सिद्धं चोर्ध्वरेतःसु विदानाद्विद्यायाः स्वातन्त्र्यमिति
स्कन्धश्रुतेरनुवादकत्वमङ्गीकृत्य विध्यन्तरकल्पनेनाश्रमा अनुष्ठेया इत्युक्तम् ।
इदानीं विधित्वं तस्या एव कल्प्यं लाघवादित्याह- विधिर्वेति ।
यावज्जीवादिश्रुतेरविरक्तविषयत्वान्न लाघवबाधकत्वमिति भावः ।
अल्पफलत्वेनाश्रमत्रयनिन्दया ब्रह्मसंस्थतास्तुतिपरमेकमिदं वाक्यं भाति ।
तत्राश्रमविधिचतुष्टयमयुक्तमिति शङ्कते- नन्विति ।
आश्रमाणां विध्यन्तरप्राप्त्यभावादनुवादायोगात् ।
स्तुतिलक्षणादोषाच्च वरं विस्पष्टाश्रमविधिभेदकल्पनमपूर्वत्वादित्याह- सत्यमित्यादिना ।
प्रतीतैकवाक्यत्वभङ्गेन भेदकल्पने दृष्टान्तमाह- धारणवदिति ।
महापितृयज्ञे प्रेताग्निहोत्रे च स्रुचि प्रक्षिप्तं हविराहवनीयं प्रति यदा नीयते तस्य हविषः ऽअधस्तात्समिधं धारयन्ननुद्रवेत्ऽइति विहिताधोधारणस्तावकतयोपरि हीत्यस्यैकवाक्यत्वभाने ऽपि दैवे होमे स्रुग्दण्डोपरि समिद्धारणे विधिरेवापूर्वत्वादिति वाक्यभेदस्तृतीयाध्याये जैमिन्याचार्येणोक्त इत्यर्थः ।
एवं चत्वार आश्रमा विधीयन्त इति पक्ष उक्तः ।
संप्रत्याश्रमत्रयानुवादेन पारिव्राज्यमेकमेव विधीयत इति पक्षान्तरमाह- यदापीत्यादिना ।
ब्रह्मसंस्थताविधौ कथं पारिव्राज्यविधिरित्याशङ्क्य विचारयति- सा चेति ।
ननु त्रय इति वाक्य आश्रमचतुष्टयस्याप्राप्तेर्निर्बीजो ऽयं विचार इत्याशङ्क्य तद्वाक्ये परिव्राजकः परामृष्टो न वेति संदिह्याद्ये पूर्वपक्षप्राप्तिमाह- यदिचेति ।
नन्वनाश्रम्येव ब्रह्मसंस्थः किं न स्यादत आह- अनाश्रमित्वेति ।
अनाश्रमी न तिष्ठेतेति निषेधादिति भावः ।
द्वितीये सिद्धान्प्राप्तिमाह- अथेति ।
एवं परामर्शतदभावाभ्यां संशयमुक्त्वा पूर्वपक्षयति- तत्रेति ।
वनस्थस्य ह्यसाधारणं कृच्छ्रादिकं तप इति प्रसिद्धम् ।
तेनैकेन तपः शब्देनोभयग्रहणमन्याय्यं भिक्षोस्तपस्वित्वप्रसिद्ध्याभावाच्च ॥
तथाच यज्ञाद्यसाधारणधर्मद्वारा गृहस्थाद्याश्रमत्रयवद्ब्रह्मसंस्थशब्देनैव ब्रह्मनिष्ठाप्रधानश्चतुर्थाश्रमो गृह्यते ।
स च स्तुतिसामर्थ्यात् सह ब्रह्मसंस्थया विधीयत इति सिद्धान्तयति- तदयुक्तमित्यादिना ।
पृथग्व्यपदेशाच्च ब्रह्मसंस्थः पूर्वोक्तेभ्य आश्रमिभ्यः पृथग्भूत इत्याह- अपिचेति ।
नचावस्थाभेदेन तेषामेव ब्रह्मसंस्था स्यादिति वाच्यम् ।
कालभेदेनापि सति मन्दप्रज्ञत्वे प्रज्ञाधिक्यवत्सति कर्मित्वे तेषां विक्षिप्तचेतसां ब्रह्मसंस्थानुपपत्तेः ।
कर्मत्यागे च परिव्राडेव ब्रह्मसंस्थ इत्यस्मदिष्टसिद्धिरिति भावः ।
इममेवार्थं स्पष्टयितुं शङ्कते- कथं पुनरिति ।
यद्यपि ब्रह्मसंस्थशब्दः संन्यासाश्रमे न रूढस्तथापि योगात्तमेवोपस्थापयति ।
अन्याश्रमेषु यौगिकार्थासमवायादित्याह- अत्रोच्यत इति ।
सर्वकर्मत्यागिनः प्रणवार्थब्रह्मनिष्ठातिरेकेणानुष्ठेयं नास्तीत्यत्र मानमाह- तथाचेति ।
न्यासः संन्यासो ब्रह्मेति स्तुतौ हेतुमाह- ब्रह्मा हीति ।
हिरण्यगर्भो हि पर इति प्रसिद्धः अतो ब्रह्मत्वेन स्तुतः संन्यासः पर एवेति स्तुत्वा कर्माणि निन्दति तानीति ।
ततो न्यास एव ज्ञानद्वारा मोचकत्वादधिक इत्यर्थः ।
तद्बुद्धये ब्रह्मचित्तास्तदात्मानो ब्रह्मस्वरूपास्तन्निष्ठाः श्रवणादिपरास्तत्परायणाः ब्रह्मप्रेप्सवः निष्कामा इति यावत् ।
एवं ब्रह्मसंस्थशब्दस्य ज्ञानप्रधानाश्रमवाचित्वादमृतत्वकामस्त्वमुमाश्रममनुतिष्ठेदिति विधिः परिणम्यते ।
अतो न ज्ञानानर्थक्यदोष इत्युपसंहरति- तस्मादिति ।
संप्रति कृत्वाचिन्तामुद्धाटयति- अनपेक्ष्येति ।
शिष्यबुद्धिवैशद्यार्थं स्कन्धश्रुतिमादाय चिन्ता कृतेति भावः ।
यदिवेतरथेति ।
ब्रह्मचर्ये स्थितस्यैव पूर्वसुकृतपरिपाकाद्वैराग्यं यदि स्यादित्यर्थः ।
यदुक्तं कर्मानधिकृतान्धादिविषयः संन्यास इति तन्नेत्याह- नचेति ।
सामान्यश्रुतेः संकोचहेत्वभावादिति भावः ।
पृथगिति ।
संन्यासस्येति शेषः ।
व्रती गोदानादिवेदव्रतवान् ।
गुरुकुलान्निवृत्तिरूपस्नानानन्तरमकृतगार्हस्थ्यो गुरुसेवी स्नातकः उत्सन्नाग्निर्विधुरः अगृहीताग्निरनग्निकः प्रव्रजेदित्यन्वयः ।
सकलाङ्गानमेव कथञ्चित्कर्मानधिकृतानां संन्यासो युक्तः विकलाङ्गानां त्वन्धादीनां न ज्ञानप्रधानसंन्यासाधिकार इत्याह- ब्रह्मेति ।
दृष्टिपूतसंचारश्रवणादिकं विना ज्ञानानुत्पत्तेः ।
ऽशरीरं मे विचर्षणं जिह्वा मे मधुमत्तमा ।
कर्णाभ्यां भूरिविश्रुवम्ऽइत्यङ्गसाकल्यप्रार्थनालिङ्गाच्च नान्धपङ्गुमूकबधिरदीनामधिकार इत्यर्थः ।
तच्चेति ।
पारिव्राज्यस्य ब्रह्मज्ञानाङ्गत्वं चेत्यर्थः ।
ब्रह्मभूयाय ब्रह्मसाक्षात्कारायेति यावत्
एन्द् ब्स्चोम्_3,4.2.20
स्तर्त् ब्स्चोम्_3,4.3.21
स्तुतिमात्राधिकरणम् । सू. 21-22
स्तुतिमात्रम् उपादानाद् इति चेन् नापूर्वत्वात् । ब्ब्स्_3,4.21 ।
ऽस एष रसानां रसतमः परमः परार्ध्यो ऽष्टमो यदुद्गीथःऽ (छा. 1.1.3) ऽइत्येवमाग्निः सामऽ ( छा. 1.6.1) अयं वाव लोक एषो ऽग्निश्चितः ।
तदिदमेवोक्थमियमेव पृथिवीऽ इत्येवञ्जातीकाः श्रुतयः किमुद्गीथादेः स्तुत्यर्था आहोस्विदुपासनाविद्यर्था इत्यस्मिन्संशये स्तुत्यर्था इति युक्तम् ।
उद्गीथादीनि कर्माङ्गान्युपादाय श्रवणात् ।
यथा ऽइयमेव जुहूरादित्यः कूर्मः स्वर्गो लोक आहवनीयःऽ इत्याद्या जुह्वादिस्तुत्यर्थास्तद्वदिति चेत् ।
नेत्याह ।
नहि स्तुतिमात्रमासां श्रुतीनां प्रयोजनं युक्तमपूर्वत्वात् ।
विध्यर्थतायां ह्यपूर्वोर्ऽथो विहितो भवति स्तुत्यर्थतायां त्वानर्थक्यमेव स्यात् ।
विधायकस्य हि शब्दस्य वाक्यशेषभावं प्रतिपद्यमाना स्तुतिरुपयुज्यत इत्युक्तम् ऽविधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः इत्यत्र ।
प्रदेशान्तरविहितानां तूद्गीथादीनामियं प्रदेशान्तरपठिता स्तितिर्वाक्यशेषभावमप्रतिपद्यमानानर्थिकैव स्यात् ।
इयमेव जुहूरित्यादि तु विधिसंनिधावेवाम्नतमिति वैषम्यम् ।
तस्माद्विध्यर्था एवैवञ्जातीयकाः श्रुतयः
स्तुतिमात्रं ।
पृथिव्यबोषधिपुरुषवागृक्साम्नां सप्तानां रसानां रसतमो ऽष्टम उद्गीथावयव ओङ्कारः परमः परमात्मप्रतीकत्वात्परस्य ब्रह्मणोर्ऽधं स्थानं तदर्हतीति परार्ध्यं इत्यर्थः ।
आसु श्रुतीष्वङ्गोपादानादपूर्वार्थत्वाच्च संशयमाह- किमिति ।
यथानुष्ठेयगार्हस्थ्यसाम्यश्रुतेः पारिव्राज्यस्यानुष्ठेयत्वं तद्वदासां श्रुतीनां जुह्वादिस्तुतिश्रुतिसाम्यात्स्तुतित्वमिति पूर्वपक्षयति- स्तुत्यर्था इति ।
जुहूरियमेव पृथिवीति स्तूयते ।
चयनस्थः कूर्म आदित्य इति ।
आहवनीयः स्वर्गलोक इति स्तुतिः ।
तथोद्गीथादीनां रसतमत्वादिगुणैः स्तुतिरित्यर्थः ।
स्तुतिलक्षणातो वरं विधिकल्पनमनुष्ठानफललाभादिति सिद्धान्तयति- नहि स्तुतीति ।
पूर्वपक्षे स्वननुष्ठानं फलं सिद्धान्ते त्वनुष्ठानं फलमिति मन्तव्यम् ।
स्तावकत्वेनार्थवत्त्वं किं न स्यादित्यत आह- विधायकस्येति ।
युक्तमियमेव जुहूरित्यादिश्रुतीनां फलवज्जुह्वादिविधिप्रकरणस्थतया स्तावकत्वेनार्थवत्त्वं;रसतमादिश्रुतीनां तु क्रत्वङ्गविधिप्रकरणस्थत्वाभावात्फलवदपूर्वोपास्तिविधायकत्वमेव युक्तं क्रत्वन्तरश्रुतिवदिति भावः
एन्द् ब्स्चोम्_3,4.3.21
स्तर्त् ब्स्चोम्_3,4.3.22
भावशब्दाच् च । ब्ब्स्_3,4.22 ।
ऽउद्गीथमुपासीतऽ (छा. 1.1.1) ऽसामोपासीतऽ (छा. 2.2.1) ऽअहमुक्थमस्मीति विद्यात्ऽ इत्यादयश्च विस्पष्टा विधिशब्दाः श्रूयन्ते ते च स्तुतिमात्रप्रयोजनतायां व्याहन्येरन् ।
तथाच न्यायविदां स्मरणम् -ऽकुर्यात्क्रियेत कर्तव्यं भवेतस्यादिति पञ्चमम् ।
एतत्स्यात्सर्ववेदेषु नियतं विधिलक्षणम्ऽ इति लिङ्गाद्यर्थो विधिरिति मन्यमानास्त एवं स्मरन्ति ।
प्रतिप्रकरणं च फलानि श्राव्यते - ऽआपयिता ह वै कामानां भवतिऽ (छा. 1.1.7) ऽएष ह्येव कामागानस्येष्टेऽ (छा. 1.7.9) ऽकल्पन्ते हास्मै लोका ऊर्ध्वश्चावृत्ताश्चऽ (छा. 2.2.3) इत्यादीनि ।
तस्मादप्युपासनाविधानार्था उद्गीथादिश्रुतयः
किञ्चात्र विधिकल्प्य इति कृत्वाचिन्तयोक्तं वस्तुतस्तु न कल्प्यः कॢप्तत्वादित्याह- भावेति ।
न चैवमुपासानाविधिस्तावकत्वं रसतमादिश्रुतीनामिति सांप्रतम् ।
विध्यपेक्षितविषयार्पकत्वसंभवे स्तुतिलक्षणयोगादिति भावः ।
देवो मदिष्टं कुर्यादिति प्रार्थनादावपि लिङ्गादिप्रयोगादुपासीतेत्यादिशब्दानां कथं विधिपरत्वनिश्चय इत्यत आह- तथाचेति ।
एतल्लिङ्गादिकं वेदेषूत्सर्गतो नियमेनेष्टसाधनत्वाख्यविधेर्लक्षणं ज्ञापकं स्यात् ।
उपपदादिबाधके त्वन्यार्थपरमित्यर्थः ।
तदिदमाह- लिङादीति ।
नच श्लोके पञ्चममित्युक्तेः पञ्चपदानामेव विधिलक्षणत्वं नोपासीतेत्यादीनामिति भ्रमितव्यम् ।
क्रियासामान्यवाचिनां कृभ्वस्तीनामुदाहरणेन सर्वधातूपरक्तलिङादीनां विधिलक्षणत्वस्य विवक्षितत्वात्पञ्चमपदं तूक्तापेक्षया श्लोकपूरणार्थं मृत्युर्धावति पञ्चम इतिवत् ।
यद्यपि डुकृञ् करण इति धातेरेव करणशब्दितभावनाख्यक्रियासामान्यवाचित्वं नेतरयोर्धात्वोर्भू सत्तायामस् भुवीत्यर्थान्तरोक्तेः तथापि जन्माख्यभवनस्य तत्फलस्यास्तित्वस्य च प्रयोज्यनिष्ठस्य प्रयोजकव्यापारात्मकभावनाव्याप्तत्वात्तयोः क्रियासामान्यवाचित्वव्यवहारः ।
तत्र कुर्यादिति प्रकृत्यर्थभावनाख्यातेनानूद्यते यथा द्वाविति प्रयोगे प्रकृत्यर्थो द्वित्वं प्रत्ययेनानूद्यते ।
तद्वल्लिङा च तस्या इष्टसाधनत्वाख्यविधिर्बोध्यते ।
कर्ता तु तयाक्षिप्यत इत्याक्षिप्तकर्तृका भावनोदाहृता ।
तथा क्रियेतेत्यत्रापि प्रकृतिप्रत्ययार्थौ व्याख्यातौ ।
कर्मात्र प्राधान्येनाक्षिप्यत इत्याक्षिप्तकर्मिकाभावनोदाहृता ।
आख्यातानां कर्त्रादिकारके शक्त्य भावात्कर्तृकर्मणोराक्षेप एवेति मीमांसकमतम् ।
कर्तव्यमिति कृत्यप्रत्ययेन कर्मकारकमुच्यते ।
तस्योपसर्जनत्वेन प्रकृत्या भावनोक्तेति भेदः ।
तथा दण्डी भवेत् भूयते दण्डिना भवितव्यमित्युदाहर्तव्यम् ।
तथा स्याद्भूयेत भवितव्यमित्यस्तिधातोरप्युदाहरणं द्रष्टव्यम् ।
अस्तेर्भूरादेशात् ।
एतद्धातुत्रयोपरक्तलिङादिभिः सर्वधात्वर्थोपरक्तभावनागतेष्टसाधानत्वरूपो विधिरेक एवोच्यते ।
धातूनां प्रत्ययानां कर्त्रादिकारकाणां च भेदे ऽपि विधिभेदो नास्तीति ज्ञापनार्थं प्रतिधातूदाहरणत्रयं दर्शितमिति सर्वमवदातम् ।
एवं सूत्रे भावो विधिरिति व्याख्याय चशब्दात्फलमिति व्याचष्टे- प्रतिप्रकरणं इति ।
एष ऋत्विगुपासकः कामागानस्य गानेन फलसंपादनस्येष्टे समर्थ इत्यर्थः ।
एवमङ्गाश्रितविद्या अपि स्वतन्त्रफलाः किमु वक्तव्यमनङ्गात्मविद्यायाः स्वातन्त्र्यमिति ।
आत्मविद्यास्वातन्त्र्यो चिन्ताया अस्याः पर्यवसानात्पादसंगतिर्बोध्याः
एन्द् ब्स्चोम्_3,4.3.22
स्तर्त् ब्स्चोम्_3,4.4.23
4 पारिप्लवाधिकरणम् । सू. 23-24
पारिप्लवार्था इति चेन् न विशेषितत्वात् । ब्ब्स्_3,4.23 ।
ऽअथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर्मैत्रेयी च कात्ययनी चऽ (बृ. 4.5.1) ऽप्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगामऽ (कौषी. 3.1) ऽजानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आसऽ (छा. 4.1.1) इत्येवमादिषु वेदान्तपठितेष्वाख्यानेषु संशयः - किमिमानि पारिप्लवप्रयोगार्थान्योहोस्वित्संनिहितविद्याप्रतिपत्त्यर्थानीति ।
पारिप्लवार्था इमा आख्यानश्रुतयः ।
आख्यानसामान्यात् ।
आख्यानप्रयोगस्य च परिप्लवे चोदितत्वात् ।
ततश्च विद्याप्रधानत्वं वेदान्तानां न स्यात्, मन्त्रवत्प्रयोगशेषत्वादिति चेत् ।
तन्न ।
कस्मात् ।
विशेषितत्वात् ।
ऽपारिप्लवमाचक्षीतऽ इति हि प्रकृत्य ऽमनुर्वैवस्वतो राजाऽ इत्येवमादीनि कानिचिदेवाख्यानानि तत्र विशेष्यन्ते ।
आख्यानसामान्याच्चेत्सामान्याच्चेत्सर्वगृहीतिः स्यादनर्थकमेवेदं विशेषणं भवेत् ।
तस्मान्न पारिप्लवार्था एता आख्यानश्रुतयः
पारिप्लवार्थाः ।
अश्वमेधे पुत्रादिपरिवृताय राज्ञे पारिप्लवमाचक्षीतेति नानाविधाख्यानकथनात्मकः पारिप्लवप्रयोगो विहितः ।
तथाच वेदान्तस्थकथानामाख्यानत्वसामान्याद्विद्यासंनिधानाच्च संशयमाह- किमिति ।
पूर्वं स्तुत्यपेक्षया विझिर्ज्यायाननुष्ठानलाभादित्युक्तम् ।
तथैव कथानां न विद्यास्तावकत्वं पारिप्लवानुष्ठानलाभादिति पूर्वपक्षः ।
तत्र फलमाह- ततश्चेति ।
यथा देवस्य त्वा सवितुरित्यादिमन्त्रे कस्यचित्पदस्य प्रयोगसमवेतार्थतया शेषस्य प्रयोगाङ्गत्वं तथा वेदान्तस्थकथानां प्रयोगशेषत्वम् ।
तदेकवाक्यतया सर्ववेदान्तानां कर्मशेषत्वान्न विद्याप्राधान्यमित्यर्थः ।
कथानां गुरुशिष्यसमाचारप्रदर्शनेन बुद्धिसौकर्यद्वारा संनिहितविद्याशेषत्वं सामर्ध्यलिङ्गादतो विद्याप्राधान्यमिति फलं मत्वा सिद्धान्तयति- तन्नेत्यादिना ।
अश्वमेधे प्रथमऽहनि मनुर्वैवस्वत इति कथां ब्रूयाद्द्वितीये ऽहनि यमो वैवस्वत इति तृतीये ऽहनि वरुण आदित्य इति वाक्यशेषे कथानां विशिष्योक्तत्वादुपक्रमस्य संकोचो युक्त इति भावः
एन्द् ब्स्चोम्_3,4.4.23
स्तर्त् ब्स्चोम्_3,4.5.24
तथा चैकवाक्यतोपबन्धात् । ब्ब्स्_3,4.24 ।
असति च परिप्लवार्थत्व आख्यानानां संनिहितविद्याप्रतिपादनोपयोगितैव न्याय्या ।
एकवाक्यतोबन्धात् ।
तथाहि त6 तत्र संनिहिताभिरेकवाक्यता दृश्यते प्ररोचनोपयोगात्प्रतिपत्तिसौकर्योपयोगाच्च ।
मैत्रेयीब्राह्मणे तावत् - ऽआत्मा वा अरे द्रष्टव्यःऽ (बृ. 4.5.6) इत्याद्या विद्ययैकवाक्यता दृश्यते ।
प्रातर्दने ऽपि प्राणो ऽस्मि प्रज्ञात्मा इत्याद्यया ।
जानश्रुतिरिय्यत्रापि ऽवायुर्वाव संवर्गःऽ (छा. 4.3.1) इत्याद्या ।
यथा ऽस आत्मानो वपामुदखिदत्ऽ इत्येवमादीनां कर्मश्रुतिगतानामाख्यानां संनिहितविधिस्तुत्यर्थता तद्वत् ।
तस्मान्न पारिप्लवार्थत्वम्
क्व तर्हि कथानांविनियोग इत्याशङ्क्य संनिधानाद्विद्यास्वित्याह -तथाचेति ।
प्ररोचनं प्रीतिजननं स प्रजापतिर्वपामुदखिदत् होमायोद्धृतवानित्यस्य प्राजापत्यमजं तूपरमालभेतेति विधिशेषत्वे एवमन्येषां तत्तद्विधिशेषत्वं द्रष्टव्यम्
एन्द् ब्स्चोम्_3,4.5.24
स्तर्त् ब्स्चोम्_3,4.5.25
5 अग्नीन्धनाद्यधिकरणम् । सू. 25
अत एव चाग्नीन्धनाद्यनपेक्षा । ब्ब्स्_3,4.25 ।
ऽपुरुषार्थो ऽतः शब्दात्ऽ (ब्र.सू. 3.4.1) इत्येतद्व्यवहितमपि संभवादत इति परामृश्यते ।
अतेव च विद्यायाः पुरुषार्थहेतुत्वादग्नीन्धनादीन्याश्रमक्माणि विद्यया स्वार्थसिद्धौ नापेक्षितव्यानीत्याद्यस्यैवाधिकरणस्य फलमुपसंहरत्यधिकविवक्षया
एवमाद्याधिकरणप्रमेयं विद्यास्वातन्त्र्यमधिकरणत्रयेण दृढीकृत्याद्याधिकरणस्य फलमाह- अत एव चेति ।
ब्रह्मविद्या स्वफले मोक्षे जनयितव्ये सहकारित्वेन कर्माण्यपेक्षते न वेति वादिविवादात्संशये तेनैति ब्रह्मवित्पुण्यकृत्तैजस इत्यादिश्रुत्या ज्ञानकर्मसमुच्चयेन मोक्षप्राप्तिकथनादपेक्षत इति प्राप्ते विद्याया मुक्तिहेतुत्वादविद्यानिवृत्त्याख्यमुक्तौ न कर्मापेक्षेति सिद्धान्तयति- पुरुषार्थ इति ।
अग्नीन्धनपदेन तत्साध्यकर्माणि लक्ष्यन्ते ।
पुण्यकृत्तैजसः शुद्धसत्वे ब्रह्मविद्भूत्वा तेन वेदनेनैति ब्रह्म प्राप्नोतीति श्रुतिर्व्याख्येयेति भावः ।
मुक्तावेव कर्मणामसामर्थ्यादनपेक्षा विद्यायां त्वस्ति चित्तशुद्धिद्वारा तेषामपेक्षेत्यधिकं वक्तुमयमुपसंहार इत्युपसंहारसूत्रस्य फलमाह- अधिकेति
एन्द् ब्स्चोम्_3,4.5.25
स्तर्त् ब्स्चोम्_3,4.6.26
6 सर्वापेक्षाधिकरणम् । सू. 26-27
सर्वापेक्षा च यज्ञादिश्रुतेर् अश्ववत् । ब्ब्स्_3,4.26 ।
इदमिदानीं चिन्त्यते किं विद्याया अत्यन्तमेवानपेक्षाश्रमकर्ममामुतास्ति काचिदपेक्षेति ।
तत्रात एवाग्नीन्धनादीन्याश्रमकर्माणि विद्या स्वार्थसिद्धौ नापेक्ष्यन्त एवमत्यन्तमेवानपेक्षायां प्राप्तायामिदमुच्यते सर्वापेक्षा चेति ।
अपेक्षत च विद्या सर्वाण्याश्रमकर्माणि नात्यन्तमनपेक्षैव ।
ननु विरुद्धमिदं वचनमपेक्षते चाश्रमकर्माणि विद्या नापेक्षते चेति ।
नेति ब्रूमः ।
उत्पन्ना हि विद्या फलसिद्धिं प्रति न किञ्चिदन्यदपेक्षत उत्पत्तिं प्रति त्वपेक्षते ।
कुतः - यज्ञादिश्रुतेः ।
तथाहि श्रुतिः - ऽतमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेनऽ (बृ. 4.4.22) इति यज्ञादीनां विद्यासाधनभावं दर्शयति ।
विविदिषासंयोगाच्चैषामुत्पत्तिसाधनभावोषवसीयते ।
ऽअथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यस्य यज्ञादिभिः यंस्तवाद्यज्ञादीनामपि हि साधनभावः सूच्यते ।
ऽसर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीमिऽ (कठ. 2.15) इत्येवमाद्या च श्रुतिराश्रमकर्मणां विद्यासाधनभावं सूचयति ।
स्मृतिरपि - ऽकषायपकतिः कर्माणि ज्ञानं तु परमा गतिः ।
कषाये कर्मभिः पक्के ततो ज्ञानं प्रवर्ततेऽ इत्येवमाद्या ।
अश्ववदिति योग्यतानिदर्शनम् ।
यथाच योग्यतावशेनाश्वो न लाङ्गलाकर्षणे युज्यते रथचर्यायां तु युज्यते ।
एवमाश्रमकर्माणि विद्यया फलसिद्धौ नापेक्ष्यन्त उत्पत्तौ चापेक्ष्यन्त इति
अधिकमाह- सर्वापेक्षा ।
यथा प्रमाफलत्वादविद्यानिवृत्तौ कर्मानपेक्षा तथा प्रमात्वाद्विद्यायामपि प्रमाकरणमात्रसाध्यायां नास्ति कर्मापेक्षेति पूर्वपक्षः ।
तत्र विद्यार्थं कर्मानुष्ठानासिद्धिः ।
फलं सिद्धान्ते तत्सिद्धिरिति भेदः ।
अत्र विविदिषायामिष्यमाणज्ञाने वा यज्ञादीनां कर्मणां हेतुत्वमपूर्वत्वाद्विधीयते ।
प्रमाया अप्युत्पत्तिप्रतिबन्धकदुरितक्षयाख्यशुद्धिद्वारा कर्मसाध्यत्वसंभवात् ।
नच पारंपर्ये तृतीयाश्रुतिविरोधः ।
ज्वालाद्वारा पारंपर्ये ऽपि काष्ठैः पचतीति प्रयोगात्, द्वारस्याव्यवधायकत्वात् ।
नच शुद्धेर्द्वारत्वे मानाभावः ।
ऽज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः ।
कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्ततेऽइति स्मृतेः ।
ऽअविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुतेऽइत्यादिश्रुत्या कर्मणा पापनिवृत्तौ ज्ञानेन मुक्त्यभिधानाच्चेति सिद्धान्तयति- इदमिति ।
नन्वत्र विविदिषन्तीति पञ्चमलकारेण विविदिषां भावयेयुरिति सनर्थेच्छैव भाव्यतया भाति ।
तां विषयसौन्दर्यलभ्यतयोल्लङ्घ्य वेदनं चेद्भाव्यमुच्यते तर्हि वेदनमप्युल्लङ्घ्य तत्फलं मोक्ष एव कर्मभिर्भाव्यः किं न स्यादित्यत आह- विविदिषासंयोगाच्चेति ।
इष्यमाणतया विद्यायाः शब्दतः फलत्वभानादश्रुतमोक्षो न फलमन्यथा काष्ठैः पचतीत्यत्रापि काष्ठानां पाकफलतृप्तिहेतुत्वप्रसङ्गादिति भावः ।
कर्मणां ज्ञानार्थत्वे लिङ्गवाक्यान्याह- अथेत्यादिना ।
कश्चिद्वेदभागः साक्षाद्ब्रह्माख्यं पदं ब्रूते ।
कश्चित्तु ज्ञानार्थकर्मद्वारेति मत्वा सर्वे वेदान्ता इत्युक्तम् ।
स्पष्टमन्यत्
एन्द् ब्स्चोम्_3,4.6.26
स्तर्त् ब्स्चोम्_3,4.6.27
शमदमाद्युपेतस् स्यात् तथापि तु तद्विधेस् तदङ्गतया तेषाम् अप्य् अवश्यानुष्ठेयत्वात् । ब्ब्स्_3,4.27 ।
यदिकश्चिन्मन्येत यज्ञादीनां विद्यासाधनभावो न न्याय्यो विध्यबावात् ।
ऽयज्ञेन विविदिषन्तिऽ इत्येवञ्जातीयका हि श्रुतिरनुवादस्वरूपाविद्याभिष्टवपरा न यज्ञादिविधिपरा ।
इत्थं महाभागा विद्या स्याद्विद्यार्थी ऽतस्मादेवंविच्छन्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मनेयेवात्मानं पश्यतिऽ (बृ. 4.4.23) इति विद्यासाधनत्वेन शमदमादीनां विधानाद्विहितानां चावश्यानुष्ठेयत्वात् ।
नन्वत्रापि शमाद्युपेतो भूत्वा पश्यतीति वर्तमानापदेश उपलभ्यते न विधिः ।
नेति ब्रूमः ।
तस्मादिति प्रकृतप्रशंसापरिग्रहाद्विधित्वप्रतीतेः ।
पश्येदिति न माध्यन्दिना विस्पष्टमेव विधिमधीयते ।
तस्माद्यज्ञाद्यनपेक्षायामपि शमदीन्यपेक्षितव्यानि ।
यज्ञादीन्यपि त्वपेक्षितव्यानीति यज्ञादिश्रुतेरेव ।
ननूक्तं यज्ञादिभिर्विविदिषन्तीत्यत्र न विधिरुपलभ्यत इति ।
सत्यमुक्तं तथापि त्वत्पूर्वत्वात्संयोगस्य विधिः परिकल्प्यते ।
नह्ययं यज्ञादीनां विविदिषासंयोगः पूर्वं प्राप्तो येनानूद्येत ।
ऽतस्मात्पूषा प्रपिष्टभागो ऽदन्तको हि इत्येवमादिषु चाश्रुतविधिकेष्वपि वाक्येष्वपूर्वत्वाद्विधिं परिकल्प्य पौष्णं पेषणं विकृतौ प्रतीयेत्यादिविचारः प्रथमे तन्त्रे प्रवर्तितः ।
तथाचोक्तम् ऽविधिर्वा धारणवत्ऽ (ब्र, सू. 3.4.20) इति ।
स्मृतिरपि भगवद्गीताद्यास्वनभिसंधाय फलमनुतिष्ठितानि यज्ञादीनि मुमुक्षोर्ज्ञानसाधनानि भवन्तीति प्रपञ्चितम् ।
तस्माद्यज्ञादीनि शमदमादीनि च यथाश्रमं सर्वाण्येवाश्रमकर्माणि विद्योत्पत्तावपेक्षितव्यानि ।
तत्राप्येवंविदिति विद्यासंयोगात्प्रत्यासन्नानि विद्यासाधनानि शमादीनि, विविदिषासंयोगात्तु ब्रह्यतराणि यज्ञादीनीति विवेक्तव्यम्
एवं विद्योत्पत्तौ बहिरङ्गानि कर्माण्युक्त्वान्तरङ्गण्याह- शमेति ।
विद्यास्तुत्यर्थत्वेनैकवाक्यत्वसंभवे वर्तमानोक्तिभङ्गेन विधिकल्पनमयुक्तं विद्यावाक्याद्भेदप्रसङ्गात् ।
अतस्तत्त्वमसीति शब्दमात्रलभ्या विद्येति पराभिप्रायमनूद्याङ्गीकरोति- तथापि त्विति ।
शमादेरावश्यकत्वान्न शब्दमात्रलभ्या विद्येत्यर्थः यस्मादेवंविन्न लिप्यते कर्मणा पापकेन तस्मादेव विद्यार्थी शमाद्युपेतो भूत्वा विचारयेदिति विधिर्गम्यत इत्याह- नेति ब्रूम इति ।
अत्रोपरतपदेन संन्यास उक्तस्तस्य श्रवणाङ्गत्वमते शमादिविशिष्टश्रवणमत्र विधीयते ।
यदि तु ऽलोकमिच्छन्तः प्रव्रजन्तिऽ, ऽज्ञानं पुरस्कृत्य संन्यसेत्ऽइत्यादि श्रुतिस्मृतिषु फलवत्त्वेनोत्पन्नसंन्यासस्याङ्गत्वायोगात्, श्रोतव्य इति विहितश्रवणानुवादेनानेकशमादिविधाने वाक्यभेदापातात्, पश्येदिति च प्रकृत्या श्रवणलक्षणादोषाच्च संन्यासो न श्रवणस्याङ्गं किन्तु ततः प्रागनुष्ठोयत्वे ऽपि श्रवणवज्ज्ञानार्थ इति मतं तदा शमादिसमुच्चयेन ज्ञानं भावयेदिति ज्ञानार्थं शमादिसमुच्चयविधिरित्यनवद्यम् ।
यः पूर्वं यज्ञादिश्रुतेः स्तुत्यर्थत्वाङ्गीकारः आपाततो गुडजिह्विकान्यायेन शमादिस्वीकारार्थं कृतस्तमिदानीं त्यजति- यज्ञादीन्यपीति ।
यज्ञादीनां विद्यासाधनत्वरूपसंयोगस्यापूर्वत्वादवान्तरवाक्यभेदेन विधिः स्वीक्रियत ।
ब्रह्मविद्यावाक्येन महावाक्यैकवाक्यता चेत्यर्थः ।
परमप्रकरणे ऽप्यवान्तरविधिरित्यत्र पूर्वतन्त्रसंमतिमाह- तस्मात्पूषेति ।
दर्शपूर्णमासप्रकरणे श्रुतं पूषा प्रपिष्टभाग इति ।
तत्र पूषा देवता पिष्टभागो वा दर्शपूर्ममासयोर्नास्ति ।
अतः समासात्प्रतीतस्य कालत्रयानवमृष्टस्य द्रव्यदेवतासंबन्धस्याविनाभावेन यागविध्युपस्थापकत्वात् प्रयोगज्ञानाय विधिपदमध्याहृत्य प्रकरणादुत्कर्षेण पूषोद्देशेन पिष्टभागः कर्तव्य इति विकृतौ संबन्धः ।
पौष्णं पेषणमिति सूत्रे विचारितमित्यर्थः ।
ऽस्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवःऽइत्याद्याः स्मृत्यः ।
कर्मणां ज्ञानहेतुत्वे शमादिवद्यावज्ज्ञानोदयमनुवृत्तिः स्यात्तथाच संन्यासाभाव इत्यत आह- तत्रापीति ।
दृष्टविक्षेपनिवृत्तिद्वारा शमादीनां शानार्थत्वादनुवृत्तिर्न कर्मणामदृष्टद्वारा ज्ञानार्थत्वादिति भावः
एन्द् ब्स्चोम्_3,4.6.27
स्तर्त् ब्स्चोम्_3,4.7.28-29
7 सर्वान्नानुमत्यधिकरणम् । सू. 28-31
सर्वान् नानुमतिश् च प्राणात्यये तद्दर्शनात् । ब्ब्स्_3,4.28 ।
प्राणसंवादे श्रूयते छन्दोगानाम् - ऽन ह वा एवंविदि किञ्चनानन्नं भवतिऽ (छा. 5.2.1) इति ।
तथा वाजसनेयिनाम् - ऽन ह वा अस्यान्नं जग्धं भवति नानन्नं प्रतिगृहीतम्ऽ (बृ. 6.1.14) इति ।
सर्वमेवास्यादनीयमेव भवतीत्यर्थः ।
किमिदं सर्वान्नानुज्ञानं शमादिवद्विद्याङ्गं विधीयत उत स्तुत्यर्थं संकार्त्यत इति संशये विधिरिति तावत्प्रात्म् ।
तथाहि - प्रवृत्तिविशेषकर उपदेशो भवत्यतः प्राणविद्यासंनिधानात्तदङ्गत्वेनेयं नियमनिवृत्तिरुपदिश्यते ।
नन्वेवंसति भक्ष्याभक्ष्यविभागशास्त्रव्याघातः स्यात् ।
नैष दोषः ।
स्मान्यविशेषभावाद्बाधोपपत्तेः ।
यथा प्राणिहिंसाप्रतिषेधस्य पशुसंज्ञापनविधिना बाधः ।
यथाच ऽन काञ्चन परिहरेत्तद्व्रतम्ऽ (छा. 2.13.2) इत्यनेन वामदेव्याविद्याविषयेण सर्वस्त्रयपरिहारवचनेन तत्सामान्यविषयं गम्यागम्यविभागशास्त्रं बाध्यते ।
एवमनेनापि प्राणविद्याविषयेण सर्वान्नभक्षणवचनेन भक्ष्याभक्ष्यविभागशास्त्रं बाध्यतेति ।
एवं प्राप्ते ब्रूमः - नेदं सर्वान्नानुज्ञानं विधीयत इति ।
नह्यत्र विधायकः शब्द उपलभ्यते ऽन ह वा एवंविदि किञ्चनानन्नं भवतिऽ (छा. 5.2.1) इति वर्तमानापदेशात् ।
नचासत्यामपि विधिप्रतीतौ प्रवृत्तिविशेषकरत्वलोभेनैव विधिरभ्युपगन्तुं शक्यते ।
अपिच श्वादिमर्यादं प्राणस्यान्नमित्युक्त्वेदमुच्यते ऽनैवंविदः किञ्चिदनन्नं भवतिऽ इति ।
नच श्वादिमर्यामन्नं मानुषेण देहेनोपभोक्तुं शक्यते ।
शक्यते तु प्राणस्यान्नमिदं सर्वमिति विचिन्तयितुम् ।
तस्मात्प्राणान्नविज्ञानप्रशंसार्थो ऽयमर्थवादो न सर्वान्नानुज्ञानविधिः ।
तद्दर्शयति ऽसर्वान्नानुमतिश्च प्राणात्ययेऽ इति ।
एतदुक्तं भवति- प्राणात्यय एव हि परस्यामापदि सर्वमन्नमदीयत्वेनाभ्यनुज्ञायते तद्दर्शनात् ।
तथाहि श्रुतिश्चाक्रायणस्येर्षेः कष्टायामवस्थायामभक्ष्यभक्षणे प्रवृत्तिं दर्शयति - ऽमटचीहतेषु कुरुषुऽ (छा. 1.10.1) इत्यस्मिन्ब्राह्मणे ।
चाक्रायणः किलर्षिरापद्गत इभ्येन सामिखादिन्तान्कुल्माषांश्चखाद ।
अनुपानं तु तदीयमुच्छिष्टदोषात्प्रत्याचचक्षे ।
कारणं चात्रोवाच ऽन वा अजीविष्यमिमानखादन्ऽ (छा. 1.10.4) इति, ऽकामो म उदपानम्ऽ (छा. 1.10.4) इति च ।
पिनश्चोत्तरेद्युस्तानेव स्वपरोच्छिष्टान्पर्युषितान्कुल्माषान्भक्षयांबभूवेति ।
तदेतदुच्छिष्टपर्युषितभक्षणं दर्शयन्त्याः श्रुतेराशयातिशयो लक्ष्यते प्राणात्ययप्रसङ्गे प्राणसंधारणायाभक्ष्यमपि भक्षयितव्यमिति ।
स्वस्थावस्थायां तु तन्न कर्तव्यं विद्यावतापीत्यनुपानप्रत्याख्यानाद्गम्यते ।
तस्मादर्थवादो ऽन ह वा एवंविदिऽ (चा. 5.2.1) इत्येवमादिः
अबाधाच् च । ब्ब्स्_3,4.29 ।
एवञ्च सत्याहारशुद्धौ सत्त्वशुद्धिरित्येवमादि भक्ष्याभक्ष्यविभागशास्त्रमबाधितं भविष्यति
सर्वान्नानुमतिः एवंविदि प्राणस्यान्नं सर्वमिति ध्यानवतीत्यर्थः ।
जग्धं भक्षितम् ।
अपूर्वत्वाद्विध्यश्रुतेश्च संशयः ।
अपूर्वत्वाद्यज्ञादिवद्विधिः कल्प्य इति इति पूर्वपक्षयति- विधिरिति ।
अत्र भक्ष्याभक्ष्यनियमत्यागस्य विद्याङ्गत्वसिद्धिः फलं सिद्धान्ते तु विद्यास्तुतिरिति विवेकः ।
न कलञ्जं भक्ष्येदिति शास्त्रं प्राणविद्व्यतिरिक्तविषयम् ।
यथा ग्राम्यकर्मणि वामदेव्यसामोपासकव्यतिरिक्तविषयं परस्त्रीनिषेधशास्त्रं तद्वदिति प्राप्ते सिद्धान्तं सूत्राद्बहिरेव दर्शयति- नेदमिति ।
प्राणविद्याविधिसंनिधेरशक्यत्वाच्च स्तुतिरेव न विधिः कल्प्यः निषेधशास्त्रविरोधात् कॢप्तो हि विधिः सामान्यशास्त्रबाधको नतु कल्प्य इति भावः ।
स्वस्थस्य प्राणविदो न सर्वान्नानुमतिरित्यत्र लिङ्गं वदन् सूत्रं योजयति- तद्दर्शयतीति ।
मटच्यो रक्तक्षुद्रपक्षिणस्तैर्हतेषु कुरुदेशस्थसस्येषु दुर्भिक्षे जाते बालया सह जायया मुनिर्देशान्तरं गच्छन्निभ्याग्रामे स्थितवानिभ्यो हस्तिपालकस्तेन सामिखादितानर्धभक्षितान् कुत्सितमाषान् याचयित्वा भक्षितवान् ।
इभ्वेन जलं गृहाणेत्युक्ते सत्युच्छिष्टं वै मे पीतं स्यादिति प्रतिषिध्य माषाः किं नोच्छिष्टा इतीभ्येनोक्ते सति माषभक्षणे जलत्यागे च कारणमुवाच ।
अन्नांशे मम आपदस्ति ।
जलपानं तु स्वेच्छातस्तडागादौ लभ्यत इति माषान् खादित्वावशिष्टाञ्जायायै दत्तवान् ।
सा चानापद्गता पत्युरापदं ज्ञात्वा माषान्संरक्ष्य प्रातस्तस्मै ददौ ।
स च तान् खादित्वा राज्ञो यज्ञं गत्वा प्रस्तोत्रादीनाक्षिप्य प्राणादिकां प्रास्तावादिदेवतामुपदीश्य धनं प्राप्य स्थित इति भावः ।
अत्रोच्छिष्टभक्षणजलत्यागात्मकशिष्टाचारलिङ्गाच्छ्रौतादनापदि विदुषाप्यभक्ष्यं न भक्षणीयमिति सूच्यत इति भावः
एन्द् ब्स्चोम्_3,4.7.28-29
स्तर्त् ब्स्चोम्_3,4.7.30
अपि च स्मर्यते । ब्ब्स्_3,4.30 ।
अपिचापदि सर्वान्नभक्षणमपि स्मर्यतेविदुषो.विदुषश्चाविशेषेण - ऽजीवितात्ययमापन्नो यो ऽन्नमत्ति यतस्ततः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसाऽ इति ।
तथा ऽमद्यं नित्यं ब्राह्मणःऽ, ऽसुरापस्य ब्राह्मणस्योष्णामसिंचेयुःऽ, ऽसुरापाः कृमयो भवन्त्यभक्ष्यभक्षणात्ऽ इति च स्मर्यतेवर्जनमन्नस्य
fन्: उष्णमतितप्ताम् ।
सुरापानेनापि जीवनमाशङ्क्य कदापि तन्न कार्यमित्याह- तथा मद्यं नित्यं ब्रह्मण इति ।
वर्जयोदिति शेषः ।
कुत इत्याशङ्क्य मरणान्तप्रायश्चित्तविधानादित्याह- सुरापस्येति ।
उष्णामतितप्तां सुरामिति शेषः ।
इतश्च सा न पेयेत्याह- सुरापा इति
एन्द् ब्स्चोम्_3,4.7.30
स्तर्त् ब्स्चोम्_3,4.7.31
शब्दश् चातो ऽकामकारे । ब्ब्स्_3,4.31 ।
शब्दश्चानन्नस्य प्रतिषेधकः कामकारनिवृत्तिप्रयोजनः काठकानां संहितायां श्रूयते - ऽतस्माद्ब्रह्मणः सुरां न पिबेत्ऽ इति ।
सो ऽपि ऽन ह वा एवंविदिऽ (छा. 5.2.1) इत्यस्यार्थवादत्वादुपपन्नतरो भवति ।
तस्मादेवञ्जातीयका अर्थवादा न विधय इति
उदाहृतस्मृतीनां मूलश्रुतिमाह- शब्दश्चेति ।
कामकारो यथेष्टप्रवृत्तिः सो ऽपि निषेधो ऽपि उपपन्नतरो भवति ।
न ह वा एवंविदीत्यस्यार्थवादत्वात् ।
यद्ययमपि विधिः स्यात्तर्हि विहितप्रतिषिद्धत्वात्षोडशिग्रहणाग्रहणवत्सुरापाने विकल्पः स्यात्स च सर्वस्मृतिभिः शिष्टाचारेण च विरुद्ध इति तात्पर्यार्थः
एन्द् ब्स्चोम्_3,4.7.31
स्तर्त् ब्स्चोम्_3,4.8.32
8 आश्रमकर्माधिकरणम् । सू. 32-36
विहितत्वाच् चाश्रमकर्मापि । ब्ब्स्_3,4.32 ।
ऽसर्वापेक्षा च -ऽ (ब्र. सू. 3.4.23) इत्यत्राश्रमकर्मणां विद्यासाधनत्वमवधारितम् ।
इदानीं तु किममुमुक्षोरप्यश्रममात्रनिष्ठस्य विद्यामकाममयमानस्य तान्यनुष्ठेयान्युताहो नेति चिन्त्यते ।
तत्र ऽतमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्तिऽ (बृ. 4.4.22) इत्यादिनाश्रमकर्मणां विद्यासाधनत्वेन विहितत्वाद्विद्यामनिच्छतः फलान्तरं कामयमानस्य नित्यन्यननुष्ठेयानि ।
अथ तस्याप्यनुष्ठेयानि न तर्ह्येषां विद्यासाधनत्वं नित्यानित्यसंयोगविरोधादिति ।
अस्यां प्राप्तौ पठति - ऽआश्रममात्रनिष्ठस्याप्यमुमुक्षोः कर्तव्यन्येव नित्यानि कर्माणि यावज्जीवमग्निहोत्रं जुहोतिऽ इत्यादिना विहितत्वात् ।
नहि वचनस्यातिभारो नाम कश्चिदस्ति
विहितत्वाच्चाश्रमकर्मापि ।
नित्याग्निहोत्रादिकर्मसु विहितत्वाद्विनियुक्तविनियोगविरोधाच्च संशये शास्त्रान्तरविरोधात्सर्वान्नत्वोक्तेः स्तुतित्ववन्नित्यविनियुक्तत्वश्रुतिविरोधाद्विविदिषायां विनियोगश्रुतेः स्तुतित्वमिति पूर्वपक्षमाह- तत्रेति ।
ज्ञानकामनयानुष्ठाने कर्मणामनित्यत्वमनावश्यकत्वम् ।
तस्या अनित्यत्वाद्यावज्जीवादिविधिना तु नित्यत्वं चेति विरुद्धधर्मद्वयापाताद्विविदिषाश्रुतेः स्तुतित्वमिति फलं पूर्वपक्षे ।
सिद्धान्ते तूभयथानुष्ठानं फलम्
एन्द् ब्स्चोम्_3,4.8.32
स्तर्त् ब्स्चोम्_3,4.8.33
अथ यदुक्तं नैवं सति विद्यासाधनत्वेषां स्यादित्यत उत्तरं पठति -
सहकारित्वेन च । ब्ब्स्_3,4.33 ।
विद्यासहकारीणि चैतानि स्युर्विहितत्वादेव ऽतमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्तिऽ (बृ. 4.4.22) इत्यादिना ।
तदुक्तम् - ऽसर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्ऽ (ब्र. सू. 3.4.26) इति ।
नचेदं विद्यासहकारित्वावचनमाश्रमकर्मणां प्रयाजादिवद्विद्याफलविषयं मन्तव्यम् ।
अविधिलक्षणत्वाद्विद्यायाः ।
असाध्यत्वाच्च विद्याफलस्य ।
विधिलक्षणं हि साधनं दर्शपूर्णमासादि स्वर्गफलसिषाधयिषया सहकारिसाधनान्तरमपेक्षते नैवं विद्या ।
तथाचोक्तम् ऽअत एव चाग्नीन्धनाद्यनपेक्षाऽ (ब्र. सू. 3.4.25) इति ।
तस्मादुत्त्पत्तिसाधनत्व एवैषां सहकारित्ववाचोयुक्तिः ।
नचात्र नित्यानित्यसंयोगविरोध आशङ्कयः, कर्माभेदे ऽपि संयोगभेदात् ।
नित्ये ह्येकः संयोगो यावज्जीवादिवाक्यकल्पितो न तस्य विद्याफलत्वम् ।
अनित्यस्त्वपरः संयोगः ऽतमेतं वेदानुवचनेनऽ (बृ. 4.4.22)
इत्यादिवाक्यकल्पितस्तस्य विद्याफलत्वम् ।
यथैकस्यापि खादिरत्वस्य नित्येन संयोगेन क्रत्वर्थत्वमनित्येन संयोगेन पुरुषार्थत्वं तद्वत्
सह मिलित्वा शुद्धिद्वारा विद्यां कुर्वन्तीति सहकारीणि कर्माणि ।
तेषां भावस्तत्वं तेनेत्यर्थः ।
विद्यया सह फलकारित्वं सहकारिपदात्प्राप्तं निरस्यति- नचेदमिति ।
विद्याया अविहितत्वान्नाङ्गपेक्षास्ति ।
अतो विहितानि कर्माणि अविहिताया न सहकार्यङ्गानि मोक्षस्यासाध्यत्वाच्च न कर्माणां सहकारित्वसंभव इत्यर्थः ।
तुल्यबलश्रुतिद्वयेन विनियोगपृथक्त्वं संयोगभेदस्ततो न विरोधः ।
कामनाया अनित्यत्वे ऽपि कर्मणां नानित्यत्वं नित्यविधिना प्रयोगस्य नित्यत्वात् ।
सत्यां कामनायां काम्यप्रयोगेनैव नित्यत्वसिद्धेर्न कश्चिद्विरोधः ।
इदञ्च ऽएकस्य तूभयत्वे संयोगपृथक्त्वम्ऽइति सूत्रे चिन्तितम् ।
यथा ऽखादिरो यूपो भवतिऽइति श्रुत्या खादिरत्वस्य क्रत्वर्थता खादिरं वीर्यकामस्येति श्रुत्या पुरुषार्थता चेति ।
अतः सति वाक्यद्वये विनियुक्तविनियोगो न विरुध्यत इत्यर्थः
एन्द् ब्स्चोम्_3,4.8.33
स्तर्त् ब्स्चोम्_3,4.8.34
सर्वथापि त एवोभयलिङ्गात् । ब्ब्स्_3,4.34 ।
सर्वथाप्याश्रमकर्मपक्षे विद्यासहकारित्वपक्षे च त एवाग्निहोत्रादयो धर्मा अनुष्टोयाः ।
त एवेत्यवधारयन्नाच्र्यः किं निवर्तयति ।
कर्मभेदशह् कामिति ब्रूमः ।
यथा कुण्डपायिनामयने ऽमासमग्निहोत्रं जिहोतिऽ इत्यत्र नित्यादग्निहोत्रात्कर्मान्तरमुपदिश्यते नैवमिह कर्मभेदो ऽस्तीत्यर्थः ।
कुतः -उभयलिङ्गात् ।
श्रुतिलिङ्गात्स्मृतिलिङ्गाच्च ।
श्रुतिलिङ्गं तावत् ऽतमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्तिऽ (बृ. 4.4.22) इति सिद्धवदुत्पन्नरूपाण्येव यज्ञादीनि विविदिषायां विनियुङ् क्ते नतु जुह्वतीत्यादिवदपूर्वमेषां रूपमुत्पादयतीति ।
स्मृतिलिङ्गमपि ऽअनाश्रितः कर्मफलं कार्यं कर्म करोति यःऽ (6.1) इति विज्ञातकर्तव्यताकमेव कर्म विद्योत्पत्त्यर्थं दर्शयति ।
यस्यैते ऽष्टाचत्वारिंशत्संस्कारा इत्याद्या च संस्कारत्वप्रसिद्धिर्वैदिकेषु कर्मसु तत्संस्कृतस्य विद्योत्पत्तिमभिप्रेत्य स्मृतौ भवति ।
तस्मात्साद्विदमभेदावधारणम्
ननु नित्याग्निहोत्रादिभ्यो भिन्ना एवापूयर्वज्ञादयो विविदिषायां विनियुज्यन्तां तत्र कुतो विनियुक्तविनियोगस्तत्राह- सर्वथापीति ।
नित्यत्वे काम्यत्वे चेत्यर्थः ।
कुण्डपायिनामयने मासमग्निहोत्रं जुह्वतीत्याख्यातस्य साध्यहोमवाचित्वात्तदेकार्थकाग्निहोत्रपदस्य व्यवहितसिद्धाग्निहोत्रपरामर्शकत्वायोगान्मासगुणविशिष्टं कर्मान्तरं विधीयत इति युक्तमिह तु यज्ञेनेत्यादि सुबन्तानामाख्यातेनैकार्थत्वाभावात्सिद्धव्यवहितकर्मानुवादकत्वात्तेषामेव कर्मणां ज्ञानार्थत्वविधिरिति भावः ।
सिद्धकर्मसु संस्कारत्वप्रसिद्धिरपि शुद्धाख्यसंस्कारद्वारा ज्ञानार्थककर्माभेदे लिङ्गमित्याह- यस्यैत इति
एन्द् ब्स्चोम्_3,4.8.34
स्तर्त् ब्स्चोम्_3,4.8.35
अनभिभवं च दर्शयति । ब्ब्स्_3,4.35 ।
सहकारित्वस्यैवैतदुपोद्बलकं लिङ्गदर्सनमनभिभवं त दर्शयति श्रुतिर्ब्रह्मचर्यादिसाधनसंपन्नस्य रागदिभिः क्लेशैः ऽएष ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दतेऽ (छा. 8.5.3) इत्यादिना ।
तस्माद्यज्ञादीन्याश्रमकर्माणि च भवन्ति विद्यासहकारीणि चेति निश्चितम्
ब्रह्मचर्यादिकर्मणां प्रतिबन्धध्वंसद्वारा विद्यार्थत्वे लिङ्गमाह- अनभिभवं चेति
एन्द् ब्स्चोम्_3,4.8.35
स्तर्त् ब्स्चोम्_3,4.9.36-37
9 विधुरादिकरणम् । सू. 36 -39
अन्तरा चापि तु तद्दृष्टेः । ब्ब्स्_3,4.36 ।
विधुरादीनां द्रव्यादिसंपद्रहितानां चान्यतमाश्रमप्रतिपत्तिहीनानामन्तरालवर्तिनां किं विद्यायामधिकारो ऽस्ति किंवा नास्तीति संशये नास्तीति तावत्प्राप्तम् ।
आश्रमकर्मणां विद्याहेतुत्वावधारणादाश्रमकर्मासंभवाच्चैतेषामिति ।
एवं प्राप्त इदमाह - अन्तरा चापि त्वनाश्रमित्वेन वर्तमानो ऽपि विद्यायामधिक्रियते ।
कुतः तद्दृष्टेः ।
रैक्ववाचक्नवीप्रभृतीनामेवंभूतानामपि ब्रह्मत्वश्रुत्युपलब्धेः
अपि च स्मर्यते । ब्ब्स्_3,4.37 ।
संवर्तप्रभृतीनां च नग्नचर्यादियोगादनपेक्षिताश्रमकर्माणामपि महायोगित्वं स्मर्यत इतिहासे
अन्तरा चापि तु तद्दृष्टेः ।
अनाश्रमिणां जपादिकर्मसत्त्वान्निन्दितत्वाच्च संशये सति आश्रमकर्मणामेव विद्याहेतुत्वश्रुतेरनाश्रमस्य निन्दितत्वाच्चानधिकार इति पूर्वपक्षः ।
तत्रानाश्रमकर्मणां विद्याहेतुत्वासिद्धिः ।
सिद्धान्ते तत्सिद्धिरिति फलम्
एन्द् ब्स्चोम्_3,4.9.36-37
स्तर्त् ब्स्चोम्_3,4.9.38
ननु लिङ्गमिदं श्रुतिस्मृतिदर्शनमिपन्यस्तं का नु खलु प्राप्तिरिति साभिधीयते -
विशेषानुग्रहश् च । ब्ब्स्_3,4.38 ।
तेषामपि च विधुरादीनामविरुद्धैः पुरुषमात्रसंबन्धिभिर्जपोपवासदेवताराधनादिभिर्धर्मविशेषैरनुग्रहो विद्यायाः संभवति ।
तथाच स्मृतिः - ऽजप्येनैव तु संसिद्ध्येद्ब्राह्मणो नात्र संशयः ।
कुर्यादन्त्र वा कुर्यान्मन्त्रो ब्राह्मण उच्यतेऽ इत्यसंभवदाश्रमकर्माणो ऽपि जप्ये ऽधिकारं दर्शयति ।
जन्मान्तरानुष्ठितैरपि चाश्रमकर्मभिः संभवत्येव विद्याया अनुग्रहः ।
तथाच स्मृतिः - ऽअनेकजन्मसंसिद्धस्ततो याति परां गतिम्ऽ (6.45) इति जन्मान्तरसंचितानामपि संस्कारविशेषाननुग्रहीतृन्विद्यायां दर्शयति ।
दृष्टार्था च विद्या प्रतिषेधाभावमात्रेणाप्यर्तिनमधिकरोति श्रवणादिषु ।
तस्माद्विधुरादीनामप्यधिकारो न विरुध्यते
रैक्वादीनां विद्यावत्त्वलिङ्गस्य जन्मान्तराश्रमकर्मणान्यथासिद्धेरनाश्रमकर्मणो विद्यार्थत्वप्रापकं मानान्तरं वाच्यमिति शङ्कते- ननु लिङ्गमिति ।
अनाश्रमित्वाविरुद्धानां वर्णमात्रप्राप्तधर्माणां विद्यार्थत्वे मानमाह- तथाचेति ।
मैत्रो दयावानित्यर्थः ।
नन्वनाश्रमिणां कर्म भवतु विद्याहेतुस्तथापि तेषां न श्रवणादावधिकारः संन्यासाभावादित्यत आह- दृष्टार्था चेति ।
बन्धकाज्ञानध्वस्तिफलकविद्याकामस्य श्रवणे ऽधिकारः ।
संन्यासो ऽपि कदाचित्कृतो ज्ञान उपकरोति श्रवणं प्रत्यनङ्गत्वादिति भावः
एन्द् ब्स्चोम्_3,4.9.38
स्तर्त् ब्स्चोम्_3,4.9.39
अतस् त्व् इतरज्ज्यायो लिङ्गाच् च । ब्ब्स्_3,4.39 ।
अतस्त्वन्तरालवर्तित्वादितरदाश्रमवर्तित्वं ज्यायो विद्यासाधनम् ।
श्रुतिस्मृतिसंदृष्टत्वात् ।
श्रुतिलिङ्गाच्च ऽतेनैति ब्रह्मवित्पूण्यकृत्तेजसश्चऽ (बृ. 4.4.1) इति ।
ऽअनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः ।
संवत्सरमनाश्रमी स्थित्वा कृच्छ्रमेकं चरेत्ऽ इति च स्मृतिलिङ्गात्
तर्ह्याश्रमित्वं वृथेत्यत आह- अतस्त्विति ।
पुण्यकृत्तैजसः शुद्धसत्वस्तेन ज्ञानमार्गेणैति ब्रह्म प्राप्नोतीत्यर्थः ॥
अत्र पुण्यकृत्त्वलिङ्गादाश्रमित्वं ज्यायः पुण्योपचये शीघ्रं विद्यालाभादनाश्रमस्य निन्दितत्वाच्चेति भावः
एन्द् ब्स्चोम्_3,4.9.39
स्तर्त् ब्स्चोम्_3,4.10.40
10 तद्भूताधिकरणम् । सू. 40
तद्भूतस्य तु नातद्भावो जैमिनेर् अपि नियमात् तद्रूपाभावेभ्यः । ब्ब्स्_3,4.40 ।
सन्त्यूर्ध्वरेतसा आश्रमा इति स्थापितम् ।
तांस्तु प्राप्तस्य कथञ्चित्ततः प्रच्युतिरस्ति नास्ति वेति संशयः ।
पूर्वकर्मस्वनुष्ठानचिकीर्षया वा रागादिवशेन वा प्रच्युतो ऽपि स्याद्विशेषाभावादिति ।
एवं प्राप्त उच्यते - तद्भूतस्य तु प्रतिपन्नोर्ध्वरेतोभावस्य न कथञ्चिदप्यतद्भावो न ततः प्रच्युतिः स्यात् ।
कुतः - नियमातद्रूपाभावेभ्यः ।
तथाहि - ऽअत्यन्तमात्मानमाचार्यकुले ऽवसादयन्ऽ (छा. 2.23.1) इति ऽअरण्यमियादिति पदं ततो न पुनरेयादित्युपनिषत्ऽ इति ऽआचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्रमम् ।
आ विमोक्षाच्छरीरस्य सो ऽनुतिष्ठेद्यथाविदिऽ इति चैवञ्जातीयके नियमः प्रच्युत्यप्रभावं दर्शयति ।
यथाच ऽब्रह्मचर्यं समाप्य गृही भवेत्ऽ (जा. 4) ऽब्रह्मचर्यादेव प्रव्रजेत्ऽ (जा. 4) इति चैवमादीन्यारोहरूपाणि वचांस्युपलभ्यन्ते नैवं प्रत्यवरोहरूपाणि ।
नचैवमाचाराः शिष्ठा विद्यन्ते ।
यत्तु पूर्वकर्मस्वनुष्ठानचिकीर्षया प्रत्यवरोहणमिति तदसत् ऽश्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्ऽ (3.35) इति स्मरणात् ।
न्यायाच्च ।
यो हि यं प्रति विधीयते स तस्य धर्मो नतु यो येन स्वनुष्ठातुं शक्यते ।
चोदनालक्षणत्वाद्धर्मस्य ।
नच रागादिवशात्प्रच्युतिः ।
नियमशास्त्रस्य बलीयस्त्वात् ।
जैमिनेरपीत्यपिशब्देन जैमिनिबादरायणयोरत्र संप्रतिपत्तिं शास्ति प्रतिपत्तिदार्ढ्याय
तद्भूतस्य तु ।
उत्तमाश्रमात्पूर्वाश्रमं प्राप्तस्य प्रच्युतस्य कर्मापि विद्याहेतुरनाश्रमिकर्मवदिति संगतिः, पूर्वपक्षफलं चैतत् ।
सिद्धान्ते तु भ्रष्टस्य कर्म न हेतुरिति फलम् ।
रागादिप्राबल्यात्प्रच्युतिनिषेधाच्च प्रच्युतिः प्रामाणिकी न वेति संशयमाहः ।
सिद्धान्तसूत्रे नियमं व्याचष्टे- तथाहीति ।
अत्यन्तमिति नैष्ठिकत्वनियमः ।
अरण्यमित्येकान्तोपलक्षितं पारिव्राज्यं गृह्यते ।
तदियाद्गच्छेदिति पदं शास्त्रमार्गस्ततस्तस्मात्पारिव्राज्यान्न पुनरेयान्न प्रच्यवेदिति उनिषद्रहस्यमित्यर्थः ।
अतद्रूपं प्रच्युतौ प्रमाणाभावं व्याचष्टे- यथाचेति ।
शिष्टाचाराभावमाह- नचैवमिति ।
ऽचण्डालाः प्रत्यवसिताःऽइति स्मृतेश्च पतितानां कर्म निष्फलमिति भावः
एन्द् ब्स्चोम्_3,4.10.40
स्तर्त् ब्स्चोम्_3,4.11.41
11 अधिकाराधिकरणम् । सू. 41 - 42
न चाधिकारिकम् अपि पतनानुमानात् तदयोगात् । ब्ब्स्_3,4.41 ।
यदि नैष्ठिको ब्रह्मचारी प्रमादादवकीर्येत किं तस्य ऽब्रह्मचर्यावकीर्णी नैरृतं गर्दभमालभेत्ऽ इत्येतत्प्रायश्चित्तं स्यादुत नेति ।
नेत्युच्यते ।
यदप्यधिकारलक्षणे निर्णीतं प्रायश्चित्तम् ऽअवकीर्णिपशुश्च तद्वदाधानस्याप्राप्तकालत्वात्ऽ (जै. सू ।
6.8.21) इति तदपिन नैष्ठिकस्य भवितुमर्हति ।
किं कारणम् - ऽआरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पिनः ।
प्रायश्चित्तं न पश्यामि येन शुद्ध्येत्स आत्महाऽ इत्यप्रतिसमाधेयपतनस्मरणाच्छिन्नशिरस इव प्रतिक्रियानुपपत्तेः ।
उपकुर्वाणस्य तु तादृक्पतनस्मरणाभावादुपपद्यते तत्प्रायश्चित्तम्
नचाधिकारिकम् ।
अवकीर्येत व्यभिचरेदित्यर्थः ।
अवकीर्णं योनौ निषिक्तं रेतो ऽस्यास्तीत्यवकीर्णी ।
अत्र प्रच्युतस्य प्रायश्चित्तं स्यान्नवेति उपपातकत्वात्पतनस्मृतेश्च संशयः ।
प्रच्युतस्य यज्ञादिकं निष्फलमित्युक्तं तद्वत्प्रायश्चित्तमापि निष्फलमिति पूर्वपक्षयति- नेत्युच्यत इति ।
अत्र कृतप्रायश्चित्तस्य कर्म ज्ञानहेतुर्न भवतीति फलं सिद्धान्ते तु भवतीतिदः ।
यथोपनयनकाले होमो लौकिकाग्नावेव कार्यः ।
दारसंबन्धोत्तरकालविहिताधानस्य संप्रत्यप्राप्तकालत्वेनाहवनीयाभावात्तद्वदवकीर्णिनो ब्रह्मचारिणः प्रायश्चित्तपशुर्गर्दभो लौकिकाग्नौ होतव्य इत्यधिकारलक्षणे षष्ठाध्याये निर्णीतं प्रायश्चित्तमाधिकारिकं तदुपकुर्वाणस्यैव न नैष्ठिकस्येति प्राप्ते सिद्धान्तयति
एन्द् ब्स्चोम्_3,4.11.41
स्तर्त् ब्स्चोम्_3,4.11.42
उपपूर्वम् अपि त्व् एके भावमशनवत् तद् उक्तम् । ब्ब्स्_3,4.42 ।
अपित्वेक आचार्या उपपातकमेवैतदिति मन्यते ।
यन्नैष्ठिकस्य गुरुदारादिभ्यो ऽन्यत्र ब्रह्मचर्यं विशीर्येत न तन्महापातकं भवति गुरुतल्पादिषु महापातकेष्वपरिगणनात् ।
तस्मादुपकुर्वाणवन्नैष्ठिकस्यापि प्रायश्चित्तस्य भावमिच्छन्ति ब्रह्मचारित्वाविशेषादवकीर्णितत्वाविशेषाच्च ।
अशनवत् ।
यथा ब्रह्मचारिणो मधुमांसाशने व्रतलोपः पुनःसंस्कारश्चैवमिति ।
ये हि प्रायश्चित्तस्याभावमिच्छन्ति तेषां न मूलमुपलभ्यते ।
ये तु भावमिच्छन्ति तेषां ब्रह्मचार्यवकीर्णेत्यदविशेषश्रवणं मूलम् ।
तस्माद्भावो युक्ततरः ।
तदुक्तं प्रमाणलक्षणे - ऽसमा विप्रतिपत्तिः स्यात्ऽ (जै. सू. 1.3.8) ऽशास्त्रस्था वा तन्निमित्तत्वात्ऽ (जै. सू. 1.3.9) इति ।
प्राश्चित्ताभावस्मरणं त्वेवं सति यत्नगौरवोत्पादनार्थमिति व्याख्यातम् ।
एवं भिक्षुवैखानसयोरपि वानप्रस्थो दीक्षाभेदे कृच्छ्रं द्वादशरात्रं चरित्वा महाकक्षं वर्धयेत् भिक्षुर्वानप्रस्थवत्सोमवल्लिङ्गवर्जं स्वशास्त्रसंस्कारश्च इत्यवमादि प्रायश्चित्तस्मरणमनुवर्तव्यम्
उपपूर्वमिति ।
उपपदं पूर्वं यस्य पातकस्य तदुपपातकमित्यर्थः ।
ऽप्रायश्चित्तं न पश्यामिऽइति दर्शनाभावस्मृतेः प्रायश्चित्ताभावापरत्वं कल्पयित्वा तन्मूलश्रुतिकल्पनात्प्रागेव कॢप्तसाधारणश्रुत्या प्रायश्चित्तसद्भावसिद्धेः ।
कल्पनं नोदेति कॢप्तश्रुतिविरोधादिति भावः ।
प्रायश्चित्तस्य भावाभावसिद्ध्योः समत्वे ऽपि भावप्रसिद्धिः श्रुतिमूलत्वादादर्तव्येत्यत्र संमतिमाह- तदुक्तमिति ।
यवमयश्चरूरित्यत्र यवशब्दङ्केचिद्दीर्घशूके प्रयुञ्जते केचिद्देशविशेषे प्रियङ्गुषु ।
अतः कस्य चरुः कार्य इति संदेहे वृद्धप्रयोगसाम्यात्समा तुल्या विकल्पेन प्रतिपत्तिः स्यादिति प्राप्ते सिद्धान्तः-शास्त्रमूला प्रतिपत्तिर्ग्राह्या शास्त्रनिमित्तत्वाद्धर्मादिज्ञानस्य ।
तथाच ऽयदान्या ओषधयो म्लायन्त्यथैते यवा मोदमानास्तिष्ठन्ति, इति शास्त्रमूलत्वाद्दीर्घशूकप्रयोगस्यैवादर इत्यर्थः ।
स्मृतेर्गतिमाह- प्रायश्चित्तेति ।
ब्रह्मचर्यरक्षार्थं यत्नाधिक्यं कार्यमिति ज्ञापनार्थं प्रायश्चित्तं स्पष्टमपि न पश्यामीत्युक्तं भगवदत्रिणेत्यर्थः ।
नैष्ठिकवद्यतिवनस्थयोरपि प्रमादाद्ब्रह्मचर्यभङ्गे प्रायश्चित्तमस्तीत्याह- एवमिति ।
कृच्छ्रं प्राजापत्यं महाकक्षं बहुतृणकाष्ठदेशं जलदानादिना वर्धयेत ।
यतिस्तु सोमलतावर्जं वर्धयेत् ।
ऽसर्वपापप्रसक्तो ऽपि ध्यायन्निमिषमच्युतम् ।
भूयस्तपस्वी भवति पङ्क्तिपावन एव च ।
उपापातकसङ्घेषु पातकेषु महत्सु च ।
प्रविश्य रजनीपादं ब्रह्मध्यानं समाचरेत् ॥
ऽइत्यादिस्वशास्त्रविहितध्यानप्राणायामादिसंस्कारो ऽपि भिक्षुणा कार्य इत्यर्थः ।
आदिपदात् ऽमनोवाक्कायजान्दोषानज्ञानोत्थान्प्रमादजान् ।
सर्वान्दहति योगाग्निस्तूलराशिमिवानलः ।
नित्यमेव तु कुर्वीत प्राणायामांस्तु षोडश ।
अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः ।
ऽइत्यादिवाक्यं ग्राह्यम्
एन्द् ब्स्चोम्_3,4.11.42
स्तर्त् ब्स्चोम्_3,4.12.43
12 बहिरधिकरमम् । सू. 43
बहिस् तूभयथापि स्मृतेर् आचाराच् च । ब्ब्स्_3,4.43 ।
यदूर्ध्वरेतसां स्वश्रमेभ्यः प्रच्यवनं महापातकं यदि वोपपातकमुभयथापि शिष्ठैस्ते बहिर्कर्तव्याः ।
ऽआरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः ।
प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महाऽ इति ऽआरूढपतितं विप्रं मण्डलाच्च विनिःसृतम् ।
उद्बद्धं कृमिदष्टं च स्पृष्ट्वा चान्द्रायणं चरेत्ऽ इति चैवमादिनिन्दातिशयस्मृतिभ्यः ।
शिष्टाचाराच्च ।
नहि यज्ञाध्ययनविवाहादीनि तैः सहाचरन्ति शिष्टाः
बहिस्तूभयथापि ।
कृतप्रायश्चित्तैस्तैः सह कृतश्रवणादिकं ज्ञानसाधनं न वेति संदेहे तेषां शुद्धत्वात्साधनमिति प्राप्ते प्रायश्चित्तात्परलोके तेषां शुद्धत्वे ऽप्यत्र शुद्धभावान्न साधनमिति सिद्धान्तयति- यद्यूर्ध्वेति ।
सुगमं भाष्यम्
एन्द् ब्स्चोम्_3,4.12.43
स्तर्त् ब्स्चोम्_3,4.13.44
13 स्वाम्यधिकरणम् । सू. 44 -46
स्वामिनः फलश्रुतेर् इत्य् आत्रेयः । ब्ब्स्_3,4.44 ।
अङ्गेषूपासनेषु संशयः ।
किं तानि यजमानकर्माण्याहोस्विदृत्विक्कर्माणीति ।
किं तावत्प्राप्तम् यजमानकर्माणीति ।
कुतः - फलश्रुतेः ।
फलं हि श्रूयते - ऽवर्षति हास्मै वर्षयति ह य एतदेवं विद्वान्वृष्टौ पञ्चविधं सामोपास्तेऽ (छा. 2.3.2) इत्यादि ।
तच्च स्वामिगामि न्याय्यम् ।
तस्य साङ्गे प्रयोगे ऽधिकृतत्वात् ।
अधिकृताधिकारत्वाच्चैवञ्जातीयकस्य ।
फलं च कर्तर्युपासनानां श्रूयते - ऽवर्षत्यस्मै य उपास्तेऽ इत्यादि ।
नन्वृत्विजो ऽपि फलं दृष्टम् ऽआत्मने वा यं कामं कामयते तमागायतिऽ (बृ. 1.3.28) इति ।
न ।
तस्य वाचनिकत्वात् ।
तस्मात्स्वामिन एव फलवत्सूपासनेषु कर्तृत्वमित्यात्रेय आचार्यो मन्यते
स्वामिनः फलश्रुतेः ।
अङ्गाश्रितोपास्तिषूभयकर्तृकत्वसंभवात्संशयः ।
यः कृतप्रायश्चित्तः स संव्यवहार्य इत्युत्सर्गस्य निन्दातिशयस्मृत्या नैष्ठिकादिषु बाधवद्यो यदङ्गकर्ता स तदाश्रितस्य कर्तेत्युत्सर्गस्य कर्तुः फलश्रुत्या बाध इति पूर्वपक्षमाह- किमिति ।
अत्र कर्तृत्वभोक्तृत्वयोरैकाधिकरण्यं फलं सिद्धान्ते त्वङ्गाश्रिता ऋत्विक्कर्तृका अप्युपास्तयो यजमानगामिस्वतन्त्रफलाः किमु वाच्यं स्वनिष्ठब्रह्मविद्यायाः स्वातन्त्र्यमिति फलं विवेक्तव्यम् ।
अतः पादसंगतिः हिङ्कारप्रस्तावोद्गीथप्रतिहारनिधनाख्यपञ्चप्रकारे साम्नि वृष्टिध्यातुर्वर्षसमृद्धिः फलमिति श्रुत्यर्थः ।
श्रुतं फलं ऋत्विग्गतं किं न स्यादित्यत आह- तच्चेति ।
यथासाङ्गक्रत्वधिकृताधिकारत्वाद्गोदोहनस्य फलं क्रत्वधिकारिगतं तद्वदङ्गोपासनस्यापि फलं तद्गतमेवेत्यर्थः ।
अस्तु तस्य फलं तद्गतं कर्तात्वन्यः किं न स्यादित्यत आह- फलं चेति ।
यदुक्तं यजमानागामि फलमिति तस्यापवादं शङ्कते- नन्विति ।
उद्गानेन साधयतीत्यर्थः ।
याजमानं फलमित्युत्सर्गस्यासति बाधकवचने सिद्धिरिति समाध्यर्थः ।
तस्मात्फलभोक्तृत्वादित्यर्थः
एन्द् ब्स्चोम्_3,4.13.44
स्तर्त् ब्स्चोम्_3,4.13.45-46
आर्त्विज्यम् इत्य् औडुलोमिः तस्मै हि परिक्रीयते । ब्ब्स्_3,4.45 ।
नैतदस्ति स्वामिकर्माण्युपासनानीति ।
ऋत्विक्कर्माण्येतानि स्युरित्यौडुलोमिराचार्यो मन्यते ।
किं कारणं, तस्मै हि साङ्गाय कर्मणे यजमानेनर्त्विक्परिक्रीयते ।
तत्प्रयोगान्तःपातीनि चोद्गीथाद्युपासनान्यधिकृताधिकारकत्वात् ।
तस्माद्गोदोहनादिनियमवदेवर्त्विग्भिर्निर्वर्त्येतन् ।
तथाच ऽतं ह बको दाल्भ्यो विदाञ्चकार स ह नैमिशीयानामुद्गाता बभूव (छा. 1.2.13) इत्युद्गातृकतृर्कतां विज्ञानस्य दर्शयति ।
यत्तूक्तं कर्त्राश्रयं फलं श्रूयत इति ।
नैष दोषः ।
परार्थत्वादृत्विजो ऽन्यत्र वचनात्फलसंबन्धानुपपत्तेः
श्रुतेश्च । ब्ब्स्_3,4.46 ।
यां वै काञ्चन यज्ञ ऋत्विज आशिषमाशासत इति यजमानायैव तामाशासत इति होवाचेति तस्मादु हैवंविदुद्गाता ब्रूयात्कं ते काममागायानि (छा. 1.7.8 - 9) इति ।
तच्चर्वित्वक्कर्तृकस्य विज्ञानस्य यजमानगामि फलं दर्शयति ।
तस्मादङ्गोपासनानामृत्विक्कर्मत्वसिद्धिः
उपासनमार्त्विज्यं ऋत्विक्कर्तृकमित्यत श्रौतं लिङ्गमाह- तथाचेति ।
तमुद्गीथाख्यं प्रणवं प्राणदृष्ट्या ध्यातवान्ध्यात्वा च नैमिशीयानां सत्रिणामुद्गातासीदित्यर्थः ।
यजमानेन स्वगामिफलकसाङ्गप्रयोगकरणायर्त्विजां क्रीतत्वात्कर्तृत्वे ऽपि न तत्फलभाक्त्वमुत्सर्गस्य बाधकाभावादित्युक्तत्वात् ।
क्रयणद्वारा कर्तृत्वभोक्तृत्वसामानाधिकरण्यं चोपपद्यते भृत्यकर्तृके युद्धे राजा युध्यते जयति चेतिवदिति भावः
एन्द् ब्स्चोम्_3,4.13.45-46
स्तर्त् ब्स्चोम्_3,4.14.47
14 सहकार्यन्तरविध्यधिकरणम् । सू. 47 - 49
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् । ब्ब्स्_3,4.47 ।
ऽतस्माद्ब्रह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद्बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मोनं च निर्विद्याथ ब्राह्मणःऽ (बृ. 3.5.1) इति बृहदारण्यके श्रूयते ।
तत्र संशयः मौनं विदीयते न वेति ।
न विदीयत इति तावत्प्राप्तम् ।
बाल्येन तिष्ठासेदित्यत्रैव विधेरवसितत्वात् ।
नह्यथ मुनिरित्यत्र विदायका विभक्तिरुपलभ्यते तस्मादयमनुवादो युक्तः ।
कुतः प्राप्तिरिति चेत् ।
मुनिपण्डितशब्दयोर्ज्ञानार्थत्वात्पाण्डित्यं निर्विद्येत्येवं प्राप्तं मौनम् ।
अपिचामौनं च मौनं च निर्विद्याथ ब्राह्मण इत्यत्र तावन्न ब्राह्मणत्वं विधीयते प्रागेव प्राप्तत्वात् ।
तस्मादथ ब्राह्मण इति प्रशंसावदस्तथैवाथ मुनिरित्यपि भवितुमर्हति समाननिर्देषत्वादिति ।
एवं प्राप्ते ब्रूमः - सहकार्यन्तरविधिरिति ।
विद्यासहकारिणो मौनस्य बाल्यपाण्डित्यवद्विधिरेवाश्रयितव्यो ऽपूर्ववत् ।
ननु पाण्डित्यशब्देनैव मौनस्यावगतत्वमुक्तम् ।
नैष दोषः ।
मुनिशब्दस्य ज्ञानातिशयार्थत्वात् ।
मननान्मुनिरिति च व्युत्पत्तिरिति च व्युत्पत्तिसंभवात् ।
ऽमुनीनामप्यहं व्यासःऽ (गी. 10.37) इति च प्रयोगदर्शनात् ।
ननु मुनिशब्द उत्तमाश्रमवचनो ऽपि श्रूयते ऽगार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थम्ऽ इत्यत्र ।
न ।
ऽवाल्मीकिर्मुनिपुङ्गवःऽ इत्यादिषु व्यबिचारदर्शनात् ।
इतराश्रमसंनिधानात्तु पारिशेष्यात्तत्रोत्तमाश्रमोपादानं ज्ञानप्रधानत्वादुत्माश्रमस्यष तस्माद्बाल्यपाण्डित्यापेक्षया तृतीयमिदं मौनं ज्ञानातिशयरूपं विदीयते ।
यत्तु बाल्य एव विधेः पर्यवसानमिति तथाप्यपूर्वत्वान्मुनित्वस्य विधेयत्वामाश्रीयते मुनिः स्यादिति ।
निर्वेदनीयत्वनिर्देशादपि मौनस्य बाल्यपाण्डित्यवद्विधेयत्वाश्रयणम् ।
तद्वतो विद्यावतः सन्यासिनः ।
कथञ्च विद्यावः संन्यासिन इत्यवगम्यते ।
तदधिकारात् ऽआत्मानं विदित्वा पुत्राद्येषणाभ्यो व्युत्थायाथ भिक्षाचर्यं चरन्तिऽ इति ।
ननु सति विद्यावत्त्वे प्राप्नोत्येव तत्रातिशयः किं मोनविधिनेत्यत आह - पक्षेणेति ।
एतदुक्तं भवति -
यस्मिन्पक्षे भेददर्शनप्राबल्यान्न प्राप्नोति तस्मिन्नेष विधिरिति ।
विध्यादिवत् ।
यथा - ऽदर्शपूर्णमासाभ्यां स्वर्गकामो यजेतऽ इत्येवञ्जातीयके विध्यादौ सहकारित्वेनाग्न्यन्बाधानादिकमङ्गजातं विधीयते ।
एवमविप्रधाने ऽप्यस्मिन्विद्यावाक्ये मौनविधिरित्यर्थः
सहकार्यन्तरविधिः ।
यस्मात्पूर्वे ब्राह्मणा आत्मानं विदित्वा संन्यस्य भिक्षाचर्यं चरन्ति तस्मादद्यतनो ऽपि ब्राह्मण आपातज्ञानरूपपण्डावान्पण्डितस्तस्य कृत्यं पाण्डित्यं श्रवणं तन्निर्विद्य निश्चयेन लब्ध्वा बाल्येन श्रवणजज्ञानस्य बलभावेन मननेनासंभावनानिरासेन बालस्य भावेन वा शुद्धचित्तत्वेन स्थातुमिच्छेदेवं मननश्रवणे कृत्वादानन्तरं मुनिर्निदिध्यासनकृत्स्यादेवममौनं च मौनादन्यद्बाल्यपाण्डित्यद्वयं मौनं च निदिध्यासनं लब्ध्वा अथ ज्ञानसामग्रीपौष्कल्यानन्तरं ब्रह्माहमिति साक्षात्कारवान् ब्राह्मणो भवतीत्यर्थः ।
मौनशब्दस्य सिद्धरूपे पारिव्राज्ये अनुष्ठेये च ध्याने प्रयोगात्संशयः ।
यथा तं ह बक इत्यादिवाक्यशेषादुद्गीथाद्युपासनस्यार्त्विज्यत्वनिर्णयस्तद्वदथ ब्राह्मण इति विधिहीनवाक्यशेषान्मौनस्याप्यविधेयत्वनिश्चय इति पूर्वपक्षमाह- न विधीयत इति ।
अत्र ध्यानस्याननुष्ठानं सिद्धान्ते त्वनुष्ठानमिति फलम् ।
यदि मौनं पारिव्राज्यं तदा वाक्यान्तरप्राप्तमनूद्यते बाल्यविधिप्रशंसार्थम् ।
यदि ज्ञानं तदा पाण्डित्यशब्दात्प्राप्तमिति पूर्वपक्षग्रन्थार्थः ।
मुनिशब्दाद्विज्ञानातिशयः प्रतीयते तस्य ज्ञानमात्रवाचिपाण्डित्यशब्दान्न प्राप्तिः ।
नापि मुनिशब्दः परिव्राड्वाचकः वाल्मीक्यादिषु प्रयुज्यमानत्वात् ।
तस्मादप्राप्तं मौनमपूर्वत्वाद्विधिं कल्प्यतीति सिद्धान्तयति- एवमित्यादिना ।
आपस्तम्बप्रयोगस्य गतिमाह- इतराश्रमेति ।
किञ्चामौनं च मौनं च निर्विद्येति श्रवणमननवदनुष्ठेयत्वोक्तेर्मौनस्य विधेयतेत्याह- निर्वेदनीयत्वेति ।
नच त्रयाणां विधाने वाक्यभेदो दोषः ।
उपरिधारणवदिष्टत्वात्तद्वाक्यभेदस्येति भावः ।
कस्येदं ध्यानं विधीयत इत्याह- तद्वत इति ।
आत्मानं विदित्वेति परोक्षज्ञानवतः संन्यासिनः प्रकृतत्वादित्यर्थः ।
सूक्ष्मार्थसाक्षात्कारसाधनत्वेन ध्यानादेः षड्जादौ लोकतः प्राप्तिं शङ्कित्वा नियमविधिमाह- नन्वित्यादिना ।
ननु ब्रह्मविद्यापरे वाक्ये कथं ज्ञानाङ्गमिति चेत्सफलक्रतुपरवाक्ये ऽङ्गविधिवदित्याह- विध्यादिवदिति ।
प्रधानमारभ्याङ्गपर्यन्तो विधिः ।
तत्र प्रधानः क्रतुर्विध्यादिरत एवाङ्गं विध्यन्त इत्युच्यत इत्यर्थः ।
एतत्सूत्रभाष्यभावानभिज्ञाः संन्यासाश्रमधर्मश्रवणादौ विधिर्नास्तीति वदन्ति ।
विधौ ह्यप्राप्तिमात्रमपेक्षितं तच्च भेददर्शनप्राबल्याद्दर्शितमिति संप्रदायविदः
एन्द् ब्स्चोम्_3,4.14.47
स्तर्त् ब्स्चोम्_3,4.14.48
एवं बाल्यादिविशिष्टे कैवल्याश्रमे श्रुतिमति विद्यमाने कस्माच्छान्दोग्ये गृहिणोपसंहारः ऽअभिसमावृत्य कुटुम्बेऽ (छा. 8.15.1) इत्यत्र ।
तेन ह्युपसंहरंस्तद्विषयमादरं दर्शतीति ।
अत उत्तरं पठति -
कृत्स्नभावात् तु गृहिणोपसंहारः । ब्ब्स्_3,4.48 ।
तुशब्दो विशेषणार्थः ।
कृत्स्नभावो ऽस्य विशेष्यते ।
बहुलायासानि हि बहून्याश्रमकर्माणि यज्ञादीनि तं प्रति कर्तव्यतयोपदिष्टान्याश्रमान्तरकर्माणि च यथासंभवमहिंसेन्द्रियसंयमादीनि तस्य विद्यन्ते ।
तस्माद्गृहमेधिनोपसंहारो न विरुध्यते
समावर्तनानन्तरं कुटुम्बे स्थितो ब्रह्मलोकं प्राप्नोति नच पुनरावर्तत इत्युपसंहारात्संन्यासो नास्तीति शङ्कार्थः ।
आयासविशिष्टकर्मबाहुल्याद्गृहिणोपसंहारः कृतो न संन्यासाभवादिति समाध्यर्थः
एन्द् ब्स्चोम्_3,4.14.48
स्तर्त् ब्स्चोम्_3,4.14.49
मौनवद् इतरेषाम् अप्य् उपदेशात् । ब्ब्स्_3,4.49 ।
यथा मौनं गार्हस्थ्यं चैतावाश्रमौ श्रुतिमन्तावेवमितरावपि वानप्रस्थगुरुकुलवासौ ।
दर्शिता हि पुरस्ताच्छ्रुतिः- ऽतपः एव द्वितीयो ब्रह्मचर्याचार्यकुलवासी तृतीयःऽ (छा. 2.23.1) इत्याद्या ।
तस्माच्चतुर्णामप्याश्रमाणामुपदेशाविशेषात्तुल्यवद्विकल्पसमुच्चयाभ्यां प्रतिपत्तिः ।
इतरेषामिति द्वयोराश्रमयोर्बहुवचनं वृत्तिभेदापेक्षयानुष्ठातृभेदापेक्षया वेति द्रष्टव्यम्
संन्यासगार्हस्थ्यद्वयमत्र सूत्रकृतोक्तम् ।
ततो ऽन्यदाश्रमद्वयं नास्तीति कस्यचिद्भ्रमः स्यात्तं निरस्यति- मौनवदिति ।
आश्रमद्वयवदित्यर्थः ।
इतरयोरपीति वाच्ये बहूक्तिरवान्तरभेदमपेक्ष्य ।
स चास्माभिः प्राग्दर्शितः
एन्द् ब्स्चोम्_3,4.14.49
स्तर्त् ब्स्चोम्_3,4.15.50
15 अनाविष्काराधिकरणम् । सू. 50
अनाविष्कुर्वन्न् अन्वयात् । ब्ब्स्_3,4.50 ।
ऽतस्माद्ब्रह्मणः पाण्डित्यं निर्वेद्य बाल्येन तिष्ठासेत्ऽ (बृ. 3.5.1) इति बाल्यमनुष्ठेयतया श्रूयते ।
तत्र बालस्य भावः कर्म वा बाल्यमितिरद्धिते सति बालभावस्य वयोविशेषस्येच्छाया संपादयितुमशक्यत्वाद्यथोपपादं मूत्रपुरीषत्वादिबालचरितन्तर्गता वा भावविशुद्धिरप्ररूढेन्द्रियत्वं दम्भदर्पादिरहितत्वं वा बाल्यं स्यादिति संशयः ।
किं तावत्प्राप्तं कामचारवादभक्षणता यथोपपादमूत्रपुरीषत्वं च प्रसिद्धतरं लोके बाल्यमिति तद्ग्रहणं युक्तम् ।
ननु पतितत्वादिदोषप्राप्तेर्न युक्तं कामचारताद्याश्रयणम् ।
न ।
विद्यावतः संन्यासिनो वचनस्मर्थ्याद्दोषनिवृत्तेः पशुहिंसादिष्विवेति ।
एवं प्राप्ते ऽभिधीयते ।
न ।
वचनस्य गत्यन्तराभावात् ।
अविरुद्धे ह्यन्यस्मिन्बाल्यशब्दाभिलप्ये लभ्यमाने न विध्यन्तरव्याघातकल्पना युक्ता ।
प्रधानोपकाराय चाङ्गं विधीयते ।
ज्ञानाभ्यासश्च प्रधानमिह यतीनामनुष्ठेयम् ।
नच सकलायां बालचर्यायामङ्गीक्रियमाणायां ज्ञानाभ्यासः संभाव्यते ।
तस्मादान्तरो भावविशेषो बाल्यस्याप्ररूढेन्द्रियत्वादिरिह बाल्यमाश्रीयते ।
तदाह - अनाविष्कुर्वन्निति ।
ज्ञानाध्ययनधार्मिकत्वादिभिरात्मानमविख्यापयन्दम्भदर्पादिरहितो भवेत् ।
यथा बालो ऽप्ररूढेन्द्रियतया न परेषामात्मानमाविष्कर्तुमीहते तद्वत् ।
एवं ह्यस्य वाक्यस्य प्रधानोपकार्यार्थानुगम उपपद्यते ।
तथाचोक्तं स्मृतिकारैः - ऽयं न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम् ।
न सुवृत्तं न दुर्वृत्तं वेद कश्चित्स ब्राह्मणः ॥
गूढधर्माश्रितो विद्वानज्ञातचरितं चरेत् ।
अन्धवज्जडवच्चापि मूकवच्च महीं चरेत्ऽ ॥
ऽअव्यक्तलिङ्गो ऽव्यक्ताचारःऽ इति चैवमादि
अनाविष्कुर्वन्नन्वयात् ।
तत्र बाल्ये विषये तद्धितस्य भावार्थत्वासंभवात्कर्मार्थत्वं गृहीत्वा तिष्ठन्मूत्रत्वादिकर्मणो ऽप्ररूढेन्द्रियत्वादिरूपभावशुद्धेश्च बालकर्मत्वाविशेषात्संशयमाह- तत्रेति ।
पूर्वपक्षे विद्याङ्गत्वेन तिष्ठन्मूत्रत्वादेरप्यनुष्ठानं सिद्धान्ते भावशुद्धेरेवेति फलम् ।
पूर्वत्र मौनशब्दस्य ज्ञानातिशये ध्याने प्रसिद्धत्वात् ध्यानं विधेयमित्युक्तम्, तद्वद्बाल्यशब्दस्य कामचारादौ प्रसिद्धेस्तद्विधिग्रहणमित्याह- किं ताविदिति ।
कामतश्चरणवदनभक्षणानि यस्य स कामचारवादभक्षणस्तस्य भावस्तत्तेत्यर्थः ।
यथोपपादं यथासंभवं मूत्रादि यस्य तद्भावस्तत्त्वं बाल्यविधिबलात्पातित्यशास्त्रमन्यविषयमिति भावः ।
ऽयस्त्वविज्ञानवान्भवत्यमनस्कः सदाशुचिः ।
न स तत्पदमाप्नोति संसारं चाधिगच्छतिऽइत्यादि शौचभिक्षादिनियमविधिशास्त्राविरुद्धस्य भावशुद्धाख्यबाल्यस्य विधिसंभवान्न यथेष्टचेष्टाविधिरिति सिद्धान्तयति- एवमिति ।
प्रधानविरोधित्वाच्च न तद्विधिरित्याह- प्रधानेति ।
भावशुद्धेर्विद्योपकारकत्वेनान्वयादनाविष्कुर्वन्भवेदिति बाल्यविध्यर्थ इति सूत्रयोजना
एन्द् ब्स्चोम्_3,4.15.50
स्तर्त् ब्स्चोम्_3,4.16.51
16 ऐहिकाधिकरणम् । सू. 51
ऐहिकम् अप्य् अप्रस्तुतप्रतिबन्धे तद्दर्शनात् । ब्ब्स्_3,4.51 ।
ऽसर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् (ब्र.सू. 3.4.23) इत्यत आरभ्योच्चावचं विद्यासाधनमवधारितं, तत्फलं विद्या सिद्ध्यन्ती किमिहैव जन्मनि सिद्ध्यत्युत कदाचिदमुत्रापीति च्नव्त्यते ।
किं तावत्प्राप्तम् ।
इहैवेति ।
किं कारणम् ।
श्रवणादिपूर्विका हि विद्या ।
नच कश्चिदमुत्र मे विद्या जायतामित्यभिसंधाय श्रवणादिषु प्रवर्तते ।
समान एव तु जन्मनि विद्याजन्माभिसंधायैतेषु प्रवर्तमानो दृश्यते ।
यज्ञादीन्यपि श्रवणादिद्वारेणैव विद्यां जनयन्ति प्रामाणजन्यत्वाद्विद्यायाः ।
तस्मादैहिकमेव विद्याजन्मेति ।
एवं प्राप्ते वदामः - ऐहिकं विद्याजन्म भवत्यसति प्रस्तुतप्रतिबन्ध इति ।
एतदपक्तं भवति - यदा प्रक्रान्तस्य विद्यासाधनस्य कश्चित्प्रतिबन्धो न क्रियत उपस्थितविपाकेन कर्मान्तरेण तदेहैव विद्योत्पद्यते, यदा तु खलु तत्प्रतिबन्धः क्रियते तदामुत्रेति ।
उपस्थितविपाकत्वं च कर्मणो देशकालनिमित्तोपनिनिपाताद्भवति ।
यानि चाकस्य कर्मणो विपाचकानि देशकालनिमित्तानि तान्येवान्यस्यापीति न नियन्तुं शक्यते ।
यतो विरुद्धफलान्यपि कर्माणि भवन्ति ।
शास्त्रमप्यस्य कर्मण इदं फलं भवतीत्येतावति पर्यवसितं न देशकालनिमित्तविशेषमपि संकार्तयति ।
साधनवीर्यविशेषात्त्वतीन्द्रिया कस्यचिच्छक्तिराविर्भवति तत्प्रतिबद्धा परस्य तिष्ठति ।
नचाविशेषेण विद्यायामभिसंधिर्नोत्पद्यत इहामुत्र वा मे विद्या जायतामित्यभिसंधेर्निरङ् कुशत्वात् ।
श्रवणादि द्वारेणापि विद्योत्पद्यमाना प्रतिबन्धक्षयापेक्षयैवोत्पद्यते ।
तथाचश्रुतिर्दुर्बोधत्वमात्मनो दर्शयति - ऽश्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तो ऽपि बहवो यं न विद्युः ।
आश्चर्यो ऽस्य वक्ता कुशलो ऽस्य लब्धाश्चर्यो ज्ञाता कुशलानुशिष्टःऽ (क. 2.7) इति ।
गर्भस्य एव च वामदेवः प्रतिपेदे ब्रह्मभावमिति वदन्ती जन्मान्तरसंचितात्साधनाज्जन्मान्तरे विद्योत्पत्तिं दर्शयति ।
नहि गर्भस्यैवैहिकं किञ्चित्साधनं संभाव्यते ।
समृतावपि - ऽअप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छतिऽ (गी. 6.36) इत्यर्जुनेन पृष्टो भगवान्वासुदेवः ऽनहि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छतिऽ (गी. 6.40) इत्युक्त्वा पुनस्तस्य पुण्यलोकप्राप्तिं साधुकुले संबूतिं चाभिधायानन्तरम् ऽतत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम्ऽ (गी.
6.43) इत्यादिना ऽअनेकजन्मसंसिद्धस्ततो याति परां गतिम्ऽ (गी. 6.45) इत्येतेनैतदेव दर्शयति ।
तस्मादैहिकमामुष्मिकं वा विद्याजन्म प्रतिबन्धक्षयापेक्षयेति स्थितम्
ऐहिकमपि संन्यासादिबाल्यान्तं साधनजातमुक्त्वा तत्साध्यविद्याजन्म विचार्यत इति संगतिं वदन् साधनस्य द्विधा फलसंभवात्संशयमाह- सर्वेत्यादिना ।
कारीरीष्टिवदैहिकफलत्वनियमः श्रवणादीनामिति पूर्वपक्षमाह- तिन्तावदिति ।
नन्वामुष्मिकफलकयज्ञादिसाध्यविद्यायाः कथमैहिकत्वनियम इत्यत आह- यज्ञादीन्यपीति ।
शुद्धिद्वारा यज्ञादिभिः श्रवणादिषु साक्षाद्विद्याहेतुषु घटितेषु विद्याविलम्बो न युक्तः ।
दृश्यते च विलम्बः अतः श्रवणादेर्विद्याहेतुत्वमसिद्धमिति पूर्वपक्षे फलम् ।
प्रतिबन्धकवशाद्विलम्बे ऽपि हेतुत्वसिद्धिरिति सिद्धान्ते फलं मत्वा चित्रादिवदनियतफलं श्रवणादिकमिति सिद्धान्तयति- एवमिति ।
ननु प्रारब्धकर्मविशेषेण श्रवणादिफलप्रतिबन्धः किमिति क्रियते श्रवणादिनैव कर्मविपाकप्रतिबन्धः किं न स्यादित्यत आह- उपस्थितविपाकत्वं चेति ।
देशादिमहिम्ना कर्माणि विपच्यन्त इत्यर्थः ।
तेन श्रवणादिकमेव किमिति न विपच्यन्ते, तत्राह- यानि चेति ।
विपाचकत्वं पलौन्मुख्यहेतुत्वम् ।
ननु तर्हि श्रवणादिविपाचकदेशादिकं कीदृशमित्यत आह- शास्त्रमपीति ।
फलबलाद्देशादिज्ञानमिति भावः ।
तथापि कर्मणैव श्रवणादिप्रतिबन्धो न वैपरीत्यमित्यत्र को हेतुस्तमाह- साधनेति ।
प्रतिबन्धकत्वशक्तिरपि फलबलाज्ज्ञातव्येति भावः ।
प्रतिबन्धकसद्भावे श्रौतं स्मार्तं च लिङ्गमाह- तथाचेत्यादिना ।
शृण्वन्तो ऽपि न विद्युरित्युक्तेः प्रतिबन्धसिद्धिः ।
आत्मनो यथावद्वक्ताप्याश्चर्यः अद्भुतवत् कश्चिदेव भवति ।
तिष्ठतु लब्धा साक्षात्कारवान्, परोक्षतो ज्ञाताप्याश्चर्यः ।
कुशलेनाचार्येणानुशिष्टो ऽपीत्यर्थः
एन्द् ब्स्चोम्_3,4.16.51
स्तर्त् ब्स्चोम्_3,4.17.52
17 मुक्तिफलाधिकरणम् । सू. 52
एवं मुक्तिफलानियमस् तदवस्थावधृतेस् तदवस्थावधृतेः । ब्ब्स्_3,4.52 ।
यथा मुमुक्षोर्विद्यासाधनावलम्बिनः साधनवीर्यविशेषाद्विद्यलक्षणे फल ऐहिकामुष्मिकफलत्वकृतो विशेषप्रतिनियमो दृष्टः ।
एवं मुक्तिलक्षणे ऽप्युत्कर्षीपकर्षकृतः कश्चिद्विशेषप्रतिनियमः ।
स्यादित्याशङ्क्याह - एवं मुक्तिफलानियम इति ।
न खलु मुक्तिफले कश्चिदेवंभूतो विशेषप्रतिनियम आशङ्कितव्यः ।
कुतः - तदवस्थावधृतेः ।
मुक्त्यवस्था हि सर्ववेदान्तेष्वेकरूपैवावधार्यते ।
ब्रह्मैव हि मुक्त्यवस्था नच ब्रह्मणो ऽनेकाकारयोगो ऽस्ति ।
एकलिङ्गत्वावधारणात् ऽअस्तूलमनणुऽ (बृ. 3.8.8) ऽस एष नेति नेत्यात्माऽ (बृ. 3.9.23) ऽयत्र नान्यत्पश्यतिऽ (छा. 7.24.1) ऽब्रह्मैवेदममृतं पुरस्तात्ऽ (मुण्ड. 2.2.11) ऽइदं सर्वं यदयमात्माऽ (बृ. 2.4.6) ऽस वा एष महानज आत्माजरो ऽमरो ऽमृतो ऽभयो ब्रह्मऽ (बृ. 4.4.25) ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ (बृ. 4.5.15) इत्यादिश्रुतिभ्यः ।
अपिच विद्यासाधनं स्ववीर्यविशेषास्वफल एव विद्यायां कञ्चिदतिशयमासञ्जयेन्न विद्याफले मुक्तौ ।
तद्ध्यसाध्यं नित्यसिद्धस्वभावमेव विद्यायाधिगम्यत इत्यसकृदवादिष्म ।
नच तस्यामप्युत्कर्षनिकर्षात्मको ऽतिशय उपपद्यते निकृष्टाया विद्यात्वाभावादुत्कृष्टैव हि विद्या भवति ।
तस्मात्तस्यां चिराचिरोत्पत्तिरूपो ऽतिशयो भवन्भवेत् ।
नतु मुक्तौ कश्चिदतिशयसंभवो ऽस्ति ।
विद्याभेदाभावादपि तत्फलभेदनियमाभावः कर्मफलवत् ।
नहि मुक्तिसाधनभूताया विद्यायाः कर्मणामिव भेदो ऽस्तीति ।
सगुणासु तु विद्यासु - ऽमनोमयः प्राणशरीरःऽ (छा. 3.14.2) इत्याद्यासु गुणावापोद्वापवशाद्भेदोपपत्तौ सत्यामुपपद्यते यथास्वं फलभेदनियमः कर्मफलवत् ।
तथाच लिङ्गदर्शनम् - ऽतं यथा यथोपासते तदेव भवतिऽ इति ।
नैवं निर्गुणायां विद्यायां गुणाभावात् ।
तथाच स्मृतिः - ऽनहि गतिरधिकास्ति कस्यचित्सति हि गुणे प्रवदन्त्यतुल्यताम्ऽ इति ।
तदवस्थावधृतेस्तदवस्थाधृतेरिति पदाभ्यसो ऽध्यायपरिसमाप्तिं द्योतयति
असति प्रारब्धकर्मप्रतिबन्धे श्रवणादिनेहैव विद्योदयः यज्ञादिभिः संचितपापप्रतिबन्धस्य निरस्तत्वात् ।
सति तु भोगेन तन्निरासादमुत्रेति विद्याया ऐहिकामुष्मिकत्वविशेषनियम उक्तस्तद्वत्फले ऽपि मोक्षे कश्चिदुत्कर्षादिविशेषः स्यादित्यत आह- एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ।
मुक्तिरत्र विषयः ।
तस्यां विद्यावद्विशेषनियमो ऽस्ति न वेति फलस्योभयथासंभवात्संशये पूर्वपक्षमाह- यथेति ।
मुक्तिः सविशेषा, फलत्वाद्विद्यावदतः कर्मसाध्या मुक्तिरिति फलम् ।
सिद्धान्ते तु निर्विशेषत्वावधारणश्रुतिबाधितमनुमानमतो ज्ञानैकव्यङ्ग्या मुक्तिरिति फलम् ।
किञ्च श्रवणादितारतम्याद्विद्यायां कञ्चिदतिशयमङ्गीकृत्य विद्यालभ्यमुक्तौ नातिशय इत्याह- अपिच विद्यासाधनमिति ।
ननु ब्रह्मणो नित्यसिद्धत्वादविद्यानिवृत्तेश्चान्यत्वे द्वैतापत्तेः, अनन्यत्वे चासाध्यत्वादिकं विद्याफलमित्यत आह- तद्धीति ।
विद्ययाभिव्यक्तत्वेन ब्रह्मानन्द एव मुख्यफलमभिव्यक्तिरविद्यानिवृत्तिरानन्दस्वरूपस्फूर्तिप्रतिबन्धकाभावतया विद्यया साध्यते सा चानिर्वाच्येति न द्वैतापत्तिः ।
अन्ये तु सा ब्रह्मानन्येत्याहुः ।
नच साध्यत्वानुपपत्तेस्तत्र विद्यावैयर्थ्यमिति वाच्यम् ।
यदभावे यदभावस्तत्तत्साध्यमिति ज्ञानात्सर्वो लोकः प्रवर्तते ।
यथाच विद्याया अभावे ब्रह्मस्वरूपमुक्तेरभावो ऽनर्थरूपा अविद्यैवास्ति ।
अस्या अविद्याया एव मुक्तिर्नास्तीतिव्यवहारविषयत्वेन मुक्त्यभावत्वात् ।
तथाच विद्यां विना मुक्तिर्नास्तीति निश्चयाद्विद्यामुपादत्ते ।
विद्योदये च स्वतःसिद्धनित्यनिवृत्तानर्थस्वप्रकाशब्रह्मानन्दात्मनवतिष्ठत इत्यनवद्यम् ।
संप्रति विद्यायामतिशयाङ्गीकार त्यजति- नचेति ।
एकरूपे विषये प्रमायां तारतम्यानुपपत्तेरित्यर्थः ।
कथं तर्हि पूर्वाधिकरणे विद्याया विशेष उक्तः, तत्राह- तस्मादिति ।
सत्यामपि सामग्र्यां ज्ञाने विलम्ब उक्तो न तारतम्यमित्यर्थः ।
तर्हि सत्यपि ज्ञाने मुक्तौ विलम्बः किं न स्यादित्यत आह- नत्विति ।
वाय्वादिप्रतिबन्धाद्दिपोत्पत्तिविलम्बे ऽप्युत्पन्ने तमोनिवृत्तिविलम्बादर्शनात्सति ज्ञाने नाज्ञाननिवृत्तौ विलम्ब इति भावः ।
किञ्च कर्मणामुपासनानां च गुणभेदेन तारतम्यात्फलतारतम्यं युक्तम् ।
निर्गुणविद्यायास्त्वेकरूपत्वात्तत्फलैकरूप्यमित्याह- विद्याभेदेत्यादिना ।
स्मृतौ कस्यचिन्निर्गुणविद इत्यर्थः ।
तस्माद्विद्यासमकालैव मुक्तिरिति सिद्धम्
एन्द् ब्स्चोम्_3,4.17.52
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्करभगवत्पादकृतौ शारीरकमीमांसाभाष्ये तृतीयाध्यायस्य चतुर्थः पादः
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्कृतौ शारीरकव्याख्याया भाष्यरत्नप्रभाटीकायां तृतीयस्याध्यायस्य चतुर्थः पादः
मूल पाठ: Brahmasūtra2 with Śaṃkara's Śārīrakamīmāṃsābhāṣya and Govindānanda's Ratnaprabhāvyākhyā (subcommentary) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0